मराठी मुख्य सूची|स्तोत्रे|सहस्रनामावली| तन्त्रराजतन्त्रे पूर्वपीठ... सहस्रनामावली ब्रह्मानन्दं परमसुखदं केव... अथ मूलम् । ॐ श्रीं ह्रीं ... ॐ श्रीगणेशाय नमः । श्वेता... श्रीअरुणाचलेश्वरसहस्रनामावली अर्धनारीश्वरसहस्रनामावलिः ॐ हिरण्यबाहवे हिरण्यवर्णा... श्रीहनुमत्सहस्रनामावलिः ॐ श्रीगणेशाय नमः । ॐ ब्र... ॐ इन्द्राय नमः । देवतमाय ... ॐ श्रीगणेशाय नमः । ॐ नमोद... ॐ अस्य श्रीसर्वसाम्राज्यम... ध्यानम् । कान्त्या काञ्चन... ॐ श्रीगणेशाय नमः । ॐ नका... ॐ अस्य कामकलाकालीसहस्रनाम... श्री गणेशाय नमः । श्रीकाम... कालोऽहम् । अस्य श्रीकालना... शिव उवाच- नाम्नां सहस्रं ... ॐ श्मशानकालिकायै नमः । ॐ ... अथ कुञ्चितपादसहस्रनामावलि... धनं दारान्सुतान्क्षेत्रं ... षड्वक्त्रं शिखिवाहनं त्रि... ॐ कृष्णाय नमः । श्रीवल्लभ... ॐ अस्य श्रीपुराणपुरुषोत्त... श्रीगणेशाय नमः । श्रीकेदा... सितमकरनिषण्णां शुभ्रवर्णा... श्रीगणेशाय नमः । श्रीसमर्... ॐ अस्य श्रीगणपतिगकारादिसह... ॐ सुमुखाय नमः । सुवहाय । ... ध्यानम् रक्तश्वेतहिरण्यनी... ध्यानम् - रक्तश्वेतहिरण्य... ॐ शं शां षं ह्रीं क्लीं ग... अथ ध्यानम् । सूर्यस्पर्धि... ॐ श्री गुरुभ्यो नमः । गुर... ॐ श्रीगणेशाय नमः । सर्वत्... अथ श्रीगोपालदिव्यसहस्रनाम... ॐ गवे नमः । ॐ गौविन्द्यै ... श्रीगुरुभ्यो नमः । श्रीका... ॐ अस्य श्रीप्रचण्डचण्डिका... अथ श्रीयोगेश्वरकवि द्वारा... अस्य श्रीज्वालामुखीसहस्रन... विश्वव्यापकवारिमध्यविलसच्... ॐ अस्य श्रीतारासहस्रनामस्... ॐ भुवनेश्यै नमः । ॐ भुवार... ॐ अस्य श्रीमहोग्रतारा दिव... वरिष्ठ उवाच - कथं नामसहस्... ॐ तुलस्यै नमः । ॐ श्रीप्र... ॐ श्रीमत्त्यागमहाराजाय नम... श्रीगणपतये नमः । ॐ अनेजते... ध्यानम् । उद्यद्भानुसहस्र... ॐ योगेशाय नमः । ॐ अमरप्रभ... महाकालभैरव ऋषिस्त्रिष्टुप... अस्य श्रीदक्षिणामूर्तिसहस... ॐ आदिदेवाय नमः । दयासिन्ध... ध्यानम् । स्फटिकरजतवर्णां... ऋषिच्छन्दांसि - अस्य श्री... तन्त्रराजतन्त्रे पूर्वपीठ... ध्यानम् । १. सिंहस्था शशि... महामन्त्रस्य श्रीमहेश्वर ... ध्यानम् - रक्ताभां रक्तवस... ॐ श्रीमते नमः । ॐ धन्वन्त... ॐ नमो भगवते भूतनाथाय । ॐ ... ध्यानम् । विवर्णा चञ्चला ... अस्य श्री शिवकामसुन्दरीसम... ॐ अस्य श्रीनटेशसहस्रनामस्... ॐ श्री गणेशाय नमः । अस्य ... श्री गुरुभ्यो नमः । ॐ श्र... श्री गुरुभ्यो नमः । ॐ श्र... ॥ ध्यानम् ॥ श्रीमित्रेश्... श्रीराधासर्वेश्वरो विजयते... पद्मावतीशतम् ॐ श्री पद्मा... ॐ श्रीगणेशाय नमः । ॐ अस्य... अथ विनियोगः । ॐ अस्य श्री... अथ अकारादि-क्षकारान्तासहस... ॐ शिवायै नमः । उमायै । पर... ॐ श्रीकृष्णाय नमः । सच्चि... अस्य श्रीप्रणवसहस्रनामस्त... ईश्वर उवाच । शृणु देवि प... ॐ ब्रह्मास्त्राय नमः । ॐ ... श्रीमहादेव उवाच - अस्य श्... विनियोगः - ॐ अस्य श्रीबटु... रुद्रयामलोक्तबटुकभैरवसहस्... ॐ अस्य श्रीबलभद्रसहस्रनाम... ॐ ऐं ह्रीं श्रीं-आनन्दसिन... शौनक उवाच - कैलासशिखरे रम... श्रीदेव्युवाच - भगवन्भाषि... ओं ऐं ह्रीं श्रीङ्कल्याण्... ॐ परमात्मने नमः ॐ धर्मक्... ॐ निस्सीमोद्यद्गुणाय नमः ... ॐ क्रकुच्छन्दाय नमः । ॐ क... ध्यानम् - बालार्कमण्डलाभा... विनोयोगः - ॐ अस्य श्रीभुव... प्रणवाय ब्रह्मणे उद्गीथाय... विनियोगः । ॐ अस्य श्रीमहा... श्रीः । ॐ नमश्चण्डिकायै ।... ॐ ह्रीं श्रीं क्लीं गणाध्... ॐ महामार्यै नमः । महामाया... पार्वत्युवाच - भगवन् वेदत... श्रीगणेशाय नमः । श्रीमहाल... ॐ ह्रीं ऐं ह्रीं महावाण्य... ध्यानम् श्रीमच्चन्दनचर्चि... ॐ अद्भुताय नमः । अद्भुतचा... ॐ सुमुख्यै नमः । ॐ शेमुष्... ॐ अम्बायै नमः । ॐ अम्बालि... ॐ अस्यश्री मूकाम्बिकायाः ... श्रीभैरव उवाच । अस्य श्री... अस्य श्री मेधादक्षिणामूर्... ॐ नमो भगवते दक्षिणामूर्तय... गर्गसंहितातः ॐ कालिन्द्य... अस्य श्रीयोगेश्वरीसहस्रना... ॐ योगिन्यै नमः । योगमायाय... देव्युवाच - भगवन्सर्वशास्... सोन्दूर श्रीकृष्ण अवधूतवि... वन्दे वृन्दावनानन्दा राधि... ॐ श्रीराधायै नमः । राधिका... ॐ श्रीराधायै नमः । राधिका... ॐ अस्य श्रीरामसहस्रनाममाल... ॐ आर्यश्रेष्ठाय नमः । धरा... सङ्कल्पः - यजमानः, आचम्य,... ॐ नमो भगवते वासुदेवाय । ॐ... ॐ स्थिराय नमः । स्थाणवे ।... न्यासः । अस्य श्रीरुद्रसह... अथ श्रीरेणुकातन्त्रान्तर्... सिन्दूरारुणविग्रहां त्रिन... ॐ श्रियै नमः । वासुदेवमहि... ॐ नित्यागतायै नमः । ॐ अनन... ॐ श्रीवराहाय नमः । भूवराह... ॐ वल्ल्यै नमः । ॐ वल्लीश्... ॐ श्रीवाग्मत्याः सहस्रनाम... ॐ श्रीगणेशाय नमः । श्रीनन... वराहमुख्यै विद्महे । दण्ड... ध्यानम् - ओङ्कारबीजाक्षरी... शुक्लाम्बरधरं विष्णुं शशि... ॐ क्लीं विट्टलाय नमः । पा... पूर्वन्यासः । श्रीवेदव्या... श्रीविष्णुसहस्रनामावलिः प... रुद्र उवाच । संसारसागराद... ॐ श्रीगणेशाय नमः । ॐ विष... श्रीशिवाय गुरवे श्रीवीरभ... वेङ्कटेशस्य नाम्नां हि सह... ॐ श्री गुरुभ्यो नमः । अथ ... ॐ शङ्कराय नमः । ॐ श्रीधरा... ॐ गाढध्वान्तनिमज्जनप्रमुष... ॐ अमिताभाषिणे नमः । ॐ अघह... ॐ श्रीगणेशाय नमः । ॐ श्री... विनियोगः - अस्य श्रीशारिक... अस्य श्रीशास्तृशवर्णसहस्र... ॐ अस्य श्री शिवकामसुन्दरी... अस्य श्रीशिवकामसुन्दरीसहस... ॐ अखिलेश्वर्यै नमः । अग्न... ॐ स्थिराय नमः । ॐ स्थाणवे... ॐ श्री गणेशाय नमः । अथ श्... ॐ ओङ्कारकण्ठनिलयाय नमः । ... ॐ ॐकारनिलयात्मस्थाय नमः ।... श्री विष्णुरुवाच ॐ भवाय ... अस्य श्रीशिवसहस्रनामस्तोत... ॐ सौभाग्यलक्ष्म्यै नमः । ... ॐ राधिकेशाय नमः । ॐ जगन्न... सद्गुरु श्रीधरस्वामिनाप्र... ईशानमुखपूजा- ॐ जगद्भुवे न... ॐ वचनभुवे नमः । पराय । शङ... ॐ रुद्रभुवनाय नमः । अनन्त... ॐ ब्रह्मभुवे नमः । भवाय ।... अघोर मुखपूजा । ॐ विश्वभुव... ॐ अचिन्त्य शक्तये नमः । अ... जपसाधना ॐ अस्य श्रीमहात्र... ॐ सङ्कटायै नमः । ॐ विजयाय... ॐ सङ्गीतालय-प्रतिष्ठित-भग... ॐ सीतायै नमः । उमायै । पर... ॐ श्रीचक्राय नमः । ॐ श्री... ॐ शुक्लाम्बरधरं विष्णुं श... ॐ श्री गणेशाय नमः । अस्य ... ॐ अस्य श्रीसुब्रह्मण्यसहस... बिल्वैर्वा चम्पकाद्यौर्वा... ध्यानम् - ध्येयः सदा सवित... श्रीरुद्रयामले तन्त्रे श्... श्रीसूर्यसहस्रनामावलिः ॐ सुब्रह्मण्याय । सुरेशान... ॐ नमः । ओङ्कारनमोरूपाय । ... ॐ श्रीहयग्रीवाय नमः । श्र... स्वामिनारायणं कृष्णं भक्त... १. ॐ स्थिराय नमः । २. ॐ ... ॥ श्रीदुर्गादैव्ये नम: ॥ ... १. ॐ राजीवलोचनाय नमः । ... १ ॐ अचिन्त्यलक्षणायै नमः ... १ ॐ कालिन्द्यै नमः । २ ॐ... १ ॐ अन्नपूर्णायै नमः । ... १. ॐ नारसिंहाय नमः । २. ... १ ॐ देवकीनन्दनाय नमः । २... १ ॐ क्लीं देवाय नमः । २ ... १ ॐ श्रियै नमः । २ ॐ पद्... १ ॐ हनुमते नमः । २ ॐ श्र... ॥ श्रीकृष्णाय नमः ॥ १. ॐ ... १. ॐ विश्वविदे नम: । २. ... १. ॐ गणेश्वराय नम: । २.... १. ॐ ऐं ह्रीं श्रीं श्रीम... १ ॐ सीतायै नमः । २ ॐ उमा... १ ॐ ओंकाररूपिण्यै नमः । ... १. ॐ विश्वस्मै नमः । २.ॐ... १. ॐ श्रीराधायै नमः । २.... ॐ गणपतये नमः ॥ ॥ ॐ गणेश्व... श्रीदुर्गासहस्रनामावलिः - तन्त्रराजतन्त्रे पूर्वपीठ... हिंदू देवी देवतांची एक हजार नावे म्हणजेच सहस्त्रनामावली. हिंदू धर्मिय रोज सकाळी संध्याकाळी या नावांचा जप करतात.A sahasranamavali is a type of Hindu scripture in which a diety is referred to by 1000 or more different names.Many devout Hindus chant them every morning or evening. Tags : 1000godgoddesssahasranamavaliसहस्त्रनामावली श्रीदुर्गासहस्रनामावलिः Translation - भाषांतर तन्त्रराजतन्त्रेपूर्वपीठिका ।श्रीशिव उवाच -शृणु देवि प्रवक्ष्यामि दुर्गानामसहस्रकम् ।यत्प्रसादान्महादेवि चतुर्वर्गफलं लभेत् ॥१॥पठनं श्रवणं चास्य सर्वाशापरिपूरकम् ।धनपुत्रप्रदं चैव बालानां शान्तिकारकम् ॥२॥उग्ररोगप्रशमनं ग्रहदोषविनाशनम् ।अकालमृत्युहरणं वाणिज्ये विजयप्रदम् ॥३॥विवादे दुर्गमे युद्धे नौकायां शत्रुसङ्कटे ।राजद्वारे महाऽरण्ये सर्वत्र विजयप्रदम् ॥४॥। विनियोगः ।ॐ अस्य श्रीदुर्गासहस्रनाममालामन्त्रस्य श्रीनारद ऋषिः ।गायत्री छन्दः । श्रीदुर्गा देवता । दुं बीजम् । ह्रीं शक्तिः ।ॐ कीलकम् । श्रीदुर्गाप्रीत्यर्थं श्रीदुर्गासहस्रनामपाठे विनियोगः ॥ऋष्यादि न्यासः ।श्रीनारदऋषये नमः शिरसि । गायत्रीछन्दसे नमः मुखे ।श्रीदुर्गादेवतायै नमः हृदये । दुं बीजाय नमः गुह्ये ।ह्रीं शक्तये नमः पादयोः । ॐ कीलकाय नमः नाभौ ।श्रीदुर्गाप्रीत्यर्थं श्रीदुर्गासहस्रनामपाठे विनियोगाय नमः सर्वाङ्गे ॥करन्यासः ।ह्रां ॐ ह्रीं दुं दुर्गायै अङ्गुष्ठाभ्यां नमः ।ह्रीं ॐ ह्रीं दुं दुर्गायै तर्जनीभ्यां स्वाहा ।ह्रूं ॐ ह्रीं दुं दुर्गायै मध्यमाभ्यां वषट् ।ह्रैं ॐ ह्रीं दुं दुर्गायै अनामिकाभ्यां हुम् ।ह्रौं ॐ ह्रीं दुं दुर्गायै कनिष्ठिकाभ्यां वौषट् ।ह्रः ॐ ह्रीं दुं दुर्गायै करतलकरपृष्ठाभ्यां फट् ॥अङ्गन्यासः ।ह्रां ॐ ह्रीं दुं दुर्गायै हृदयाय नमः ।ह्रीं ॐ ह्रीं दुं दुर्गायै शिरसे स्वाहा ।ह्रूं ॐ ह्रीं दुं दुर्गायै शिखायै वषट् ।ह्रैं ॐ ह्रीं दुं दुर्गायै कवचाय हुम् ।ह्रौं ॐ ह्रीं दुं दुर्गायै नेत्रत्रयाय वौषट् ।ह्रः ॐ ह्रीं दुं दुर्गायै अस्त्राय फट् ॥अथ ध्यानम् ।सिंहस्था शशिशेखरा मरकतप्रख्या चतुर्भिर्भुजैःशङ्खचक्रधनुःशरांश्च दधती नेत्रैस्त्रिभिः शोभिता ।आमुक्ताङ्गदहारकङ्कणरणत्काञ्चीक्वणन्नूपुरादुर्गा दुर्गतिहारिणी भवतु वो रत्नोल्लसत्कुण्डला ॥मानसपूजनम् ।लं पृथिव्यात्मकं गन्धं कल्पयामि ।हं आकाशात्मकं पुष्पं समर्पयामि ।यं वाय्यात्मकं धूपमाघ्रापयामि ।रं वह्न्यात्मकं दीपं दर्शयामि ।वं अमृतात्मकं नैवेद्यं निवेदयामि ।सं सर्वात्मकं ताम्बूलं निवेदयामि ।अथ सहस्रनामावलिः ।ॐ श्रीदुर्गायै नमः । ॐ दुर्गतिहरायै नमः । ॐ परिपूर्णायै नमः । ॐ परात्परायै नमः । ॐ सर्वोपाधिविनिर्मुक्तायै नमः । ॐ भवभारविनाशिन्यै नमः । ॐ कार्यकारणनिर्मुक्तायै नमः । ॐ लीलाविग्रहधारिण्यै नमः । ॐ सर्वशृङ्गारशोभाढ्यायै नमः । ॐ सर्वायुधसमन्वितायै नमः । ॐ सूर्यकोटिसहस्राभायै नमः । ॐ चन्द्रकोटिनिभाननायै नमः । ॐ गणेशकोटिलावण्यायै नमः । ॐ विष्णुकोट्यरिमर्दिन्यै नमः । ॐ दावाग्निकोटिनलिन्यै नमः । ॐ रूद्रकोट्युग्ररूपिण्यै नमः । ॐ समुद्रकोटिगम्भीरायै नमः । ॐ वायुकोटिमहाबलायै नमः । ॐ आकाशकोटिविस्तारायै नमः । ॐ यमकोटिभयङ्कर्यै नमः । २०ॐ मेरुकोटिसमुछ्रयायै नमः । ॐ गणकोटिसमृद्धिदायै नमः । ॐ नमस्यायै नमः । ॐ प्रथमायै नमः । ॐ पूज्यायै नमः । ॐ सकलायै नमः । ॐ अखिलाम्बिकायै नमः । ॐ महाप्रकृति नमः । ॐ सर्वात्मायै नमः । ॐ भुक्तिमुक्तिप्रदायिन्यै नमः । ॐ अजन्यायै नमः । ॐ जनन्यै नमः । ॐ जन्यायै नमः । ॐ महावृषभवाहिन्यै नमः । ॐ कर्दम्यै नमः । ॐ काश्यप्यै नमः । ॐ पद्मायै नमः । ॐ सर्वतीर्थनिवासिन्यै नमः । ॐ भीमेश्वर्यै नमः । ॐ भीमनादायै नमः । ४०ॐ भवसागरतारिण्यै नमः । ॐ सर्वदेवशिरोरत्ननिघृष्टचरणाम्बुजायै नमः । ॐ स्मरतां सर्वपापघ्न्यै नमः । ॐ सर्वकारणकारणायै नमः । ॐ सर्वार्थसाधिकायै नमः । ॐ मात्रे नमः । ॐ सर्वमङ्गलमङ्गलायै नमः । ॐ पृच्छायै नमः । ॐ पृश्न्यै नमः । ॐ महाज्योतिषे ५० नमः । ॐ अरण्यायै नमः । ॐ वनदेवतायै नमः । ॐ भीत्यै नमः । ॐ भूत्यै नमः । ॐ मतायै नमः । ॐ शक्त्यै नमः । ॐ तुष्टायै नमः । ॐ पुष्ट्यै नमः । ॐ उषायै नमः । ॐ धृतायै नमः । ६०ॐ उत्तानहस्तायै नमः । ॐ सम्भूतायै नमः । ॐ वृक्षवल्कलधारिण्यै नमः । ॐ महाप्रभायै नमः । ॐ महाचण्ड्यै नमः । ॐ दीप्तास्यायै नमः । ॐ उग्रलोचनायै नमः । ॐ महामेघप्रभायै नमः । ॐ विद्यायै नमः । ॐ मुक्तकेश्यै नमः । ॐ दिगम्बर्यै नमः । ॐ हसनमुख्यै नमः । ॐ साट्टहासायै नमः । ॐ लोलजिह्वायै नमः । ॐ महेश्वर्यै नमः । ॐ मुण्डाल्यै नमः । ॐ अभयायै नमः । ॐ दक्षायै नमः । ॐ महाभीमायै नमः । ॐ वरोद्यतायै नमः । ८०ॐ खड्गमुण्डधरायै नमः । ॐ मुक्त्यै नमः । ॐ कुमुदायै नमः । ॐ अज्ञाननाशिन्यै नमः । ॐ अम्बालिकायै नमः । ॐ महावीर्यायै नमः । ॐ शारदायै नमः । ॐ कनकेश्वर्यै नमः । ॐ परमात्मने नमः । ॐ परायै नमः । ॐ क्षिप्तायै नमः । ॐ शूलिन्यै नमः । ॐ परमेश्वर्यै नमः । ॐ महाकालसमासक्तायै नमः । ॐ शिवाशतनिनादिन्यै नमः । ॐ घोराङ्ग्यै नमः । ॐ मुण्डमुकुटायै नमः । ॐ श्मशानास्थिकृतासनायै नमः । ॐ महाश्मशाननिलयायै नमः । ॐ मणिमण्डपमध्यगायै १०० नमः । १००ॐ पानपात्रधृतायै नमः । ॐ खर्वायै नमः । ॐ पन्नग्यै नमः । ॐ परदेवतायै नमः । ॐ सुगन्धायै नमः । ॐ तारिण्यै नमः । ॐ तारायै नमः । ॐ भवान्यै नमः । ॐ वनवासिन्यै नमः । ॐ लम्बोदर्यै नमः । ॐ महादीर्घायै नमः । ॐ जटिन्यै नमः । ॐ चन्द्रशेखरायै नमः । ॐ परायै नमः । ॐ अम्बायै नमः । ॐ परमाराध्यायै नमः । ॐ परेश्यै नमः । ॐ ब्रह्मरूपिण्यै नमः । ॐ देवसेनायै नमः । ॐ विश्वगर्भायै नमः । १२०ॐ अग्निजिह्वायै नमः । ॐ चतुर्भुजायै नमः । ॐ महादंष्ट्रायै नमः । ॐ महारात्रायै नमः । ॐ नीलायै नमः । ॐ नीलसरस्वत्यै नमः । ॐ दक्षजायै नमः । ॐ भारत्यै नमः । ॐ रम्भायै नमः । ॐ महामङ्गलचण्डिकायै नमः । ॐ रुद्रजायै नमः । ॐ कौशिक्यै नमः । ॐ पूतायै नमः । ॐ यमघण्टायै नमः । ॐ महाबलायै नमः । ॐ कादम्बिन्यै नमः । ॐ चिदानन्दायै नमः । ॐ क्षेत्रस्थायै नमः । ॐ क्षेत्रकर्षिण्यै नमः । ॐ पञ्चप्रेतसमारुढायै नमः । १४०ॐ ललितायै नमः । ॐ अरितायै नमः । ॐ सत्यै नमः । ॐ भैरव्यै नमः । ॐ रूपसम्पन्नायै नमः । ॐ मदनादलनाशिन्यै नमः । ॐ जातापहारिण्यै नमः । ॐ वार्तायै नमः । ॐ मातृकायै नमः । ॐ अष्टमातृकायै नमः । ॐ अनङ्गमेखलायै नमः । ॐ षष्ट्यै नमः । ॐ हृल्लेखायै नमः । ॐ पर्वतात्मजायै नमः । ॐ वसुन्धरायै नमः । ॐ धरायै नमः । ॐ धारायै नमः । ॐ विधात्र्यै नमः । ॐ विन्ध्यवासिन्यै नमः । ॐ अयोध्यायै नमः । १६०ॐ मथुरायै नमः । ॐ काञ्च्यै नमः । ॐ महैश्वर्यायै नमः । ॐ महोदर्यै नमः । ॐ कोमलायै नमः । ॐ मानदायै नमः । ॐ भव्यायै नमः । ॐ मत्स्योदर्यै नमः । ॐ महालयायै नमः । ॐ पाशाङ्कुशधनुर्बाणायै नमः । ॐ लावण्याम्बुधिचन्द्रिकायै नमः । ॐ रक्तवासायै नमः । ॐ रक्तलिप्तायै नमः । ॐ रक्तगन्धविनोदिन्यै नमः । ॐ दुर्लभायै नमः । ॐ सुलभायै नमः । ॐ मत्स्यायै नमः । ॐ माधव्यै नमः । ॐ मण्डलेश्वर्यै नमः । ॐ पार्वत्यै नमः । १८०ॐ अमर्यै नमः । ॐ अम्बायै नमः । ॐ महापातकनाशिन्यै नमः । ॐ नित्यतृप्तायै नमः । ॐ निराभासायै नमः । ॐ अकुलायै नमः । ॐ रोगनाशिन्यै नमः । ॐ कनकेश्यै नमः । ॐ पञ्चरूपायै नमः । ॐ नूपुरायै नमः । ॐ नीलवाहिन्यै नमः । ॐ जगन्मय्यै नमः । ॐ जगद्धात्र्यै नमः । ॐ अरुणायै नमः । ॐ वारुण्यै नमः । ॐ जयायै नमः । ॐ हिङ्गुलायै नमः । ॐ कोटरायै नमः । ॐ सेनायै नमः । ॐ कालिन्द्यै नमः । २००ॐ सुरपूजितायै २०० नमः । ॐ रामेश्वर्यै नमः । ॐ देवगर्भायै नमः । ॐ त्रिस्रोतायै नमः । ॐ अखिलेश्वर्यै नमः । ॐ ब्रह्माण्यै नमः । ॐ वैष्णव्यै नमः । ॐ रौद्र्यै नमः । ॐ महाकालमनोरमायै नमः । ॐ गारुड्यै नमः । ॐ विमलायै नमः । ॐ हंस्यै नमः । ॐ योगिन्यै नमः । ॐ रतिसुन्दर्यै नमः । ॐ कपालिन्यै नमः । ॐ महाचण्डायै नमः । ॐ विप्रचित्तायै नमः । ॐ कुमारिकायै नमः । ॐ ईशान्यै नमः । ॐ ईश्वर्यै नमः । २२०ॐ ब्राह्म्यै नमः । ॐ माहेश्यै नमः । ॐ विश्वमोहिन्यै नमः । ॐ एकवीरायै नमः । ॐ कुलानन्दायै नमः । ॐ कालपुत्र्यै नमः । ॐ सदाशिवायै नमः । ॐ शाकम्भर्यै नमः । ॐ नीलवर्णायै नमः । ॐ महिषासुरमर्दिन्यै नमः । ॐ कामदायै नमः । ॐ कामिन्यै नमः । ॐ कुल्लायै नमः । ॐ कुरुकुल्लायै नमः । ॐ विरोधिन्यै नमः । ॐ उग्रायै नमः । ॐ उग्रप्रभायै नमः । ॐ दीप्तायै नमः । ॐ प्रभायै नमः । ॐ दंष्ट्रायै नमः । २४०ॐ मनोजवायै नमः । ॐ कल्पवृक्षतलासीनायै नमः । ॐ श्रीनाथगुरुपादुकायै नमः । ॐ अव्याजकरुणामूर्त्यै नमः । ॐ आनन्दघनविग्रहायै नमः । ॐ विश्वरूपायै नमः । ॐ विश्वमात्रे नमः । ॐ वज्रिण्यै नमः । ॐ वज्रविग्रहायै नमः । ॐ अनघायैनमः । ॐ शाङ्कर्यै नमः । ॐ दिव्यायै नमः । ॐ पवित्रायै नमः । ॐ सर्वसाक्षिण्यै नमः । ॐ धनुर्बाणगदाहस्तायै नमः । ॐ आयुधायै नमः । ॐ आयुधान्वितायै नमः । ॐ लोकोत्तरायै नमः । ॐ पद्मनेत्रायै नमः । ॐ योगमायायै नमः । २६०ॐ जटेश्वर्यै नमः । ॐ अनुच्चार्यायै नमः । ॐ त्रिधायै नमः । ॐ दृप्तायै नमः । ॐ चिन्मय्यै नमः । ॐ शिवसुन्दर्यै नमः । ॐ विश्वेश्वर्यै नमः । ॐ महामेधायै नमः । ॐ उच्छिष्टायै नमः । ॐ विस्फुलिङ्गिन्यै नमः । ॐ चिदम्बर्यै नमः । ॐ चिदाकारायै नमः । ॐ अणिमायै नमः । ॐ नीलकुन्तलायै नमः । ॐ दैत्येश्वर्यै नमः । ॐ देवमात्रे नमः । ॐ महादेव्यै नमः । ॐ कुशप्रियायै नमः । ॐ सर्वदेवमय्यै नमः । ॐ पुष्टायै नमः । २८०ॐ भूष्यायै नमः । ॐ भूतपतिप्रियायै नमः । ॐ महाकिरातिन्यै नमः । ॐ साध्यायै नमः । ॐ धर्मज्ञायै नमः । ॐ भीषणाननायै नमः । ॐ उग्रचण्डायै नमः । ॐ श्रीचाण्डाल्यै नमः । ॐ मोहिन्यै नमः । ॐ चण्डविक्रमायै नमः । ॐ चिन्तनीयायै नमः । ॐ महादीर्घायै नमः । ॐ अमृतायै नमः । ॐ अमृतबान्धव्यै नमः । ॐ पिनाकधारिण्यै नमः । ॐ शिप्रायै नमः । ॐ धात्र्यै नमः । ॐ त्रिजगदीश्वर्यै नमः । ॐ रक्तपायै नमः । ॐ रुधिराक्ताङ्ग्यै नमः । ३००ॐ रक्तखर्परधारिण्यै नमः । ॐ त्रिपुरायै नमः । ॐ त्रिकूटायै नमः । ॐ नित्यायै नमः । ॐ श्रीनित्यायै नमः । ॐ भुवनेश्वर्यै नमः । ॐ हव्यायै नमः । ॐ कव्यायै नमः । ॐ लोकगतये नमः । ॐ गायत्र्यै नमः । ॐ परमा गतये नमः । ॐ विश्वधात्र्यै नमः । ॐ लोकमात्रे नमः । ॐ पञ्चम्यै नमः । ॐ पितृतृप्तिदायै नमः । ॐ कामेश्वर्यै नमः । ॐ कामरूपायै नमः । ॐ कामबीजायै नमः । ॐ कलात्मिकायै नमः । ॐ ताटङ्कशोभिन्यै नमः । ३२०ॐ वन्द्यायै नमः । ॐ नित्यक्लिन्नायै नमः । ॐ कुलेश्वर्यै नमः । ॐ भुवनेश्यै नमः । ॐ महाराज्ञ्यै नमः । ॐ अक्षरायै नमः । ॐ अक्षरात्मिकायै नमः । ॐ अनादिबोधायै नमः । ॐ सर्वज्ञायै नमः । ॐ सर्वायै नमः । ॐ सर्वतरायै नमः । ॐ शुभायै नमः । ॐ इच्छाज्ञानक्रियाशक्तायै नमः । ॐ सर्वाढ्यायै नमः । ॐ शर्वपूजितायै नमः । ॐ श्रीमहासुन्दर्यै नमः । ॐ रम्यायै नमः । ॐ राज्ञ्यै नमः । ॐ श्रीपरमाम्बिकायै नमः । ॐ राजराजेश्वर्यै नमः । ३४०ॐ भद्रायै नमः । ॐ श्रीमत्त्रिपुरसुन्दर्यै नमः । ॐ त्रिसन्ध्यायै नमः । ॐ इन्दिरायै नमः । ॐ ऐन्द्र्यै नमः । ॐ अजितायै नमः । ॐ अपराजितायै नमः । ॐ भेरुण्डायै नमः । ॐ दण्डिन्यै नमः । ॐ घोरायै नमः । ॐ इन्द्राण्यै नमः । ॐ तपस्विन्यै नमः । ॐ शैलपुत्र्यै नमः । ॐ चण्डधण्टायै नमः । ॐ कूष्माण्डायै नमः । ॐ ब्रह्मचारिण्यै नमः । ॐ कात्यायन्यै नमः । ॐ स्कन्दमात्रे नमः । ॐ कालरात्र्यै नमः । ॐ शुभङ्कर्यै नमः । ३६०ॐ महागौरायै नमः । ॐ सिद्धिदात्र्यै नमः । ॐ नवदुर्गायै नमः । ॐ नभःस्थितायै नमः । ॐ सुनन्दायै नमः । ॐ नन्दिन्यै नमः । ॐ कृत्यायै नमः । ॐ महाभागायै नमः । ॐ महोज्ज्वलायै नमः । ॐ महाविद्यायै नमः । ॐ ब्रह्मविद्यायै नमः । ॐ दामिन्यै नमः । ॐ तापहारिण्यै नमः । ॐ उत्थितायै नमः । ॐ उत्पलायै नमः । ॐ बाध्यायै नमः । ॐ प्रमोदायै नमः । ॐ शुभदायै नमः । ॐ उत्तमायै नमः । ॐ अतुल्यायै नमः । ३८०ॐ अमूलायै नमः । ॐ पूर्णायै नमः । ॐ हंसारूढायै नमः । ॐ हरिप्रियायै नमः । ॐ सुलोचनायै नमः । ॐ विरूपाक्ष्यै नमः । ॐ विद्युद्गौर्यै नमः । ॐ महार्हणायै नमः । ॐ काकध्वजायै नमः । ॐ शिवाराध्यायै नमः । ॐ शूर्पहस्तायै नमः । ॐ कृशाङ्गिन्यै नमः । ॐ शुभ्रकेश्यै नमः । ॐ कोटराक्ष्यै नमः । ॐ विधवायै नमः । ॐ पतिघातिन्यै नमः । ॐ सर्वसिद्धिकर्यै नमः । ॐ दुष्टायै नमः । ॐ क्षुधार्तायै नमः । ॐ शिवभक्षिण्यै नमः । ४००ॐ वर्गात्मिकायै नमः । ॐ त्रिकालज्ञायै नमः । ॐ त्रिवर्गायै नमः । ॐ त्रिदशार्चितायै नमः । ॐ श्रीमत्यै नमः । ॐ भोगिन्यै नमः । ॐ काश्यै नमः । ॐ अविमुक्तायै नमः । ॐ गयेश्वर्यै नमः । ॐ सिद्धाम्बिकायै नमः । ॐ सुवर्णाक्ष्यै नमः । ॐ कोलाम्बायै नमः । ॐ सिद्धयोगिन्यै नमः । ॐ देवज्योतिस्समुद्भूतायै नमः । ॐ देवज्योतिस्स्वरूपिण्यै नमः । ॐ अच्छेद्यायै नमः । ॐ अद्भुतायै नमः । ॐ तीव्रायै नमः । ॐ व्रतस्थायै नमः । ॐ व्रतचारिण्यै नमः । ४२०ॐ सिद्धिदायै नमः । ॐ धूमिन्यै नमः । ॐ तन्व्यै नमः । ॐ भ्रामर्यै नमः । ॐ रक्तदन्तिकायै नमः । ॐ स्वस्तिकायै नमः । ॐ गगनायै नमः । ॐ वाण्यै नमः । ॐ जाह्नव्यै नमः । ॐ भवभामिन्यै नमः । ॐ पतिव्रतायै नमः । ॐ महामोहायै नमः । ॐ मुकुटायै नमः । ॐ मुकुटेश्वर्यै नमः । ॐ गुह्येश्वर्यै नमः । ॐ गुह्यमात्रे नमः । ॐ चण्डिकायै नमः । ॐ गुह्यकालिकायै नमः । ॐ प्रसूतये नमः । ॐ आकूतये नमः । ४४०ॐ चित्तायै नमः । ॐ चिन्तायै नमः । ॐ देवाहुतिस्त्रय्यै नमः । ॐ अनुमतायै नमः । ॐ कुह्वे नमः । ॐ राकायै नमः । ॐ सिनीवाल्यै नमः । ॐ इषायै नमः । ॐ रसायै नमः । ॐ सुवर्चसे नमः । ॐ वर्चलायै नमः । ॐ शार्व्यै नमः । ॐ विकेशायै नमः । ॐ कृष्णपिङ्गलायै नमः । ॐ स्वप्नावत्यै नमः । ॐ चित्रलेखायै नमः । ॐ अन्नपूर्णायै नमः । ॐ चतुष्टयायै नमः । ॐ पुण्यलभ्यायै नमः । ॐ वरारोहायै नमः । ४६०ॐ श्यामाङ्ग्यै नमः । ॐ शशिशेखरायै नमः । ॐ हरण्यै नमः । ॐ गौतम्यै नमः । ॐ मेनायै नमः । ॐ यादवायै नमः । ॐ पूर्णिमायै नमः । ॐ उमायै नमः । ॐ त्रिखण्डायै नमः । ॐ त्रिमुण्डायै नमः । ॐ मान्यायै नमः । ॐ भूतमात्रे नमः । ॐ भवेश्वर्यै नमः । ॐ भोगदायै नमः । ॐ स्वर्गदायै नमः । ॐ मोक्षायै नमः । ॐ सुभगायै नमः । ॐ यज्ञरूपिण्यै नमः । ॐ अन्नदायै नमः । ॐ सर्वसम्पत्तये नमः । ४८०ॐ सङ्कटायै नमः । ॐ सम्पदायै नमः । ॐ स्मृतये नमः । ॐ वैदूर्यमुकुटायै नमः । ॐ मेधायै नमः । ॐ सर्वविद्येश्वरेश्वर्यै नमः । ॐ ब्रह्मानन्दायै नमः । ॐ ब्रह्मदात्र्यै नमः । ॐ मृडान्यै नमः । ॐ कैटभेश्वर्यै नमः । ॐ अरुन्धत्यै नमः । ॐ अक्षमालायै नमः । ॐ अस्थिरायै नमः । ॐ ग्राम्यदेवतायै नमः । ॐ वर्णेश्वर्यै नमः । ॐ वर्णमात्रे नमः । ॐ चिन्तापूर्ण्यै नमः । ॐ विलक्षणायै नमः । ॐ त्रीक्षणायै नमः । ॐ मङ्गलायै नमः । ५००ॐ काल्यै नमः । ॐ वैराट्यै नमः । ॐ पद्ममालिन्यै नमः । ॐ अमलायै नमः । ॐ विकटायै नमः । ॐ मुख्यायै नमः । ॐ अविज्ञेयायै नमः । ॐ स्वयम्भुवायै नमः । ॐ ऊर्जायै नमः । ॐ तारावत्यै नमः । ॐ वेलायै नमः । ॐ मानव्यै नमः । ॐ चतुःस्तन्यै नमः । ॐ चतुर्नेत्रायै नमः । ॐ चतुर्हस्तायै नमः । ॐ चतुर्दन्तायै नमः । ॐ चतुर्मुख्यै नमः । ॐ शतरूपायै नमः । ॐ बहुरूपायै नमः । ॐ अरूपायै नमः । ५२०ॐ विश्वतोमुख्यै नमः । ॐ गरिष्ठायै नमः । ॐ गुर्विण्यै नमः । ॐ गुर्व्यै नमः । ॐ व्याप्यायै नमः । ॐ भौम्यै नमः । ॐ भाविन्यै नमः । ॐ अजातायै नमः । ॐ सुजातायै नमः । ॐ व्यक्तायै नमः । ॐ अचलायै नमः । ॐ अक्षयायै नमः । ॐ क्षमायै नमः । ॐ मारिषायै नमः । ॐ धर्मिण्यै नमः । ॐ हर्षायै नमः । ॐ भूतधात्र्यै नमः । ॐ धेनुकायै नमः । ॐ अयोनिजायै नमः । ॐ अजायै नमः । ५४०ॐ साध्व्यै नमः । ॐ शच्यै नमः । ॐ क्षेमायै नमः । ॐ क्षयङ्कर्यै नमः । ॐ बुद्ध्यै नमः । ॐ लज्जायै नमः । ॐ महासिद्धायै नमः । ॐ शाक्र्यै नमः । ॐ शान्त्यै नमः । ॐ क्रियावत्यै नमः । ॐ प्रज्ञायै नमः । ॐ प्रीत्यै नमः । ॐ श्रुत्यै नमः । ॐ श्रद्धायै नमः । ॐ स्वाहायै नमः । ॐ कान्त्यै नमः । ॐ वपुःस्वधायै नमः । ॐ उन्नत्ययै नमः । ॐ सन्नत्यै नमः । ॐ ख्यात्यै नमः । ५६०ॐ शुद्ध्यै नमः । ॐ स्थित्यै नमः । ॐ मनस्विन्यै नमः । ॐ उद्यमायै नमः । ॐ वीरिण्यै नमः । ॐ क्षान्त्यै नमः । ॐ मार्कण्डेय्यै नमः । ॐ त्रयोदश्यै नमः । ॐ प्रसिद्धायै नमः । ॐ प्रतिष्ठायै नमः । ॐ व्याप्तायै नमः । ॐ अनसूयायै नमः । ॐ आकृत्यै नमः । ॐ यमायै नमः । ॐ महाधीरायै नमः । ॐ महावीरायै नमः । ॐ भुजङ्ग्यै नमः । ॐ वलयाकृत्यै नमः । ॐ हरसिद्धायै नमः । ॐ सिद्धकाल्यै नमः । ५८०ॐ सिद्धाम्बायै नमः । ॐ सिद्धपूजितायै नमः । ॐ परानन्दायै नमः । ॐ पराप्रीत्यै नमः । ॐ परातुष्ट्यै नमः । ॐ परेश्वर्यै नमः । ॐ वक्रेश्वर्यै नमः । ॐ चतुर्वक्त्रायै नमः । ॐ अनाथायै नमः । ॐ शिवसाधिकायै नमः । ॐ नारायण्यै नमः । ॐ नादरूपायै नमः । ॐ नादिन्यै नमः । ॐ नर्तक्यै नमः । ॐ नट्यै नमः । ॐ सर्वप्रदायै नमः । ॐ पञ्चवक्त्रायै नमः । ॐ कामिलायै नमः । ॐ कामिकायै नमः । ॐ शिवायै नमः । ६००ॐ दुर्गमायै नमः । ॐ दुरतिक्रान्तायै नमः । ॐ दुर्ध्येयायै नमः । ॐ दुष्परिग्रहायै नमः । ॐ दुर्जयायै नमः । ॐ दानव्यै नमः । ॐ देव्यै नमः । ॐ दैत्यघ्न्यै नमः । ॐ दैत्यतापिन्यै नमः । ॐ ऊर्जस्वत्यै नमः । ॐ महाबुद्ध्यै नमः । ॐ रटन्त्यै नमः । ॐ सिद्धदेवतायै नमः । ॐ कीर्तिदायै नमः । ॐ प्रवरायै नमः । ॐ लभ्यायै नमः । ॐ शरण्यायै नमः । ॐ शिवशोभनायै नमः । ॐ सन्मार्गदायिन्यै नमः । ॐ शुद्धायै नमः । ६२०ॐ सुरसायै नमः । ॐ रक्तचण्डिकायै नमः । ॐ सुरूपायै नमः । ॐ द्रविणायै नमः । ॐ रक्तायै नमः । ॐ विरक्तायै नमः । ॐ ब्रह्मवादिन्यै नमः । ॐ अगुणायै नमः । ॐ निर्गुणायै नमः । ॐ गुण्यायै नमः । ॐ त्रिगुणायै नमः । ॐ त्रिगुणात्मिकायै नमः । ॐ उड्डियानायै नमः । ॐ पूर्णशैलायै नमः । ॐ कामास्यायै नमः । ॐ जलन्धर्यै नमः । ॐ श्मशानभैरव्यै नमः । ॐ कालभैरव्यै नमः । ॐ कुलभैरव्यै नमः । ॐ त्रिपुराभैरवीदेव्यै नमः । ६४०ॐ भैरव्यै नमः । ॐ वीरभैरव्यै नमः । ॐ श्रीमहाभैरवीदेव्यै नमः । ॐ सुखदानन्दभैरव्यै नमः । ॐ मुक्तिदाभैरवीदेव्यै नमः । ॐ ज्ञानदायै नमः । ॐ आनन्दभैरव्यै नमः । ॐ दाक्षायण्यै नमः । ॐ दक्षयज्ञनाशिन्यै नमः । ॐ नगनन्दिन्यै नमः । ॐ राजपुत्र्यै नमः । ॐ राजपूज्यायै नमः । ॐ भक्तिवश्यायै नमः । ॐ सनातन्यै नमः । ॐ अच्युतायै नमः । ॐ चर्चिकायै नमः । ॐ मायायै नमः । ॐ षोडश्यै नमः । ॐ सुरसुन्दर्यै नमः । ॐ चक्रेश्यै नमः । ६६०ॐ चक्रिण्यै नमः । ॐ चक्रायै नमः । ॐ चक्रराजनिवासिन्यै नमः । ॐ नायिकायै नमः । ॐ यक्षिण्यै नमः । ॐ बोधायै नमः । ॐ बोधिन्यै नमः । ॐ मुण्डकेश्वर्यै नमः । ॐ बीजरूपायै नमः । ॐ चन्द्रभागायै नमः । ॐ कुमार्यै नमः । ॐ कपिलेश्वर्यै नमः । ॐ वृद्धायै नमः । ॐ अतिवृद्धायै नमः । ॐ रसिकायै नमः । ॐ रसनायै नमः । ॐ पाटलेश्वर्यै नमः । ॐ माहेश्वर्यै नमः । ॐ महाऽऽनन्दायै नमः । ॐ प्रबलायै नमः । ६८०ॐ अबलायै नमः । ॐ बलायै नमः । ॐ व्याघ्राम्बर्यै नमः । ॐ महेशान्यै नमः । ॐ शर्वाण्यै नमः । ॐ तामस्यै नमः । ॐ दयायै नमः । ॐ धरण्यै नमः । ॐ धारिण्यै नमः । ॐ तृष्णायै नमः । ॐ महामार्यै नमः । ॐ दुरत्ययायै नमः । ॐ रङ्गिन्यै नमः । ॐ टङ्किन्यै नमः । ॐ लीलायै नमः । ॐ महावेगायै नमः । ॐ मखेश्वर्यै नमः । ॐ जयदायै नमः । ॐ जित्वरायै नमः । ॐ जेत्र्यै नमः । ७००ॐ जयश्रियै नमः । ॐ जयशालिन्यै नमः । ॐ नर्मदायै नमः । ॐ यमुनायै नमः । ॐ गङ्गायै नमः । ॐ वेन्वायै नमः । ॐ वेण्यै नमः । ॐ दृषद्वत्यै नमः । ॐ दशार्णायै नमः । ॐ अलकायै नमः । ॐ सीतायै नमः । ॐ तुङ्गभद्रायै नमः । ॐ तरङ्गिण्यै नमः । ॐ मदोत्कटायै नमः । ॐ मयूराक्ष्यै नमः । ॐ मीनाक्ष्यै नमः । ॐ मणिकुण्डलायै नमः । ॐ सुमहायै नमः । ॐ महतां सेव्यायै नमः । ॐ मायूर्यै नमः । ७२०ॐ नारसिंहिकायै नमः । ॐ बगलायै नमः । ॐ स्तम्भिन्यै नमः । ॐ पीतायै नमः । ॐ पूजितायै नमः । ॐ शिवनायिकायै नमः । ॐ वेदवेद्यायै नमः । ॐ महारौद्र्यै नमः । ॐ वेदबाह्यायै नमः । ॐ गतिप्रदायै नमः । ॐ सर्वशास्त्रमय्यै नमः । ॐ आर्यायै नमः । ॐ अवाङ्गमनसगोचरायै नमः । ॐ अग्निज्वालायै नमः । ॐ महाज्वालायै नमः । ॐ प्रज्वालायै नमः । ॐ दीप्तजिह्विकायै नमः । ॐ रञ्जन्यै नमः । ॐ रमण्यै नमः । ॐ रुद्रायै नमः । ७४०ॐ रमणीयायै नमः । ॐ प्रभञ्जन्यै नमः । ॐ वरिष्ठायै नमः । ॐ विशिष्टायै नमः । ॐ शिष्टायै नमः । ॐ श्रेष्ठायै नमः । ॐ निष्ठायै नमः । ॐ कृपावत्यै नमः । ॐ ऊर्ध्वमुख्यै नमः । ॐ विशालास्यायै नमः । ॐ रुद्रभार्यायै नमः । ॐ भयङ्कर्यै नमः । ॐ सिंहपृष्ठसमासीनायै नमः । ॐ शिवताण्डवदर्शिन्यै नमः । ॐ हैमवत्यै नमः । ॐ पद्मगन्धायै नमः । ॐ गन्धेश्वर्यै नमः । ॐ भवप्रियायै नमः । ॐ अणुरूपायै नमः । ॐ महासूक्ष्मायै नमः । ७६०ॐ प्रत्यक्षायै नमः । ॐ मखान्तकायै नमः । ॐ सर्वविद्यायै नमः । ॐ रक्तनेत्रायै नमः । ॐ बहुनेत्रायै नमः । ॐ अनेत्रकायै नमः । ॐ विश्वम्भरायै नमः । ॐ विश्वयोनये नमः । ॐ सर्वाकारायै नमः । ॐ सुदर्शनायै नमः । ॐ कृष्णाजिनधरायै नमः । ॐ देव्यै नमः । ॐ उत्तरायै नमः । ॐ कन्दवासिन्यै नमः । ॐ प्रकृष्टायै नमः । ॐ प्रहृष्टायै नमः । ॐ हृष्टायै नमः । ॐ चन्द्रसूर्याग्निभक्षिण्यै नमः । ॐ विश्वेदेव्यै नमः । ॐ महामुण्डायै नमः । ७८०ॐ पञ्चमुण्डाधिवासिन्यै नमः । ॐ प्रसादसुमुख्यै नमः । ॐ गूढायै नमः । ॐ सुमुखायै नमः । ॐ सुमुखेश्वर्यै नमः । ॐ तत्पदायै नमः । ॐ सत्पदायै नमः । ॐ अत्यर्थायै नमः । ॐ प्रभावत्यै नमः । ॐ दयावत्यै नमः । ॐ चण्डदुर्गायै नमः । ॐ चण्डीदेव्यै नमः । ॐ वनदुर्गायै नमः । ॐ वनेश्वर्यै नमः । ॐ ध्रुवेश्वर्यै नमः । ॐ धुवायै नमः । ॐ ध्रौव्यायै नमः । ॐ ध्रुवाराध्यायै नमः । ॐ ध्रुवागतायै नमः । ॐ सच्चिदायै नमः । ८००ॐ सच्चिदानन्दायै नमः । ॐ आपोमय्यै नमः । ॐ महासुखायै नमः । ॐ वागीश्यै नमः । ॐ वाग्भवायै नमः । ॐ आकण्ठवासिन्यै नमः । ॐ वह्निसुन्दर्यै नमः । ॐ गणनाथप्रियायै नमः । ॐ ज्ञानगम्यायै नमः । ॐ सर्वलोकगायै नमः । ॐ प्रीतिदायै नमः । ॐ गतिदायै नमः । ॐ प्रेयायै नमः । ॐ ध्येयायै नमः । ॐ ज्ञेयायै नमः । ॐ भयापहायै नमः । ॐ श्रीकर्यै नमः । ॐ श्रीधर्यै नमः । ॐ सुश्रियै नमः । ॐ श्रीविद्यायै नमः । ८२०ॐ श्रीविभावन्यै नमः । ॐ श्रीयुतायै नमः । ॐ श्रीमतां सेव्यायै नमः । ॐ श्रीमूर्तायै नमः । ॐ स्त्रीस्वरूपिण्यै नमः । ॐ अनृतायै नमः । ॐ सूनृतायै नमः । ॐ सेव्यायै नमः । ॐ सर्वलोकोत्तमोत्तमायै नमः । ॐ जयन्त्यै नमः । ॐ चन्दनायै नमः । ॐ गौर्यै नमः । ॐ गर्जिन्यै नमः । ॐ गगनोपमायै नमः । ॐ छिन्नमस्तायै नमः । ॐ महामत्तायै नमः । ॐ रेणुकायै नमः । ॐ वनशङ्कर्यै नमः । ॐ ग्राहिकायै नमः । ॐ ग्रासिन्यै नमः । ८४०ॐ देवभूषणायै नमः । ॐ कपर्दिन्यै नमः । ॐ सुमतये नमः । ॐ तपत्यै नमः । ॐ स्वस्थायै नमः । ॐ हृदिस्थायै नमः । ॐ मृगलोचनायै नमः । ॐ मनोहरायै नमः । ॐ वज्रदेहायै नमः । ॐ कुलेश्यै नमः । ॐ कामचारिण्यै नमः । ॐ रक्ताभायै नमः । ॐ निद्रितायै नमः । ॐ निद्रायै नमः । ॐ रक्ताङ्ग्यै नमः । ॐ रक्तलोचनायै नमः । ॐ कुलचण्डायै नमः । ॐ चण्डवक्त्रायै नमः । ॐ चण्डोग्रायै नमः । ॐ चण्डमालिन्यै नमः । ८६०ॐ रक्तचण्ड्यै नमः । ॐ रुद्रचण्ड्यै नमः । ॐ चण्डाक्ष्यै नमः । ॐ चण्डनायिकायै नमः । ॐ व्याघ्रास्यायै नमः । ॐ शैलजायै नमः । ॐ भाषायै नमः । ॐ वेदार्थायै नमः । ॐ रणरङ्गिण्यै नमः । ॐ बिल्वपत्रकृतावासायै नमः । ॐ तरुण्यै नमः । ॐ शिवमोहिन्यै नमः । ॐ स्थाणुप्रियायै नमः । ॐ करालास्यायै नमः । ॐ गुणदायै नमः । ॐ लिङ्गवासिन्यै नमः । ॐ अविद्यायै नमः । ॐ ममतायै नमः । ॐ अज्ञायै नमः । ॐ अहन्तायै नमः । ८८०ॐ अशुभायै नमः । ॐ कृशायै नमः । ॐ महिषघ्न्यै नमः । ॐ सुदुष्प्रेक्ष्यायै नमः । ॐ तमसायै नमः । ॐ भवमोचन्यै नमः । ॐ पुरूहुतायै नमः । ॐ सुप्रतिष्ठायै नमः । ॐ रजन्यै नमः । ॐ इष्टदेवतायै नमः । ॐ दुःखिन्यै नमः । ॐ कातरायै नमः । ॐ क्षीणायै नमः । ॐ गोमत्यै नमः । ॐ त्र्यम्बकेश्वरायै नमः । ॐ द्वारावत्यै नमः । ॐ अप्रमेयायै नमः । ॐ अव्ययायै नमः । ॐ अमितविक्रमायै नमः । ॐ मायावत्यै नमः । ९००ॐ कृपामूर्त्यै नमः । ॐ द्वारेश्यै नमः । ॐ द्वारवासिन्यै नमः । ॐ तेजोमय्यै नमः । ॐ विश्वकामायै नमः । ॐ मन्मथायै नमः । ॐ पुष्करावत्यै नमः । ॐ चित्रादेव्यै नमः । ॐ महाकाल्यै नमः । ॐ कालहन्त्र्यै नमः । ॐ क्रियामय्यै नमः । ॐ कृपामय्यै नमः । ॐ कृपाश्रेष्ठायै नमः । ॐ करुणायै नमः । ॐ करुणामय्यै नमः । ॐ सुप्रभायै नमः । ॐ सुव्रतायै नमः । ॐ माध्व्यै नमः । ॐ मधुघ्न्यै नमः । ॐ मुण्डमर्दिन्यै नमः । ९२०ॐ उल्लासिन्यै नमः । ॐ महोल्लासायै नमः । ॐ स्वामिन्यै नमः । ॐ शर्मदायिन्यै नमः । ॐ श्रीमात्रे नमः । ॐ श्रीमहाराज्ञ्यै नमः । ॐ प्रसन्नायै नमः । ॐ प्रसन्नाननायै नमः । ॐ स्वप्रकाशायै नमः । ॐ महाभूमायै नमः । ॐ ब्रह्मरूपायै नमः । ॐ शिवङ्कर्यै नमः । ॐ शक्तिदायै नमः । ॐ शान्तिदायै नमः । ॐ कर्मफलदायै नमः । ॐ श्रीप्रदायिन्यै नमः । ॐ प्रियदायै नमः । ॐ धनदायै नमः । ॐ श्रीदायै नमः । ॐ मोक्षदायै नमः । ९४०ॐ ज्ञानदायै नमः । ॐ भवायै नमः । ॐ भूमानन्दकर्यै नमः । ॐ भूमायै नमः । ॐ प्रसीदश्रुतिगोचरायै नमः । ॐ रक्तचन्दनसिक्ताङ्ग्यै नमः । ॐ सिन्दूराङ्कितभालिन्यै नमः । ॐ स्वच्छन्दशक्तये नमः । ॐ गहनायै नमः । ॐ प्रजावत्यै नमः । ॐ सुखावहायै नमः । ॐ योगेश्वर्यै नमः । ॐ योगाराध्यायै नमः । ॐ महात्रिशूलधारिण्यै नमः । ॐ राज्येश्यै नमः । ॐ त्रिपुरायै नमः । ॐ सिद्धायै नमः । ॐ महाविभवशालिन्यै नमः । ॐ ह्रीङ्कार्यै नमः । ॐ शङ्कर्यै नमः । ९६०ॐ सर्वपङ्कजस्थायै नमः । ॐ शतश्रुत्यै नमः । ॐ निस्तारिण्यै नमः । ॐ जगन्मात्रे नमः । ॐ जगदम्बायै नमः । ॐ जगद्धितायै नमः । ॐ साष्टाङ्गप्रणतिप्रीतायै नमः । ॐ भक्तानुग्रहकारिण्यै नमः । ॐ शरणागतदीनार्तपरित्राणपरायणायै नमः । ॐ निराश्रयाश्रयायै नमः । ॐ दीनतारिण्यै नमः । ॐ भक्तवत्सलायै नमः । ॐ दीनाम्बायै नमः । ॐ दीनशरणायै नमः । ॐ भक्तानामभयङ्कर्यै नमः । ॐ कृताञ्जलिनमस्कृतायै नमः । ॐ स्वयम्भुकुसुमार्चितायै नमः । ॐ कौलतर्पणसम्प्रीतायै नमः । ॐ स्वयम्भात्यै नमः । ॐ विभातिन्यै नमः । ९८०ॐ शतशीर्षायै नमः । ॐ अनन्तशीर्षायै नमः । ॐ श्रीकण्ठार्धशरीरिण्यै नमः । ॐ जयध्वनिप्रियायै नमः । ॐ कुलभास्कर्यै नमः । ॐ कुलसाधिकायै नमः । ॐ अभयवरदहस्तायै नमः । ॐ सर्वानन्दायै नमः । ॐ संविदायै नमः । ॐ पृथिवीधरायै नमः । ॐ विश्वधरायै नमः । ॐ विश्वगर्भायै नमः । ॐ प्रवर्तिकायै नमः । ॐ विश्वमायायै नमः । ॐ विश्वफालायै नमः । ॐ पद्मनाभप्रसुवे नमः । ॐ प्रजायै नमः । ॐ महीयस्यै नमः । ॐ महामूर्त्यै नमः । ॐ सत्यै नमः । १०००ॐ राज्ञ्यै नमः । ॐ भयार्तिहायै नमः । ॐ ब्रह्ममय्यै नमः । ॐ विश्वपीठायै नमः । ॐ प्रज्ञानायै नमः । ॐ महिमामय्यै नमः । ॐ सिंहारूढायै नमः । ॐ वृषारूढायै नमः । ॐ अश्वारूढायै नमः । ॐ अधीश्वर्यै नमः । ॐ वराभयकरायै नमः । ॐ सर्ववरेण्यायै नमः । ॐ विश्वविक्रमायै नमः । ॐ विश्वाश्रयायै नमः । ॐ महाभूत्यै नमः । ॐ श्रीप्रज्ञादिसमन्वितायै नमः । १०१६स्तोत्रफलश्रुतिः ।दुर्गानामसहस्राख्यं स्तोत्रं तन्त्रोत्तमोत्तमम् ।पठनात् श्रवणात्सद्यो नरो मुच्येत सङ्कटात् ॥१॥अश्वमेधसहस्राणां वाजपेयस्य कोटयः ।सकृत्पाठेन जायन्ते महामायाप्रसादतः ॥२॥य इदं पठति नित्यं देव्यागारे कृताञ्जलिः ।किं तस्य दुर्लभं देवि दिवि भुवि रसातले ॥३॥स दीर्घायुः सुखी वाग्मी निश्चितं पर्वतात्मजे ।श्रद्धयाऽश्रद्धया वापि दुर्गानामप्रसादतः ॥४॥य इदं पठते नित्यं देवीभक्तो मुदान्वितः ।तस्य शत्रुक्षयं याति तथा शक्रसमो भवेत् ॥५॥प्रतिनाम समुच्चार्य स्रोतसि यः प्रपूजयेत् ।षण्मासाभ्यन्तरे देवि निर्धनी धनवान् भवेत् ॥६॥वन्ध्या वा काकवन्ध्या वा मृतवत्सा च याऽङ्गना ।अस्य प्रयोगमात्रेण बहुपुत्रवती भवेत् ॥७॥आरोग्यार्थे शतावृत्तिः पुत्रार्थे ह्येकवत्सरम् ।दीप्ताग्निसन्निधौ पाठात् अपापो भवति ध्रुवम् ॥८॥अष्टोत्तरशतेनास्य पुरश्चर्या विधीयते ।कलौ चतुर्गुणं प्रोक्तं पुरश्चरणसिद्धये ॥९॥जपाकमलपुष्पं च चम्पकं नागकेशरम् ।कदम्बं कुसुमं चापि प्रतिनाम्ना समर्चयेत् ॥१०॥प्रणवादिनमोऽन्तेन चतुर्थ्यन्तेन मन्त्रवित् ।स्रोतसि पूजयित्वा तु उपहारं समर्पयेत् ॥११॥इच्छाज्ञानक्रियासिद्धिर्निश्चतं गिरिनन्दिनि ।देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभम् ॥१२॥स यास्यति न सन्देहो श्रीदुर्गानामकीर्तनात् ।भजेद्दुर्गां स्मरेद्दुर्गां जपेद्दुर्गां शिवप्रियाम् ।तत्क्षणात् शिवमाप्नोति सत्यं सत्यं वरानने ॥१३॥॥ इति तन्त्रराजतन्त्रान्तर्गता स्तोत्रमुद्धृता श्रीदुर्गासहस्रनामावलिः समाप्ता ॥ N/A References : N/A Last Updated : January 15, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP