मराठी मुख्य सूची|स्तोत्रे|सहस्रनामावली|
अस्य श्रीप्रणवसहस्रनामस्त...

श्रीप्रणवसहस्रनामावलिः - अस्य श्रीप्रणवसहस्रनामस्त...

हिंदू देवी देवतांची एक हजार नावे म्हणजेच सहस्त्रनामावली. हिंदू धर्मिय रोज सकाळी संध्याकाळी या नावांचा जप करतात.

A sahasranamavali is a type of Hindu scripture in which a diety is referred to by 1000 or more different names.Many devout Hindus chant them every morning or evening.


अस्य श्रीप्रणवसहस्रनामस्तोत्रमहामन्त्रस्य ब्रह्मा ऋषिः,
अनुष्टुप्छन्दः, परमात्मा देवता, अं बीजं, उं शक्तिः, मं कीलकं,
आत्मज्ञानसिद्धयै जपे विनियोगः ।

ध्यानं-
ॐकारं निगमैकवेद्यमनिशं वेदान्ततत्त्वास्पदं
चोत्पत्तिस्थितिनाशहेतुममलं विश्वस्य विश्वात्मकम् ।
विश्वत्राणपरायणं श्रुतिशतैस्सम्प्रोच्यमानं प्रभुं
सत्यं ज्ञानमनन्तमूर्तिममलं शुद्धात्मकं तं भजे ॥

ॐ ओङ्काराय नमः । तारकाय । सूक्ष्माय । प्राणाय सर्वगोचराय ।
क्षाराय । क्षितये । उत्पत्तिहेतुकाय । नित्याय निरत्ययाय ।
शुद्धाय । निर्मलात्मने । निराकृतये । निराधाराय सदानन्दाय ।
शाश्वताय । परतः परस्मै । मनसो गतिनिहन्त्रे ।
गम्यानामुत्तमोत्तमाय । अकारात्मने नमः ॥२०

ॐ मकारात्मने नमः । बिन्दुरूपिणे । कलाधराय । उकारात्मने ।
महावेद्याय । महापातकनाशनाय । इन्द्राय । परतराय ।
वेदाय । वेदवेद्याय । जगद्गुरवे । वेदकृते । वेदवेत्रे ।
वेदान्तार्यस्वरूपकाय । वेदान्तवेद्याय । नतुलाय । कञ्जजन्मने ।
कामाकृतये । खरूपिणे । खगवाहिने नमः ॥४०

ॐ खगाय नमः । खगतराय । खाद्याय । खभूताय । खगताय ।
खगमाय । खगनायकाय । खरमाय । खजलाय । खालाय ।
खगेश्वराय । खगवाहाय । गन्त्रे । गमयित्रे । गम्याय ।
गमनातिकराय । गतये । घण्टानिनादाय । घण्टेयपरानन्दनाय ।
घण्टानादपराय नमः ॥६०

ॐ घण्टानादवते नमः । गुणाय । घस्राय । घनितचिद्रूपाय ।
घनानां जलदायकाय । चर्यापूज्याय । चिदानन्दाय ।
चिराचिरतराय । चितये । चितिदाय । चितिगन्त्रे । चर्मवते ।
चलनाकृतये । चञ्चलाय । चालकाय । चाल्याय । छायावते ।
छादनात्ययाय । छायाच्छायाय । प्रतिच्छायाय नमः ॥८०

ॐ जञ्जपूकाय नमः । महामतये । जालग्राह्याय । जलाकाराय ।
जालिने । जालविनायकाय । झटिति प्रतिधौरेयाय ।
झञ्झामारुतसेविताय । टङ्काय । टङ्ककर्त्रे ।
टङ्ककार्यवशानुगाय । टिट्टिलाय । निष्ठुराय । कृष्टाय ।
कमठाय । पृष्ठगोचराय काठिन्यात्मने । कठोरात्मने ।
कण्ठाय । कौटीरगोचराय नमः ॥१००

ॐ डमरुध्वानसानन्दाय नमः । डाम्भिकानां पराङ्मुखाय ।
डम्भेतरसमाराध्याय । डाम्भिकानां विडम्बनाय । ढक्काकल-
कलध्वानाय । अणिम्ने । अनुत्तमसुन्दराय । तारतम्यफलाय ।
तल्पाय । तल्पशायिने । सतारकाय । तर्तव्याय । तारणाय । ताराय ।
तारकानाथभूषणाय । हिरण्यबाहवे । सेनान्ये । देशानां
दिशां च पतये । पीतवर्णाय । महावृक्षाय नमः ॥१२०

ॐ हरिकेशाय नमः । उपवीतवते । स्तायूनामग्रण्ये । श्रीमते ।
निचेरवे । परिचारिकाय । बिल्मिने । कवचिने । वर्मिणे ।
मत्तेभगविरूथवते । वञ्चकाय । परिवञ्चिने । कर्माराय ।
कुम्भकारकाय । पक्षिपुञ्जोपजीविने । मृगयवे । श्रुतकाय ।
नयाय । भक्तपापमहद्रापये । दरिद्राय नमः ॥१४०

ॐ नीललोहिताय नमः । मीड्वते । मीढुष्टमाय । शम्भवे ।
शत्रुव्याधिने । बभ्लुशाय । स्तोकादिरक्षकाय । कर्त्रे । वाट्याय ।
उर्वर्याय । आलाद्याय । नाथाय । सूद्याय । हेतिसाहस्रसंयुताय ।
सृकाहस्ताय । महापद्माय । शरव्यायुतमण्डनाय । सर्वोपहत-
कामाय । जरित्रस्थप्रतारकाय । अन्नबाणाय नमः ॥१६०

ॐ वातबाणाय नमः । वर्षबाणकराम्बुजाय । दशप्राच्यादि-
वन्द्याय । सस्पिञ्जरकलेवराय । जपैकशीलाय । सञ्जप्याय ।
समजग्धये । सपीतकाय । यमादिकुशलाय । गौराय ।
दिवारात्रैकवृष्टिदाय । पञ्चावये । अवये । दित्यौहे ।
तुर्यौहे । पष्ठौहे । वेहताय । नाथाय । द्युम्नवाजादिनायकाय ।
अभिरक्ताय नमः ॥१८०

ॐ वीचीवक्त्राय नमः । वेदानांहृदयाब्जगाय । आनिर्हताय ।
विक्षीणाय । लोप्याय । उलप्याय । गुरमाणाय । पर्णशद्याय ।
सूर्म्याय । ऊर्मये । Oम् । अयाय । शिवाय । शिवतमाय । शास्त्रे ।
घोराघोरतनुद्वयाय । गिरिपर्वतनाथाय । शिपिविष्टाय । पशोः
पतये । अप्रगल्भाय नमः ॥२००

ॐ प्रगल्भाय नमः । मल्लानां नायकोत्तमाय । प्रहिताय ।
प्रमृशाय । दूताय । क्षत्रे । स्यन्दनमध्यगाय । स्थपतये ।
ककुभाय । वन्याय । कक्ष्याय । पतञ्जलये । सूताय । हंसाय ।
निहन्त्रे । कपर्दिने । पिनाकवते । आयुघाय । स्वायुधाय ।
कृत्तिवाससे नमः ॥२२०

ॐ जितेन्द्रियाय नमः । यातुधाननिहन्त्रे । कैलासे
दक्षिणे स्थिताय । सुवर्णमुखीतीरस्थाय । वृद्धाचलनितम्बगाय ।
मणिमुक्तामयोद्भासिने । कट्याय । काट्याय । महाद्रिधुते ।
हृदयाय । निवेष्प्याय । हरित्याय । शुष्क्याय । सिकत्याय ।
प्रवाह्याय । भवरुद्रादिनामवते । भीमाय । भीमपराक्रान्ताय ।
विक्रान्ताय । सपराक्रमाय नमः ॥२४०

ॐ शूर्याय नमः । शूरनिहन्त्रे । मन्युमते । मन्युनाशनाय ।
भामिताय । भामवते । भापाय । उक्षणे । उक्षितरक्षकाय ।
हविष्मते । मखवते । मखानां फलदापकाय । अघघ्नाय ।
दोषजालघ्नाय । व्याध्यामयविनाशनाय । सुम्नरूपाय । असुम्नरूपाय ।
जगन्नाथाय । अधिवाचकाय । व्राताय नमः ॥२६०

ॐ व्रातनाथाय नमः । व्रात्याय । व्रात्यादिदूरगाय । ब्रह्मदत्ताय ।
चेकितानाय । देवदत्ताय । अतिसंमताउअ । श्रमणाय । अश्रमणाय ।
पुण्याय । पुण्यफलाय । आश्रमणां फलप्रदाय । कालाय ।
कालयित्रे । कल्याय । कालकालाय । कलाधराय । धनुष्मते ।
इषुमते । धन्वाविने नमः ॥२८०

ॐ आततायिने नमः । सयादिनिलयाधाराय । काकुराय । काकुवते ।
बलाय । राकाकालनिधात्रे । विश्वरक्षैकदक्षिणाय ।
अग्रेवधाय । दूरेवधाय । शन्तमाय । मयस्कराय । कालभावाय ।
कालकर्त्रे । ऋचां भावैकवेदनाय । यजुषां सर्वमर्मस्थाय ।
साम्नां सारैकगोचराय । अङ्गिरसे । पूर्वस्मै । अवध्याय ।
ब्राह्मणमध्यगाय नमः ॥३००

ॐ मुक्तानां गतये नमः । पुण्याय । अपुण्यहराय । हराय । उक्थ्याय ।
उक्थ्यकाराय । उक्थिने । ब्रह्मणे । क्षत्राय । विशे । अन्तिमाय ।
धर्माय । धर्महराय । धर्म्याय । धर्मिणे । धर्मपरायणाय ।
नित्याय । अनित्याय । क्षराय । क्षान्ताय । वेगवते नमः ॥३२०

ॐ अमिताशनाय नमः । पुण्यवते । पुण्यकृते । पूताय । पुरुहूताय ।
पुरुष्टुताय । अर्चिष्मते । अर्चिताय । कुम्भाय । कीर्तिमते ।
कीर्तिदाय । अफलाय । स्वाहाकाराय । वषट्काराय । हन्तकाराय ।
स्वधाभिधाय । भूतकृते । भूतभृते । भत्रे । दिवबर्हाय
नमः ॥३४०

ॐ द्वन्द्वनाशनाय नमः । मुनये । पित्रे । विराजे । वीराय ।
देवाय । दिनेश्वराय । तारकायै । तारकाय । तूर्णाय ।
तिग्मरश्मये । त्रिनेत्रवते । तुल्याय । तुल्यहराय । अतुल्याय ।
त्रिलोकीनायकाय । त्रुटये । तत्रे । तार्याय । त्रिभुवनीतीर्णाय
नमः ॥३६०

ॐ तीराय नमः । तीरण्ये । सतीराय । तीरगाय । तीव्राय ।
तीक्ष्णरूपिणे । तीव्रिणे । अर्थाय । अनर्थाय । असमर्थाय ।
तीर्थरूपिणे । तीर्थकाय । दायदाय । देयदात्रे । परि( प्र)
पूजिताय । दायभुजे । दायहन्त्रे । दामोदरगुणाम्बुधये । धनदाय ।
धनविश्रान्ताय नमः ॥३८०

ॐ अधनदाय नमः । धननाशकाय । निष्ठुराय । नारशायिने ।
नेत्रे । नायकाय । उत्तमाय । नैकाय । अनेककराय । नाव्याय ।
नारायणसमाय । प्रभवे । नूपुराय । नूपुरिणे । नेयाय ।
नरनारायणाय । उत्तमाय । पात्रे । पालयित्रे । पेयाय नमः ॥४००

ॐ पिबते नमः । सागरपूर्णिम्ने । पूर्वाय । अपूर्वाय । पूर्णिम्ने ।
पुण्यमानसलालसाय । पेपीयमानाय । पापघ्नाय । पञ्चयज्ञमयाय ।
पुरवे । परमात्मने । परेशाय । पावनात्मने । परात्पराय ।
पञ्चबुद्धिमयाय । पञ्चप्रयाजादिमयाय । परस्मै ।
प्राणभृते । प्राणघ्ने । प्राणाय नमः ॥४२०

ॐ प्राणहृते नमः । प्राणचेष्टिताय । पञ्चभूतमयाय ।
पच्चकरणैश्चोपवृंहिताय । प्रेयसे । प्रेयस्तमाय । प्रीताय ।
प्रेयस्विने । प्रेयसीरताय । पुरुषार्थाय । पुण्यशीलाय । पुरुषाय ।
पुरुषोत्तमाय । फलाय । फलस्य दात्रे । फलानामुत्तमोत्तमाय ।
बिम्बाय । बिम्बात्मकाय । बिम्बिने । बिम्बिनीमानसोल्लासाय नमः ॥४४०

ॐ बधिराय नमः । अबधिराय । बालाय । बाल्यावस्थाय ।
बलप्रियाय । एकस्मै । द्वयिने । दशबलाय । पञ्चकिने ।
अष्टकिने । पुंसे । भगाय । भगवते । फल्गवे । भाग्याय ।
भल्लाय । मण्डिताय । भवते । भवदायादाय । भवाय नमः ॥४६०

ॐ भूवे नमः । भूमिदैवताय । भवान्ये । भवविद्वेषिणे ।
भूतनित्याय । प्रचारिताय । भाषायै । भाषयित्रे । भाप्याय ।
भावकृते । भाष्यवित्तमाय । मन्दाय । मलिनविच्छेदाय ।
मालिने । मालायै । मरुते । गरुते । मूर्तिमते । अपुनर्वेद्याय ।
मुनिवृन्दाय नमः ॥४८०

ॐ मुनीश्वराय नमः । मरवे । मरुजालाय । मेरवे ।
मरुद्गणनिषेविताय । मर्यादास्थापनाध्यक्षाय ।
मर्यादाप्रविभञ्जनाय । मान्यमानयित्रे । मान्याय ।
मानदाय । मानगोचराय । यास्काय । यूने । यौवनाढ्याय ।
युवतीभिः पुरस्कृताय । वामन्ये । भामन्ये । भारूपाय ।
भास्करद्युतये । संयद्वामाय नमः ॥५००

ॐ महावामाय नमः । सिद्धये । संसिद्धिकल्पनाय ।
सिद्धसङ्कल्पाय । एनोघ्नाय । अनूचानाय । महामनसे ।
वामदेवाय । वसिष्ठाय । ज्येष्ठाय । श्रेष्ठाय । महेश्वराय ।
मन्त्रिणे । वाणिजाय । दिव्याय । भुवन्तये । वारिवस्कृताय ।
कार्यकारणसन्धात्रे । निदानाय । मूलकारणाय नमः ॥५२०

ॐ अधिष्ठानाय नमः । विश्वमाढ्याय । अविवर्ताय । केवलाय ।
अणिम्ने । महिम्ने । वेत्रे । प्रथिम्ने । पृथुलाय । पृथवे ।
जीवाय । जैवाय । प्राणधर्त्रे । करुणाय । मैत्रिकाय । बुधाय ।
ऋचां जालाय । ऋचां कर्त्रे । ऋङ्मुखाय । ऋषिमण्डलाय
नमः ॥५४०

ॐ रूढाय नमः । रूढिने । रुड्भुवे । रूढिनिष्ठाय ।
रूपविवर्जिताय । स्वराय । हलाय । हल्याय । स्पर्शाय । ऊष्मणे ।
आन्तराय । विशोकाय । विमोहाय । यस्मै । तस्मै । जगन्मयाय ।
एकस्मै । अनेकाय । पीड्याय । शतार्धाय नमः ॥५६०

ॐ शताय नमः । बृहते । सहस्रार्धाय । सहस्राय ।
इन्द्रगोपाय । पङ्कजाय । पद्मनाभाय । सुराध्यक्षाय ।
पद्मगर्भाय । प्रतापवते । वासुदेवाय । जगन्मूर्तये । सन्धात्रे ।
धातवे । उत्तमाय । रहस्याय । परमाय । गोप्याय । गुह्याय ।
अद्वैतविस्मिताय नमः ॥५८०

ॐ आश्चर्याय नमः । अतिगम्भीराय । जलबुद्बुदसागराय ।
संसारविषपीयूषाय । भववृश्चिकमान्त्रिकाय ।
भवगर्तसमुद्धर्त्रे । भवव्याघ्रवशङ्कराय ।
भवग्रहमहामन्त्राय । भवभूतविनाशनाय । पद्ममित्राय ।
पद्मबन्धवे । जगन्मित्राय । कवये । मनीषिणे । परिभुवे ।
याथाथ्यविधायकाय । दूरस्थाय । अन्तिकस्थाय । शुभ्राय ।
अकासाय नमः ॥६००

ॐ अव्रणाय नमः । कौषीतिकिने । तलवकाराय ।
नानाशाखाप्रवर्तकाय । उद्गीथाय । परमोद्गात्रे । शस्त्राय ।
स्तोमाय । मखेश्वराय । अश्वमेघाय । क्रतूच्छ्रायाय । क्रतवे ।
क्रतुमयाय । अक्रतवे । पृषदाज्याय । वसन्ताज्याय । ग्रीष्याय ।
शरदे । हविषे । ब्रह्मताताय नमः ॥६२०

ॐ विराट्ताताय नमः । मनुताताय । जगत्ताताय ।
सर्वताताय । सर्वधात्रे । जगद्बुध्नाय । जगन्निधये ।
जगद्वीचीतरङ्गाणामाधाराय । पदाय । जगत्कल्लोलपाथोधये ।
जगदङ्कुरकन्दकाय । जगद्वल्लीमहाबीजाय ।
जगत्कन्दसमुद्धराय । सर्वोपनिषदां कन्दाय । मूलकन्दाय ।
मुकुन्दाय । एकाम्रनायकाय । धीमते । जम्बुकेशाय ।
महातटाय नमः ॥६४०

ॐ न्यग्रोधाय नमः । उदुम्बराय । अश्वत्थाय । कूटस्थाय ।
स्थाणवे । अदूभुताय । अतिगम्भीरमहिम्ने । चित्रशक्तये ।
विचित्रवते । चित्रवैचित्र्याय । मायाविने । माययाऽऽवृताय ।
कपिञ्जलाय । पिञ्जराय । चित्रकूटाय । महारथाय ।
अनुग्रहपदाय । बुद्धये । अमृताय । हरिवल्लभाय नमः ॥६६०

ॐ पद्मप्रियाय नमः । परमात्मने । पद्महस्ताय ।
पद्माक्षाय । पद्मसुन्दराय । चतुर्भुजाय । चन्द्ररूपाय ।
चतुराननरूपभाजे । आह्लादजनकाय । पुष्टये ।
शिवार्धाङ्गाविभूषणाय । दारिद्र्यशमनाय । प्रीताय ।
शुक्लमाल्याम्बरावृताय । भास्कराय । बिल्वनिलयाय । वराहाय ।
वसुधापतये । यशस्विने । हेममालिने नमः ॥६८०

ॐ धनधान्यकराय नमः । वसवे । वसुप्रदाय ।
हिरण्याङ्गाय । समुद्रतनयार्चिताय । दारिद्द्र्यध्वंसनाय ।
देवाय । सर्वोपद्रववारणाय । त्रिकालज्ञानसम्पन्नाय ।
ब्रह्मबिष्णुशिवात्मकाय । रात्रये । प्रभायै । यज्ञरूपाय ।
भूतये । मेधाविचक्षणाय । प्रजापतये । महेन्द्राय । सोमाय ।
धनेश्वराय । पितृभ्यो नमः ॥७००

ॐ वसुभ्यो नमः । वायवे । वह्नये । प्राणेभ्यः । ऋतवे ।
मनवे । आदित्याय । हरिदश्वाय । तिमिरोन्मथनाय । अंशुमते ।
तमोऽभिघ्नाय । लोकसाक्षिणे । वैकुण्ठाय । कमलापतये ।
सनातनाय । लीलामानुषविग्रहाय । अतीन्द्राय । ऊर्जिताय । प्रांशवे ।
उपेन्द्राय नमः ॥७२०

ॐ वामनाय नमः । बलये । हंसाय । व्यासाय । सम्भवाय ।
भवाय । भवपूजिताय । नैकरूपाय । जगन्नाथाय । जितक्रोधाय ।
प्रमोदनाय । अगदाय । मन्त्रविदे । रोगहर्त्रे । प्रभावनाय ।
चण्डांशवे । शरण्याय । श्रीमते । अतुलविक्रमाय ।
ज्येष्ठाय नमः ॥७४०

ॐ शक्तिमतां नाथाय नमः । प्राणीनां प्राणदायकाय । मत्स्यरूपाय ।
कुम्भकर्णप्रभेत्रे । विश्वमोहनाय । लोकत्रयाश्रयाय । वेगिने ।
बुधाय । श्रीदाय । सतां गतये । शब्दातिगाय । गभीरात्मने ।
कोमलाङ्गाय । प्रजागराय । वर्णश्रेष्ठाय । वर्णबाह्याय ।
कर्मकर्त्रे । समदुःखसुखाय । राशये । विशेषाय नमः ॥७६०

ॐ विगतज्वराय नमः । देवादिदेवाय । देवर्षये ।
देवासुराभयप्रदाय । सर्वदेवमयाय । शार्ङ्गपाणये ।
उत्तमविग्रहाय । प्रकृतये । पुरुषाय । अजय्याय । पावनाय ।
ध्रुवाय । आत्मवते । विश्वम्भराय । सामगेयाय । क्रूराय ।
पूर्वाय । कलानिधये । अव्यक्तलक्षणाय । व्यक्ताय नमः ॥७८०

ॐ कलारूपाय नमः । धनञ्जयाय । जयाय । जरारये । निश्शब्दाय ।
प्रणवाय । स्थूलसूक्ष्मविदे । आत्मयोनये । वीराय । सहस्राक्षाय ।
सहस्रपदे । सनातनतमाय । स्रग्विणे । गदापद्मरथाङ्गधृते ।
चिद्रूपाय । निरीहाय । निर्विकल्पाय । सनातनाय । शतमूर्तये ।
सहस्राक्षाय नमः ॥८००

ॐ घनप्रज्ञाय नमः । सभापतये । पुण्डरीकशयाय । विप्राय ।
द्रवाय । उग्राय । कृपानिधये । अधर्मशत्रवे । अक्षोभ्याय ।
ब्रह्मगर्भाय । धनुर्धराय । गुरुपूजारताय । सोमाय ।
कपर्दिने । नीललोहिताय । विश्वमित्राय । द्विजश्रेष्ठाय ।
रुद्राय । स्थाणवे । विशाम्पतये नमः ॥८२०

ॐ वालखिल्याय नमः । चण्डाय । कल्पवृक्षाय । कलाधराय ।
शङ्खाय । अनिलाय । सुनिष्पन्नाय । सूराय । कव्यहराय । गुरवे ।
पवित्रपादाय । पापारये । दुर्धराय । दुस्सहाय । अभयाय ।
अमृताशयाय । अमृतवपुषे । वाङ्मयाय । सदसन्मयाय ।
निदानगर्भाय नमः ॥८४०

ॐ निर्व्याजाय नमः । मध्यस्थाय । सर्वगोचराय । हृषीकेशाय ।
केशिघ्ने । प्रीतिवर्धनाय । वामनाय । दुष्टदमनाय ।
धृतये । कारुण्यविग्रहाय । सन्यासिने । शास्रतत्त्वज्ञाय ।
व्यासाय । पापहराय । बदरीनिलयाय । शान्ताय । भूतावासाय ।
गुहाश्रयाय । पूर्णाय । पुराणाय नमः ॥८६०

ॐ पुण्यज्ञाय नमः । मुसलिने । कुण्डलिने । ध्वजिने । योगिने ।
जेत्रे । महावीर्याय । शास्त्रिणे । शास्त्रार्थतत्त्वविदे । वहनाय ।
शक्तिसम्पूर्णाय । स्वर्गदाय । मोक्षदायकाय । सर्वात्मने ।
लोकालोकज्ञाय । सर्गस्थित्यन्तकारकाय । सर्वलोकसुखाकाराय ।
क्षयवृद्धिविवर्जिताय । निर्लेपाय । निर्गुणाय नमः ॥८८०

ॐ सूक्ष्माय नमः । निर्विकाराय । निरञ्जनाय । अचलाय ।
सत्यवादिने । लोहिताक्षाय । यूने । अध्वराय । सिंहस्कन्धाय ।
महासत्त्वाय । कालात्मने । कालचक्रभृते । परस्मै ज्योतिषे ।
विश्वदृशे । विश्वरोगघ्ने । विश्वात्मने । विश्वभूताय ।
सुहृदे । शान्ताय । विकण्टकाय नमः ॥९००

ॐ सर्वगाय नमः । सर्वभूतेशाय । सर्वभूताशयस्थिताय ।
आभ्यन्तरतमश्छेत्रे । पत्यै । अजाय । हरये । नेत्रे ।
सदानताय । कर्त्रे । श्रीमते । धात्रे । पुराणदाय । स्रष्ट्रे ।
विष्णवे । देवदेवाय । सच्चिदाश्रयाय । नित्याय । सर्वगताय ।
भानवे नमः ॥९२०

ॐ उग्राय नमः । प्रजेश्वराय । सवित्रे । लोककृते ।
हव्यवाहनाय । वसुधापतये । स्वामिने । सुशीलाय । सुलभाय ।
सर्वज्ञाय । सर्वशक्तिमते । नित्याय । सम्पूर्णकामाय ।
कृपापीयूषसागराय । अनन्ताय । श्रीपतये । रामाय । निर्गुणाय ।
लोकपूजिताय । राजीवलोचनाय नमः ॥९४०

ॐ श्रीमते नमः । शरणत्राणतत्पराय । सत्यव्रताय ।
व्रतधराय । साराय । वेदान्दगोचराय । त्रिलोकीरक्षकाय ।
यज्वने । सर्वदेवादिपूजिताय । सर्वदेवस्तुताय ।
सौम्याय । ब्रह्मण्याय । मुनिसंस्तुताय । महते । योगिने ।
सर्वपुण्यविवर्धनाय । स्मृतसर्वाघनाशनाय । पुरुषाय ।
महते । पुण्योदयाय नमः ॥९६०

ॐ महादेवाय नमः । दयासाराय । स्मिताननाय । विश्वरूपाय ।
विशालाक्षाय । बभ्रवे । परिवृढाय । दृढाय । परमेष्ठिने ।
सत्यसाराय । सत्यसन्धानाय । धार्मिकाय । लोकज्ञाय ।
लोकवन्द्याय । सेव्याय । लोककृते । पराय । जितमायाय ।
दयाकाराय । दक्षाय नमः ॥९८०

ॐ सर्वजनाश्रयाय नमः । ब्रह्मण्याय । देवयोनये । सुन्दराय ।
सूत्रकारकाय । महर्षये । ज्योतिर्गणनिषेविताय । सुकीर्तये ।
आदये । सर्वस्मै । सर्वावासाय । दुरासदाय । स्मितभाषिणे ।
निवृत्तात्मने । धीरोदात्ताय । विशारदाय । अध्यात्मयोगनिलयाय ।
सर्वतीर्थमयाय । सुराय । यज्ञस्वरूपिणे नमः ॥१०००

ॐ यज्ञज्ञाय नमः । अनन्तदृष्टये । गुणोत्तराय नमः ॥१००३

N/A

References : N/A
Last Updated : January 18, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP