मराठी मुख्य सूची|स्तोत्रे|सहस्रनामावली| वरिष्ठ उवाच - कथं नामसहस्... सहस्रनामावली ब्रह्मानन्दं परमसुखदं केव... अथ मूलम् । ॐ श्रीं ह्रीं ... ॐ श्रीगणेशाय नमः । श्वेता... श्रीअरुणाचलेश्वरसहस्रनामावली अर्धनारीश्वरसहस्रनामावलिः ॐ हिरण्यबाहवे हिरण्यवर्णा... श्रीहनुमत्सहस्रनामावलिः ॐ श्रीगणेशाय नमः । ॐ ब्र... ॐ इन्द्राय नमः । देवतमाय ... ॐ श्रीगणेशाय नमः । ॐ नमोद... ॐ अस्य श्रीसर्वसाम्राज्यम... ध्यानम् । कान्त्या काञ्चन... ॐ श्रीगणेशाय नमः । ॐ नका... ॐ अस्य कामकलाकालीसहस्रनाम... श्री गणेशाय नमः । श्रीकाम... कालोऽहम् । अस्य श्रीकालना... शिव उवाच- नाम्नां सहस्रं ... ॐ श्मशानकालिकायै नमः । ॐ ... अथ कुञ्चितपादसहस्रनामावलि... धनं दारान्सुतान्क्षेत्रं ... षड्वक्त्रं शिखिवाहनं त्रि... ॐ कृष्णाय नमः । श्रीवल्लभ... ॐ अस्य श्रीपुराणपुरुषोत्त... श्रीगणेशाय नमः । श्रीकेदा... सितमकरनिषण्णां शुभ्रवर्णा... श्रीगणेशाय नमः । श्रीसमर्... ॐ अस्य श्रीगणपतिगकारादिसह... ॐ सुमुखाय नमः । सुवहाय । ... ध्यानम् रक्तश्वेतहिरण्यनी... ध्यानम् - रक्तश्वेतहिरण्य... ॐ शं शां षं ह्रीं क्लीं ग... अथ ध्यानम् । सूर्यस्पर्धि... ॐ श्री गुरुभ्यो नमः । गुर... ॐ श्रीगणेशाय नमः । सर्वत्... अथ श्रीगोपालदिव्यसहस्रनाम... ॐ गवे नमः । ॐ गौविन्द्यै ... श्रीगुरुभ्यो नमः । श्रीका... ॐ अस्य श्रीप्रचण्डचण्डिका... अथ श्रीयोगेश्वरकवि द्वारा... अस्य श्रीज्वालामुखीसहस्रन... विश्वव्यापकवारिमध्यविलसच्... ॐ अस्य श्रीतारासहस्रनामस्... ॐ भुवनेश्यै नमः । ॐ भुवार... ॐ अस्य श्रीमहोग्रतारा दिव... वरिष्ठ उवाच - कथं नामसहस्... ॐ तुलस्यै नमः । ॐ श्रीप्र... ॐ श्रीमत्त्यागमहाराजाय नम... श्रीगणपतये नमः । ॐ अनेजते... ध्यानम् । उद्यद्भानुसहस्र... ॐ योगेशाय नमः । ॐ अमरप्रभ... महाकालभैरव ऋषिस्त्रिष्टुप... अस्य श्रीदक्षिणामूर्तिसहस... ॐ आदिदेवाय नमः । दयासिन्ध... ध्यानम् । स्फटिकरजतवर्णां... ऋषिच्छन्दांसि - अस्य श्री... तन्त्रराजतन्त्रे पूर्वपीठ... ध्यानम् । १. सिंहस्था शशि... महामन्त्रस्य श्रीमहेश्वर ... ध्यानम् - रक्ताभां रक्तवस... ॐ श्रीमते नमः । ॐ धन्वन्त... ॐ नमो भगवते भूतनाथाय । ॐ ... ध्यानम् । विवर्णा चञ्चला ... अस्य श्री शिवकामसुन्दरीसम... ॐ अस्य श्रीनटेशसहस्रनामस्... ॐ श्री गणेशाय नमः । अस्य ... श्री गुरुभ्यो नमः । ॐ श्र... श्री गुरुभ्यो नमः । ॐ श्र... ॥ ध्यानम् ॥ श्रीमित्रेश्... श्रीराधासर्वेश्वरो विजयते... पद्मावतीशतम् ॐ श्री पद्मा... ॐ श्रीगणेशाय नमः । ॐ अस्य... अथ विनियोगः । ॐ अस्य श्री... अथ अकारादि-क्षकारान्तासहस... ॐ शिवायै नमः । उमायै । पर... ॐ श्रीकृष्णाय नमः । सच्चि... अस्य श्रीप्रणवसहस्रनामस्त... ईश्वर उवाच । शृणु देवि प... ॐ ब्रह्मास्त्राय नमः । ॐ ... श्रीमहादेव उवाच - अस्य श्... विनियोगः - ॐ अस्य श्रीबटु... रुद्रयामलोक्तबटुकभैरवसहस्... ॐ अस्य श्रीबलभद्रसहस्रनाम... ॐ ऐं ह्रीं श्रीं-आनन्दसिन... शौनक उवाच - कैलासशिखरे रम... श्रीदेव्युवाच - भगवन्भाषि... ओं ऐं ह्रीं श्रीङ्कल्याण्... ॐ परमात्मने नमः ॐ धर्मक्... ॐ निस्सीमोद्यद्गुणाय नमः ... ॐ क्रकुच्छन्दाय नमः । ॐ क... ध्यानम् - बालार्कमण्डलाभा... विनोयोगः - ॐ अस्य श्रीभुव... प्रणवाय ब्रह्मणे उद्गीथाय... विनियोगः । ॐ अस्य श्रीमहा... श्रीः । ॐ नमश्चण्डिकायै ।... ॐ ह्रीं श्रीं क्लीं गणाध्... ॐ महामार्यै नमः । महामाया... पार्वत्युवाच - भगवन् वेदत... श्रीगणेशाय नमः । श्रीमहाल... ॐ ह्रीं ऐं ह्रीं महावाण्य... ध्यानम् श्रीमच्चन्दनचर्चि... ॐ अद्भुताय नमः । अद्भुतचा... ॐ सुमुख्यै नमः । ॐ शेमुष्... ॐ अम्बायै नमः । ॐ अम्बालि... ॐ अस्यश्री मूकाम्बिकायाः ... श्रीभैरव उवाच । अस्य श्री... अस्य श्री मेधादक्षिणामूर्... ॐ नमो भगवते दक्षिणामूर्तय... गर्गसंहितातः ॐ कालिन्द्य... अस्य श्रीयोगेश्वरीसहस्रना... ॐ योगिन्यै नमः । योगमायाय... देव्युवाच - भगवन्सर्वशास्... सोन्दूर श्रीकृष्ण अवधूतवि... वन्दे वृन्दावनानन्दा राधि... ॐ श्रीराधायै नमः । राधिका... ॐ श्रीराधायै नमः । राधिका... ॐ अस्य श्रीरामसहस्रनाममाल... ॐ आर्यश्रेष्ठाय नमः । धरा... सङ्कल्पः - यजमानः, आचम्य,... ॐ नमो भगवते वासुदेवाय । ॐ... ॐ स्थिराय नमः । स्थाणवे ।... न्यासः । अस्य श्रीरुद्रसह... अथ श्रीरेणुकातन्त्रान्तर्... सिन्दूरारुणविग्रहां त्रिन... ॐ श्रियै नमः । वासुदेवमहि... ॐ नित्यागतायै नमः । ॐ अनन... ॐ श्रीवराहाय नमः । भूवराह... ॐ वल्ल्यै नमः । ॐ वल्लीश्... ॐ श्रीवाग्मत्याः सहस्रनाम... ॐ श्रीगणेशाय नमः । श्रीनन... वराहमुख्यै विद्महे । दण्ड... ध्यानम् - ओङ्कारबीजाक्षरी... शुक्लाम्बरधरं विष्णुं शशि... ॐ क्लीं विट्टलाय नमः । पा... पूर्वन्यासः । श्रीवेदव्या... श्रीविष्णुसहस्रनामावलिः प... रुद्र उवाच । संसारसागराद... ॐ श्रीगणेशाय नमः । ॐ विष... श्रीशिवाय गुरवे श्रीवीरभ... वेङ्कटेशस्य नाम्नां हि सह... ॐ श्री गुरुभ्यो नमः । अथ ... ॐ शङ्कराय नमः । ॐ श्रीधरा... ॐ गाढध्वान्तनिमज्जनप्रमुष... ॐ अमिताभाषिणे नमः । ॐ अघह... ॐ श्रीगणेशाय नमः । ॐ श्री... विनियोगः - अस्य श्रीशारिक... अस्य श्रीशास्तृशवर्णसहस्र... ॐ अस्य श्री शिवकामसुन्दरी... अस्य श्रीशिवकामसुन्दरीसहस... ॐ अखिलेश्वर्यै नमः । अग्न... ॐ स्थिराय नमः । ॐ स्थाणवे... ॐ श्री गणेशाय नमः । अथ श्... ॐ ओङ्कारकण्ठनिलयाय नमः । ... ॐ ॐकारनिलयात्मस्थाय नमः ।... श्री विष्णुरुवाच ॐ भवाय ... अस्य श्रीशिवसहस्रनामस्तोत... ॐ सौभाग्यलक्ष्म्यै नमः । ... ॐ राधिकेशाय नमः । ॐ जगन्न... सद्गुरु श्रीधरस्वामिनाप्र... ईशानमुखपूजा- ॐ जगद्भुवे न... ॐ वचनभुवे नमः । पराय । शङ... ॐ रुद्रभुवनाय नमः । अनन्त... ॐ ब्रह्मभुवे नमः । भवाय ।... अघोर मुखपूजा । ॐ विश्वभुव... ॐ अचिन्त्य शक्तये नमः । अ... जपसाधना ॐ अस्य श्रीमहात्र... ॐ सङ्कटायै नमः । ॐ विजयाय... ॐ सङ्गीतालय-प्रतिष्ठित-भग... ॐ सीतायै नमः । उमायै । पर... ॐ श्रीचक्राय नमः । ॐ श्री... ॐ शुक्लाम्बरधरं विष्णुं श... ॐ श्री गणेशाय नमः । अस्य ... ॐ अस्य श्रीसुब्रह्मण्यसहस... बिल्वैर्वा चम्पकाद्यौर्वा... ध्यानम् - ध्येयः सदा सवित... श्रीरुद्रयामले तन्त्रे श्... श्रीसूर्यसहस्रनामावलिः ॐ सुब्रह्मण्याय । सुरेशान... ॐ नमः । ओङ्कारनमोरूपाय । ... ॐ श्रीहयग्रीवाय नमः । श्र... स्वामिनारायणं कृष्णं भक्त... १. ॐ स्थिराय नमः । २. ॐ ... ॥ श्रीदुर्गादैव्ये नम: ॥ ... १. ॐ राजीवलोचनाय नमः । ... १ ॐ अचिन्त्यलक्षणायै नमः ... १ ॐ कालिन्द्यै नमः । २ ॐ... १ ॐ अन्नपूर्णायै नमः । ... १. ॐ नारसिंहाय नमः । २. ... १ ॐ देवकीनन्दनाय नमः । २... १ ॐ क्लीं देवाय नमः । २ ... १ ॐ श्रियै नमः । २ ॐ पद्... १ ॐ हनुमते नमः । २ ॐ श्र... ॥ श्रीकृष्णाय नमः ॥ १. ॐ ... १. ॐ विश्वविदे नम: । २. ... १. ॐ गणेश्वराय नम: । २.... १. ॐ ऐं ह्रीं श्रीं श्रीम... १ ॐ सीतायै नमः । २ ॐ उमा... १ ॐ ओंकाररूपिण्यै नमः । ... १. ॐ विश्वस्मै नमः । २.ॐ... १. ॐ श्रीराधायै नमः । २.... ॐ गणपतये नमः ॥ ॥ ॐ गणेश्व... श्रीतुरजासहस्रनामावलिः - वरिष्ठ उवाच - कथं नामसहस्... हिंदू देवी देवतांची एक हजार नावे म्हणजेच सहस्त्रनामावली. हिंदू धर्मिय रोज सकाळी संध्याकाळी या नावांचा जप करतात.A sahasranamavali is a type of Hindu scripture in which a diety is referred to by 1000 or more different names.Many devout Hindus chant them every morning or evening. Tags : 1000godgoddesssahasranamavaliसहस्त्रनामावली श्रीतुरजासहस्रनामावलिः Translation - भाषांतर वरिष्ठ उवाच -कथं नामसहस्रन्तु रामप्रोक्तं वदस्वमे ।यानि गौणानि नामानि योगिकानि च शङ्कर ॥१॥तानि सर्वाणि कृपया साकल्येन तु कीर्तय ।श्रुत्वाहं देव परमां सिद्धिं यास्यामि शाश्वतीम् ॥२॥श्रीशङ्कर उवाच -नामानि ते प्रवक्ष्यामि तुरजायाः शुभानि च ।एतानि प्रपठेद्विद्वान्नमो तानि मुनेश्वर ॥३॥विनियोगः अङ्गन्यासश्च -ॐ अस्य श्रीतुरजासहस्रनामस्तोत्रमन्त्रस्य श्रीरामचन्द्रऋषीः शिरसि ।अनुष्टुपछन्दसे नमः मुखे । श्रीतुरजादेवतायै नमः हृदये ।श्रीं बीजायै नमः गुह्ये ।ह्रीं शक्तये नमः पादयोः ।क्लीं कीलकाय नमः सर्वाङ्गे ।श्रीतुरजाप्रीत्यर्थे जपे विनियोगः ॥अथ करन्यासः -ॐ ह्रीं तुरजायै अङ्गुष्ठाभ्यां नमः ।ॐ श्रीं तमजायै तर्जनीभ्यां नमः ।ॐ क्लीं तीव्रायै मध्यमाभ्यां नमः ।ॐ ब्रीं भैरव्यै अनामिकाभ्यां नमः ।ॐ घ्रीं कालिकायै कनिष्ठिकाभ्यां नमः ।ॐ फ्रीं भ्रीं स्वाहा सिद्धिप्रदायै करतलकरपृष्ठाभ्यां नमः ॥अथ हृदयादिन्यासः ।ॐ ह्रीं तुरजायै नमः हृदयाय नमः ।ॐ श्रीं तमजायै नमः शिरसे स्वाहा ।ॐ क्लीं तीव्रायै नमः शिखायै वषट् ।ॐ ब्रीं भैरव्यै नमः कवचाय हुम् ।ॐ घ्रीं कालिकायै नमः नेत्रत्रयाय वौषट् ।ॐ फ्रीं भ्रीं स्वाहा सिद्धिप्रदायै नमः अस्त्राय फट् ।ॐ भूर्भुवः स्वरोमिति दिग्बन्धः ।अथ ध्यानं -श्यामां पूर्णेन्दुवदनां श्वेताम्बरधरां शिवाम् ।महामेघनिनादान्तां निर्वाते दीपवत् स्थिराम् ।भुजाष्टकयुतां बाणचापशूलगदाधराम् ।खड्गं शङ्खं तथा चक्रं वरदां भयहारिणीम् ॥१॥शङ्करप्रियवामाङ्के वैष्णवी भयहारिणी ।एवं रूपां तु तुरजां नमामि परमेश्वरीम् ॥२॥अथ सहस्रनामस्तोत्रप्रारम्भश्लोकानि -वरिष्ठ उवाच -कथं नामसहस्रन्तु रामप्रोक्तं वदस्वमे ।यानि गौणानि नामानि योगिकानि च शङ्कर ॥१॥तानि सर्वाणि कृपया साकल्येन तु कीर्तय ।श्रुत्वाहं देव परमां सिद्धिं यास्यामि शाश्वतीम् ॥२॥श्रीशङ्कर उवाच -नामानि ते प्रवक्ष्यामि तुरजायाः शुभानि च ।एतानि प्रपठेद्विद्वान्नमो तानि मुनेश्वर ॥३॥विनियोगः अङ्गन्यासश्च -ॐ अस्य श्रीतुरजासहस्रनामस्तोत्रमन्त्रस्यश्रीरामचन्द्रऋषीः शिरसि ।अनुष्टुपछन्दसे नमः मुखे ।श्रीतुरजादेवतायै नमः हृदये ।श्रीं बीजायै नमः गुह्ये ।ह्रीं शक्तये नमः पादयोः ।क्लीं कीलकाय नमः सर्वाङ्गे ।श्रीतुरजाप्रीत्यर्थे जपे विनियोगः ॥अथ करन्यासः -ॐ ह्रीं तुरजायै अङ्गुष्ठाभ्यां नमः ।ॐ श्रीं तमजायै तर्जनीभ्यां नमः ।ॐ क्लीं तीव्रायै मध्यमाभ्यां नमः ।ॐ ब्रीं भैरव्यै अनामिकाभ्यां नमः ।ॐ घ्रीं कालिकायै कनिष्ठिकाभ्यां नमः ।ॐ फ्रीं भ्रीं स्वाहा सिद्धिप्रदायै करतलकरपृष्ठाभ्यां नमः ॥अथ हृदयादिन्यासः ।ॐ ह्रीं तुरजायै नमः हृदयाय नमः ।ॐ श्रीं तमजायै नमः शिरसे स्वाहा ।ॐ क्लीं तीव्रायै नमः शिखायै वषट् ।ॐ ब्रीं भैरव्यै नमः कवचाय हुम् ।ॐ घ्रीं कालिकायै नमः नेत्रत्रयाय वौषट् ।ॐ फ्रीं भ्रीं स्वाहा सिद्धिप्रदायै नमः अस्त्राय फट् ।ॐ भूर्भुवः स्वरोमिति दिग्बन्धः ॥अथ ध्यानं -श्यामां पूर्णेन्दुवदनां श्वेताम्बरधरां शिवाम् ।महामेघनिनादान्तां निर्वाते दीपवत् स्थिराम् ।भुजाष्टकयुतां बाणचापशूलगदाधराम् ।खड्गं शङ्खं तथा चक्रं वरदां भयहारिणीम् ॥१॥शङ्करप्रियवामाङ्के वैष्णवी भयहारिणी ।एवं रूपां तु तुरजां नमामि परमेश्वरीम् ॥२॥अथ सहस्रनामावलिः ।ॐ तुरजायै नमः । तमजायै । तीव्रायै । त्रिविधायै ।त्रिगुणात्मिकायै । पङ्कजायै । पद्मिन्यै । पद्मायै । सुगन्धायै ।गन्धवर्धिन्यै । रसजायै । मूलजायै । धारायै । घटजायै ।घटसंस्थितायै । घटोदर्यै । घटाकारायै । कर्णिकायै ।निकुम्भिकायै । गिरजायै नमः । २०ॐ शैलसंस्थायै नमः । दुर्गजायै । दुर्गवासिन्यै । सिद्धिमार्गायै ।मण्डलिन्यै । उत्तरायै । तरलायै । समायै । अम्बष्ठायै ।शिरोनिष्ठायै । मनोनिष्ठायै । घोषितायै । वाटिकायै । मालिन्यै ।पुष्पायै । सुगन्धायै । मधुपायै । मध्वै । बलादिकायै । बलकर्यै नमः । ४०ॐ पार्थिव्यै नमः । पार्थिवद्रुमायै । रसाधिकायै । निरसायै ।स्वादुग्रायै । हितकाङ्क्षिण्यै । विजितायै । कुलितायै । शाखायै ।छायायै । जटिलमूलिकायै । विस्तारायै । स्थावरायै । मौर्व्यै ।जङ्गमायै । निगमायै । गमायै । भवान्यै । भैरव्यै । भूत्यै नमः । ६०ॐ प्रतिमायै नमः । प्राणदायै । बल्यै । दीपरूपायै । धूपगन्धायै ।ज्वालामालाप्रकाशिन्यै । पञ्चाननायै । तिमिरायै । अरुणायै ।श्यामलायै । शुभायै । पानप्रियायै । भुक्तिदायै । पूजादिबलिभक्षिण्यै । महादेव्यै । महामुर्ध्ने । दीर्घायै । कुमारिकायै ।महोदर्यै । महानाभ्यै नमः । ८०ॐ बलदन्त्यै नमः । महाबलायै । सुरनिद्रायै । घोरनिद्रायै ।भोगनिद्रायै । भोगदायै । महानिद्रायै । मोहनिद्रायै । सुखनिद्रायै ।सुखोद्भवायै । खेटहस्तायै । पाशहस्तायै । गदाहस्तायै । तोमरायै ।चक्रहस्तायै । शङ्खहस्तायै । चापहस्तायै । बाणभृते ।सिन्दूरवर्णायै । उदितायै नमः । १००ॐ अन्हायै नमः । अन्धकघातिन्यै । अपर्णायै । विकर्णायै । परायै ।चन्द्रकलायै । पूर्णछिन्नायै । कौमुद्यै । निरस्तायै । नवग्रहायै ।अक्षानक्तायै । कङ्कुमाभायै । कान्तायै । कुमारिकायै । भ्रान्तायै ।तरङ्गिण्यै । काल्यै । कङ्काल्यै । नलकूबर्यै । कपालिन्यै नमः । १२०ॐ काकमूर्ध्ने नमः । करतन्त्र्यै । त्रिवादिन्यै । शालिकायै ।यन्त्रिण्यै । दण्ड्यै । नाठिन्यै । तुम्बर्यै । तालनादप्रियायै ।मृदङ्गध्वनितत्परायै । रक्तपायै । रक्तलिप्तायै ।रक्तबीजनिपातिन्यै । रक्ताक्ष्यै । रक्तसर्वायै । रक्तदन्त्यै ।सुदन्तिकायै । रक्तदन्तायै । रक्तबिम्बायै । रक्तधाराप्रवाहिकायै नमः । १४०ॐ रक्तमूर्ध्ने नमः । रक्तजिह्वायै । रसनायै । भद्रकालिकायै ।भद्रायै । सुभद्रायै । रुद्रार्द्रायै । सर्वाभद्रविनाशिन्यै ।हिङ्गुलायै । हेमाङ्ग्यै । ह्यग्रीवायै । तपस्विन्यै । तर्पणायै ।कर्षणायै । होमायै । सङ्कल्पायै । होत्रमन्त्रिकायै । स्रुवायै ।दर्व्यै । द्रोण्यै नमः । १६०ॐ स्वाहायै नमः । कलशवेदिकायै । आहुत्यै । समिते । दर्भायै ।स्रुवायै । पिङ्गललोचनायै । प्रकृष्टायै । फलदायै ।शान्तायै । पित्रे । वेदोदयायै । अपर्णायै । सुफलायै । यज्ञायै ।यज्ञाङ्गफलदायिन्यै । विश्वमात्रे । विश्वबलायै । विश्वगर्भायै ।प्रवर्तिकायै नमः । १८०ॐ विश्वोदर्यै नमः । विश्वमुख्यै । विश्वसम्भतिकारिण्यै ।विश्वेश्वर्यै । विश्वधरायै । मरुद्भूतायै । सर्पिण्यै ।पृथ्वीधरायै । पद्मिन्यै । नाग्यै । उरगायै । पक्षिण्यै ।मलयावासायै । धत्तूरकुसुमप्रियायै । सलिलार्घ्यप्रियायै । शैलायै ।लिङ्गनिष्ठायै । घण्टिकायै । शिखायै । दीक्षायै नमः । २००ॐ तुलस्यै नमः । सेवासंयमतत्परायै । निवृत्तायै । शयनायै ।सुत्पायै । सौसुत्पिकजनप्रियायै । वृत्तमालायै । नियमायै ।यज्ञियायै । नन्दिन्यै । नारायण्यै । अमोघायै । प्रकटायै । तरुण्यै ।प्रियायै । समुद्रायै । सङ्गमायै । पूर्णायै । कल्लोलायै । उर्मिमालिन्यै नमः । २२०ॐ मुमूर्षायै नमः । रोषरुष्टायै । जुगुप्सितविरोधिन्यै । इन्दिरायै ।ईडितायै । इन्द्रायै । नुतायै । निलाम्बरायै । महाकृष्णायै ।कृष्णवर्णायै । कृष्णस्रुचे । कृष्णवासिन्यै । शुक्लाम्बरायै ।कोटिचन्द्रायै । मार्तण्डायै । अग्निरुचे । रत्नदन्त्यै । रत्ननासायै ।रत्नमालाविभूषणायै । रत्नाम्बरायै नमः । २४०ॐ रत्नकञ्चवे नमः । रत्नाक्ष्यै । रत्नकुण्डलायै । रत्नहस्तायै ।रत्ननखायै । रत्नकङ्कणमण्डितायै । रत्नछत्रायै । रत्नवर्णायै ।रत्नेशायै । रत्नहेलिकायै । रत्नासनायै । रत्नराशये । रत्नोष्ठ्यै ।रत्नजिह्वीकायै । जगत्कत्र्यै । जगत्कार्यायै । जगद्वासायै ।जगन्निध्यै । जगत्प्राणायै । जगद्द्रष्ट्रे नमः । २६०ॐ जगज्जिह्वायै नमः । जगद्रसायै । जगच्चक्षुषे । जगत्प्राणायै ।जगच्छ्रोत्रे । जगन्मुख्यै । जगद्वन्द्यायै । जगद्रूपायै ।जगत्स्वप्नायै । जागृत्यै । जगच्छत्रायै । जगद्धात्र्यै ।जगद्भर्त्र्यै । जगत्पित्रे । जगत्पत्न्यै । जगन्मात्रे । जगद्भ्रात्रे ।जगते । जगज्जायायै । जगद्वन्द्यायै नमः । २८०ॐ जगद्धर्म्यै नमः । जगन्मय्यै । जगद्धात्र्यै । जगत्प्राणायै ।जगद्योन्यै । जगन्मय्यै । जगत्स्थित्यै । जगत्सर्गाय । जगत्सर्वायै ।जगन्मय्यै । जगच्छायायै । जयन्त्यै । जगन्मोहायै । जागृत्यै ।सर्वस्तम्भ्यै । महामायायै । जगद्दीक्षायै । जयायै ।भक्तैकलभ्यायै । द्विविधायै नमः । ३००ॐ त्रिविधायै नमः । चतुर्विधायै । इन्द्राक्ष्यै । पञ्चरूपायै ।सहस्ररूपधारिण्यै । रुद्राक्ष्यै । कमलाक्ष्यै । तिमिरायै । दीपिकायै ।वर्तिरूपायै । हडायै । तैलायै । प्रख्यायै । निर्वाणिकायै । शिवायै ।मूलाद्रिवासिन्यै । वराट्यै । मूलिकायै । परायै । मूलज्वालायै नमः । ३२०ॐ मूलमन्त्रायै नमः । मधुकैटभघातिन्यै । सप्तज्वालायै ।महाज्वालायै । ज्वालमालिन्यै । नवकुम्भायै । नवरुच्यै । कामज्वालायै ।नवाननायै । गर्भज्वालायै । बालायै । चक्षुर्वालायै । नवाम्बरायै ।नवभूत्यै । नवबलायै । नवरक्तायै । नववृतायै । नवखण्डायै ।देशायै । नवदण्डायै नमः । ३४०ॐ नवाक्षरायै नमः । नवजङ्घायै । सुवीर्यायै । नवदुर्गायै ।जाग्रत्यै । नवमार्गायै । नवम्यै । नवसस्यायै । नवेश्वर्यै ।नवरूपायै । नवकलायै । नवनाड्यै । नवाननायै । नवक्रीडायै ।नवविधायै । नवयोगिनिकायै । नवम्यै । मङ्गलायै । विजयायै ।दशम्यै नमः । ३६०ॐ याम्यायै नमः । दिग्वासिन्यै । विदिशायै । दिशायै ।कुलुपाद्यन्तरिक्षायै । दक्षिणामुख्यै । दधिवर्णायै । रामवरदायै ।दशास्यवंशभेदिन्यै । विन्ध्यासिन्यै । सिद्धिहस्तायै । अन्नपूर्णायै ।सुन्दर्यै । अष्टाक्षरपरानन्दायै । चामुण्डायै । मुण्डवाहिन्यै ।पीताम्बरायै । दीप्तिहस्तायै । मङ्गलायै । मङ्गलोदयायै नमः । ३८०ॐ कालनाशायै नमः । कर्मनाशायै । कलिनाशायै । कालिकायै ।एणरूपायै । वृषाश्वायै । अजायै । क्रोडायै । कुक्कुट्यै । सुकण्ठायै ।कोकिलायै । काल्यै । मुखर्यै । वैखर्यै । मृग्यै । मयूर्यै ।माक्षिण्यै । गृध्र्यै । बलाकायै । करालिन्यै नमः । ४००ॐ जलनिष्ठायै नमः । काकजङ्घायै । निर्गुणायै । गुरुवन्दितायै ।भ्रामर्यै । अम्बिकायै । मन्दायै । अदन्तायै । सुदन्तिकायै ।उक्तुङ्गायै । कलशायै । शोकायै । चतुर्दन्तायै । भृशुण्डिन्यै ।ऊर्ध्वनेत्रायै । ऊर्ध्वमुख्यै । तेजिष्ठायै । त्राटिकायै । रवये ।रथिन्यै नमः । ४२०ॐ रथसंस्थायै नमः । चक्रिकायै । रथवाहिन्यै । भ्रामितायै ।सप्ततुण्डायै । भीमायै । हयमुख्यै । प्रथिकायै । प्रखुरायै ।अङ्कायै । दक्षिणायै । परिदक्षिणायै । रचनायै । रोचनायै ।रामायै । रमितायै । शमितायै । शमायै । लतायै । ललितायै नमः । ४४०ॐ लक्ष्म्यै नमः । कामितायै । कामनायै । अग्निधारायै । सप्तधारायै ।भगधारायै । त्रिधास्मृतायै । अष्टप्रकृत्यै । अष्टभुजायै ।वरदायै । अष्टनायकायै । अर्धधारायै । मूलधारायै । दशधारायै ।गदाद्यै । जलदायै । निगडायै । मारणायै । अविलम्बायै । वाग्म्यै नमः । ४६०ॐ प्राखुरायै नमः । वाग्विवादिन्यै । उड्डीयमानायै । ऊर्ध्वाक्ष्यै ।बुद्बुदायै । बर्बराम्बरायै । धूर्णाक्ष्यै । पटलायै । कोपायै ।उत्तीर्णायै । उल्लसाननायै । कल्लोलायै । उन्नतायै । बालायै ।शुभायै । कल्लोलमालिन्यै । उपलक्षायै । उमालक्षायै । परिक्षायै ।रक्षिकायै नमः । ४८०ॐ उपेन्द्रायै नमः । इन्द्रवरदायै । महाकाल्यै । निशाचर्यै ।पापघ्न्यै । पापनाशायै । ब्रह्मघ्न्यै । शापमोचन्यै । शर्वायै ।तृष्णायै । उच्छिष्टायै । चाण्डाल्यै । परिघायुधायै । अपर्णायै ।पर्णवलितायै । पत्यै । पतितपावन्यै । महाद्वन्द्वायै । महावाद्यै ।एकवीरायै नमः । ५००ॐ जगज्जयायै नमः । पञ्चाल्यै । पञ्चपाञ्चाल्यै । प्रपञ्च्यै ।त्रिपद्यै । वेदमात्रे । त्रिगुणायै । गुणशाम्भव्यै । ॐकार्यै ।वेदिकायै । वाचायै । ह्रीङ्कार्यै । सकलागमायै । त्रीङ्कार्यै ।त्रिपुरायै । पूजायै । श्रीङ्कार्यै । सर्वसुन्दर्यै । क्लीङ्कार्यै ।कालिकायै नमः । ५२०ॐ केश्यै नमः । घ्रीङ्कार्यै । घटवासिन्यै । ब्रीङ्कार्यै । बगलायै ।बालायै । फ्रीङ्कार्यै । फणिभूषणायै । भ्रीङ्कार्यै । भैरव्यै ।भूत्यै । भगदात्र्यै । भगायै । ज्रीङ्कार्यै । जलजिह्वायै ।जृम्भिकायै । जलयोगिन्यै । दिगम्बर्यै । जटाजूट्यै । कुमार्यै नमः । ५४०ॐ पिङ्गकेशिन्यै नमः । कन्यायै । प्रकन्यायै । कन्दर्पायै ।वेदनायै । वाल्मिक्यै । गुणायै । चतुर्भुजायै । चतुर्वाससे ।चर्चिकायै । चतुराननायै । अर्चितायै । चर्चिकायै । चित्रायै ।चक्रस्थायै । चक्ररूपिण्यै । आवाह्यायै । विसर्गायै । लिङ्गरूपायै ।विसर्जन्यै नमः । ५६०ॐ लिङ्गनिष्ठायै नमः । लिङ्गसेव्यायै । लिङ्गसेवया मथितायै ।कर्मरेखायै । चन्द्ररेखायै । चित्ररेखायै । वसन्तिकायै ।सदोदयायै । तालवासायै । खर्जूरायै । तालमूर्ध्निकायै ।खण्डजङ्घायै । ऋतुपदायै । अङ्गुष्ठायै । दृढबन्धिन्यै ।प्रबोधायै । गृन्थिकायै । गाधायै । ऊहावितर्कवादिन्यै । विनायक्यै नमः । ५८०ॐ विनम्रायै नमः । प्रसिद्धायै । विजयायै । जयायै । लम्बोदर्यै ।शिखोर्ध्वायै । चित्रवस्त्रावलम्बिन्यै । षोडश्यै । नारसिंह्यै ।शीतलायै । परिशीतलायै । गुहायै । किरातायै । कदल्यै ।कदलीवनवासिन्यै । महाव्याघ्रवरारोहायै । धनुर्बाणधराधरायै ।लम्बिन्यै । विपाशायै । क्षुधायै नमः । ६००ॐ सन्देशिकायै नमः । विलासिन्यै । विपुलिकायै । कालिकायै ।प्रवेशिकायै । वाणिकायै । वनवासायै । बर्बरायै । खर्परासनायै ।मौञ्ज्यै । भुजङ्गिन्यै । चारायै । प्रभुघण्टायै । जलाजरायै ।बालाजरायै । योगवेण्यै । सुकेश्यै । वेणिकायै । रम्भायै ।प्रखण्डायै नमः । ६२०ॐ खंवास्यै नमः । स्वागतायै । स्थानदायकायै । श्यामायै ।प्रसन्नायै । सुमुख्यै । वर्मिकायै । कर्णिकायै । शुचिकायै ।मुग्धिकायै । गाधायै । भोगदायै । सुभगायै । भुक्तिदायै ।मुक्तिदायै । देव्यै । ऋद्धिदायै । सुखदायिन्यै । सिद्धिदायै ।बुद्धिदायै नमः । ६४०ॐ मात्रे नमः । वर्मिण्यै । फलदायिन्यै । क्षुरिकायै । जिरिकायै ।जङ्घायै । आणिकायै । गूढखड्गिन्यै । ध्वजिन्यै । वाजिन्यै । वाज्यै ।पताकायै । वर्मिण्यै । हस्तिन्यै । कालिकायै । बाणायै । अत्रिजायै ।वज्रधारिण्यै । छत्रिण्यै । रणिकायै नमः । ६६०ॐ रोषायै नमः । अजितायै । दलभाजिन्यै । वाग्देव्यै । छिन्नमूर्ध्ने ।गूढेन्द्रायै । पथिकायै । लोलिकायै । धूर्णिकायै । धूर्णायै ।स्वशिकायै । निश्वासायै । व्यथायै । हाहायै । परिहायै । वश्यकायै ।निर्भयायै । भयायै । वर्मिण्यै । परिवीरायै नमः । ६८०ॐ उत्कण्ठायै नमः । मुखमण्डितायै । कोटिन्यै । दलिन्यै । दीर्घायै ।धूसुरायै । बलराक्षस्यै । नाविकायै । छिद्रिकायै । क्षेपायै ।दुर्गन्धायै । घोरवासिन्यै । अघोरायै । परिघोरायै । महाघोरायै ।तिघस्मरायै । सुवीर्यायै । घोरमन्त्रायै । किरीट्यै । घोरभक्षिण्यै नमः । ७००ॐ पूर्णवक्त्रायै नमः । पूर्णमुख्यै । परमायै । परमेश्वर्यै ।मौलिन्यै । बिम्बिन्यै । बिम्बायै । तर्षिण्यै । तुरजायै । तृषायै ।तृतीयायै । चतुरीयायै । तुरजायै । भवतारिण्यै । सुदर्शायै ।तरुण्यै । तारायै । चरितायै । दैत्यजायै । दक्षिणायै नमः । ७२०ॐ कर्णिकायै नमः । काल्यै । कङ्काल्यै । नलकूबर्यै । नैऋत्यायै ।नलिकायै । नित्यायै । नैमित्यायै । निमिषायै । निशायै ।इच्छापूर्णायै । विन्ध्यकायै । हिङ्गुलायै । पाश्चिमायै । परायै ।वायव्यायै । वरदायै । वन्द्यायै । वृन्दिकायै । वृन्दवर्धिन्यै नमः । ७४०ॐ उच्चाटायै नमः । उत्तरायै । चण्ड्यै । नीलकण्ठ्यै । जलाश्रयायै ।दक्षिणायै । कामाक्ष्यै । कामनायै । भुवनेश्वर्यै । प्रकाशायै ।पिङ्गलायै । पूर्णायै । श्रियै । श्रीम्बीजकर्यै । अग्निकायै ।रुचिकायै । वाचायै । अज्ञायै । प्रज्ञायै । प्रसाददायै नमः । ७६०ॐ चकमायै नमः । विहङ्गायै । माण्डायै । राजकायै । रज्जुकायै ।रजायै । गौर्यै । गोमयायै । गेयायै । मातङ्ग्यै । महिषाहल्यै ।सदातुष्टायै । सदापुष्टायै । सन्दिष्टायै । सदाशिवायै । तिलकायै ।रोचनायै । वृक्षायै । गम्बीजायै । त्रिपुरायै नमः । ७८०ॐ ईहायै नमः । कल्परचनायै । यमुनायै । गिरिवासिन्यै ।दुर्लभायै । अतिदुराराध्यायै । दुर्गमायै । गगनेश्वर्यै । अरण्यायै ।परिरण्यायै । संयम्यायै । संयमायै । कमलायै । कुलजायै ।लवणायै । सुरघातिन्यै । दधिजायै । कल्पसंस्थायै । कर्मजायै ।फलदायिन्यै नमः । ८००ॐ कामजायै नमः । केलिजायै । केश्यै । कर्षायै । कर्बुरजालिजायै ।गिरिजायै । गर्वगोत्रायै । अकुलायै । कुलजायै । दिनजायै । दिनमान्यै ।वेदजायै । वेदसम्भृतायै । क्रोधजायै । कुटजायै । धारायै ।परमायै । बलगर्वितायै । शान्तायै । भ्रान्तायै नमः । ८२०ॐ दिगन्तायै नमः । गुरुजायै । छत्रवासिन्यै । भयान्तायै ।विभ्रमायै । भ्रान्तायै । पशुपालायै । शूरिण्यै । भूसुरायै ।भासुर्यै । भग्नदैत्यायै । छिन्दाम्भिदायै । क्रोधायै । क्रोधमुख्यै ।दंष्ट्र्यै । वज्रदन्त्यै । सुदन्तिकायै । सस्याचरायै । जलायै ।मेघायै नमः । ८४०ॐ प्रवाहायै नमः । सुरवृक्षजायै । ब्रह्मिष्टायै । ब्रह्मजायै ।ब्राह्म्यै । चतुःशीर्षायै । चतुर्मुख्यै । चिरद्वैतायै ।द्वैतरूपायै । अद्वैतप्रतिपादिन्यै । वेदान्तायै । वेदवन्द्यायै ।आनन्द्यै । नन्ददानवायै । पुरुछायायै । मखायै । धुर्यायै ।दुर्जयायै । पापहायै । भीत्यै नमः । ८६०ॐ गतये नमः । जागरिष्टायै । हर्म्याक्ष्यै । शुक्लहर्मिण्यै ।मेरुजायै । मेरूसंस्थायै । कल्लार्यै । कलिकल्पनायै । किरातिन्यै ।भिल्लिरूपायै । प्रचण्डायै । चण्डवासिन्यै । अत्यन्तगुणयुक्तायै ।चन्द्रास्यायै । चन्द्रवासिन्यै । चलाचलपदायै । शृङ्ग्यै ।चन्द्रघण्टायै । घटध्वन्यै । पार्श्वस्थायै नमः । ८८०ॐ प्रभुसेव्यायै नमः । गूढहास्यप्रवर्धिन्यै । ब्रह्माण्यै ।वृत्तसंस्थायै । चतुर्वर्णायै । चतुर्विधायै । शिवरूपायै ।शैलपुत्र्यै । शैलस्थायै । शिववन्दितायै । खण्डवादरतायै ।खण्डायै । खण्डितायै । ब्रह्मचारिण्यै । नवखण्डायै ।प्रखण्डायै । स्वरूपायै । सर्वरूपिण्यै । रत्नमण्डलमध्यस्थायै ।रत्नकुण्डलमालिन्यै नमः । ९००ॐ क्रौञ्चस्थायै नमः । कुचसंस्थायै । मत्तमातङ्गगामिन्यै ।कूटस्थायै । नवसंस्थायै । कदल्यै । वज्रकङ्कणायै । विदेहायै ।विमलायै । क्रूरायै । चौण्डायै । कर्नाटक्यै । त्रिमात्रायै ।उत्कलायै । गौण्ड्यै । वीरेशायै । वीरवन्दितायै । शामलायै ।गौर्यै । विपिनायै नमः । ९२०ॐ मागधेश्वरवन्दितायै नमः । गण्डक्यै । कौशिक्यै । गङ्गायै ।नर्मदायै । यमुनायै । पार्वत्यै । कर्मनाशायै । कैलासव्यापिकायै ।कपालमोचनायै । हेमगर्भायै । शिलायै । शालग्रामशिलावल्ल्यै ।शार्दूलायै । पिङ्गकेशिन्यै । मुग्धबोधप्रवर्गायै । कामितायै ।कामनायै । पुण्याङ्ग्यै । पुण्यगन्धायै नमः । ९४०ॐ कुरुक्षेत्रकृतालयायै नमः । केदारस्थायै । भारतस्थायै ।मूलस्थायै । मूलदुर्गजायै । पुरुदुर्गायै । मोहदुर्गायै । प्रज्वालायै ।ज्वालिन्यै । भस्मकुण्डायै । गेहायै । अम्बिकायै । अम्बिकालयायै ।शारदायै । नारदायै । रेणुकायै । गगनेश्वर्यै । धेनुरूपायै ।रुक्मिण्यै । गोपिकायै नमः । ९६०ॐ यमुनाश्रयायै नमः । भूश्रयोन्नताङ्गुष्ठायै ।नखराङ्गविरागिण्यै । सुकण्ठायै । कोकिलायै । मैनायै । चिरानन्दायै ।शिवात्मिकायै । कन्दर्पकोटिलावण्यायै । सुन्दरायै । सुन्दरस्तन्यै ।विश्वपक्षायै । विश्वरक्षायै । विश्वनाथप्रियायै । सत्यै ।भेरिरूपायै । शङ्खरूपायै । पणवानकगोमुख्यै । उर्वश्यै ।उरुगर्भायै नमः । ९८०ॐ विवरायै नमः । पृष्ठसंस्थितायै । लहर्यै । महिमायै ।शङ्खायै । विमलायै । मेखलायै । क्षमायै । शीघ्रायै ।चिदानन्दायै । धराधारायै । धनुर्धर्यै । मालिकायै । प्रखुरायै ।छायायै । प्रणामायै । अजितायै । अपरायै । वटरूपायै । वटाभायै नमः । १०००ॐ वरारोहायै नमः । महातपसे । शङ्खादिनिधिरूपायै । औषध्यै ।भगमालिन्यै । पुत्रदायै । पौत्रदायै । पौत्र्यै । दिव्यादायै ।दिव्यभोगदायै । आशापूर्णायै । चिरञ्जीव्यै । लङ्काभयविवर्धिन्यै ।सुतीक्ष्णायै । रूक्षलवणायै । कटुतिक्तायै । विदाहिन्यै । प्रतिपन्नायै ।घृतायै । तैलायै नमः । १०२०ॐ रसारसविवर्धिन्यै नमः । योगासनायै । योगपीठायै ।मैथिलीशपदानुगायै । रुदितायै । विमलायै । शोकायै । अन्तस्थायै ।रसनायै । दीर्घायै । स्थूलायै । सूक्ष्मायै । भृशुण्ड्यै ।गणेश्वर्यै । द्वितीयायै । पूर्णकमलायै । पूर्णजा इति कीर्तितायै नमः । १०३७श्रीशङ्कर उवाच -इति नाम्नां सहस्रं तु रामेण परिकीर्तितम् ।यः पठेत्प्रयतो भक्त्या सन्ध्याकाले द्विजोत्तमः ॥१॥सर्वान्कामानवाप्नोति नात्रकार्या विचारणा ।नवरात्रं जिताहारो शतावृत्या पठेन्नरः ॥२॥रात्रौ मूर्तिमयीं देवीं तद्दिने वाञ्छितं फलम् ।विद्याकामस्तु यो मर्त्यः षण्मासं च जितेन्द्रियः ॥३॥जपन् लभेत् परमां विद्यां लोकोत्तरां तथा ।अपुत्रो लभते पुत्रं निर्धनो धनमाप्नुयात् ॥४॥कुष्टरोगस्तथा दद्रू क्षयापस्मारचर्चिकाः ।ते सर्वे नाशमायान्ति पायूपस्थव्रणानि च ॥५॥बधिरत्वं दिवान्धत्वं मूकत्वं पङ्गुलं तथा ।नश्यन्ति तत्क्षणादेव यथा सूर्योदये तमः ॥६॥दशधा यः पठेन्नित्यं देव्यग्रे स्वस्थमानसः ।सर्वानेताँलभेत्कामान् देवैरपि सुदुष्करान् ॥७॥राजद्वारे पठेद्यस्तु चोरव्याघ्राकुले पथि ।पठनात्सिद्धिमाप्नोति विघ्नेभ्योऽपि प्रमुच्यते ॥८॥अनेन सदृशी विद्या नास्ति त्रैलोक्यमन्दिरे ।धर्मार्थी लभते धर्मं कामार्थी लभते सुखम् ॥९॥धनार्थी लभते द्रव्यं मोक्षार्थी मोक्षमाप्नुयात् ।पुरश्चरणधर्मेण पठेन्नामसहस्रकम् ॥१०॥दशांशहवनं कुर्यात् पायसं शर्करान्वितम् ।कुमारीं भोजयेद्विप्रान्यथा विभवसारतः ॥११॥कुबेरसदृशो लक्ष्म्या बुध्या धिषणवान्नरः ।भवेत्त्रैलोक्यजठरे देवैरपि सुपूजितः ॥१२॥किमत्र बहुनोक्तेन देवी सायुज्यमाप्नुयात् ।इतीदं कथितं विप्र देव्या नामसहस्रकम् ॥१३॥अधिष्वावहितो भूत्वा सर्वैः कामैः सुपूज्यते ।अनेन पूर्वसङ्कल्पित श्रीतुरजासहस्रनामपाठाङ्ग ओं तत्सत्श्रीजगदम्बाप्रणमस्तु । श्रीकृष्णर्पणमस्तु ।अपराधसहस्रभाजनं पतितं देवि भवार्णभूतले ।आगतं शरणागतं शिवे कृपया केवलमात्मसात्कुरु ॥१॥माता भवानी जनको भवानीबन्धुर्भवानी भगिनी भवानी ।गोत्रं भवानी सकलं भवानीवीना भवानी नहि किञ्चिदस्ति ॥२॥या माता मधुकैटभप्रमथिनी या माहिषोन्मूलिनीया धूम्रेक्षणचण्डमुडमथिनी या रक्तबीजाशनी ।शक्तिः शुम्भनिशुम्भदैत्यदलनी या सिद्धलक्ष्मीप्रदा ।सा चण्डी नवकोटिशक्तिसहिता मां पातु विश्वेश्वरी ॥३॥मन्दारमालाऽऽकुलितालकायै भाले च मालाङ्कित शेखरायै ।दिव्याम्बरायै च दिगम्बराय नमः शिवायै च नमः शिवाय ॥४॥यत्रैव यत्रैव मनो मदीयंतत्रैव तत्रैव तवः स्वरूपम् ।यत्रैव यत्रैव शिरो मदीयंतत्रैव तत्रैव पदद्वयं ते ॥५॥इति श्रीस्कन्दपुराणे सह्याद्रिखण्डे तुरजामहात्म्येश्रीशङ्करवसिष्ठसंवादे श्रीतुरजासहस्रनामस्तोत्रौद्धृताश्रीतुरजासहस्रनामावलिः समाप्ता ।शुभं भवन्तु ।श्रीजगदम्बार्पणमस्तु ।इति श्रीतुरजासहस्रनामावलिः समाप्ता ।तुलजासहस्रनामावलिः, तुळजासहस्रनामावलिः N/A References : N/A Last Updated : January 15, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP