मराठी मुख्य सूची|स्तोत्रे|सहस्रनामावली| श्रीविष्णुसहस्रनामावलिः प... सहस्रनामावली ब्रह्मानन्दं परमसुखदं केव... अथ मूलम् । ॐ श्रीं ह्रीं ... ॐ श्रीगणेशाय नमः । श्वेता... श्रीअरुणाचलेश्वरसहस्रनामावली अर्धनारीश्वरसहस्रनामावलिः ॐ हिरण्यबाहवे हिरण्यवर्णा... श्रीहनुमत्सहस्रनामावलिः ॐ श्रीगणेशाय नमः । ॐ ब्र... ॐ इन्द्राय नमः । देवतमाय ... ॐ श्रीगणेशाय नमः । ॐ नमोद... ॐ अस्य श्रीसर्वसाम्राज्यम... ध्यानम् । कान्त्या काञ्चन... ॐ श्रीगणेशाय नमः । ॐ नका... ॐ अस्य कामकलाकालीसहस्रनाम... श्री गणेशाय नमः । श्रीकाम... कालोऽहम् । अस्य श्रीकालना... शिव उवाच- नाम्नां सहस्रं ... ॐ श्मशानकालिकायै नमः । ॐ ... अथ कुञ्चितपादसहस्रनामावलि... धनं दारान्सुतान्क्षेत्रं ... षड्वक्त्रं शिखिवाहनं त्रि... ॐ कृष्णाय नमः । श्रीवल्लभ... ॐ अस्य श्रीपुराणपुरुषोत्त... श्रीगणेशाय नमः । श्रीकेदा... सितमकरनिषण्णां शुभ्रवर्णा... श्रीगणेशाय नमः । श्रीसमर्... ॐ अस्य श्रीगणपतिगकारादिसह... ॐ सुमुखाय नमः । सुवहाय । ... ध्यानम् रक्तश्वेतहिरण्यनी... ध्यानम् - रक्तश्वेतहिरण्य... ॐ शं शां षं ह्रीं क्लीं ग... अथ ध्यानम् । सूर्यस्पर्धि... ॐ श्री गुरुभ्यो नमः । गुर... ॐ श्रीगणेशाय नमः । सर्वत्... अथ श्रीगोपालदिव्यसहस्रनाम... ॐ गवे नमः । ॐ गौविन्द्यै ... श्रीगुरुभ्यो नमः । श्रीका... ॐ अस्य श्रीप्रचण्डचण्डिका... अथ श्रीयोगेश्वरकवि द्वारा... अस्य श्रीज्वालामुखीसहस्रन... विश्वव्यापकवारिमध्यविलसच्... ॐ अस्य श्रीतारासहस्रनामस्... ॐ भुवनेश्यै नमः । ॐ भुवार... ॐ अस्य श्रीमहोग्रतारा दिव... वरिष्ठ उवाच - कथं नामसहस्... ॐ तुलस्यै नमः । ॐ श्रीप्र... ॐ श्रीमत्त्यागमहाराजाय नम... श्रीगणपतये नमः । ॐ अनेजते... ध्यानम् । उद्यद्भानुसहस्र... ॐ योगेशाय नमः । ॐ अमरप्रभ... महाकालभैरव ऋषिस्त्रिष्टुप... अस्य श्रीदक्षिणामूर्तिसहस... ॐ आदिदेवाय नमः । दयासिन्ध... ध्यानम् । स्फटिकरजतवर्णां... ऋषिच्छन्दांसि - अस्य श्री... तन्त्रराजतन्त्रे पूर्वपीठ... ध्यानम् । १. सिंहस्था शशि... महामन्त्रस्य श्रीमहेश्वर ... ध्यानम् - रक्ताभां रक्तवस... ॐ श्रीमते नमः । ॐ धन्वन्त... ॐ नमो भगवते भूतनाथाय । ॐ ... ध्यानम् । विवर्णा चञ्चला ... अस्य श्री शिवकामसुन्दरीसम... ॐ अस्य श्रीनटेशसहस्रनामस्... ॐ श्री गणेशाय नमः । अस्य ... श्री गुरुभ्यो नमः । ॐ श्र... श्री गुरुभ्यो नमः । ॐ श्र... ॥ ध्यानम् ॥ श्रीमित्रेश्... श्रीराधासर्वेश्वरो विजयते... पद्मावतीशतम् ॐ श्री पद्मा... ॐ श्रीगणेशाय नमः । ॐ अस्य... अथ विनियोगः । ॐ अस्य श्री... अथ अकारादि-क्षकारान्तासहस... ॐ शिवायै नमः । उमायै । पर... ॐ श्रीकृष्णाय नमः । सच्चि... अस्य श्रीप्रणवसहस्रनामस्त... ईश्वर उवाच । शृणु देवि प... ॐ ब्रह्मास्त्राय नमः । ॐ ... श्रीमहादेव उवाच - अस्य श्... विनियोगः - ॐ अस्य श्रीबटु... रुद्रयामलोक्तबटुकभैरवसहस्... ॐ अस्य श्रीबलभद्रसहस्रनाम... ॐ ऐं ह्रीं श्रीं-आनन्दसिन... शौनक उवाच - कैलासशिखरे रम... श्रीदेव्युवाच - भगवन्भाषि... ओं ऐं ह्रीं श्रीङ्कल्याण्... ॐ परमात्मने नमः ॐ धर्मक्... ॐ निस्सीमोद्यद्गुणाय नमः ... ॐ क्रकुच्छन्दाय नमः । ॐ क... ध्यानम् - बालार्कमण्डलाभा... विनोयोगः - ॐ अस्य श्रीभुव... प्रणवाय ब्रह्मणे उद्गीथाय... विनियोगः । ॐ अस्य श्रीमहा... श्रीः । ॐ नमश्चण्डिकायै ।... ॐ ह्रीं श्रीं क्लीं गणाध्... ॐ महामार्यै नमः । महामाया... पार्वत्युवाच - भगवन् वेदत... श्रीगणेशाय नमः । श्रीमहाल... ॐ ह्रीं ऐं ह्रीं महावाण्य... ध्यानम् श्रीमच्चन्दनचर्चि... ॐ अद्भुताय नमः । अद्भुतचा... ॐ सुमुख्यै नमः । ॐ शेमुष्... ॐ अम्बायै नमः । ॐ अम्बालि... ॐ अस्यश्री मूकाम्बिकायाः ... श्रीभैरव उवाच । अस्य श्री... अस्य श्री मेधादक्षिणामूर्... ॐ नमो भगवते दक्षिणामूर्तय... गर्गसंहितातः ॐ कालिन्द्य... अस्य श्रीयोगेश्वरीसहस्रना... ॐ योगिन्यै नमः । योगमायाय... देव्युवाच - भगवन्सर्वशास्... सोन्दूर श्रीकृष्ण अवधूतवि... वन्दे वृन्दावनानन्दा राधि... ॐ श्रीराधायै नमः । राधिका... ॐ श्रीराधायै नमः । राधिका... ॐ अस्य श्रीरामसहस्रनाममाल... ॐ आर्यश्रेष्ठाय नमः । धरा... सङ्कल्पः - यजमानः, आचम्य,... ॐ नमो भगवते वासुदेवाय । ॐ... ॐ स्थिराय नमः । स्थाणवे ।... न्यासः । अस्य श्रीरुद्रसह... अथ श्रीरेणुकातन्त्रान्तर्... सिन्दूरारुणविग्रहां त्रिन... ॐ श्रियै नमः । वासुदेवमहि... ॐ नित्यागतायै नमः । ॐ अनन... ॐ श्रीवराहाय नमः । भूवराह... ॐ वल्ल्यै नमः । ॐ वल्लीश्... ॐ श्रीवाग्मत्याः सहस्रनाम... ॐ श्रीगणेशाय नमः । श्रीनन... वराहमुख्यै विद्महे । दण्ड... ध्यानम् - ओङ्कारबीजाक्षरी... शुक्लाम्बरधरं विष्णुं शशि... ॐ क्लीं विट्टलाय नमः । पा... पूर्वन्यासः । श्रीवेदव्या... श्रीविष्णुसहस्रनामावलिः प... रुद्र उवाच । संसारसागराद... ॐ श्रीगणेशाय नमः । ॐ विष... श्रीशिवाय गुरवे श्रीवीरभ... वेङ्कटेशस्य नाम्नां हि सह... ॐ श्री गुरुभ्यो नमः । अथ ... ॐ शङ्कराय नमः । ॐ श्रीधरा... ॐ गाढध्वान्तनिमज्जनप्रमुष... ॐ अमिताभाषिणे नमः । ॐ अघह... ॐ श्रीगणेशाय नमः । ॐ श्री... विनियोगः - अस्य श्रीशारिक... अस्य श्रीशास्तृशवर्णसहस्र... ॐ अस्य श्री शिवकामसुन्दरी... अस्य श्रीशिवकामसुन्दरीसहस... ॐ अखिलेश्वर्यै नमः । अग्न... ॐ स्थिराय नमः । ॐ स्थाणवे... ॐ श्री गणेशाय नमः । अथ श्... ॐ ओङ्कारकण्ठनिलयाय नमः । ... ॐ ॐकारनिलयात्मस्थाय नमः ।... श्री विष्णुरुवाच ॐ भवाय ... अस्य श्रीशिवसहस्रनामस्तोत... ॐ सौभाग्यलक्ष्म्यै नमः । ... ॐ राधिकेशाय नमः । ॐ जगन्न... सद्गुरु श्रीधरस्वामिनाप्र... ईशानमुखपूजा- ॐ जगद्भुवे न... ॐ वचनभुवे नमः । पराय । शङ... ॐ रुद्रभुवनाय नमः । अनन्त... ॐ ब्रह्मभुवे नमः । भवाय ।... अघोर मुखपूजा । ॐ विश्वभुव... ॐ अचिन्त्य शक्तये नमः । अ... जपसाधना ॐ अस्य श्रीमहात्र... ॐ सङ्कटायै नमः । ॐ विजयाय... ॐ सङ्गीतालय-प्रतिष्ठित-भग... ॐ सीतायै नमः । उमायै । पर... ॐ श्रीचक्राय नमः । ॐ श्री... ॐ शुक्लाम्बरधरं विष्णुं श... ॐ श्री गणेशाय नमः । अस्य ... ॐ अस्य श्रीसुब्रह्मण्यसहस... बिल्वैर्वा चम्पकाद्यौर्वा... ध्यानम् - ध्येयः सदा सवित... श्रीरुद्रयामले तन्त्रे श्... श्रीसूर्यसहस्रनामावलिः ॐ सुब्रह्मण्याय । सुरेशान... ॐ नमः । ओङ्कारनमोरूपाय । ... ॐ श्रीहयग्रीवाय नमः । श्र... स्वामिनारायणं कृष्णं भक्त... १. ॐ स्थिराय नमः । २. ॐ ... ॥ श्रीदुर्गादैव्ये नम: ॥ ... १. ॐ राजीवलोचनाय नमः । ... १ ॐ अचिन्त्यलक्षणायै नमः ... १ ॐ कालिन्द्यै नमः । २ ॐ... १ ॐ अन्नपूर्णायै नमः । ... १. ॐ नारसिंहाय नमः । २. ... १ ॐ देवकीनन्दनाय नमः । २... १ ॐ क्लीं देवाय नमः । २ ... १ ॐ श्रियै नमः । २ ॐ पद्... १ ॐ हनुमते नमः । २ ॐ श्र... ॥ श्रीकृष्णाय नमः ॥ १. ॐ ... १. ॐ विश्वविदे नम: । २. ... १. ॐ गणेश्वराय नम: । २.... १. ॐ ऐं ह्रीं श्रीं श्रीम... १ ॐ सीतायै नमः । २ ॐ उमा... १ ॐ ओंकाररूपिण्यै नमः । ... १. ॐ विश्वस्मै नमः । २.ॐ... १. ॐ श्रीराधायै नमः । २.... ॐ गणपतये नमः ॥ ॥ ॐ गणेश्व... श्रीविष्णुसहस्रनामावलिः - श्रीविष्णुसहस्रनामावलिः प... हिंदू देवी देवतांची एक हजार नावे म्हणजेच सहस्त्रनामावली. हिंदू धर्मिय रोज सकाळी संध्याकाळी या नावांचा जप करतात.A sahasranamavali is a type of Hindu scripture in which a diety is referred to by 1000 or more different names.Many devout Hindus chant them every morning or evening. Tags : 1000godgoddesssahasranamavaliसहस्त्रनामावली श्रीविष्णुसहस्रनामावलिः Translation - भाषांतर श्रीविष्णुसहस्रनामावलिः पाद्मपुराणे उत्तरखण्डतःॐ । वासुदेवाय नमः । परस्मै ब्रह्मणे । परमात्मने । परात्पराय ।परस्मै धाम्ने । परस्मै ज्योतिषे । परस्मै तत्त्वाय । परस्मै पदाय ।परस्मै शिवाय । परस्मै ध्येयाय । परस्मै ज्ञानाय । परस्यैगत्यै । परमार्थाय । परस्मै श्रेयसे । परानन्दाय । परोदयाय ।अव्यक्तात्पराय । परस्मै व्योम्ने । परमर्द्धये । परेश्वराय नमः ॥२०ॐ निरामयाय नमः । निर्विकाराय । निर्विकल्पाय ।निराश्रयाय । निरञ्जनाय । निरातङ्काय । निर्लेपाय । निरवग्रहाय ।निर्गुणाय । निष्कलाय । अनन्ताय । अभयाय । अचिन्त्याय ।बलोचिताय । अतीन्द्रियाय । अमिताय । अपाराय । अनीशाय ।अनीहाय । अव्ययाय नमः ॥४०ॐ अक्षयाय नमः । सर्वज्ञाय । सर्वगाय । सर्वाय । सर्वदाय ।सर्वभावनाय । सर्वशास्त्रे । सर्वसाक्षिणे । सर्वस्य पूज्याय ।सर्वदृशे । सर्वशक्तये । सर्वसाराय । सर्वात्मने । सर्वतोमुखाय ।सर्वावासाय । सर्वरूपाय । सर्वादये । सर्वदुःखघ्ने । सर्वार्थाय ।सर्वतोभद्राय नमः ॥६०ॐ सर्वकारणकारणाय नमः । सर्वातिशायिताय ।सर्वाध्यक्षाय । सर्वसुरेश्वराय । षड्विंशकाय । महाविष्णवे ।महागुह्याय । महाविभवे । नित्योदिताय । नित्ययुक्ताय ।नित्यानन्दाय । सनातनाय । मायापतये । योगपतये । कैवल्यपतये ।आत्मभुवे । जन्ममृत्युजरातीताय । कालातीताय । भवातिगाय ।पूर्णाय नमः ॥८०ॐ सत्याय नमः । शुद्धबुद्धस्वरूपाय । नित्यचिन्मयाय ।योगप्रियाय । योगगम्याय । भवबन्धैकमोचकाय । पुराणपुरुषाय ।प्रत्यक्चैतन्याय । पुरुषोत्तमाय । वेदान्तवेद्याय । दुर्ज्ञेयाय ।तापत्रयविवर्जिताय । ब्रह्मविद्याश्रयाय । अनाद्याय । स्वप्रकाशाय ।स्वयम्प्रभवे । सर्वोपेयाय । उदासीनाय । प्रणवाय ।सर्वतःसमाय नमः ॥१००ॐ सर्वानवद्याय नमः । दुष्प्राप्याय । तुरीयाय । तमसःपराय ।कूटस्थाय । सर्वसंश्लिष्टाय । वाङ्मनोगोचरातिगाय । सङ्कर्षणाय ।सर्वहराय । कालाय । सर्वभयङ्कराय । अनुल्लङ्घ्याय । चित्रगतये ।महारुद्राय । दुरासदाय । मूलप्रकृतये । आनन्दाय । प्रद्युम्नाय ।विश्वमोहनाय । महामायाय नमः ॥१२०ॐ विश्वबीजाय नमः । परशक्त्यै । सुखैकभुवे । सर्वकाम्याय ।अनन्तलीलाय । सर्वभूतवशङ्कराय । अनिरुद्धाय । सर्वजीवाय ।हृषीकेशाय । मनःपतये । निरुपाधिप्रियाय । हंसाय । अक्षराय ।सर्वनियोजकाय । ब्रह्मणे । प्राणेश्वराय । सर्वभूतभृते ।देहनायकाय । क्षेत्रज्ञाय । प्रकृत्यै नगः ॥१४०ॐ स्वामिने नमः । पुरुषाय । विश्वसूत्रधृशे । अन्तर्यामिणे ।त्रिधाम्ने । अन्तःसाक्षिणे । त्रिगुणाय । ईश्वराय । योगिगम्याय ।पद्मनाभाय । शेषशायिने । श्रियःपतये । श्रीसदोपास्यपादाब्जाय ।नित्यश्रिये । श्रीनिकेतनाय । नित्यंवक्षःस्थलस्थश्रिये । श्रीनिधये ।श्रीधराय । हरये । वश्यश्रिये नमः ॥१६०ॐ निश्चलाय नमः । श्रीदाय । विष्णवे । क्षीराब्धिमन्दिराय ।कौस्तुभोद्भासितोरस्काय । माधवाय । जगदार्तिघ्ने । श्रीवत्सवक्षसे ।निःसीमकल्याणगुणभाजनाय । पीताम्बराय । जगन्नाथाय । जगत्त्रात्रे ।जगत्पित्रे । जगद्बन्धवे । जगत्स्रष्ट्रे । जगद्धात्रे । जगन्निधये ।जगदेकस्फुरद्वीर्याय । अनहंवादिने । जगन्मयाय नमः ॥१८०ॐ सर्वाश्चर्यमयाय नमः । सर्वसिद्धार्थाय । सर्वरञ्जिताय ।सर्वामोघोद्यमाय । ब्रह्मरुद्राद्युत्कृष्टचेतनाय । शम्भोः पितामहाय ।ब्रह्मपित्रे । शक्राद्यधीश्वराय । सर्वदेवप्रियाय । सर्वदेवमूर्तये ।अनुत्तमाय । सर्वदेवैकशरणाय । सर्वदेवैकदैवताय । यज्ञभुजे ।यज्ञफलदाय । यज्ञेशाय । यज्ञभावनाय । यज्ञत्रात्रे । यज्ञपुंसे ।वनमालिने नमः ॥२००ॐ द्विजप्रियाय नमः । द्विजैकमानदाय । विप्रकुलदेवाय ।असुरान्तकाय । सर्वदुष्टान्तकृते । सर्वसज्जनानन्यपालकाय ।सप्तलोकैकजठराय । सप्तलोकैकमण्डनाय । सृष्टिस्थित्यन्तकृते ।चक्रिणे । शार्ङ्गधन्वने । गदाधराय । शङ्खभृते । नन्दकिने ।पद्मपाणये । गरुडवाहनाय । अनिर्देश्यवपुषे । सर्वपूज्याय ।त्रैलोक्यपावनाय । अनन्तकीर्तये नमः ॥२२०ॐ निःसीमपौरुषाय नमः । सर्वमङ्गलाय ।सूर्यकोटिप्रतीकाशाय । यमकोटिदुरासदाय । मयकोटिजगत्स्रष्ट्रे ।वायुकोटिमहाबलाय । कोटीन्दुजगदानन्दिने । शम्भुकोटिमहेश्वराय ।कन्दर्पकोटिलावण्याय । दुर्गाकोट्यरिमर्दनाय । समुद्रकोटिगम्भीराय ।तीर्थकोटिसमाह्वयाय । कुबेरकोटिलक्ष्मीवते । शक्रकोटिविलासवते ।हिमवत्कोटिनिष्कम्पाय । कोटिब्रह्याण्डविग्रहाय । कोट्यश्वमेध-पापघ्नाय । यज्ञकोटिसमार्चनाय । सुधाकोटिस्वास्थ्यहेतवे ।कामधुहे नमः ॥२४०ॐ कोटिकामदाय नमः । ब्रह्मविद्याकोटिरूपाय ।शिपिविष्टाय । शुचिश्रवसे । विश्वम्भराय । तीर्थपादाय ।पुण्यश्रवणकीर्तनाय । आदिदेवाय । जगज्जैत्राय । मुकुन्दाय ।कालनेभिघ्ने । वैकुण्ठेश्वरमाहात्म्याय । महायोगेश्वरोत्सवाय ।नित्यतृप्ताय । लसद्भावाय । निःशङ्काय । नरकान्तकाय ।दीनानाथैकशरणाय । विश्वैकव्यसनापहाय ।जगत्कृपाक्षमाय नमः ॥२६०ॐ नित्यं कृपालवे नमः । सज्जनाश्रयाय । योगेश्वराय ।सदोदीर्णाय । वृद्धिक्षयविवर्जिताय । अधोक्षजाय । विश्वरेतसे ।प्रजापतिशताधिपाय । शक्रब्रह्मार्चितपदाय । शभुब्रह्मोर्ध्व-धामगाय । सूर्यसोमेक्षणाय । विश्वभोक्त्रे । सर्वस्यपारगाय ।जगत्सेतवे । धर्मसेतुधराय । विश्वधुरन्धराय । निर्ममाय ।अखिललोकेशाय । निःसङ्गाय । अद्भुतभोगवते नमः ॥२८०ॐ वश्यमायाय नमः । वश्यविश्वाय । विष्वक्सेनाय ।सुरोत्तमाय । सर्वश्रेयःपतये । दिव्यानर्घ्यभूषणभूषिताय ।सर्वलक्षणलक्षण्याय । सर्वदैत्येन्द्रदर्पघ्ने । समस्तदेवसर्वस्वाय ।सर्वदैवतनायकाय । समस्तदेवकवचाय । सर्वदेवशिरोमणये ।समस्तदेवतादुर्गाय । प्रपन्नाशनिपञ्जराय । सभस्तभयहृन्नाम्ने ।भगवते । विष्टरश्रवसे । विभवे । सर्वहितोदर्काय ।हतारये नमः ॥३००ॐ स्वर्गतिप्रदाय नमः । सर्वदैवतजीवेशाय । ब्राह्मणादिनियोजकाय ।ब्रह्मणे । शम्भवे । शतार्धायुषे । ब्रह्मज्येष्ठाय । शिशवे ।स्वराजे । विराजे । भक्तपराधीनाय । स्तुत्याय । स्तोत्रार्थसाधकाय ।परार्थकर्त्रे । कृत्यज्ञाय । स्वार्थकृत्य- सदोज्झिताय ।सदानन्दाय । सदाभद्राय । सदाशान्ताय । सदाशिवाय नमः ॥३२०ॐ सदाप्रियाय नमः । सदातुष्टाय । सदापुष्टाय ।सदाऽर्चिताय । सदापूताय । पावनाग्र्याय । वेदगुह्याय । वृषाकपये ।सहस्रनाम्ने । त्रियुगाय । चतुर्मूर्तये । चतुर्भुजाय ।भूतभव्यभवन्नाथाय । महापुरुषपूर्वजाय । नारायणाय ।मुञ्जकेशाय । सर्वयोगविनिःसृताय । वेदसाराय । यज्ञसाराय नमः ॥३४०ॐ सामसाराय नमः । तपोनिधये । साध्याय । श्रेष्ठाय ।पुराणर्षये । निष्ठायै । शान्त्यै । परायणाय । शिवत्रिशूलविध्वंसिने ।श्रीकण्ठैकवरप्रदाय । नराय । कृष्णाय । हरये । धर्मनन्दनाय ।धर्मजीवनाय । आदिकर्त्रे । सर्वसत्याय । सर्वस्त्रीरत्नदर्पघ्ने ।त्रिकालजितकन्दर्पाय । उर्वशीसृजे नमः ॥३६० उर्वशीदृशेॐ मुनीश्वराय नमः । आद्याय । कवये । हयग्रीवाय ।सर्ववागीश्वरेश्वराय । सर्वदेवमयाय । ब्रह्मणे । गुरवे ।वागीश्वरीपतये । अनन्तविद्याप्रभवाय । मूलविद्याविनाशकाय ।सर्वज्ञदाय । जगज्जाड्यनाशकाय । मधुसूदनाय ।अनेकमन्त्रकोटीशाय । शब्दब्रह्मैकपारगाय । आदिविदुषे ।वेदकर्त्रे । वेदात्मने । श्रुतिसागराय नमः ॥३८०ॐ ब्रह्मार्थवेदहरणाय नमः । सर्वविज्ञानजन्मभुवे ।विद्याराजाय । ज्ञानमूर्तये । शानसिन्धवे । अखण्डधिये ।मत्स्यदेवाय । महाशृङ्गाय । जगद्बीजवहित्रदृशे ।लीलाव्याप्ताखिलाम्भोधये । चतुर्वेदप्रवर्तकाय । आदिकूर्माय ।अखिलाधाराय । तृणीकृतजगद्भराय । अमरीकृतदेवौघाय ।पीयूषोत्पत्तिकारणाय । आत्माधाराय । धराधाराय । यज्ञाङ्गाय ।धरणीधराय नमः ॥४००ॐ हिरण्याक्षहराय नमः । पृथ्वीपतये । श्राद्धादिकल्पकाय ।समस्तपितृभीतिघ्नाय । सगस्तपितृजीवनाय । हव्यकव्यैकभुजे ।हव्यकव्यैकफलदायकाय । रोमान्तर्लीनजलधये । क्षोभिताशेष-सागराय । महावराहाय । यज्ञस्य ध्वंसकाय । याज्ञिकाश्रयाय ।श्रीनृसिंहाय । दिव्यसिंहाय । सर्वानिष्टार्थदुःखघ्ने । एकवीराय ।अद्भुतबलाय । यन्त्रमन्त्रैकभञ्जनाय । ब्रह्मादिदुःसहज्योतिषे ।युगान्ताग्न्यतिभीषणाय नमः ॥४२०ॐ कोटिवज्राधिकनखाय नमः । जगद्दुष्प्रेक्ष्यमूर्तिधृशे ।मातृचक्रप्रमथनाय । महामातृगणेश्वराय । अचिन्त्यामोघ-वीर्याढ्याय । समस्तासुरघस्मराय । हिरण्यकशिपुच्छेदिने ।कालाय । सङ्कर्षिणीपतये । कृतान्तवाहनासह्याय । समस्तभय-नाशनाय । सर्वविघ्नान्तकाय । सर्वसिद्धिदाय । सर्वपूरकाय ।समस्तपातकध्वंसिने । सिद्धमन्त्राधिकाह्वयाय । भैरवेशाय ।हरार्तिघ्नाय । कालकोटिदुरासदाय । दैत्यगर्भस्राविनाम्ने नमः ॥४४०ॐ स्फुटद्ब्रह्माण्डगर्जिताय नमः । स्मृतमात्राखिलत्रात्रे ।अद्भुतरूपाय । महाहरये । ब्रह्मचर्यशिरःपिण्डिने । दिक्पालाय ।अर्धाङ्गभूषणाय । द्वादशार्कशिरोदाम्ने । रुद्रशीर्षैकनूपुराय ।योगिनीग्रस्तगिरिजात्रात्रे । भैरवतर्जकाय । वीरचक्रेश्वराय ।अत्युग्राय । अपमारये । कालशम्बराय । क्रोधेश्वराय ।रुद्रचण्डीपरिवारादिदुष्टभुजे । सर्वाक्षोभ्याय । मृत्युमृत्यवे ।कालमृत्युनिवर्तकाय नमः ॥४६०ॐ असाध्यसर्वदेवघ्नाय नमः । सर्वदुर्ग्रहसौम्यकृते ।गणेशकोटिदर्पघ्नाय । दुःसहाशेषगोत्रघ्ने । देवदानवदुर्दर्शाय ।जगद्भयदभीषणाय । समस्तदुर्गतित्रात्रे । जगद्भक्षकभक्षकाय ।उग्रशाम्बरमार्जाराय । कालमूषकभक्षकाय । अनन्तायुधदोर्दण्डिने ।नृसिंहाय । वीरभद्रजिते । योगिनीचक्रगुह्येशाय ।शक्रारिपशुमांसभुजे । रुद्राय । नारायणाय । मेषरूपशङ्कर-वाहनाय । मेषरूपशिवत्रात्रे । दुष्टशक्तिसहस्रभुजे नमः ॥४८०ॐ तुलसीवल्लभाय नमः । वीराय । वामाचाराय ।अखिलेष्टदाय । महाशिवाय । शिवारूढाय । भैरवैककपालधृशे ।कि(हि)ल्लीचक्रेश्वराय । शक्रदिव्यमोहनरूपदाय । गौरीसौभाग्यदाय ।मायानिधये । मायाभयापहाय । ब्रह्मतेजोमयाय । ब्रह्मश्रीमयाय ।त्रयीमयाय । सुब्रह्मण्याय । बलिध्वंसिने । वामनाय ।अदितिदुःखघ्ने । उपेन्द्राय नमः ॥५००ॐ भूपतये नमः । विष्णवे । कश्यपान्वयमण्डनाय ।बलिस्वराज्यदाय । सर्वदेवविप्रान्नदाय । अच्युताय । उरुक्रमाय ।तीर्थपादाय । त्रिपदस्थाय । त्रिविक्रमाय । व्योमपादाय ।स्वपादाम्भःपवित्रितजगत्त्रयाय । ब्रह्मेशाद्यभिवन्द्याङ्घ्रये ।द्रुतधर्माङ्घ्रिधावनाय । अचिन्त्याद्भुतविस्ताराय । विश्ववृक्षाय ।महाबलाय । राहुमूर्धापराङ्गच्छिदे । भृगुपत्नीशिरोहराय ।पापत्रस्ताय नमः ॥५२०ॐ सदापुण्याय नमः । दैत्याशानित्यखण्डनाय ।पूरिताखिलदेवाशाय । विश्वार्थैकावतारकृते । स्वमायानित्यगुप्तात्मने ।सदा भक्तचिन्तामणये । वरदाय । कार्तवीर्यादि राजराज्यप्रदाय ।अनघाय । विश्वश्लाघ्यामिताचाराय । दत्तात्रेयाय ।मुनीश्वराय । पराशक्तिसदाश्लिष्टाय । योगानन्दाय । सदोन्मदाय ।समस्तेन्द्रारितेजोहृते । परमामृतपद्मपाय । अनसूयागर्भरत्नाय ।भोगमोक्षसुखप्रदाय । जमदग्निकुलादित्याय नमः ॥५४०ॐ रेणुकाद्भुतशक्तिकृते नमः । मातृहत्यादिनिर्लेपाय ।स्कन्दजिद्विप्रराज्यदाय । सर्वक्षत्रान्तकृते । वीरदर्पघ्ने ।कार्तवीर्यजिते । सप्तद्वीपवतीदात्रे । शिवार्चकयशःप्रदाय । भीमाय ।परशुरामाय । शिवाचार्यैकविप्रभुजे । शिवाखिलज्ञानकोशाय ।भीष्माचार्याय । अग्निदैवताय । द्रोणाचार्यगुरवे । विश्वजैत्रधन्वने ।कृतान्तजिते । अद्वितीयतपोमूर्तये । ब्रह्मचर्यैकदक्षिणाय ।मनवे नमः ॥५६०ॐ श्रेष्ठाय नमः । सतां सेतवे । महीयसे । वृषभाय । विराजे ।आदिराजाय । क्षितिपित्रे । सर्वरत्नैकदोहकृते । पृथवे ।जन्माद्येकदक्षाय । गीःश्रीकीर्तिस्वयंवृताय । जगद्गतिप्रदाय ।चक्रवर्तिश्रेष्ठाय । अद्वयास्त्रधृशे ।सनकादिमुनिप्राप्यभगवद्भक्तिवर्धनाय ।वर्णाश्रमादिधर्माणां कर्त्रे । वक्त्रे ।प्रवर्तकाय । सूर्यवंशध्वजाय । रामाय नमः ॥५८०ॐ राघवाय नमः । सद्गुणार्णवाय । काकुत्स्थाय । वीरराजे । राज्ञे ।राजधर्मधुरन्धराय । नित्यस्वःस्थाश्रयाय । सर्वभद्रग्राहिणे ।शुभैकदृशे । नररत्नाय । रत्नगर्भाय । धर्माध्यक्षाय ।महानिधये । सर्वश्रेष्ठाश्रयाय । सर्वशास्त्रार्थग्रामवीर्यवते ।जगद्वशाय । दाशरथये । सर्वरत्नाश्रयाय । नृपाय ।समस्तधर्मसुवे नमः ॥६००ॐ सर्वधर्मद्रष्ट्रे नमः । अखिलाघघ्ने । अतीन्द्राय ।ज्ञानविज्ञानपारदाय । क्षमाम्बुधये । सर्वप्रकृष्टशिष्टेष्टाय ।हर्षशोकाद्यनाकुलाय । पित्राज्ञात्यक्तसाम्राज्याय । सपत्नोदयनिर्भयाय ।गुहादेशापिर्तैश्वर्याय । शिवस्पर्धिजटाधराय । चित्रकूटाप्तरत्नाद्रये ।जगदीशाय । वनेचराय । यथेष्टामोघसर्वास्त्राय ।देवेन्द्रतनयाक्षिघ्ने । ब्रह्मेन्द्रादिनतैषीकाय ।मारीचघ्नाय । विराधघ्ने ।ब्रह्मशापहतापशेषदण्डकारण्यपावनाय नमः ॥६२०ॐ चतुर्दशसहस्रोग्ररक्षोघ्नैकशरैकधृशे नमः । खरारये ।त्रिशिरोहन्त्रे । दूषणघ्नाय । जनार्दनाय । जटायुषोऽग्निगतिदाय ।अगस्त्यसर्वस्वमन्त्रराजे । लीलाधनुःकोट्यपास्तदुन्दुभ्यस्थिमहाचयाय ।सप्ततालव्यधाकृष्टध्वस्तपातालदानवाय । सुग्रीवराज्यदाय ।अहीनमनसैवाभयप्रदाय । हनुमद्रुद्रमुख्येशसमस्तकपिदेहभृते ।सनागदैत्यबाणैकव्याकुलीकृतसागराय । सम्लेच्छकोटिबाणैक-शुष्कनिर्दग्धसागराय । समुद्राद्भुतपूर्वैकबद्धसेतवे । यशोनिधये ।असाध्यसाधकाय । लङ्कासमूलोत्कर्षदक्षिणाय । वरदृप्तजगच्छल्य-पौलस्त्यकुलकृन्तनाय । रावणिघ्नाय नमः ॥६४०ॐ प्रहस्तच्छिदे नमः । कुम्भकर्णभिदे । उग्रघ्ने ।रावणैकशिरश्छेत्रे । निःशङ्केन्द्रैकराज्यदाय ।स्वर्गास्वर्गत्वविच्छेदिने । देवेन्द्रादिन्द्रताहराय । रक्षोदेवत्वहृते ।धर्माधर्भघ्नाय । पुरुष्टुताय । नतिमात्रदशास्यारये ।दत्तराज्यविभीषणाय । सुधावृष्टिमृताशेष-स्वसैन्योज्जीवनैककृते । देवब्राह्मणनामैकधात्रे ।सर्वामरार्चिताय । ब्रह्मसूर्येन्द्ररुद्रादिवृन्दार्पितसतीप्रियाय ।अयोध्याखिलराजन्याय । सर्वभूतमनोहराय । स्वामितुल्यकृपादण्डाय ।हीनोत्कृष्टैकसत्प्रियाय नमः ॥६६०ॐ स्वपक्षादिन्यायदर्शिने नमः । हीनार्थाधिकसाधकाय ।व्याधव्याजानुचितकृते । तारकाय । अखिलतुल्यकृते ।पार्वत्याऽधिकमुक्तात्मने । प्रियात्यक्ताय । स्मरारिजिते ।साक्षात्कुशलवच्छद्मेन्द्रादिताताय । अपराजिताय । कोशलेन्द्राय ।वीरबाहवे । सत्यार्थत्यक्तसोदराय । शरसन्धाननिर्धूतधरणी-मण्डलोदयाय । ब्रह्मादिकाम्यसान्निध्यसनाथीकृतदैवताय ।ब्रह्मलोकाप्तचाण्डालाद्यशेषप्राणिसार्थकाय । स्वर्नीतगर्दभाश्वादये ।चिरायोध्यावनैककृते । रामद्वितीयाय । सौमित्रये नमः ॥६८०ॐ लक्ष्मणाय नमः । प्रहतेन्द्रजिते । विष्णुभक्त्याप्तरामाङ्घ्रये ।पादुकाराज्यनिर्वृताय । भरताय । असह्यगन्धर्वकोटिघ्नाय ।लवणान्तकाय । शत्रुघ्नाय । वैद्यराजायुर्वेदगर्भौषधीपतये ।नित्यामृतकराय । धन्वन्तरये । यज्ञाय । जगद्धराय । सूर्यारिघ्नाय ।सुराजीवाय । दक्षिणेशाय । द्विजप्रियाय । छिन्नमूर्धायतेशार्काय ।शेषाङ्गस्थापितामराय । विश्वार्थाशेषकृते नमः ॥७००ॐ राहुशिरच्छेदाक्षताकृतये नमः । वाजपेयादिनामाग्रये ।वेदधर्मपरायणाय । श्वेतद्वीपपतये । साङ्ख्यप्रणेत्रे । सर्वसिद्धिराजे ।विश्वप्रकाशितज्ञानयोगाय । मोहतमिस्रघ्ने । देवहूत्यात्मजाय ।सिद्धाय । कपिलाय । कर्दमात्मजाय । योगस्वामिने ।ध्यानभङ्गसगरात्मजभस्मकृते । धर्माय । वृषेन्द्राय ।सुरभीपतये । शुद्धात्मभाविताय । शम्भवे ।त्रिपुरदाहैकस्थैर्यविश्वरथोद्वहाय नमः ॥७२०ॐ भक्तशम्भुजिताय नमः । दैत्यामृतवापीसमस्तपाय ।महाप्रलयविश्वैकद्वितीयारिवलनागराजे । शेषदेवाय । सहस्राक्षाय ।सहसास्यशिरोभुजाय । फणामणिकणाकारयोजिताब्ध्यम्बुदक्षितये ।कालाग्निरुद्रजनकाय । मुसलास्त्राय । हलायुधाय । नीलाम्बराय ।वारुणीशाय । मनोवाक्कायदोषघ्ने । असन्तोषाय ।दृष्टिमात्रपातितैकदशाननाय । बलिसंयमनाय । घोराय ।रौहिणेयाय । प्रलम्बघ्ने । मुष्टिकघ्नाय नमः ॥७४०ॐ द्विविदघ्ने नमः । कालिन्दीकर्षणाय । बलाय । रेवतीरमणाय ।पूर्वभक्तिखेदाच्युताग्रजाय । देवकीवसुदेवाह्वकश्यपादितिनन्दनाय ।वार्ष्णेयाय । सात्वतांश्रेष्ठाय । शौरये । यदुकुलोद्वहाय । नराकृतये ।परस्मैब्रह्मणे । सव्यसाचिवरप्रदाय ।ब्रह्मादिकाम्यलालित्यजगदाश्चर्यशैशवाय । पूतनाघ्नाय । शकटभिदे ।यमलार्जुनभञ्जनाय । वातासुरारये । केशिघ्नाय । धेनुकारये नमः ॥७६०ॐ गवीश्वराय नमः । दामोदराय । गोपदेवाय ।यशोदानन्ददायकाय । कालीयमर्दनाय । सर्वगोपगोपीजनप्रियाय ।लीलागोवर्धनधराय । गोविन्दाय । गोकुलोत्सवाय । अरिष्टमथनाय ।कामोन्मत्तगोपीविमुक्तिदाय । सद्यःकुवलयापीडघातिने ।चाणूरमर्दनाय । कंसारये । उग्रसेनादिराज्यव्यापारितापराय ।सुधर्माङ्कितभूलोकाय । जरासन्धबलान्तकाय । त्यक्तभग्नजरासन्धाय ।भीमसेनयशःप्रदाय । सान्दीपनिमृतापत्यदात्रे नमः ॥७८०ॐ कालान्तकादिजिते नमः । समस्तनारकित्रात्रे ।सर्वभूपतिकोटिजिते । रुक्मिणीरमणाय । रुक्मिशासनाय ।नरकान्तकाय । समस्तसुन्दरीकान्ताय । मुरारये । गरुडध्वजाय ।एकाकिने । जितरुद्रार्कमरुदाद्यखिलेश्वराय । देवेन्द्रदर्पघ्ने ।कल्पद्रुमालकृतभूतलाय । बाणबाहुसहस्रच्छिदे । नन्द्यादिगण-कोटिजिते । लीलाजितमहादेवाय । महादेवैकपूजिताय ।इन्द्रार्थार्जुननिर्भङ्गजयदाय । पाण्डवैकधृशे ।काशिराजशिरश्छेत्रे नमः ॥८००ॐ रुद्रशक्त्येकमर्दनाय नमः । विश्वेश्वरप्रसादाक्षाय ।काशीराजसुतार्दनाय । शम्भुप्रतिज्ञाविध्वंसिने । काशीनिर्दग्धनायकाय ।काशीशगणकोटिघ्नाय । लोकशिक्षाशिवार्चकाय ।युवतीव्रतपाय । वश्याय । पुराशिववरप्रदाय ।शङ्करैकप्रतिष्ठाधृशे ।स्वांशशङ्करपूजकाय । शिवकन्याव्रतपतये (व्रतप्रीताय)।कृष्णरूपशिवारिघ्ने । महालक्ष्मीवपुर्गौरीत्रात्रे । वैदलवृत्रघ्ने ।स्वधाममुचुकुन्दैकनिष्कालयवनेष्टकृते । यमुनापतये ।आनीतपरिलीनशिवात्मजाय । श्रीदामरङ्कभक्तार्थभूम्यानीतेन्द्रवैभवाय ।दुर्वृत्तशिशुपालैकमुक्तिदाय नमः ॥८२०ॐ द्वारकेश्वराय नमः । आचाण्डालादिकप्राप्यद्वारकानिधिकोटिकृते ।अक्रूरोद्धवमुख्यैकभक्तस्वच्छन्दमुक्तिदाय ।सबालस्त्रीजलक्रीडाय । अमृतवापीकृतार्णवाय । ब्रह्मास्त्रदग्ध-गर्भस्थपरीक्षिज्जीवनैककृते । परिलीनद्विजसुतानेत्रे ।अर्जुनमदापहाय । गूढमुद्राकृतिग्रस्तभीष्माद्यखिलकौरवाय ।यथार्थखण्डिताशेषदिव्यास्त्राय ।पार्थमोहहृते । गर्भशापच्छलध्वस्तयादवोर्वीभयापहाय ।जराव्याधारिगतिदाय । स्मृतिमात्राखिलेष्टदाय । कामदेवाय ।रतिपतये । मन्मथाय । शम्बरान्तकाय । अनङ्गाय ।जितगौरीशाय नमः ॥८४०ॐ रतिकान्ताय नमः । सदेप्सिताय । पुष्पेषवे ।विश्वविजयिने । स्मराय । कामेश्वरीप्रियाय । उषापतये । विश्वकेतवे ।विश्वदृप्ताय । अधिपूरुषाय । चतुरात्मने । चतुर्व्यूहाय ।चतुर्युगविधायकाय । चतुर्वेदैकविश्वात्मने । सर्वोत्कृष्टांशकोटिकाय ।आश्रमात्मने । पुरणार्षये । व्यासाय । शाखासहस्रकृते ।महाभारतनिर्मात्रे नमः ॥८६०ॐ कवीन्द्राय नमः । बादरायणाय । कृष्णद्वैपायनाय ।सर्वपुरुषार्थैकबोधकाय । वेदान्तकर्त्रे । ब्रह्मैकव्यञ्जकाय ।पुरुवंशकृते । बुद्धाय । ध्यानजिताशेषदेवदेवाय । जगत्प्रियाय ।निरायुधाय । जगज्जैत्राय । श्रीधराय । दुष्टमोहनाय ।दैत्यवेदबहिःकर्त्रे । वेदार्थश्रुतिगोपकाय । शौद्धोदनये ।दृष्टदिष्टाय । सुखदाय । सदसस्पतये नमः ॥८८०ॐ यथायोग्याखिलकृपाय नमः । सर्वशून्याय ।अखिलेष्टदाय । चतुष्कोटिपृथक्तत्त्वाय । प्रज्ञापारमितेश्वराय ।पाखण्डवेदमार्गेशाय । पाखण्डश्रुतिगोपकाय । कल्किने ।विष्णुयशःपुत्राय । कलिकालविलोपकाय । समस्तम्लेच्छदुष्टघ्नाय ।सर्वशिष्टद्विजातिकृते । सत्यप्रवर्तकाय । देवद्विजदीर्घक्षुधापहाय ।अश्ववारादिरेवान्ताय । पृथ्वीदुर्गतिनाशनाय ।सद्यःक्ष्मानन्तलक्ष्मीकृते । नष्टनिःशेषधर्मविदे ।अनन्तस्वर्णयोगैकहेमपूर्णाखिलद्विजाय ।असाध्यैकजगच्छास्त्रे नमः ॥९००ॐ विश्ववन्द्याय नमः । जयध्वजाय । आत्मतत्त्वाधिपाय ।कर्तृश्रेष्ठाय । विधये । उमापतये । भर्तृश्रेष्ठाय ।प्रजेशाग्र्याय । मरीचये । जनकाग्रण्ये । कश्यपाय । देवराजेन्द्राय ।प्रह्लादाय । दैत्यराजे । शशिने । नक्षत्रेशाय । रवये ।तेजःश्रेष्ठाय । शुक्राय । कवीश्वराय नमः ॥९२०ॐ महर्षिराजे नमः । भृगवे । विष्णवे । आदित्येशाय । बलये ।स्वराजे । वायवे । वह्नये । शुचये । श्रेष्ठाय । शङ्कराय । रुद्रराचे ।गुरवे । विद्वत्तमाय । चित्ररथाय । गन्धर्वाग्र्याय । अक्षरोत्तमाय ।वर्णादये । अग्र्याय । स्त्रियै नमः ॥९४०ॐ गौर्यै नमः । शक्त्यग्र्यायै । आशिषे । नारदाय । देवर्षिराजे ।पाण्डवाग्र्याय । अर्जुनाय । वादाय । प्रवादराजे । पवनाय ।पवनेशानाय । वरुणाय । यादसाम्पतये । गङ्गायै । तीर्थोत्तमाय ।द्यूताय । छलकाग्र्याय । वरौषधाय । अन्नाय । सुदर्शनाय नमः ॥९६०ओस्त्राग्र्याय नमः । वज्राय । प्रहरणोत्तमाय । उच्चैःश्रवसे ।वाजिराजाय । ऐरावताय । इभेश्वराय । अरुन्धत्यै । एकपत्न्यै ।ईशाय । अश्वत्थाय । अशेषवृक्षराजे । अध्यात्मविद्यायै ।विद्याग्र्याय । प्रणवाय । छन्दसांवराय । मेरवे । गिरिपतये ।मार्गाय । मासाग्र्याय नमः ॥९८०ॐ कालसत्तमाय नमः । दिनाद्यात्मने । पूर्वीसद्धाय ।कपिलाय । सामवेदराजे । तार्क्ष्याय । खगेन्द्राय । ऋत्वग्र्याय ।वसन्ताय । कल्पपादपाय । दातृश्रेष्ठाय । कामधेनवे ।आर्तिघ्नाग्र्याय । सुहृत्तमाय । चिन्तामणये । गुरुश्रेष्ठाय । मात्रे ।हिततमाय । पित्रे । सिंहाय नमः ॥१०००ॐ मृगेन्द्राय नमः । नागेन्द्राय । वासुकये । नृवराय । नृपाय ।वर्णेशाय । ब्राह्मणाय । चेतःकरणाग्र्याय नमः ॥१००८इति पाद्मपुराणे उत्तरखण्डे श्रीविष्णुसहस्रनामावलिः समाप्ता । N/A References : N/A Last Updated : January 19, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP