मराठी मुख्य सूची|स्तोत्रे|सहस्रनामावली| ॐ सीतायै नमः । उमायै । पर... सहस्रनामावली ब्रह्मानन्दं परमसुखदं केव... अथ मूलम् । ॐ श्रीं ह्रीं ... ॐ श्रीगणेशाय नमः । श्वेता... श्रीअरुणाचलेश्वरसहस्रनामावली अर्धनारीश्वरसहस्रनामावलिः ॐ हिरण्यबाहवे हिरण्यवर्णा... श्रीहनुमत्सहस्रनामावलिः ॐ श्रीगणेशाय नमः । ॐ ब्र... ॐ इन्द्राय नमः । देवतमाय ... ॐ श्रीगणेशाय नमः । ॐ नमोद... ॐ अस्य श्रीसर्वसाम्राज्यम... ध्यानम् । कान्त्या काञ्चन... ॐ श्रीगणेशाय नमः । ॐ नका... ॐ अस्य कामकलाकालीसहस्रनाम... श्री गणेशाय नमः । श्रीकाम... कालोऽहम् । अस्य श्रीकालना... शिव उवाच- नाम्नां सहस्रं ... ॐ श्मशानकालिकायै नमः । ॐ ... अथ कुञ्चितपादसहस्रनामावलि... धनं दारान्सुतान्क्षेत्रं ... षड्वक्त्रं शिखिवाहनं त्रि... ॐ कृष्णाय नमः । श्रीवल्लभ... ॐ अस्य श्रीपुराणपुरुषोत्त... श्रीगणेशाय नमः । श्रीकेदा... सितमकरनिषण्णां शुभ्रवर्णा... श्रीगणेशाय नमः । श्रीसमर्... ॐ अस्य श्रीगणपतिगकारादिसह... ॐ सुमुखाय नमः । सुवहाय । ... ध्यानम् रक्तश्वेतहिरण्यनी... ध्यानम् - रक्तश्वेतहिरण्य... ॐ शं शां षं ह्रीं क्लीं ग... अथ ध्यानम् । सूर्यस्पर्धि... ॐ श्री गुरुभ्यो नमः । गुर... ॐ श्रीगणेशाय नमः । सर्वत्... अथ श्रीगोपालदिव्यसहस्रनाम... ॐ गवे नमः । ॐ गौविन्द्यै ... श्रीगुरुभ्यो नमः । श्रीका... ॐ अस्य श्रीप्रचण्डचण्डिका... अथ श्रीयोगेश्वरकवि द्वारा... अस्य श्रीज्वालामुखीसहस्रन... विश्वव्यापकवारिमध्यविलसच्... ॐ अस्य श्रीतारासहस्रनामस्... ॐ भुवनेश्यै नमः । ॐ भुवार... ॐ अस्य श्रीमहोग्रतारा दिव... वरिष्ठ उवाच - कथं नामसहस्... ॐ तुलस्यै नमः । ॐ श्रीप्र... ॐ श्रीमत्त्यागमहाराजाय नम... श्रीगणपतये नमः । ॐ अनेजते... ध्यानम् । उद्यद्भानुसहस्र... ॐ योगेशाय नमः । ॐ अमरप्रभ... महाकालभैरव ऋषिस्त्रिष्टुप... अस्य श्रीदक्षिणामूर्तिसहस... ॐ आदिदेवाय नमः । दयासिन्ध... ध्यानम् । स्फटिकरजतवर्णां... ऋषिच्छन्दांसि - अस्य श्री... तन्त्रराजतन्त्रे पूर्वपीठ... ध्यानम् । १. सिंहस्था शशि... महामन्त्रस्य श्रीमहेश्वर ... ध्यानम् - रक्ताभां रक्तवस... ॐ श्रीमते नमः । ॐ धन्वन्त... ॐ नमो भगवते भूतनाथाय । ॐ ... ध्यानम् । विवर्णा चञ्चला ... अस्य श्री शिवकामसुन्दरीसम... ॐ अस्य श्रीनटेशसहस्रनामस्... ॐ श्री गणेशाय नमः । अस्य ... श्री गुरुभ्यो नमः । ॐ श्र... श्री गुरुभ्यो नमः । ॐ श्र... ॥ ध्यानम् ॥ श्रीमित्रेश्... श्रीराधासर्वेश्वरो विजयते... पद्मावतीशतम् ॐ श्री पद्मा... ॐ श्रीगणेशाय नमः । ॐ अस्य... अथ विनियोगः । ॐ अस्य श्री... अथ अकारादि-क्षकारान्तासहस... ॐ शिवायै नमः । उमायै । पर... ॐ श्रीकृष्णाय नमः । सच्चि... अस्य श्रीप्रणवसहस्रनामस्त... ईश्वर उवाच । शृणु देवि प... ॐ ब्रह्मास्त्राय नमः । ॐ ... श्रीमहादेव उवाच - अस्य श्... विनियोगः - ॐ अस्य श्रीबटु... रुद्रयामलोक्तबटुकभैरवसहस्... ॐ अस्य श्रीबलभद्रसहस्रनाम... ॐ ऐं ह्रीं श्रीं-आनन्दसिन... शौनक उवाच - कैलासशिखरे रम... श्रीदेव्युवाच - भगवन्भाषि... ओं ऐं ह्रीं श्रीङ्कल्याण्... ॐ परमात्मने नमः ॐ धर्मक्... ॐ निस्सीमोद्यद्गुणाय नमः ... ॐ क्रकुच्छन्दाय नमः । ॐ क... ध्यानम् - बालार्कमण्डलाभा... विनोयोगः - ॐ अस्य श्रीभुव... प्रणवाय ब्रह्मणे उद्गीथाय... विनियोगः । ॐ अस्य श्रीमहा... श्रीः । ॐ नमश्चण्डिकायै ।... ॐ ह्रीं श्रीं क्लीं गणाध्... ॐ महामार्यै नमः । महामाया... पार्वत्युवाच - भगवन् वेदत... श्रीगणेशाय नमः । श्रीमहाल... ॐ ह्रीं ऐं ह्रीं महावाण्य... ध्यानम् श्रीमच्चन्दनचर्चि... ॐ अद्भुताय नमः । अद्भुतचा... ॐ सुमुख्यै नमः । ॐ शेमुष्... ॐ अम्बायै नमः । ॐ अम्बालि... ॐ अस्यश्री मूकाम्बिकायाः ... श्रीभैरव उवाच । अस्य श्री... अस्य श्री मेधादक्षिणामूर्... ॐ नमो भगवते दक्षिणामूर्तय... गर्गसंहितातः ॐ कालिन्द्य... अस्य श्रीयोगेश्वरीसहस्रना... ॐ योगिन्यै नमः । योगमायाय... देव्युवाच - भगवन्सर्वशास्... सोन्दूर श्रीकृष्ण अवधूतवि... वन्दे वृन्दावनानन्दा राधि... ॐ श्रीराधायै नमः । राधिका... ॐ श्रीराधायै नमः । राधिका... ॐ अस्य श्रीरामसहस्रनाममाल... ॐ आर्यश्रेष्ठाय नमः । धरा... सङ्कल्पः - यजमानः, आचम्य,... ॐ नमो भगवते वासुदेवाय । ॐ... ॐ स्थिराय नमः । स्थाणवे ।... न्यासः । अस्य श्रीरुद्रसह... अथ श्रीरेणुकातन्त्रान्तर्... सिन्दूरारुणविग्रहां त्रिन... ॐ श्रियै नमः । वासुदेवमहि... ॐ नित्यागतायै नमः । ॐ अनन... ॐ श्रीवराहाय नमः । भूवराह... ॐ वल्ल्यै नमः । ॐ वल्लीश्... ॐ श्रीवाग्मत्याः सहस्रनाम... ॐ श्रीगणेशाय नमः । श्रीनन... वराहमुख्यै विद्महे । दण्ड... ध्यानम् - ओङ्कारबीजाक्षरी... शुक्लाम्बरधरं विष्णुं शशि... ॐ क्लीं विट्टलाय नमः । पा... पूर्वन्यासः । श्रीवेदव्या... श्रीविष्णुसहस्रनामावलिः प... रुद्र उवाच । संसारसागराद... ॐ श्रीगणेशाय नमः । ॐ विष... श्रीशिवाय गुरवे श्रीवीरभ... वेङ्कटेशस्य नाम्नां हि सह... ॐ श्री गुरुभ्यो नमः । अथ ... ॐ शङ्कराय नमः । ॐ श्रीधरा... ॐ गाढध्वान्तनिमज्जनप्रमुष... ॐ अमिताभाषिणे नमः । ॐ अघह... ॐ श्रीगणेशाय नमः । ॐ श्री... विनियोगः - अस्य श्रीशारिक... अस्य श्रीशास्तृशवर्णसहस्र... ॐ अस्य श्री शिवकामसुन्दरी... अस्य श्रीशिवकामसुन्दरीसहस... ॐ अखिलेश्वर्यै नमः । अग्न... ॐ स्थिराय नमः । ॐ स्थाणवे... ॐ श्री गणेशाय नमः । अथ श्... ॐ ओङ्कारकण्ठनिलयाय नमः । ... ॐ ॐकारनिलयात्मस्थाय नमः ।... श्री विष्णुरुवाच ॐ भवाय ... अस्य श्रीशिवसहस्रनामस्तोत... ॐ सौभाग्यलक्ष्म्यै नमः । ... ॐ राधिकेशाय नमः । ॐ जगन्न... सद्गुरु श्रीधरस्वामिनाप्र... ईशानमुखपूजा- ॐ जगद्भुवे न... ॐ वचनभुवे नमः । पराय । शङ... ॐ रुद्रभुवनाय नमः । अनन्त... ॐ ब्रह्मभुवे नमः । भवाय ।... अघोर मुखपूजा । ॐ विश्वभुव... ॐ अचिन्त्य शक्तये नमः । अ... जपसाधना ॐ अस्य श्रीमहात्र... ॐ सङ्कटायै नमः । ॐ विजयाय... ॐ सङ्गीतालय-प्रतिष्ठित-भग... ॐ सीतायै नमः । उमायै । पर... ॐ श्रीचक्राय नमः । ॐ श्री... ॐ शुक्लाम्बरधरं विष्णुं श... ॐ श्री गणेशाय नमः । अस्य ... ॐ अस्य श्रीसुब्रह्मण्यसहस... बिल्वैर्वा चम्पकाद्यौर्वा... ध्यानम् - ध्येयः सदा सवित... श्रीरुद्रयामले तन्त्रे श्... श्रीसूर्यसहस्रनामावलिः ॐ सुब्रह्मण्याय । सुरेशान... ॐ नमः । ओङ्कारनमोरूपाय । ... ॐ श्रीहयग्रीवाय नमः । श्र... स्वामिनारायणं कृष्णं भक्त... १. ॐ स्थिराय नमः । २. ॐ ... ॥ श्रीदुर्गादैव्ये नम: ॥ ... १. ॐ राजीवलोचनाय नमः । ... १ ॐ अचिन्त्यलक्षणायै नमः ... १ ॐ कालिन्द्यै नमः । २ ॐ... १ ॐ अन्नपूर्णायै नमः । ... १. ॐ नारसिंहाय नमः । २. ... १ ॐ देवकीनन्दनाय नमः । २... १ ॐ क्लीं देवाय नमः । २ ... १ ॐ श्रियै नमः । २ ॐ पद्... १ ॐ हनुमते नमः । २ ॐ श्र... ॥ श्रीकृष्णाय नमः ॥ १. ॐ ... १. ॐ विश्वविदे नम: । २. ... १. ॐ गणेश्वराय नम: । २.... १. ॐ ऐं ह्रीं श्रीं श्रीम... १ ॐ सीतायै नमः । २ ॐ उमा... १ ॐ ओंकाररूपिण्यै नमः । ... १. ॐ विश्वस्मै नमः । २.ॐ... १. ॐ श्रीराधायै नमः । २.... ॐ गणपतये नमः ॥ ॥ ॐ गणेश्व... श्रीसीतासहस्रनामावलिः - ॐ सीतायै नमः । उमायै । पर... हिंदू देवी देवतांची एक हजार नावे म्हणजेच सहस्त्रनामावली. हिंदू धर्मिय रोज सकाळी संध्याकाळी या नावांचा जप करतात.A sahasranamavali is a type of Hindu scripture in which a diety is referred to by 1000 or more different names.Many devout Hindus chant them every morning or evening. Tags : 1000godgoddesssahasranamavaliसहस्त्रनामावली श्रीसीतासहस्रनामावलिः Translation - भाषांतर ॐ सीतायै नमः । उमायै । परमायै । शक्त्यै । अनन्तायै । निष्कलायै ।अमलायै । शान्तायै । माहेश्वर्यै । शाश्वत्यै । परमाक्षरायै ।अचिन्त्यायै । केवलायै । अनन्तायै । शिवात्मने । परमात्मिकायै ।अनादये । अव्ययायै । शुद्धायै । देवात्मने नमः । २०ॐ सर्वगोचरायै नमः । एकानेकविभागस्थायै । मायातीतायै ।सुनिर्मलायै । महामाहेश्वर्यै । शक्तायै । महादेव्यै । निरञ्जनायै ।काष्ठायै । सर्वान्तरस्थायै । चिच्छक्त्यै । अतिलालसायै । जानक्यै ।मिथिलानन्दायै । राक्षसान्तविधायिन्यै । रावणान्तकर्यै । रम्यायै ।रामवक्षःस्थलालयायै । उमायै । सर्वात्मिकायै नमः । ४०ॐ विद्यायै नमः । ज्योतिरूपायै । अयुताक्षरायै । शान्त्यै ।प्रतिष्ठायै । सर्वेषां निवृत्त्यै । अमृतप्रदायै । व्योममूर्त्यै ।व्योममय्यै । व्योमधारायै । अच्युतायै । लतायै । अनादिनिधनायै ।योषायै । कारणात्मने । कलाकुलायै । नन्दप्रथमजायै । नाभ्यै ।अमृतस्यान्तसंश्रयायै । प्राणेश्वरप्रियायै नमः । ६०ॐ मातामह्यै नमः । महिषवाहनायै । प्राणेश्वर्यै । प्राणरूपायै ।प्रधानपुरुषेश्वर्यै । सर्वशक्त्यै । कलायै । काष्ठायै ।इन्दवे । ज्योत्स्नायै । महिमायै । आस्पदायै । सर्वकार्यनियन्त्र्यै ।सर्वभूतेश्वरेश्वर्यै । अनादये । अव्यक्तगुणायै । महानन्दायै ।सनातन्यै । आकाशयोनिर्योगस्थायै ? । सर्वयोगेश्वरेश्वर्यै नमः । ८०ॐ शवासनायै नमः । चितान्तःस्थायै । महेश्यै । वृषवाहनायै ।बालिकायै । तरुण्यै । वृद्धायै । वृद्धमात्रे । जरातुरायै ।महामायायै । सुदुष्पूरायै । मूलप्रकृत्रीश्वर्यै । संसारयोन्यै ।सकलायै । सर्वशक्तिसमुद्भवायै । संसारसारायै । दुर्वारायै ।दुर्निरीक्ष्यायै । दुरासदायै । प्राणशक्त्यै नमः । १००ॐ प्राणविद्यायै नमः । योगिन्यै । परमायै । कलायै । महाविभूत्यै ।दुर्धर्षायै । मूलप्रकृतिसम्भवायै । अनाद्यनन्तविभवायै ।परात्मने । पुरुषाय बलिने । सर्गस्थित्यन्तकरिण्यै । सुदुर्वाच्यायै ।दुरत्ययायै । शब्दयोन्यै । शब्दमय्यै । नादाख्यायै । नादविग्रहायै ।प्रधानपुरुषातीतायै । प्रधानपुरुषात्मिकायै । पुराण्यै नमः । १२०ॐ चिन्मय्यै नमः । पुंसामादये । पुरुषरूपिण्यै । भूतान्तरात्मने ।कूटस्थायै । महापुरुषसंज्ञितायै । जन्ममृत्युजरातीतायै ।सर्वशक्तिसमन्वितायै । व्यापिन्यै । अनवच्छिन्नायै । प्रधानायै ।सुप्रवेशिन्यै । क्षेत्रज्ञायै । शक्त्यै । अव्यक्तलक्षणायै ।मलवर्जितायै । अनादिमायासम्भिन्नायै । त्रितत्त्वायै । प्रकृत्यै ।गुणाय नमः । १४०ॐ महामायायै नमः । समुत्पन्नायै । तामस्यै । पौरुष्यै । ध्रुवायै ।व्यक्ताव्यक्तात्मिकायै । कृष्णायै । रक्तशुक्लायै । प्रसूतिकायै ।स्वकार्यायै । कार्यजनन्यै । ब्रह्मास्यायै । ब्रह्मसंश्रयायै ।व्यक्तायै । प्रथमजायै । ब्राह्म्यै । महत्यै । ज्ञानरूपिण्यै ।वैराग्यैश्वर्यधर्मात्मने । ब्रह्ममूर्तये नमः । १६०ॐ हृदिस्थितायै नमः । जयदायै । जित्वर्यै । जैत्र्यै ।जयश्रियै । जयशालिन्यै । सुखदायै । शुभदायै । सत्यायै ।शुभायै । सङ्क्षोभकारिण्यै । अपां योन्यै । स्वयम्भूत्यै । मानस्यै ।तत्त्वसम्भवायै । ईश्वराण्यै । सर्वाण्यै । शङ्करार्द्धशरीरिण्यै ।भवान्यै । रुद्राण्यै नमः । १८०ॐ महालक्ष्म्यै नमः । अम्बिकायै । माहेश्वर्यै । समुत्पन्नायै ।भुक्तिमुक्तिफलप्रदायै । सर्वेश्वर्यै । सर्ववर्णायै । नित्यायै ।मुदितमानसायै । ब्रह्मेन्द्रोपेन्द्रनमितायै । शङ्करेच्छानुवर्तिन्यै ।ईश्वरार्द्धासनगतायै । रघूत्तमपतिव्रतायै । सकृद्विभावितायै ।सर्वसमुद्रपरिशोषिण्यै । पार्वत्यै । हिमवत्पुत्र्यै ।परमानन्ददायिन्यै । गुणाढ्यायै । योगदायै नमः । २००ॐ योग्यायै नमः । ज्ञानमूर्तिर्विकासिन्यै । सावित्र्यै । कमलायै ।लक्ष्म्यै । श्रिये । अनन्तोरसिस्थितायै । सरोजनिलयायै । शुभ्रायै ।योगनिद्रायै । सुदर्शनायै । सरस्वत्यै । सर्वविद्यायै ।जगज्ज्येष्ठायै । सुमङ्गलायै । वासव्यै । वरदायै । वाच्यायै ।कीर्त्यै । सर्वार्थसाधिकायै नमः । २२०ॐ वागीश्वर्यै नमः । सर्वविद्यायै । महाविद्यायै । सुशोभनायै ।गुह्यविद्यायै । आत्मविद्यायै । सर्वविद्यायै । आत्मभावितायै । स्वाहायै ।विश्वम्भर्यै । सिद्ध्यै । स्वधायै । मेधायै । धृत्यै । श्रुत्यै ।नाभ्यै । सुनाभ्यै । सुकृत्यै । माधव्यै । नरवाहिन्यै नमः । २४०ॐ पूजायै नमः । विभावर्यै । सौम्यायै । भगिन्यै । भोगदायिन्यै ।शोभायै । वंशकर्यै । लीलायै । मानिन्यै । परमेष्ठिन्यै ।त्रैलोक्यसुन्दर्यै । रम्यायै । सुन्दर्यै । कामचारिण्यै ।महानुभावमध्यस्थायै । महामहिषमर्दिन्यै । पद्ममालायै ।पापहरायै । विचित्रमुकुटाननायै । कान्तायै नमः । २६०ॐ चित्राम्बरधरायै नमः । दिव्याभरणभूषितायै । हंसाख्यायै ।व्योमनिलयायै । जगत्सृष्टिविवर्द्धिन्यै । निर्यन्त्रायै ।मन्त्रवाहस्थायै । नन्दिन्यै । भद्रकालिकायै । आदित्यवर्णायै ।कौमार्यै । मयूरवरवाहिन्यै । वृषासनगतायै । गौर्यै । महाकाल्यै ।सुरार्चितायै । अदित्यै । नियतायै । रौद्र्यै । पद्मगर्भायै नमः । २८०ॐ विवाहनायै नमः । विरूपाक्ष्यै । लेलिहानायै । महासुरविनाशिन्यै ।महाफलायै । अनवद्याङ्ग्यै । कामपूरायै । विभावर्यै ।विचित्ररत्नमुकुटायै । प्रणतर्धिविवर्धिन्यै । कौशिक्यै । कर्षिण्यै ।रात्र्यै । त्रिदशार्त्तिविनाशन्यै । विरूपायै । सुरूपायै । भीमायै ।मोक्षप्रदायिन्यै । भक्तार्त्तिनाशिन्यै । भव्यायै नमः । ३००ॐ भवभावविनाशिन्यै नमः । निर्गुणायै । नित्यविभवायै । निःसारायै ।निरपत्रपायै । यशस्विन्यै । सामगीत्यै । भावाङ्गनिलयालयायै ।दीक्षायै । विद्याधर्यै । दीप्तायै । महेन्द्रविनिपातिन्यै ।सर्वातिशायिन्यै । विद्यायै । सर्वशक्तिप्रदायिन्यै । सर्वेश्वरप्रियायै ।तार्क्ष्यै (वार्क्ष्यै) । समुद्रान्तरवासिन्यै । अकलङ्कायै ।निराधारायै नमः । ३२०ॐ नित्यसिद्धायै नमः । निरामयायै । कामधेनवे । वेदगर्भायै ।धीमत्यै । मोहनाशिन्यै । निःसङ्कल्पायै । निरातङ्कायै । विनयायै ।विनयप्रदायै । ज्वालामालासहस्राढ्यायै । देवदेव्यै । मनोन्मन्यै ।उर्व्यै । गुर्व्यै । गुरवे । श्रेष्ठायै । सुगुणायै । षड्गुणात्मिकायै ।महाभगवत्यै नमः । ३४०ॐ भव्यायै नमः । वसुदेवसमुद्भवायै । महेन्द्रोपेन्द्रभगिन्यै ।भक्तिगम्यपरायणायै । ज्ञानायै । ज्ञेयायै । जरातीतायै ।वेदान्तविषयायै । गत्यै । दक्षिणायै । दहनायै । बाह्यायै ।सर्वभूतनमस्कृतायै । योगमायायै । विभावज्ञायै । महामोहायै ।महीयस्यै । सत्यायै । सर्वसमुद्भूत्यै । ब्रह्मवृक्षाश्रयायै नमः । ३६०ॐ मत्यै नमः । बीजाङ्कुरसमुद्भूत्यै । महाशक्त्यै । महामत्यै ।ख्यात्यै । प्रतिज्ञायै । चिदे । संविदे । महायोगेन्द्रशायिन्यै ।विकृत्यै । शाङ्कर्यै । शास्त्र्यै । गन्धर्वयक्षसेवितायै ।वैश्वानर्यै । महाशालायै । देवसेनायै । गुहप्रियायै । महारात्र्यै(महाराष्ट्र्यै) । शिवानन्दायै । शच्यै नमः । ३८०ॐ दुःस्वप्ननाशिन्यै नमः । पूज्यायै । अपूज्यायै । जगद्धात्र्यै ।दुर्विज्ञेयस्वरूपिण्यै । गुहाम्बिकायै । गुहोत्पत्त्यै । महापीठायै ।मरुत्सुतायै । हव्यवाहान्तरायै । गार्ग्यै । हव्यवाहसमुद्भवायै ।जगद्योन्यै । जगन्मात्रे । जन्ममृत्युजरातिगायै । बुद्ध्यै । मात्रे ।बुद्धिमत्यै । पुरुषान्तरवासिन्यै । तपस्विन्यै नमः । ४००ॐ समाधिस्थायै नमः । त्रिनेत्रायै । दिविसंस्थितायै ।सर्वेन्द्रियमनोमात्रे । सर्वभूतहृदिस्थितायै । संसारतारिण्यै ।विद्यायै । ब्रह्मवादिमनोमलायै । ब्रह्माण्यै । बृहत्यै । ब्राह्म्यै ।ब्रह्मभूतायै । भयावन्यै । हिरण्यमय्यै । महारात्र्यै ।संसारपरिवर्तिकायै । सुमालिन्यै । सुरूपायै । तारिण्यै ।भाविन्यै नमः । ४२०ॐ प्रभायै नमः । उन्मीलन्यै । सर्वसहायै । सर्वप्रत्ययसाक्षिण्यै ।तपिन्यै । तापिन्यै । विश्वायै । भोगदायै । धारिण्यै ।धरायै । सुसौम्यायै । चन्द्रवदनायै । ताण्डवासक्तमानसायै ।सत्त्वशुद्धिकर्यै । शुद्ध्यै । मलत्रयविनाशिन्यै । जगत्प्रियायै ।जगन्मूर्त्यै । त्रिमूर्त्यै । अमृताश्रयायै नमः । ४४०ॐ निराश्रयायै (निरामयायै) नमः । निराहारायै ।निरङ्कुशरणोद्भभवायै । चक्रहस्तायै । विचित्राङ्ग्यै । स्रग्विण्यै ।पद्मधारिण्यै । परापरविधानज्ञायै । महापुरुषपूर्वजायै ।विद्येश्वरप्रियायै । अविद्यायै । विद्युज्जिह्वायै । जितश्रमायै ।विद्यामय्यै । सहस्राक्ष्यै । सहस्रश्रवणात्मजायै ।सहस्ररश्मिपद्मस्थायै । महेश्वरपदाश्रयायै । ज्वालिन्यै ।सन्मनसे नमः । ४६०ॐ व्याप्तायै नमः । तैजस्यै । पद्मरोधिकायै । महादेवाश्रयायै ।मान्यायै । महादेवमनोरमायै । व्योमलक्ष्म्यै । सिंहस्थायै ।चेकितान्यै । अमितप्रभायै । विश्वेश्वर्यै । विमानस्थायै । विशोकायै ।शोकनाशिन्यै । अनाहतायै । कुण्डलिन्यै । नलिन्यै । पद्मवासिन्यै ।शतानन्दायै । सतां कीर्त्यै नमः । ४८०ॐ सर्वभूताशयस्थितायै नमः । वाग्देवतायै । ब्रह्मकलायै ।कलातीतायै । कलावत्यै । ब्रह्मर्षये । ब्रह्महृदयायै ।ब्रह्मविष्णुशिवप्रियायै । व्योमशक्त्यै । क्रियाशक्त्यै ।जनशक्त्यै । परायै गत्यै । क्षोभिकायै । रौद्रिकायै । अभेद्यायै ।भेदाभेदविवर्जितायै । अभिन्नायै । भिन्नसंस्थानायै । वंशिन्यै ।वंशहारिण्यै नमः । ५००ॐ गुह्यशक्त्यै नमः । गुणातीतायै । सर्वदायै । सर्वतोमुख्यै ।भगिन्यै । भगवत्पत्न्यै । सकलायै । कालकारिण्यै । सर्वविदे ।सर्वतोभद्रायै । गुह्यातीतायै । गुहावल्यै । प्रक्रियायै । योगमात्रे ।गन्धायै । विश्वेश्वरेश्वर्यै । कपिलायै । कपिलाकान्तायै ।कनकाभायै । कलान्तरायै नमः । ५२०ॐ पुण्यायै नमः । पुष्करिण्यै । भोक्त्र्यै । पुरन्दरपुरःसरायै ।पोषण्यै । परमैश्वर्यभूतिदायै । भूतिभूषणायै ।पञ्चब्रह्मसमुत्पत्त्यै । परमात्मात्ऽऽमविग्रहायै । नर्मोदयायै ।भानुमत्यै । योगिज्ञेयायै । मनोजवायै । बीजरूपायै । रजोरूपायै ।वशिन्यै । योगरूपिण्यै । सुमन्त्रायै । मन्त्रिण्यै । पूर्णायै नमः । ५४०ॐ ह्लादिन्यै नमः । क्लेशनाशिन्यै । मनोहर्यै । मनोरक्ष्यै ।तापस्यै । वेदरूपिण्यै । वेदशक्त्यै । वेदमात्रे । वेदविद्याप्रकाशिन्यै ।योगेश्वरेश्वर्यै । मालायै । महाशक्त्यै । मनोमय्यै ।विश्वावस्थायै । वीरमुक्त्यै । विद्युन्मालायै । विहायस्यै । पीवर्यै ।सुरभ्यै । वन्द्यायै नमः । ५६०ॐ नन्दिन्यै नमः । नन्दवल्लभायै । भारत्यै । परमानन्दायै ।परापरविभेदिकायै । सर्वप्रहरणोपेतायै । काम्यायै ।कामेश्वरेश्वर्यै । अचिन्त्यायै । अचिन्त्यमहिम्ने । दुर्लेखायै ।कनकप्रभायै । कूष्माण्ड्यै । धनरत्नाढ्यायै । सुगन्धायै ।गन्धदायिन्यै । त्रिविक्रमपदोद्भूतायै । धनुष्पाणये । शिरोहयायै ।सुदुर्लभायै नमः । ५८०ॐ धनाध्यक्षायै नमः । धन्यायै । पिङ्गललोचनायै ।भ्रान्त्यै । प्रभावत्यै । दीप्त्यै । पङ्कजायतलोचनायै । आद्यायै ।हृत्कमलोद्भूतायै । परायै मात्रे । रणप्रियायै । सत्क्रियायै ।गिरिजायै । नित्यशुद्धायै । पुष्पनिरन्तरायै । दुर्गायै । कात्यायन्यै ।चण्ड्यै । चर्चिकायै । शान्तविग्रहायै नमः । ६००ॐ हिरण्यवर्णायै नमः । रजन्यै । जगन्मन्त्रप्रवर्तिकायै ।मन्दराद्रिनिवासायै । शारदायै । स्वर्णमालिन्यै । रत्नमालायै ।रत्नगर्भायै । पृथ्व्यै । विश्वप्रमाथिन्यै । पद्मासनायै ।पद्मनिभायै । नित्यतुष्टायै । अमृतोद्भवायै । धुन्वत्यै ।दुष्प्रकम्पायै । सूर्यमात्रे । दृषद्वत्यै । महेन्द्रभगिन्यै ।मायायै नमः । ६२०ॐ वरेण्यायै नमः । वरदर्पितायै । कल्याण्यै । कमलायै । रामायै ।पञ्चभूतवरप्रदायै । वाच्यायै । वरेश्वर्यै (परेश्वर्यै) ।नन्द्यायै । दुर्जयायै । दुरतिक्रमायै । कालरात्र्यै । महावेगायै ।वीरभद्रहितप्रियायै । भद्रकाल्यै । जगन्मात्रे । भक्तानांभद्रदायिन्यै । करालायै । पिङ्गलाकारायै । सामवेदायै नमः । ६४०ॐ महानदायै नमः । तपस्विन्यै । यशोदायै । यथाध्वपरिवर्तिन्यै ।शङ्खिन्यै । पद्मिन्यै । साङ्ख्यायै । साङ्ख्ययोगप्रवर्तिकायै ।चैत्र्यै । संवत्सरायै । रुद्रायै । जगत्सम्पूरण्यै । इन्द्रजायै ।शुम्भार्यै । खेचर्यै । खस्थायै । कम्बुग्रीवायै । कलिप्रियायै ।खरध्वजायै । खरारूढायै नमः । ६६०ॐ परार्ध्यायै नमः । परमालिन्यै । ऐश्वर्यरत्ननिलयायै ।विरक्तायै । गरुडासनायै । जयन्त्यै । हृद्गुहारम्यायै । सत्त्ववेगायै ।गणाग्रण्यै । सङ्कल्पसिद्धायै । साम्यस्थायै । सर्वविज्ञानदायिन्यै ।कलिकल्मषहन्त्र्यै । गुह्योपनिषदे । उत्तमायै । नित्यदृष्ट्यै ।स्मृत्यै । व्याप्त्यै । पुष्ट्यै । तुष्ट्यै नमः । ६८०ॐ क्रियावत्यै नमः । विश्वामरेश्वरायै । ईशानायै । भुक्त्यै ।मुक्त्यै । शिवामृतायै । लोहितायै । सर्वमात्रे । भीषणायै ।वनमालिन्यै । अनन्तशयनायै । अनाद्यायै । नरनारायणोद्भवायै ।नृसिंह्यै । दैत्यमथिन्यै । शङ्खचक्रगदाधरायै ।सङ्कर्षणसमुत्पत्त्यै । अम्बिकोपात्तसंश्रयायै । महाज्वालायै ।महामूर्त्यै नमः । ७००ॐ सुमूर्त्यै नमः । सर्वकामदुहे । सुप्रभायै । सुतरांगौर्यै । धर्मकामार्थमोक्षदायै । भ्रूमध्यनिलयायै ।अपूर्वायै । प्रधानपुरुषायै । वल्यै (प्रधानपुरुषावल्यै) ।महाविभूतिदायै । मध्यायै । सरोजनयनासनायै । अष्टादशभुजायै ।नाट्यायै । नीलोत्पलदलप्रभायै । सर्वशक्त्या समारूढायै ।धर्माधर्मानुवर्जितायै । वैराग्यज्ञाननिरतायै । निरालोकायै ।निरिन्द्रियायै नमः । ७२०ॐ विचित्रगहनायै नमः । धीरायै । शाश्वतस्थानवासिन्यै ।स्थानेश्वर्यै । निरानन्दायै । त्रिशूलवरधारिण्यै ।अशेषदेवतामूर्त्यै । देवतायै । परदेवतायै । गणात्मिकायै ।गिरेः पुत्र्यै । निशुम्भविनिपातिन्यै । अवर्णायै । वर्णरहितायै ।निर्वर्णायै । बीजसम्भवायै । अनन्तवर्णायै । अनन्यस्थायै ।शङ्कर्यै । शान्तमानसायै नमः । ७४०ॐ अगोत्रायै नमः । गोमत्यै । गोप्त्र्यै (गोस्त्रियै) ।गुह्यरूपायै । गुणान्तरायै । गोश्रियै । गव्यप्रियायै । गौर्यै ।गणेश्वरनमस्कृतायै । सत्यमात्रायै । सत्यसन्धायै ।त्रिसन्ध्यायै । सन्धिवर्जितायै । सर्ववादाश्रयायै । साङ्ख्यायै ।साङ्ख्ययोगसमुद्भवायै । असङ्ख्येयायै । अप्रमेयाख्यायै । शून्यायै ।शुद्धकुलोद्भवायै नमः । ७६०ॐ बिन्दुनाद्समुत्पत्त्यै नमः । शम्भवे । वामायै । शशिप्रभायै ।विसङ्गायै । भेदरहितायै । मनोज्ञायै । मधुसूदन्यै । महाश्रिये ।श्रीसमुत्पत्त्यै । तमःपारे प्रतिष्ठितायै । त्रितत्त्वमात्रे ।त्रिविधायै । सुसूक्ष्मपदसंश्रयायै । शान्त्यतीतायै । मलातीतायै ।निर्विकारायै । निराश्रयायै । शिवाख्यायै । चित्रनिलयायै नमः । ७८०ॐ शिवज्ञानस्वरूपिण्यै नमः । दैत्यदानवनिर्मात्र्यै । काश्यप्यै ।कालकर्णिकायै । शास्त्रयोन्यै । क्रियामूर्त्यै (प्रियामूर्त्यै) ।चतुर्वर्गप्रदर्शितायै । नारायण्यै । नवोद्भूतायै । कौमुद्यै ।लिङ्गधारिण्यै । कामुक्यै । ललितायै । तारायै । परापरविभूतिदायै ।परान्तजातमहिम्ने (परान्तजातमहिस्रे) । वडवायै । वामलोचनायै ।सुभद्रायै । देवक्यै नमः । ८००ॐ सीतायै नमः । वेदवेदाङ्गपारगायै । मनस्विन्यै । मन्युमात्रे ।महामन्युसमुद्भवायै । अमृत्यवे । अमृतास्वादायै । पुरुहूतायै ।पुरुप्लुतायै (पुरुष्टुतायै) । अशोच्यायै । भिन्नविषयायै ।हिरण्यरजतप्रियायै । हिरण्यायै । राजितायै । हैम्यै ।हेमाभरणभूषितायै । विभ्राजमानायै । दुर्ज्ञेयायै ।ज्योतिष्टोमफलप्रदायै । महानिद्रासमुद्भूतायै नमः । ८२०ॐ बलीन्द्रायै नमः । सत्यदेवतायै । दीर्घायै । ककुद्मिन्यै ।विद्यायै । शान्तिदायै । शान्तिवर्द्धिन्यै । लक्ष्म्यादिशक्तिजनन्यै ।शक्तिचक्रप्रवर्तिकायै । त्रिशक्तिजनन्यै । जन्यायै ।षडूर्मिपरिवर्जितायै । स्वाहायै । कर्मकरण्यै । युगान्तदलनात्मिकायै ।सङ्कर्षण्यै । जगद्धात्र्यै । कामयोन्यै । किरीटिन्यै ।ऐन्द्र्यै नमः । ८४०ॐ त्रैलोक्यनमितायै नमः । वैष्णव्यै । परमेश्वर्यै ।प्रद्युम्नदयितायै । दान्तायै । युग्मदृष्ट्यै । त्रिलोचनायै ।महोत्कटायै । हंसगत्यै । प्रचण्डायै । चण्डविक्रमायै ।वृषावेषायै । वियन्मात्रायै । विन्ध्यपर्वतवासिन्यै ।हिमवन्मेरुनिलयायै । कैलासगिरिवासिन्यै । चाणूरहन्त्र्यै । तनयायै ।नीतिज्ञायै । कामरूपिण्यै नमः । ८६०ॐ वेदविद्याव्रतरतायै नमः । धर्मशीलायै । अनिलाशनायै ।अयोध्यानिलयायै । वीरायै । महाकालसमुद्भवायै । विद्याधरक्रियायै ।सिद्धायै । विद्याधरनिराकृत्यै । आप्यायन्त्यै । वहन्त्यै । पावन्यै ।पोषिण्यै । खिलायै । मातृकायै । मन्मथोद्भूतायै । वारिजायै ।वाहनप्रियायै । करीषिण्यै । स्वधायै नमः । ८८०ॐ वाण्यै नमः । वीणावादनतत्परायै । सेवितायै । सेविकायै । सेवायै ।सिनीवाल्यै । गरुत्मत्यै । अरुन्धत्यै । हिरण्याक्ष्यै । मणिदायै ।श्रीवसुप्रदायै । वसुमत्यै । वसोर्धारायै । वसुन्धरासमुद्भवायै ।वरारोहायै । वरार्हायै । वपुःसङ्गसमुद्भवायै । श्रीफल्यै ।श्रीमत्यै । श्रीशायै नमः । ९००ॐ श्रीनिवासायै नमः । हरिप्रियायै । श्रीधर्यै । श्रीकर्यै ।कम्पायै (कम्प्रायै) । श्रीधरायै । ईशवीरणायै । अनन्तदृष्ट्यै ।अक्षुद्रायै । धात्रीशायै । धनदप्रियायै । दैत्यसिंहानां निहन्त्र्यै ।सिंहिकायै । सिंहवाहिन्यै । सुसेनायै । चन्द्रनिलयायै । सुकीर्त्यै ।छिन्नसंशयायै । बलज्ञायै । बलदायै नमः । ९२०ॐ वामायै नमः । लेलिहानायै । अमृताश्रवायै । नित्योदितायै ।स्वयञ्ज्योतिषे । उत्सुकायै । अमृतजीविन्यै । वज्रदंष्ट्रायै ।वज्रजिह्वायै । वैदेह्यै । वज्रविग्रहायै । मङ्गल्यायै । मङ्गलायै ।मालायै । मलिनायै । मलहारिण्यै । गान्धर्व्यै । गारुड्यै । चान्द्र्यै ।कम्बलाश्वतरप्रियायै नमः । ९४०ॐ सौदामिन्यै नमः । जनानन्दायै । भ्रुकुटीकुटिलाननायै ।कर्णिकारकरायै । कक्षायै । कंसप्राणापहारिण्यै । युगन्धरायै ।युगावर्त्तायै । त्रिसन्ध्यायै । हर्षवर्धिन्यै । प्रत्यक्षदेवतायै ।दिव्यायै । दिव्यगन्धायै । दिवापरायै । शक्रासनगतायै । शाक्र्यै ।साध्व्यै । नार्यै । शवासनायै । इष्टायै नमः । ९६०ॐ विशिष्टायै नमः । शिष्टेष्टायै । शिष्टाशिष्टप्रपूजितायै ।शतरूपायै । शतावर्त्तायै । विनीतायै । सुरभये । सुरायै ।सुरेन्द्रमात्रे । सुद्युम्नायै । सुषुम्नायै । सूर्यसंस्थितायै ।समीक्षायै । सत्प्रतिष्ठायै । निर्वृत्त्यै । ज्ञानपारगायै ।धर्मशास्त्रार्थकुशलायै । धर्मज्ञायै । धर्मवाहनायै ।धर्माधर्मविनिर्मात्र्यै नमः । ९८०ॐ धार्मिकाणां शिवप्रदायै नमः । धर्मशक्त्यै ।धर्ममय्यै । विधर्मायै । विश्वधर्मिण्यै । धर्मान्तरायै ।धर्ममध्यायै । धर्मपूर्वायै । धनप्रियायै । धर्मोपदेशायै ।धर्मात्मने । धर्मलभ्यायै । धराधरायै । कपाल्यै ।शाकलामूर्त्यै । कलाकलितविग्रहायै । धर्मशक्तिविनिर्मुक्तायै(सर्वशक्तिविनिर्मुक्तायै) । सर्वशक्त्याश्रयाश्रयायै । सर्वायै ।सर्वेश्वर्यै नमः । १०००ॐ सूक्ष्मायै नमः । सुसूक्ष्मज्ञानरूपिण्यै । प्रधानपुरुषेशानायै ।महापुरुषसाक्षिण्यै । सदाशिवायै । वियन्मूर्त्यै । देवमूर्त्यै ।अमूर्तिकायै । १००८इति वाल्मीकिविरचिते अद्भुतरामायणे पञ्चविंशति सर्गान्तर्गताश्रीरामकृता सीतासहस्रनामावलिः समाप्ता । N/A References : N/A Last Updated : January 19, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP