मराठी मुख्य सूची|स्तोत्रे|सहस्रनामावली| विनियोगः - अस्य श्रीशारिक... सहस्रनामावली ब्रह्मानन्दं परमसुखदं केव... अथ मूलम् । ॐ श्रीं ह्रीं ... ॐ श्रीगणेशाय नमः । श्वेता... श्रीअरुणाचलेश्वरसहस्रनामावली अर्धनारीश्वरसहस्रनामावलिः ॐ हिरण्यबाहवे हिरण्यवर्णा... श्रीहनुमत्सहस्रनामावलिः ॐ श्रीगणेशाय नमः । ॐ ब्र... ॐ इन्द्राय नमः । देवतमाय ... ॐ श्रीगणेशाय नमः । ॐ नमोद... ॐ अस्य श्रीसर्वसाम्राज्यम... ध्यानम् । कान्त्या काञ्चन... ॐ श्रीगणेशाय नमः । ॐ नका... ॐ अस्य कामकलाकालीसहस्रनाम... श्री गणेशाय नमः । श्रीकाम... कालोऽहम् । अस्य श्रीकालना... शिव उवाच- नाम्नां सहस्रं ... ॐ श्मशानकालिकायै नमः । ॐ ... अथ कुञ्चितपादसहस्रनामावलि... धनं दारान्सुतान्क्षेत्रं ... षड्वक्त्रं शिखिवाहनं त्रि... ॐ कृष्णाय नमः । श्रीवल्लभ... ॐ अस्य श्रीपुराणपुरुषोत्त... श्रीगणेशाय नमः । श्रीकेदा... सितमकरनिषण्णां शुभ्रवर्णा... श्रीगणेशाय नमः । श्रीसमर्... ॐ अस्य श्रीगणपतिगकारादिसह... ॐ सुमुखाय नमः । सुवहाय । ... ध्यानम् रक्तश्वेतहिरण्यनी... ध्यानम् - रक्तश्वेतहिरण्य... ॐ शं शां षं ह्रीं क्लीं ग... अथ ध्यानम् । सूर्यस्पर्धि... ॐ श्री गुरुभ्यो नमः । गुर... ॐ श्रीगणेशाय नमः । सर्वत्... अथ श्रीगोपालदिव्यसहस्रनाम... ॐ गवे नमः । ॐ गौविन्द्यै ... श्रीगुरुभ्यो नमः । श्रीका... ॐ अस्य श्रीप्रचण्डचण्डिका... अथ श्रीयोगेश्वरकवि द्वारा... अस्य श्रीज्वालामुखीसहस्रन... विश्वव्यापकवारिमध्यविलसच्... ॐ अस्य श्रीतारासहस्रनामस्... ॐ भुवनेश्यै नमः । ॐ भुवार... ॐ अस्य श्रीमहोग्रतारा दिव... वरिष्ठ उवाच - कथं नामसहस्... ॐ तुलस्यै नमः । ॐ श्रीप्र... ॐ श्रीमत्त्यागमहाराजाय नम... श्रीगणपतये नमः । ॐ अनेजते... ध्यानम् । उद्यद्भानुसहस्र... ॐ योगेशाय नमः । ॐ अमरप्रभ... महाकालभैरव ऋषिस्त्रिष्टुप... अस्य श्रीदक्षिणामूर्तिसहस... ॐ आदिदेवाय नमः । दयासिन्ध... ध्यानम् । स्फटिकरजतवर्णां... ऋषिच्छन्दांसि - अस्य श्री... तन्त्रराजतन्त्रे पूर्वपीठ... ध्यानम् । १. सिंहस्था शशि... महामन्त्रस्य श्रीमहेश्वर ... ध्यानम् - रक्ताभां रक्तवस... ॐ श्रीमते नमः । ॐ धन्वन्त... ॐ नमो भगवते भूतनाथाय । ॐ ... ध्यानम् । विवर्णा चञ्चला ... अस्य श्री शिवकामसुन्दरीसम... ॐ अस्य श्रीनटेशसहस्रनामस्... ॐ श्री गणेशाय नमः । अस्य ... श्री गुरुभ्यो नमः । ॐ श्र... श्री गुरुभ्यो नमः । ॐ श्र... ॥ ध्यानम् ॥ श्रीमित्रेश्... श्रीराधासर्वेश्वरो विजयते... पद्मावतीशतम् ॐ श्री पद्मा... ॐ श्रीगणेशाय नमः । ॐ अस्य... अथ विनियोगः । ॐ अस्य श्री... अथ अकारादि-क्षकारान्तासहस... ॐ शिवायै नमः । उमायै । पर... ॐ श्रीकृष्णाय नमः । सच्चि... अस्य श्रीप्रणवसहस्रनामस्त... ईश्वर उवाच । शृणु देवि प... ॐ ब्रह्मास्त्राय नमः । ॐ ... श्रीमहादेव उवाच - अस्य श्... विनियोगः - ॐ अस्य श्रीबटु... रुद्रयामलोक्तबटुकभैरवसहस्... ॐ अस्य श्रीबलभद्रसहस्रनाम... ॐ ऐं ह्रीं श्रीं-आनन्दसिन... शौनक उवाच - कैलासशिखरे रम... श्रीदेव्युवाच - भगवन्भाषि... ओं ऐं ह्रीं श्रीङ्कल्याण्... ॐ परमात्मने नमः ॐ धर्मक्... ॐ निस्सीमोद्यद्गुणाय नमः ... ॐ क्रकुच्छन्दाय नमः । ॐ क... ध्यानम् - बालार्कमण्डलाभा... विनोयोगः - ॐ अस्य श्रीभुव... प्रणवाय ब्रह्मणे उद्गीथाय... विनियोगः । ॐ अस्य श्रीमहा... श्रीः । ॐ नमश्चण्डिकायै ।... ॐ ह्रीं श्रीं क्लीं गणाध्... ॐ महामार्यै नमः । महामाया... पार्वत्युवाच - भगवन् वेदत... श्रीगणेशाय नमः । श्रीमहाल... ॐ ह्रीं ऐं ह्रीं महावाण्य... ध्यानम् श्रीमच्चन्दनचर्चि... ॐ अद्भुताय नमः । अद्भुतचा... ॐ सुमुख्यै नमः । ॐ शेमुष्... ॐ अम्बायै नमः । ॐ अम्बालि... ॐ अस्यश्री मूकाम्बिकायाः ... श्रीभैरव उवाच । अस्य श्री... अस्य श्री मेधादक्षिणामूर्... ॐ नमो भगवते दक्षिणामूर्तय... गर्गसंहितातः ॐ कालिन्द्य... अस्य श्रीयोगेश्वरीसहस्रना... ॐ योगिन्यै नमः । योगमायाय... देव्युवाच - भगवन्सर्वशास्... सोन्दूर श्रीकृष्ण अवधूतवि... वन्दे वृन्दावनानन्दा राधि... ॐ श्रीराधायै नमः । राधिका... ॐ श्रीराधायै नमः । राधिका... ॐ अस्य श्रीरामसहस्रनाममाल... ॐ आर्यश्रेष्ठाय नमः । धरा... सङ्कल्पः - यजमानः, आचम्य,... ॐ नमो भगवते वासुदेवाय । ॐ... ॐ स्थिराय नमः । स्थाणवे ।... न्यासः । अस्य श्रीरुद्रसह... अथ श्रीरेणुकातन्त्रान्तर्... सिन्दूरारुणविग्रहां त्रिन... ॐ श्रियै नमः । वासुदेवमहि... ॐ नित्यागतायै नमः । ॐ अनन... ॐ श्रीवराहाय नमः । भूवराह... ॐ वल्ल्यै नमः । ॐ वल्लीश्... ॐ श्रीवाग्मत्याः सहस्रनाम... ॐ श्रीगणेशाय नमः । श्रीनन... वराहमुख्यै विद्महे । दण्ड... ध्यानम् - ओङ्कारबीजाक्षरी... शुक्लाम्बरधरं विष्णुं शशि... ॐ क्लीं विट्टलाय नमः । पा... पूर्वन्यासः । श्रीवेदव्या... श्रीविष्णुसहस्रनामावलिः प... रुद्र उवाच । संसारसागराद... ॐ श्रीगणेशाय नमः । ॐ विष... श्रीशिवाय गुरवे श्रीवीरभ... वेङ्कटेशस्य नाम्नां हि सह... ॐ श्री गुरुभ्यो नमः । अथ ... ॐ शङ्कराय नमः । ॐ श्रीधरा... ॐ गाढध्वान्तनिमज्जनप्रमुष... ॐ अमिताभाषिणे नमः । ॐ अघह... ॐ श्रीगणेशाय नमः । ॐ श्री... विनियोगः - अस्य श्रीशारिक... अस्य श्रीशास्तृशवर्णसहस्र... ॐ अस्य श्री शिवकामसुन्दरी... अस्य श्रीशिवकामसुन्दरीसहस... ॐ अखिलेश्वर्यै नमः । अग्न... ॐ स्थिराय नमः । ॐ स्थाणवे... ॐ श्री गणेशाय नमः । अथ श्... ॐ ओङ्कारकण्ठनिलयाय नमः । ... ॐ ॐकारनिलयात्मस्थाय नमः ।... श्री विष्णुरुवाच ॐ भवाय ... अस्य श्रीशिवसहस्रनामस्तोत... ॐ सौभाग्यलक्ष्म्यै नमः । ... ॐ राधिकेशाय नमः । ॐ जगन्न... सद्गुरु श्रीधरस्वामिनाप्र... ईशानमुखपूजा- ॐ जगद्भुवे न... ॐ वचनभुवे नमः । पराय । शङ... ॐ रुद्रभुवनाय नमः । अनन्त... ॐ ब्रह्मभुवे नमः । भवाय ।... अघोर मुखपूजा । ॐ विश्वभुव... ॐ अचिन्त्य शक्तये नमः । अ... जपसाधना ॐ अस्य श्रीमहात्र... ॐ सङ्कटायै नमः । ॐ विजयाय... ॐ सङ्गीतालय-प्रतिष्ठित-भग... ॐ सीतायै नमः । उमायै । पर... ॐ श्रीचक्राय नमः । ॐ श्री... ॐ शुक्लाम्बरधरं विष्णुं श... ॐ श्री गणेशाय नमः । अस्य ... ॐ अस्य श्रीसुब्रह्मण्यसहस... बिल्वैर्वा चम्पकाद्यौर्वा... ध्यानम् - ध्येयः सदा सवित... श्रीरुद्रयामले तन्त्रे श्... श्रीसूर्यसहस्रनामावलिः ॐ सुब्रह्मण्याय । सुरेशान... ॐ नमः । ओङ्कारनमोरूपाय । ... ॐ श्रीहयग्रीवाय नमः । श्र... स्वामिनारायणं कृष्णं भक्त... १. ॐ स्थिराय नमः । २. ॐ ... ॥ श्रीदुर्गादैव्ये नम: ॥ ... १. ॐ राजीवलोचनाय नमः । ... १ ॐ अचिन्त्यलक्षणायै नमः ... १ ॐ कालिन्द्यै नमः । २ ॐ... १ ॐ अन्नपूर्णायै नमः । ... १. ॐ नारसिंहाय नमः । २. ... १ ॐ देवकीनन्दनाय नमः । २... १ ॐ क्लीं देवाय नमः । २ ... १ ॐ श्रियै नमः । २ ॐ पद्... १ ॐ हनुमते नमः । २ ॐ श्र... ॥ श्रीकृष्णाय नमः ॥ १. ॐ ... १. ॐ विश्वविदे नम: । २. ... १. ॐ गणेश्वराय नम: । २.... १. ॐ ऐं ह्रीं श्रीं श्रीम... १ ॐ सीतायै नमः । २ ॐ उमा... १ ॐ ओंकाररूपिण्यै नमः । ... १. ॐ विश्वस्मै नमः । २.ॐ... १. ॐ श्रीराधायै नमः । २.... ॐ गणपतये नमः ॥ ॥ ॐ गणेश्व... श्रीशारिकासहस्रनामावलिः - विनियोगः - अस्य श्रीशारिक... हिंदू देवी देवतांची एक हजार नावे म्हणजेच सहस्त्रनामावली. हिंदू धर्मिय रोज सकाळी संध्याकाळी या नावांचा जप करतात.A sahasranamavali is a type of Hindu scripture in which a diety is referred to by 1000 or more different names.Many devout Hindus chant them every morning or evening. Tags : 1000godgoddesssahasranamavaliसहस्त्रनामावली श्रीशारिकासहस्रनामावलिः Translation - भाषांतर विनियोगः -अस्य श्रीशारिकाभगवतीसहस्रनामस्तोत्रस्य श्रीमहादेव ऋषिः,अनुष्टुप् छन्दः, श्रीशारिका भगवती देवता, शां बीजं,श्रीं शक्तिः, फ्रां कीलकं, धर्मार्थकाममोक्षार्थे विनियोगः ॥ऋष्यादिन्यासः - ॐ श्रीमहादेवऋषये नमः शिरसि ।अनुष्टुप्छन्दसे नमः मुखे ।श्रीशारिकाभगवती देवतायै नमः हृदये ।शां बीजाय नमः दक्षस्तने ।श्रीं शक्तये नमः वामस्तने ।फ्रां कीलकाय नमः नाभौ ।श्रीशारिकाभगवती प्रसादसिद्ध्यर्थे पाठे विनियोगाय नमः पादयोः ॥षडङ्गन्यासः ।करन्यासः -ह्रां श्रां अङ्गुष्ठाभ्यां नमः । ह्रीं श्रीं तर्जनीभ्यां नमः ।ह्रूं श्रूं मध्यमाभ्यां नमः । ह्रैं श्रैं अनामिकाभ्यां नमः ।ह्रौं श्रौं कनिष्ठाभ्यां नमः । ह्रः श्रः करतलकरपुष्ठाभ्यां नमः ।अङ्गन्यासः -ह्रां श्रां हृदयाय नमः । ह्रीं श्रीं शिरसे स्वाहा ।ह्रूं श्रूं शिखायै वषट् । ह्रैं श्रैं कवचाय हुम् ।ह्रौं श्रौं नेत्रत्रयाय वौषट् । ह्रः श्रः अस्त्राय फट् । ॥ध्यानम् ॥बालार्ककोटिसदृशीमिन्दुचूडां कराम्बुजैः ।वरचक्राभयासींश्च धारयन्तीं हसन्मुखीम् ॥१॥सिंहारूढां रक्तवस्त्रां रक्ताभरणभूषिताम् ।वामदेवाङ्कनिलयां हृत्पद्मे शारिकां भजे ॥२॥बालार्ककोटिद्युतिमिन्दुचूडां वरासिचक्राभयबाहुमाद्याम् ।सिंहाधिरूढां शिववामदेहलीनां भजे चेतसि शारिकेशीम् ॥३॥अथ सहस्रनामावलिः ॥ॐ श्रीशारिकायै नमः ।ॐ श्यामसुन्दर्यै नमः ।ॐ शिलायै नमः ।ॐ शार्यै नमः ।ॐ शुक्यै नमः ।ॐ शान्तायै नमः ।ॐ शान्तमानसगोचरायै नमः ।ॐ शान्तिस्थायै नमः ।ॐ शान्तिदायै नमः ।ॐ शान्त्यै नमः ।ॐ श्यामायै नमः ।ॐ श्यामपयोधरायै नमः ।ॐ देव्यै नमः ।ॐ शशाङ्कबिम्बाभायै नमः ।ॐ शशाङ्ककृतशेखरायै नमः ।ॐ शशाङ्कशोभिलावण्यायै नमः ।ॐ शशाङ्कमध्यवासिन्यै नमः ।ॐ शार्दूरलवाहायै नमः ।ॐ देवेश्यै नमः ।ॐ शार्दूलस्थित्यै नमः । २०ॐ उत्तमायै नमः ।ॐ शार्दूलचर्मवसनायै नमः ।ॐ शक्त्यै नमः ।ॐ शार्दूलवाहनायै नमः ।ॐ गौर्यै नमः ।ॐ पद्मावत्यै नमः ।ॐ पीनायै नमः ।ॐ पीनवक्षोजकुट्मलायै नमः ।ॐ पीताम्बरायै नमः ।ॐ रक्तदन्तायै नमः ।ॐ दाडिमीकुसुमोपमायै नमः ।ॐ स्फुरद्रत्नांशुखचितायै नमः ।ॐ रत्नमण्डलविग्रहायै नमः ।ॐ रक्ताम्बरधरायै नमः ।ॐ देव्यै नमः । -ॐ रत्नमालाविभूषणायै नमः ।ॐ रत्नसम्मूर्छितात्मने नमः ।ॐ दीप्तायै नमः ।ॐ दीप्तशिखायै नमः ।ॐ दयायै नमः । ४०ॐ दयावत्यै नमः ।ॐ कल्पलतायै नमः ।ॐ कल्पान्तदहनोपमायै नमः ।ॐ भैरव्यै नमः ।ॐ भीमनादायै नमः ।ॐ भयानकमुख्यै नमः ।ॐ भगायै नमः ।ॐ कारायै नमः ।ॐ कारुण्यरूपायै नमः ।ॐ भगमालाविभूषणायै नमः ।ॐ भगेश्वर्यै नमः ।ॐ भगस्थायै नमः ।ॐ कुरुकुल्लायै नमः ।ॐ कृशोदर्यै नमः ।ॐ कादम्बर्यै नमः ।ॐ पटोत्कृष्टायै नमः ।ॐ परमायै नमः ।ॐ परमेश्वर्यै नमः ।ॐ सत्यै नमः ।ॐ सरस्वत्यै नमः । ६०ॐ सत्यायै नमः ।ॐ सत्यासत्यस्वरूपिण्यै नमः ।ॐ परम्परायै नमः ।ॐ पटाकारायै नमः ।ॐ पाटलायै नमः ।ॐ पाटलप्रभायै नमः ।ॐ पद्मिन्यै नमः ।ॐ पद्मवदनायै नमः ।ॐ पद्मायै नमः ।ॐ पद्माकरायै नमः ।ॐ शिवायै नमः ।ॐ शिवाश्रयायै नमः ।ॐ शरच्छान्तायै नमः ।ॐ शच्यै नमः ।ॐ रम्भायै नमः ।ॐ विभावर्यै नमः ।ॐ द्युमणये नमः ।ॐ तरणायै नमः ।ॐ पाठायै नमः ।ॐ पीठेश्यै नमः । ८०ॐ पीवराकृत्यै नमः ।ॐ अचिन्त्यायै नमः ।ॐ मुसलाधारायै नमः ।ॐ मातङ्ग्यै नमः ।ॐ मधुरस्वनायै नमः ।ॐ वीणागीतप्रियायै नमः ।ॐ गाथायै नमः ।ॐ गारुड्यै नमः ।ॐ गरुडध्वजायै नमः ।ॐ अतीव सुन्दराकारायै नमः ।ॐ सुन्दर्यै नमः ।ॐ सुन्दरालकायै नमः ।ॐ अलकायै नमः ।ॐ नाकमध्यस्थायै नमः ।ॐ नाकिन्यै नमः ।ॐ नाकिपूजितायै नमः ।ॐ पातालेश्वरपूज्यायै नमः ।ॐ पातालतलचारिण्यै नमः ।ॐ अनन्तायै नमः ।ॐ अनन्तरूपायै नमः । १००ॐ अज्ञातायै नमः ।ॐ ज्ञानवर्धिन्यै नमः ।ॐ अमेयायै नमः ।ॐ अप्रमेयायै नमः ।ॐ अनन्तायै नमः ।ॐ आदित्यरूपिण्यै नमः ।ॐ द्वादशादित्यसम्पूज्यायै नमः ।ॐ शम्यै नमः ।ॐ श्यामाकबीजिन्यै नमः ।ॐ विभासायै नमः ।ॐ भासुरवर्णायै नमः ।ॐ समस्तासुरघातिन्यै नमः ।ॐ सुधामय्यै नमः ।ॐ सुधामूर्त्यै नमः ।ॐ सुधायै नमः ।ॐ सर्वप्रियङ्कर्यै नमः ।ॐ सुखदायै नमः ।ॐ सुरेशान्यै नमः ।ॐ कृशानुवल्लभायै नमः ।ॐ हविषे नमः । १२०ॐ स्वाहायै नमः ।ॐ स्वाहेशनेत्रायै नमः ।ॐ अग्निवक्त्रायै नमः ।ॐ अग्नितर्पितायै नमः ।ॐ सोमसूर्याग्निनेत्रायै नमः ।ॐ भूर्भुवःस्वःस्वरूपिण्यै नमः ।ॐ भूम्यै नमः ।ॐ भूदेवपूज्यायै नमः ।ॐ स्वयम्भुवे नमः ।ॐ स्वात्मपूजकायै नमः ।ॐ स्वयम्भूपुष्पमालाढ्यायै नमः ।ॐ स्वयम्भूपुष्पवल्लभायै नमः ।ॐ आनन्दकन्दल्यै नमः ।ॐ कन्दायै नमः ।ॐ स्कन्दमात्रे नमः ।ॐ शिलालयायै नमः ।ॐ चेतनायै नमः ।ॐ चिद्भवाकारायै नमः ।ॐ भवपत्न्यै नमः ।ॐ भयापहायै नमः । १४०ॐ विघ्नेश्वर्यै नमः ।ॐ गणेशान्यै नमः ।ॐ विघ्नविध्वंसिन्यै नमः ।ॐ निशायै नमः ।ॐ वश्यायै नमः ।ॐ वशिजनस्तुत्यायै नमः ।ॐ स्तुत्यै नमः ।ॐ श्रुतिधरायै नमः ।ॐ श्रुत्यै नमः ।ॐ शास्त्रविधानविज्ञायै नमः ।ॐ वेदशास्त्रार्थकोविदायै नमः ।ॐ वेद्यायै नमः ।ॐ विद्यामय्यै नमः ।ॐ वेदमय्यै नमः । -ॐ विद्यायै नमः ।ॐ विधातृवरदायै नमः ।ॐ वध्वै नमः ।ॐ वधूरूपायै नमः ।ॐ वधूपूज्यायै नमः ।ॐ वधूपानप्रतर्पितायै नमः । १६०ॐ वधूपूजनसन्तुष्टायै नमः ।ॐ वधूमालाविभूषणायै नमः ।ॐ वामायै नमः ।ॐ वामेश्वर्यै नमः ।ॐ वाम्यायै नमः ।ॐ कुलाकुलविचारिण्यै नमः ।ॐ वितर्कतर्कनिलयायै नमः ।ॐ प्रलयानलसन्निभायै नमः ।ॐ यज्ञेश्वर्यै नमः ।ॐ यज्ञमुखायै नमः ।ॐ याजकायै नमः ।ॐ यज्ञपात्रकायै नमः ।ॐ यक्षेश्वर्यै नमः ।ॐ यक्षधात्र्यै नमः ।ॐ पार्वत्यै नमः ।ॐ पर्वताश्रयायै नमः ।ॐ पिलम्पिलायै नमः ।ॐ पदस्थानायै नमः ।ॐ पददायै नमः ।ॐ नरकान्तकायै नमः । १८०ॐ नार्यै नमः ।ॐ नर्मप्रियायै नमः ।ॐ श्रीदायै नमः ।ॐ श्रीदश्रीदायै नमः ।ॐ शरायुधायै नमः ।ॐ कामेश्वर्यै नमः ।ॐ रत्यै नमः ।ॐ हूत्यै नमः ।ॐ आहुत्यै नमः ।ॐ हव्यवाहनायै नमः ।ॐ हरेश्वर्यै नमः ।ॐ हरिवध्वै नमः ।ॐ हाटकाङ्गदमण्डितायै नमः ।ॐ हपुषायै नमः ।ॐ स्वर्गत्यै नमः ।ॐ वैद्यायै नमः ।ॐ सुमुखायै नमः ।ॐ महौषध्यै नमः ।ॐ सर्वरोगहरायै नमः ।ॐ माध्व्यै नमः । २००ॐ मधुपानपरायणायै नमः ।ॐ मधुस्थितायै नमः ।ॐ मधुमय्यै नमः ।ॐ मधुदानविशारदायै नमः ।ॐ मधुतृप्तायै नमः ।ॐ मधुरूपायै नमः ।ॐ मधूककुसुमप्रभायै नमः ।ॐ माधव्यै नमः ।ॐ माधवीवल्ल्यै नमः ।ॐ मधुमत्तायै नमः ।ॐ मदालसायै नमः ।ॐ मारप्रियायै नमः ।ॐ मारपूज्यायै नमः ।ॐ मारदेवप्रियङ्कर्यै नमः ।ॐ मारेश्यै नमः ।ॐ मृत्युहरायै नमः ।ॐ हरिकान्तायै नमः ।ॐ मनोन्मनायै नमः ।ॐ महावैद्यप्रियायै नमः ।ॐ वैद्यायै नमः । २२०ॐ वैद्याचारायै नमः ।ॐ सुरार्चितायै नमः ।ॐ सामन्तायै नमः ।ॐ पीनवपुष्यै नमः ।ॐ गुट्यै नमः ।ॐ गुर्व्यै नमः ।ॐ गरीयस्यै नमः ।ॐ कालान्तकायै नमः ।ॐ कालमुख्यै नमः ।ॐ कठोरायै नमः ।ॐ करुणामय्यै नमः ।ॐ नीलायै नमः ।ॐ नाभ्यै नमः ।ॐ वागीश्यै नमः ।ॐ दूर्वायै नमः ।ॐ नीलसरस्वत्यै नमः ।ॐ अपारायै नमः ।ॐ पारगायै नमः ।ॐ गम्यायै नमः ।ॐ गत्यै नमः । २४०ॐ प्रीत्यै नमः ।ॐ पयोधरायै नमः ।ॐ पयोदसदृशच्छायायै नमः ।ॐ पारदाकृतिलालसायै नमः ।ॐ सरोजनिलयायै नमः ।ॐ नीत्यै नमः ।ॐ कीर्त्यै नमः ।ॐ कीर्तिकर्यै नमः ।ॐ कथायै नमः ।ॐ काश्यै नमः ।ॐ काम्यायै नमः ।ॐ कपर्दीशायै नमः ।ॐ काशपुष्पोपमायै नमः ।ॐ रमायै नमः ।ॐ रामायै नमः ।ॐ रामप्रियायै नमः ।ॐ रामभद्रदेवसमर्चितायै नमः ।ॐ रामसम्पूजितायै नमः ।ॐ रामसिद्धिदायै नमः ।ॐ रामराज्यदायै नमः । २६०ॐ रामभद्रार्चितायै नमः ।ॐ रेवायै नमः ।ॐ देवक्यै नमः ।ॐ देववत्सलायै नमः ।ॐ देवपूज्यायै नमः ।ॐ देववन्द्यायै नमः ।ॐ देवदावनचर्चितायै नमः ।ॐ दूत्यै नमः ।ॐ द्रुतगत्यै नमः ।ॐ दम्भायै नमः ।ॐ दामिन्यै नमः ।ॐ विजयायै नमः ।ॐ जयायै नमः ।ॐ अशेषसुरसम्पूज्यायै नमः ।ॐ निःशेषासुरसूदिन्यै नमः ।ॐ वटिन्यै नमः ।ॐ वटमूलस्थायै नमः ।ॐ लास्यहास्यैकवल्लभायै नमः ।ॐ अरूपायै नमः ।ॐ निर्गुणायै नमः । २८०ॐ सत्यायै नमः ।ॐ सदासन्तोषवर्धिन्यै नमः ।ॐ सोम्यायै नमः ।ॐ यजुर्वहायै नमः ।ॐ याम्यायै नमः ।ॐ यमुनायै नमः ।ॐ यामिन्यै नमः ।ॐ यम्यै नमः ।ॐ दाक्षायै नमः ।ॐ दयायै नमः ।ॐ वरदायै नमः ।ॐ दाल्भ्यसेव्यायै नमः ।ॐ पुरन्दर्यै नमः ।ॐ पौरन्दर्यै नमः ।ॐ पुलोमेश्यै नमः ।ॐ पौलोम्यै नमः ।ॐ पुलकाङ्कुरायै नमः ।ॐ पुरस्थायै नमः ।ॐ वनभुवे नमः ।ॐ वन्यायै नमः । ३००ॐ वानर्यै नमः ।ॐ वनचारिण्यै नमः ।ॐ समस्तवर्णनिलयायै नमः ।ॐ समस्तवर्णपूजितायै नमः ।ॐ समस्तवरवर्णाढ्यायै नमः ।ॐ समस्तगुरुवल्लभायै नमः ।ॐ समस्तमुण्डमालाढ्यायै नमः ।ॐ मालिन्यै नमः ।ॐ मधुपस्वनायै नमः ।ॐ कोशप्रदायै नमः ।ॐ कोशवासायै नमः ।ॐ चमत्कृत्यै नमः ।ॐ अलम्बुसायै नमः ।ॐ हासदायै नमः ।ॐ सदसद्रूपायै नमः ।ॐ सर्ववर्णमय्यै नमः ।ॐ स्मृत्यै नमः ।ॐ सर्वाक्षरमय्यै नमः ।ॐ विद्यायै नमः ।ॐ मूलविद्येश्वर्यै नमः । ३२०ॐ ईश्वर्यै नमः ।ॐ अकारायै नमः ।ॐ षोडशाकारायै नमः ।ॐ काराबन्धविमोचिन्यै नमः ।ॐ ककारव्यञ्जनायै नमः ।ॐ आक्रान्तायै नमः ।ॐ सर्वमन्त्राक्षरालयायै नमः ।ॐ अणुरूपायै नमः ।ॐ अमालायै नमः ।ॐ त्रैगुण्यायै नमः ।ॐ अपराजितायै नमः ।ॐ अम्बिकायै नमः ।ॐ अम्बालिकायै नमः ।ॐ अम्बायै नमः ।ॐ अनन्तगुणमेखलायै नमः ।ॐ अपर्णायै नमः ।ॐ पर्णशालायै नमः ।ॐ साट्टहासायै नमः ।ॐ हसन्तिकायै नमः ।ॐ अद्रिकन्यायै नमः । ३४०ॐ अट्टहासायै नमः ।ॐ अजरायै नमः ।ॐ अस्यायै नमः । -ॐ अरुन्धत्यै नमः ।ॐ अब्जाक्ष्यै नमः ।ॐ अब्जिन्यै नमः ।ॐ देव्यै नमः । -ॐ अम्बुजासनपूजितायै नमः ।ॐ अब्जहस्तायै नमः ।ॐ अब्जपादायै नमः ।ॐ अब्जपूजनतोषितायै नमः ।ॐ अकारमातृकायै नमः ।ॐ देव्यै नमः । -ॐ सर्वानन्दकर्यै नमः ।ॐ कलायै नमः ।ॐ आनन्दसुन्दर्यै नमः ।ॐ आद्यायै नमः ।ॐ आघूर्णारुणलोचनायै नमः ।ॐ आदिदेवान्तकायै नमः ।ॐ अक्रूरायै नमः । ३६०ॐ आदित्यकुलभूषणायै नमः ।ॐ आम्बीजमण्डनायै नमः ।ॐ देव्यै नमः । -ॐ आकारमातृकावल्यै नमः ।ॐ इन्दुस्तुतायै नमः ।ॐ इन्दुबिम्बास्यायै नमः ।ॐ इनकोटिसमप्रभायै नमः ।ॐ इन्दिरायै नमः ।ॐ मन्दुराशालायै नमः ।ॐ इतिहासायै नमः ।ॐ कथायै नमः ।ॐ स्मृत्यै नमः ।ॐ इलायै नमः ।ॐ इक्षुरसास्वादायै नमः ।ॐ इकाराक्षरभूषितायै नमः ।ॐ इन्द्रस्तुतायै नमः ।ॐ इन्द्रपूज्यायै नमः ।ॐ इन्दुबिम्बास्यायै नमः ।ॐ इनभद्रायै नमः ।ॐ इनेश्वर्यै नमः । ३८०ॐ इभगत्यै नमः ।ॐ इभगीत्यै नमः ।ॐ इकाराक्षरमातृकायै नमः ।ॐ ईश्वर्यै नमः ।ॐ भवप्रख्यायै नमः ।ॐ ईशान्यै नमः ।ॐ ईश्वरवल्लभायै नमः ।ॐ ईशायै नमः ।ॐ कामकलायै नमः ।ॐ देव्यै नमः । -ॐ ईकाराश्रितमातृकायै नमः ।ॐ उग्रप्रभायै नमः ।ॐ उग्रचित्तायै नमः ।ॐ उग्रवामाङ्गवासिन्यै नमः ।ॐ उषायै नमः ।ॐ वैष्णवपूज्यायै नमः ।ॐ उग्रतारायै नमः ।ॐ उल्मुकाननायै नमः ।ॐ उमेश्वर्यै नमः ।ॐ ईश्वर्यै नमः । ४००ॐ श्रेष्ठायै नमः ।ॐ उदकस्थायै नमः ।ॐ उदेश्वर्यै नमः ।ॐ उदकायै नमः ।ॐ अच्छोदकदायै नमः ।ॐ उकारोद्भासमातृकायै नमः ।ॐ ऊष्मायै नमः ।ॐ ऊषायै नमः ।ॐ ऊषणायै नमः ।ॐ उचितवरप्रदायै नमः ।ॐ ऋणहर्त्र्यै नमः ।ॐ ऋकारेश्यै नमः ।ॐ ऋऌवर्णायै नमः ।ॐ ऌवर्णभाजे नमः ।ॐ ॡकारभ्रुकुट्यै नमः ।ॐ बालायै नमः ।ॐ बालादित्यसमप्रभायै नमः ।ॐ एणाङ्कमुकुटायै नमः ।ॐ ईहायै नमः ।ॐ एकाराक्षरबीजितायै नमः । ४२०ॐ एणप्रियायै नमः ।ॐ एणमध्यवासिन्यै नमः ।ॐ एणवत्सलायै नमः ।ॐ एणाङ्कमध्यसंस्थायै नमः ।ॐ एकारोद्भासकूटिन्यै नमः ।ॐ ऐकारोद्भासकूटिन्यै नमः ।ॐ ओङ्कारशेखरायै नमः ।ॐ देव्यै नमः । -ॐ औचित्यपदमण्डितायै नमः ।ॐ अम्भोजनिलयस्थानायै नमः ।ॐ अःस्वरूपायै नमः ।ॐ स्वर्गत्यै नमः ।ॐ षोडशस्वररूपायै नमः ।ॐ षोडशस्वरगायिन्यै नमः ।ॐ षोडश्यै नमः ।ॐ षोडशाकारायै नमः ।ॐ कमलायै नमः ।ॐ कमलोद्भवायै नमः ।ॐ कामेश्वर्यै कामेश्वरायै नमः । -ॐ कलाभिज्ञायै नमः । ४४०ॐ कुमार्यै नमः ।ॐ कुटिलालकायै नमः ।ॐ कुटिलायै नमः ।ॐ कुटिलाकारायै नमः ।ॐ कुटुम्बसंयुतायै नमः ।ॐ शिवायै नमः ।ॐ कुलाकुलपदेशान्यै नमः ।ॐ कुलेश्यै नमः ।ॐ कुब्जिकायै नमः ।ॐ कलायै नमः ।ॐ कामायै नमः ।ॐ कामप्रियायै नमः ।ॐ कीरायै नमः ।ॐ कमनीयायै नमः ।ॐ कपर्दिन्यै नमः ।ॐ कालिकायै नमः ।ॐ भद्रकाल्यै नमः ।ॐ कालकामान्तकारिण्यै नमः ।ॐ कपालिन्यै नमः ।ॐ कपालेश्यै नमः । ४६०ॐ कर्पूरचयचर्चितायै नमः ।ॐ कादम्वर्यै नमः ।ॐ कोमलाङ्ग्यै नमः ।ॐ काश्मीर्यै नमः ।ॐ कुङ्कुमद्युत्यै नमः ।ॐ कुन्तायै नमः ।ॐ कूर्चार्णबीजाढ्यायै नमः ।ॐ कमनीयायै नमः ।ॐ कुलाकुलायै नमः ।ॐ करालास्यायै नमः ।ॐ करालाक्ष्यै नमः ।ॐ विकरालस्वरूपिण्यै नमः ।ॐ काम्यालकायै नमः ।ॐ कामदुघायै नमः ।ॐ कामिन्यै नमः ।ॐ कामपालिन्यै नमः ।ॐ कन्थाधरायै नमः ।ॐ कृपाकर्त्र्यै नमः ।ॐ ककाराक्षरमातृकायै नमः ।ॐ खड्गहस्तायै नमः । ४८०ॐ खर्परेश्यै नमः ।ॐ खेचर्यै नमः ।ॐ खगगामिन्यै नमः ।ॐ खेचरीमुद्रया युक्तायै नमः ।ॐ खेचरत्वप्रदायिन्यै नमः ।ॐ खगासनायै नमः ।ॐ खलोलाक्ष्यै नमः ।ॐ खेटेश्यै नमः ।ॐ खलनाशिन्यै नमः ।ॐ खेवटकायुधहस्तायै नमः ।ॐ खरांशुद्युतिसन्निभायै नमः ।ॐ खान्तायै नमः ।ॐ खबीजनिलयायै नमः ।ॐ खकारोल्लासमातृकायै नमः ।ॐ वैखर्यै नमः ।ॐ बीजनिलयायै नमः ।ॐ खस्थायै नमः ।ॐ खेचरवल्लभायै नमः ।ॐ गुण्यायै नमः ।ॐ गजास्यजनन्यै नमः । ५००ॐ गणेशवरदायै नमः ।ॐ गयायै नमः ।ॐ गोदावर्यै नमः ।ॐ गदाहस्तायै नमः ।ॐ गङ्गाधरवरप्रदायै नमः ।ॐ गोधायै नमः ।ॐ गोवाहनेशान्यै नमः ।ॐ गरलाशनवल्लभायै नमः ।ॐ गाम्भीर्यभूषणायै नमः ।ॐ गङ्गायै नमः ।ॐ गकारार्णविभूषणायै नमः ।ॐ घृणायै नमः ।ॐ घोणाकरस्तुत्यायै नमः ।ॐ घुर्घुरायै नमः ।ॐ घोरनादिन्यै नमः ।ॐ घटस्थायै नमः ।ॐ घटजसेव्यायै नमः ।ॐ घनरूपायै नमः ।ॐ घुणेश्वर्यै नमः ।ॐ घनवाहनसेव्यायै नमः । ५२०ॐ घकाराक्षरमातृकायै नमः ।ॐ ङान्तायै नमः ।ॐ ङवर्णनिलयायै नमः ।ॐ ङाणुरूपायै नमः ।ॐ ङणालयायै नमः ।ॐ ङेशायै नमः ।ॐ ङेन्तायै नमः ।ॐ ङनाजाप्यायै नमः ।ॐ ङवर्णाक्षरभूषणायै नमः ।ॐ चामीकररुचये नमः ।ॐ चान्द्र्यै नमः ।ॐ चन्द्रिकायै नमः ।ॐ चन्द्ररागिण्यै नमः ।ॐ चलायै नमः ।ॐ चलञ्चलायै नमः ।ॐ चेलायै नमः ।ॐ चन्द्रायै नमः ।ॐ चन्द्रकरायै नमः ।ॐ चल्यै नमः ।ॐ चञ्चुरीकस्वनालापायै नमः । ५४०ॐ चमत्कारस्वरूपिण्यै नमः ।ॐ चटुल्यै नमः ।ॐ चाटुक्यै नमः ।ॐ चार्व्यै नमः ।ॐ चम्पायै नमः ।ॐ चम्पकसन्निभायै नमः ।ॐ चीनांशुकधरायै नमः ।ॐ चाट्व्यै नमः ।ॐ चकारार्णविभूषणायै नमः ।ॐ छत्र्यै नमः ।ॐ छत्रधरायै नमः ।ॐ छिन्नायै नमः ।ॐ छिन्नमस्तायै नमः ।ॐ छटच्छवये नमः ।ॐ छायासुतप्रियायै नमः ।ॐ छायायै नमः ।ॐ छवर्णामलमातृकायै नमः ।ॐ जगदम्बायै नमः ।ॐ जगज्ज्योतिषे नमः ।ॐ ज्योतीरूपायै नमः । ५६०ॐ जटाधरायै नमः ।ॐ जयदायै नमः ।ॐ जयकर्त्र्यै नमः ।ॐ जयस्थायै नमः ।ॐ जयहासिन्यै नमः ।ॐ जगत्प्रियायै नमः ।ॐ जगत्पूज्यायै नमः ।ॐ जगत्कर्त्र्यै नमः ।ॐ जरातुरायै नमः ।ॐ ज्वरघ्न्यै नमः ।ॐ जम्भदमन्यै नमः ।ॐ जगत्प्राणायै नमः ।ॐ जयावहायै नमः ।ॐ जम्भारिवरदायै नमः ।ॐ जैत्र्यै नमः ।ॐ जीवनायै नमः ।ॐ जीववाक्प्रदायै नमः ।ॐ जाग्रत्यै नमः ।ॐ जगन्निद्रायै नमः ।ॐ जगद्योन्यै नमः । ५८०ॐ जलन्धरायै नमः ।ॐ जालन्धरधरायै नमः ।ॐ जायायै नमः ।ॐ जकाराक्षरमातृकायै नमः ।ॐ झम्पायै नमः ।ॐ झिञ्झेश्वर्यै नमः ।ॐ झान्तायै नमः ।ॐ झकाराक्षरमातृकायै नमः ।ॐ ञाणुरूपायै नमः ।ॐ ञिणावासायै नमः ।ॐ ञकोरेश्यै नमः ।ॐ ञणायुधायै नमः ।ॐ ञवर्गबीजभूषाढ्यायै नमः ।ॐ ञकाराक्षरमातृकायै नमः ।ॐ टङ्कायुधायै नमः ।ॐ टकाराढ्यायै नमः ।ॐ टोटाक्ष्यै नमः ।ॐ टसुकुन्तलायै नमः ।ॐ टङ्कायुधायै नमः ।ॐ टलीरूपायै नमः । ६००ॐ टकाराक्षरमातृकायै नमः ।ॐ ठक्कुरायै नमः ।ॐ ठक्कुरेशान्यै नमः ।ॐ ठकारत्रितयेश्वर्यै नमः ।ॐ ठःस्वरूपायै नमः ।ॐ ठवर्णाढ्यायै नमः ।ॐ ठकाराक्षरमातृकायै नमः ।ॐ डक्कायै नमः ।ॐ डक्केश्वर्यै नमः ।ॐ डिम्भायै नमः ।ॐ डवर्णाक्षरमातृकायै नमः ।ॐ ढिण्यै नमः ।ॐ ढेहायै नमः ।ॐ ढिल्लहस्तायै नमः ।ॐ ढकाराक्षरमातृकायै नमः ।ॐ णेशायै नमः ।ॐ णान्तायै नमः ।ॐ णवर्गान्तायै नमः ।ॐ णकाराक्षरभूषणायै नमः ।ॐ तुर्यै नमः । ६२०ॐ तुर्यायै नमः ।ॐ तुलारूपायै नमः ।ॐ त्रिपुरायै नमः ।ॐ तामसप्रियायै नमः ।ॐ तोतुलायै नमः ।ॐ तारिण्यै नमः ।ॐ तारायै नमः ।ॐ सप्तविंशतिरूपिण्यै नमः ।ॐ त्रिपुरायै नमः ।ॐ त्रिगुणायै नमः ।ॐ ध्येयायै नमः ।ॐ त्र्यम्बकेश्यै नमः ।ॐ त्रिलोकधृते नमः ।ॐ त्रिवर्गेश्यै नमः ।ॐ त्रय्यै नमः ।ॐ त्र्यक्ष्यै नमः ।ॐ त्रिपदायै नमः ।ॐ वेदरूपिण्यै नमः ।ॐ त्रिलोकजनन्यै नमः ।ॐ त्रात्रे नमः । ६४०ॐ त्रिपुरेश्वरपूजितायै नमः ।ॐ त्रिकोणस्थायै नमः ।ॐ त्रिकोणेश्यै नमः ।ॐ कोणत्रयनिवासिन्यै नमः ।ॐ त्रिकोणपूजनतुष्टायै नमः ।ॐ त्रिकोणपूजनश्रितायै नमः ।ॐ त्रिकोणदानसंलग्नायै नमः ।ॐ सर्वकोणशुभार्थदायै नमः ।ॐ वसुकोणस्थितायै नमः ।ॐ देव्यै नमः । -ॐ वसुकोणार्थवादिन्यै नमः ।ॐ वसुकोणपूजितायै नमः ।ॐ षट्चक्रक्रमवासिन्यै नमः ।ॐ नागपत्रस्थितायै नमः ।ॐ शार्यै नमः ।ॐ त्रिवृत्तपूजनार्थदायै नमः ।ॐ चतुर्द्वाराग्रगायै नमः ।ॐ चक्रबाह्यान्तरनिवासिन्यै नमः ।ॐ तामस्यै नमः ।ॐ तोमरप्रख्यायै नमः । ६६०ॐ तुम्बुरुस्वननादिन्यै नमः ।ॐ तुलाकोटिस्वनायै नमः ।ॐ ताप्यै नमः ।ॐ तपसां फलवर्धिन्यै नमः ।ॐ तरलाक्ष्यै नमः ।ॐ तमोहर्त्र्यै नमः ।ॐ तारकासुरघातिन्यै नमः ।ॐ तर्यै नमः ।ॐ तरणिरूपायै नमः ।ॐ तकाराक्षरमातृकायै नमः ।ॐ स्थल्यै नमः ।ॐ स्थविररूपायै नमः ।ॐ स्थूलायै नमः ।ॐ स्थाल्यै नमः ।ॐ स्थलाब्जिन्यै नमः ।ॐ स्थावरेशायै नमः ।ॐ स्थूलमूख्यै नमः ।ॐ थकाराक्षरमातृकायै नमः ।ॐ दूतिकायै नमः ।ॐ शिवदूत्यै नमः । ६८०ॐ दण्डायुधधरायै नमः ।ॐ द्युत्यै नमः ।ॐ दयायै नमः ।ॐ दीनानुकम्पायै नमः ।ॐ दम्भोलिधरवल्लभायै नमः ।ॐ देशानुचारिण्यै नमः ।ॐ द्रेक्कायै नमः ।ॐ द्राविडेश्यै नमः ।ॐ दवीयस्यै नमः ।ॐ दाक्षायण्यै नमः ।ॐ द्रुमलतायै नमः ।ॐ देवमात्रे नमः ।ॐ अधिदेवतायै नमः ।ॐ दधिजायै नमः ।ॐ दुर्लभायै नमः ।ॐ देव्यै -? नमः ।ॐ देवतायै नमः ।ॐ परमाक्षरायै नमः ।ॐ दामोदरसुपूज्यायै नमः ।ॐ दामोदरवरप्रदायै नमः । ७००ॐ दनुपुत्र्यै नमः ।ॐ विनाशायै नमः ।ॐ दनुपुत्रकुलार्चितायै नमः ।ॐ दण्डहस्तायै नमः ।ॐ दण्डिपूज्यायै नमः ।ॐ दमदायै नमः ।ॐ दमस्थितायै नमः ।ॐ दशधेनुसुरूपायै नमः ।ॐ दकाराक्षरमातृकायै नमः ।ॐ धर्म्यायै नमः ।ॐ धर्मप्रसवे नमः ।ॐ धन्यायै नमः ।ॐ धनदायै नमः ।ॐ धनवर्धिन्यै नमः ।ॐ धृत्यै नमः ।ॐ धूत्यै नमः ।ॐ धूर्तायै नमः । -ॐ धन्यवध्वै नमः ।ॐ धकाराक्षरमातृकायै नमः ।ॐ नलिन्यै नमः । ७२०ॐ नालिकायै नमः ।ॐ नाप्यायै नमः ।ॐ नाराचायुधधारिण्यै नमः ।ॐ नीपोपवनमध्यस्थायै नमः ।ॐ नागरेश्यै नमः ।ॐ नरोत्तमायै नमः ।ॐ नरेश्वर्यै नमः ।ॐ नृपाराध्यायै नमः ।ॐ नृपपूज्यायै नमः ।ॐ नृपार्थदायै नमः ।ॐ नृपसेव्यायै नमः ।ॐ नृपवन्द्यायै नमः ।ॐ नरनारायणप्रसुवे नमः ।ॐ नर्तक्यै नमः ।ॐ नीरजाक्ष्यै नमः ।ॐ नवर्णाक्षरभूषणायै नमः ।ॐ पद्मेश्वर्यै नमः ।ॐ पद्ममुख्यै नमः ।ॐ पत्रयानायै नमः ।ॐ परापरायै नमः । ७४०ॐ पारावारसुतायै नमः ।ॐ पाठायै नमः ।ॐ परवर्गविमर्दिन्यै नमः ।ॐ पुवे नमः ।ॐ पुरारिवध्वै नमः ।ॐ पम्पायै नमः ।ॐ पत्न्यै नमः ।ॐ पत्रीशवाहनायै नमः ।ॐ पीवरांसायै नमः ।ॐ पतिप्राणायै नमः ।ॐ पीतलाक्ष्यै नमः ।ॐ पतिव्रतायै नमः ।ॐ पीठायै नमः ।ॐ पीठस्थितायै नमः ।ॐ अपीठायै नमः ।ॐ पीतालङ्कारभूषणायै नमः ।ॐ पुरूरवःस्तुतायै नमः ।ॐ पात्र्यै नमः ।ॐ पुत्रिकायै नमः ।ॐ पुत्रदायै नमः । ७६०ॐ प्रजायै नमः ।ॐ पुष्पोत्तंसायै नमः ।ॐ पुष्पवत्यै नमः ।ॐ पुष्पमालाविभूषणायै नमः ।ॐ पुष्पमालातिशोभाढ्यायै नमः ।ॐ पकाराक्षरमातृकायै नमः ।ॐ फलदायै नमः ।ॐ स्फीतवस्त्रायै नमः ।ॐ फेरवारावभीषणायै नमः ।ॐ फल्गुन्यै नमः ।ॐ फल्गुतीर्थस्थायै नमः ।ॐ फवर्णकृतमण्डलायै नमः ।ॐ बलदायै नमः ।ॐ बालखिल्यायै नमः ।ॐ बालायै नमः ।ॐ बलरिपुप्रियायै नमः ।ॐ बाल्यावस्थायै नमः ।ॐ बर्बरेश्यै नमः ।ॐ बकाराकृतिमातृकायै नमः ।ॐ भद्रिकायै नमः । ७८०ॐ भीमपत्न्यै नमः ।ॐ भीमायै नमः ।ॐ भर्गशिखायै नमः ।ॐ अभयायै नमः ।ॐ भयघ्न्यै नमः ।ॐ भीमनादायै नमः ।ॐ भयानकमुखेक्षणायै नमः ।ॐ भिल्लीश्वर्यै नमः ।ॐ भीतिहरायै नमः ।ॐ भद्रदायै नमः ।ॐ भद्रकारिण्यै नमः ।ॐ भद्रेश्वर्यै नमः ।ॐ भद्रधरायै नमः ।ॐ भद्राख्यायै नमः ।ॐ भाग्यवर्धिन्यै नमः ।ॐ भगमालायै नमः ।ॐ भगावासायै नमः ।ॐ भवान्यै नमः ।ॐ भवतारिण्यै नमः ।ॐ भगयोन्यै नमः । ८००ॐ भगाकारायै नमः ।ॐ भगस्थायै नमः ।ॐ भगरूपिण्यै नमः ।ॐ भगलिङ्गामृतप्रीतायै नमः ।ॐ भकाराक्षरमातृकायै नमः ।ॐ मान्यायै नमः ।ॐ मानप्रदायै नमः ।ॐ मीनायै नमः ।ॐ मीनकेतनलालसायै नमः ।ॐ मदोद्धतायै नमः ।ॐ मदोद्धृतायै नमः । -ॐ मनोन्मान्यायै नमः ।ॐ मेनायै नमः ।ॐ मैनाकवत्सलायै नमः ।ॐ मधुमत्तायै नमः ।ॐ मधुपूज्यायै नमः ।ॐ मधुदायै नमः ।ॐ मधुमाधव्यै नमः ।ॐ मांसाहारायै नमः ।ॐ मांसप्रीतायै नमः । ८२०ॐ मांसभक्ष्यायै नमः ।ॐ मांसदायै नमः ।ॐ मारार्तायै नमः ।ॐ मत्स्यरूपायै नमः ।ॐ मत्स्यधात्रे नमः ।ॐ महत्तरायै नमः ।ॐ मेरुशृङ्गाग्रतुङ्गास्यायै नमः ।ॐ मोदकाहारपूजितायै नमः ।ॐ मातङ्गिन्यै नमः ।ॐ मधुमत्तायै नमः ।ॐ मदमत्तायै नमः ।ॐ मदेश्वर्यै नमः ।ॐ मञ्जायै नमः ।ॐ मज्जायै नमः । -ॐ मुग्धाननायै नमः ।ॐ मुग्धायै नमः ।ॐ मकाराक्षरभूषणायै नमः ।ॐ यशस्विन्यै नमः ।ॐ यतीशान्यै नमः ।ॐ यत्नकर्त्र्यै नमः । ८४०ॐ यजुःप्रियायै नमः ।ॐ यज्ञधात्र्यै नमः ।ॐ यज्ञफलायै नमः ।ॐ यजुर्वेदऋचाम्फलायै नमः ।ॐ यशोदायै नमः ।ॐ यतिसेव्यायै नमः ।ॐ यात्रायै नमः ।ॐ यात्रिकवत्सलायै नमः ।ॐ योगेश्वर्यै नमः ।ॐ योगगम्यायै नमः ।ॐ योगेन्द्रजनवत्सलायै नमः ।ॐ यदुपुत्र्यै नमः ।ॐ यमघ्न्यै नमः ।ॐ यकाराक्षरमातृकायै नमः ।ॐ रत्नेश्वर्यै नमः ।ॐ रमानाथसेव्यायै नमः ।ॐ रथ्यायै नमः ।ॐ रजस्वलायै नमः ।ॐ राज्यदायै नमः ।ॐ राजराजेश्यै नमः । ८६०ॐ रोगहर्त्र्यै नमः ।ॐ रजोवत्यै नमः ।ॐ रत्नाकरसुतायै नमः ।ॐ रम्यायै नमः ।ॐ रात्र्यै नमः ।ॐ रात्रिपतिप्रभायै नमः ।ॐ रक्षोघ्न्यै नमः ।ॐ राक्षसेशान्यै नमः ।ॐ रक्षोनाथसमर्चितायै नमः ।ॐ रतिप्रियायै नमः ।ॐ रतिमुख्यायै नमः ।ॐ रकाराकृतिशेखरायै नमः ।ॐ लम्बोदर्यै नमः ।ॐ ललज्जिह्वायै नमः ।ॐ लास्यतत्परमानसायै नमः ।ॐ लूतातन्तुवितानास्यायै नमः ।ॐ लक्ष्म्यै नमः ।ॐ लज्जायै नमः ।ॐ लयालिन्यै नमः ।ॐ लोकेश्वर्यै नमः । ८८०ॐ लोकधात्र्यै नमः ।ॐ लाटस्थायै नमः ।ॐ लक्षणाकृत्यै नमः ।ॐ लम्बायै नमः ।ॐ लम्बकचोल्लासायै नमः ।ॐ लकाराकारवर्धिन्यै नमः ।ॐ लिङ्गेश्वर्यै नमः ।ॐ लिङ्गलिङ्गायै नमः ।ॐ लिङ्गमालायै नमः ।ॐ लसद्द्युत्यै नमः ।ॐ लक्ष्मीरूपायै नमः ।ॐ रसोल्लासायै नमः ।ॐ रामायै नमः ।ॐ रेवायै नमः ।ॐ रजस्वलायै नमः ।ॐ लयदायै नमः ।ॐ लक्षणायै नमः ।ॐ लोलायै नमः ।ॐ लकाराक्षरमातृकायै नमः ।ॐ वाराह्यै नमः । ९००ॐ वरदात्र्यै नमः ।ॐ वीरसुवे नमः ।ॐ वीरदायिन्यै नमः ।ॐ वीरेश्वर्यै नमः ।ॐ वीरजन्यायै नमः ।ॐ वीरचर्वणचर्चितायै नमः ।ॐ वरायुधायै नमः ।ॐ वराकायै नमः ।ॐ वामनायै नमः ।ॐ वामनाकृतये नमः ।ॐ वधूतायै नमः ।ॐ वधकायै नमः ।ॐ वध्यायै नमः ।ॐ वध्यभुवे नमः ।ॐ वाणिजप्रियायै नमः ।ॐ वसन्तलक्ष्म्यै नमः ।ॐ वटुक्यै नमः ।ॐ वटुकायै नमः ।ॐ वटुकेश्वर्यै नमः ।ॐ वटुप्रियायै नमः । ९२०ॐ वामनेत्रायै नमः ।ॐ वामाचारैकलालसायै नमः ।ॐ वार्तायै नमः ।ॐ वाम्यायै नमः ।ॐ वरारोहायै नमः ।ॐ वेदमात्रे नमः ।ॐ वसुन्धरायै नमः ।ॐ वयोयानायै नमः ।ॐ वयस्यायै नमः ।ॐ वकाराक्षरमातृकायै नमः ।ॐ शम्भुप्रियायै नमः ।ॐ शरच्चर्यायै नमः ।ॐ शाद्वलायै नमः ।ॐ शशिवत्सलायै नमः ।ॐ शीतद्युतये नमः ।ॐ शीतरसायै नमः ।ॐ शोणोष्ठ्यै नमः ।ॐ शीकरप्रदायै नमः ।ॐ श्रीवत्सलाञ्छनायै नमः ।ॐ शर्वायै नमः । ९४०ॐ शर्ववामाङ्गवासिन्यै नमः ।ॐ शशाङ्कामललक्ष्म्यै नमः ।ॐ शार्दूलतनवे नमः ।ॐ अद्रिजायै नमः ।ॐ शोषहर्त्र्यै नमः ।ॐ शमीमूलायै नमः ।ॐ शकाराकृतिशेखरायै नमः ।ॐ षोडश्यै नमः ।ॐ षोडशीरूपायै नमः ।ॐ षढायै नमः ।ॐ षोढायै नमः ।ॐ षडाननायै नमः ।ॐ षट्कूटायै नमः ।ॐ षड्रसास्वादायै नमः ।ॐ षडशीतिमुखाम्बुजायै नमः ।ॐ षडास्यजनन्यै नमः ।ॐ षष्ठायै नमः ।ॐ षण्ठायै नमः । -ॐ षवर्णाक्षरमातृकायै नमः ।ॐ सारस्वतप्रसुवे नमः । ९६०ॐ सर्वायै नमः ।ॐ सर्वगायै नमः ।ॐ सर्वतोमुखायै नमः ।ॐ समायै नमः ।ॐ सीतायै नमः ।ॐ सत्यै नमः ।ॐ मात्रे नमः ।ॐ सागराभयदायिन्यै नमः ।ॐ समस्तशापशमन्यै नमः ।ॐ सालभञ्ज्यै नमः ।ॐ सुदक्षिणायै नमः ।ॐ सुषुप्त्यै नमः ।ॐ सुरसायै नमः ।ॐ साध्व्यै नमः ।ॐ सामगायै नमः ।ॐ सामवेदजायै नमः ।ॐ सत्यप्रियायै नमः ।ॐ सोममुख्यै नमः ।ॐ सूत्रस्थायै नमः ।ॐ सूतवल्लभायै नमः । ९८०ॐ सनकेश्यै नमः ।ॐ सुनन्दायै नमः ।ॐ स्ववर्गस्थायै नमः ।ॐ सनातन्यै नमः ।ॐ सेतुभूतायै नमः ।ॐ समस्ताशायै नमः ।ॐ सकाराक्षरवल्लभायै नमः ।ॐ हालाहलप्रियायै नमः ।ॐ हेलायै नमः ।ॐ हाहारावविभूषणायै नमः ।ॐ हाहाहूहूस्वरूपायै नमः ।ॐ हलधात्र्यै नमः ।ॐ हलिप्रियायै नमः ।ॐ हरिनेत्रायै नमः ।ॐ घोररूपायै नमः ।ॐ हविष्याहुतिवल्लभायै नमः ।ॐ हं क्षं लं क्षः स्वरूपायै नमः ।ॐ सर्वमातृकपूजितायै नमः ।ॐ ॐ ऐं सौः ह्रीं महाविद्यायै नमः ।ॐ आं शां फ्रां हूं स्वरूपिण्यै नमः । १०००इति श्रीशारिकासहस्रनामावलिः सम्पूर्णा ॥इति श्रीशारिकादेव्या मन्त्रनामसहस्रकम् ॥ ॥फल श्रुति ॥पुण्यं पुण्यजनस्तुत्यं नुत्यं वैष्णवपूजितम् ।इदं यः पठते देवि श्रावयेद्यः शृणोति च ॥१॥स एव भगवान् देवः सत्यं सत्यं सुरेश्वरि ।एककालं द्विकालं वा त्रिकालं पठते नरः ॥२॥वामाचारपरो देवि तस्य पुण्यफलं शृणु ।मूकत्वं बधिरत्वं च कुष्ठं हन्याच्च श्वित्रिकाम् ॥३॥वातपित्तकफान् गुल्मान् रक्तस्रावं विषूचिकाम् ।सद्यः शमयते देवि श्रद्धया यः पठेन्निशि ॥४॥अपस्मारं कर्णपीडां शूलं रौद्रं भगन्दरम् ।मासमात्रं पठेद्यस्तु स रोगैर्मुच्यते ध्रुवम् ॥५॥भौमे शनिदिने वापि चक्रमध्ये पठेद्यदि ।सद्यस्तस्य महेशानि शारिका वरदा भवेत् ॥६॥चतुष्पथे पठेद्यस्तु त्रिरात्रं रात्रिव्यत्यये ।दत्त्वा बलिं सुरां मुद्रां मत्स्यं मांसं सभक्तकम् ॥७॥वब्बोलत्वग्रसाकीर्णं शारी प्रादुर्भविप्यति ।यः पठेद्देवि लोलायां चितायां शवसन्निधौ ॥८॥पायम्पायं त्रिवारं तु तस्य पुण्यफलं शृणु ।ब्रह्महत्यां गुरोर्हत्यां मद्यपानं च गोवधम् ॥९॥महापातकसङ्घातं गुरुतल्पगतोद्भवम् ।स्तेयं वा भ्रूणहत्यां वा नाशयेन्नात्र संशयः ॥१०॥स एव हि रमापुत्रो यशस्वी लोकपूजितः ।वरदानक्षमो देवि वीरेशो भूतवल्लभः ॥११॥चक्रार्चने पठेद्यस्तु साधकः शक्तिसन्निधौ ।त्रिवारं श्रद्धया युक्तः स भवेद्भैरवेश्वरः ॥१२॥किङ्किं न लभते देवि साधको वीरसाधकः ।पुत्रवान् धनवांश्चैव सत्याचारपरः शिवे ॥१३॥शक्तिं सम्पूज्य देवेशि पठेत् स्तोत्रं परामयम् ।इह लोके सुखं भुक्त्वा परत्र त्रिदिवं व्रजेत् ॥१४॥इति नामसहस्रं तु शारिकाया मनोरमम् ।गुह्याद्गुह्यतमं लोके गोपनीयं स्वयोनिवत् ॥१५॥॥ इति श्रीरुद्रयामले तन्त्रे दशविद्यारहस्येश्रीशारिकायाः सहस्रनामावलिः समाप्ता ॥ N/A References : N/A Last Updated : January 19, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP