मराठी मुख्य सूची|स्तोत्रे|सहस्रनामावली| अस्य श्रीज्वालामुखीसहस्रन... सहस्रनामावली ब्रह्मानन्दं परमसुखदं केव... अथ मूलम् । ॐ श्रीं ह्रीं ... ॐ श्रीगणेशाय नमः । श्वेता... श्रीअरुणाचलेश्वरसहस्रनामावली अर्धनारीश्वरसहस्रनामावलिः ॐ हिरण्यबाहवे हिरण्यवर्णा... श्रीहनुमत्सहस्रनामावलिः ॐ श्रीगणेशाय नमः । ॐ ब्र... ॐ इन्द्राय नमः । देवतमाय ... ॐ श्रीगणेशाय नमः । ॐ नमोद... ॐ अस्य श्रीसर्वसाम्राज्यम... ध्यानम् । कान्त्या काञ्चन... ॐ श्रीगणेशाय नमः । ॐ नका... ॐ अस्य कामकलाकालीसहस्रनाम... श्री गणेशाय नमः । श्रीकाम... कालोऽहम् । अस्य श्रीकालना... शिव उवाच- नाम्नां सहस्रं ... ॐ श्मशानकालिकायै नमः । ॐ ... अथ कुञ्चितपादसहस्रनामावलि... धनं दारान्सुतान्क्षेत्रं ... षड्वक्त्रं शिखिवाहनं त्रि... ॐ कृष्णाय नमः । श्रीवल्लभ... ॐ अस्य श्रीपुराणपुरुषोत्त... श्रीगणेशाय नमः । श्रीकेदा... सितमकरनिषण्णां शुभ्रवर्णा... श्रीगणेशाय नमः । श्रीसमर्... ॐ अस्य श्रीगणपतिगकारादिसह... ॐ सुमुखाय नमः । सुवहाय । ... ध्यानम् रक्तश्वेतहिरण्यनी... ध्यानम् - रक्तश्वेतहिरण्य... ॐ शं शां षं ह्रीं क्लीं ग... अथ ध्यानम् । सूर्यस्पर्धि... ॐ श्री गुरुभ्यो नमः । गुर... ॐ श्रीगणेशाय नमः । सर्वत्... अथ श्रीगोपालदिव्यसहस्रनाम... ॐ गवे नमः । ॐ गौविन्द्यै ... श्रीगुरुभ्यो नमः । श्रीका... ॐ अस्य श्रीप्रचण्डचण्डिका... अथ श्रीयोगेश्वरकवि द्वारा... अस्य श्रीज्वालामुखीसहस्रन... विश्वव्यापकवारिमध्यविलसच्... ॐ अस्य श्रीतारासहस्रनामस्... ॐ भुवनेश्यै नमः । ॐ भुवार... ॐ अस्य श्रीमहोग्रतारा दिव... वरिष्ठ उवाच - कथं नामसहस्... ॐ तुलस्यै नमः । ॐ श्रीप्र... ॐ श्रीमत्त्यागमहाराजाय नम... श्रीगणपतये नमः । ॐ अनेजते... ध्यानम् । उद्यद्भानुसहस्र... ॐ योगेशाय नमः । ॐ अमरप्रभ... महाकालभैरव ऋषिस्त्रिष्टुप... अस्य श्रीदक्षिणामूर्तिसहस... ॐ आदिदेवाय नमः । दयासिन्ध... ध्यानम् । स्फटिकरजतवर्णां... ऋषिच्छन्दांसि - अस्य श्री... तन्त्रराजतन्त्रे पूर्वपीठ... ध्यानम् । १. सिंहस्था शशि... महामन्त्रस्य श्रीमहेश्वर ... ध्यानम् - रक्ताभां रक्तवस... ॐ श्रीमते नमः । ॐ धन्वन्त... ॐ नमो भगवते भूतनाथाय । ॐ ... ध्यानम् । विवर्णा चञ्चला ... अस्य श्री शिवकामसुन्दरीसम... ॐ अस्य श्रीनटेशसहस्रनामस्... ॐ श्री गणेशाय नमः । अस्य ... श्री गुरुभ्यो नमः । ॐ श्र... श्री गुरुभ्यो नमः । ॐ श्र... ॥ ध्यानम् ॥ श्रीमित्रेश्... श्रीराधासर्वेश्वरो विजयते... पद्मावतीशतम् ॐ श्री पद्मा... ॐ श्रीगणेशाय नमः । ॐ अस्य... अथ विनियोगः । ॐ अस्य श्री... अथ अकारादि-क्षकारान्तासहस... ॐ शिवायै नमः । उमायै । पर... ॐ श्रीकृष्णाय नमः । सच्चि... अस्य श्रीप्रणवसहस्रनामस्त... ईश्वर उवाच । शृणु देवि प... ॐ ब्रह्मास्त्राय नमः । ॐ ... श्रीमहादेव उवाच - अस्य श्... विनियोगः - ॐ अस्य श्रीबटु... रुद्रयामलोक्तबटुकभैरवसहस्... ॐ अस्य श्रीबलभद्रसहस्रनाम... ॐ ऐं ह्रीं श्रीं-आनन्दसिन... शौनक उवाच - कैलासशिखरे रम... श्रीदेव्युवाच - भगवन्भाषि... ओं ऐं ह्रीं श्रीङ्कल्याण्... ॐ परमात्मने नमः ॐ धर्मक्... ॐ निस्सीमोद्यद्गुणाय नमः ... ॐ क्रकुच्छन्दाय नमः । ॐ क... ध्यानम् - बालार्कमण्डलाभा... विनोयोगः - ॐ अस्य श्रीभुव... प्रणवाय ब्रह्मणे उद्गीथाय... विनियोगः । ॐ अस्य श्रीमहा... श्रीः । ॐ नमश्चण्डिकायै ।... ॐ ह्रीं श्रीं क्लीं गणाध्... ॐ महामार्यै नमः । महामाया... पार्वत्युवाच - भगवन् वेदत... श्रीगणेशाय नमः । श्रीमहाल... ॐ ह्रीं ऐं ह्रीं महावाण्य... ध्यानम् श्रीमच्चन्दनचर्चि... ॐ अद्भुताय नमः । अद्भुतचा... ॐ सुमुख्यै नमः । ॐ शेमुष्... ॐ अम्बायै नमः । ॐ अम्बालि... ॐ अस्यश्री मूकाम्बिकायाः ... श्रीभैरव उवाच । अस्य श्री... अस्य श्री मेधादक्षिणामूर्... ॐ नमो भगवते दक्षिणामूर्तय... गर्गसंहितातः ॐ कालिन्द्य... अस्य श्रीयोगेश्वरीसहस्रना... ॐ योगिन्यै नमः । योगमायाय... देव्युवाच - भगवन्सर्वशास्... सोन्दूर श्रीकृष्ण अवधूतवि... वन्दे वृन्दावनानन्दा राधि... ॐ श्रीराधायै नमः । राधिका... ॐ श्रीराधायै नमः । राधिका... ॐ अस्य श्रीरामसहस्रनाममाल... ॐ आर्यश्रेष्ठाय नमः । धरा... सङ्कल्पः - यजमानः, आचम्य,... ॐ नमो भगवते वासुदेवाय । ॐ... ॐ स्थिराय नमः । स्थाणवे ।... न्यासः । अस्य श्रीरुद्रसह... अथ श्रीरेणुकातन्त्रान्तर्... सिन्दूरारुणविग्रहां त्रिन... ॐ श्रियै नमः । वासुदेवमहि... ॐ नित्यागतायै नमः । ॐ अनन... ॐ श्रीवराहाय नमः । भूवराह... ॐ वल्ल्यै नमः । ॐ वल्लीश्... ॐ श्रीवाग्मत्याः सहस्रनाम... ॐ श्रीगणेशाय नमः । श्रीनन... वराहमुख्यै विद्महे । दण्ड... ध्यानम् - ओङ्कारबीजाक्षरी... शुक्लाम्बरधरं विष्णुं शशि... ॐ क्लीं विट्टलाय नमः । पा... पूर्वन्यासः । श्रीवेदव्या... श्रीविष्णुसहस्रनामावलिः प... रुद्र उवाच । संसारसागराद... ॐ श्रीगणेशाय नमः । ॐ विष... श्रीशिवाय गुरवे श्रीवीरभ... वेङ्कटेशस्य नाम्नां हि सह... ॐ श्री गुरुभ्यो नमः । अथ ... ॐ शङ्कराय नमः । ॐ श्रीधरा... ॐ गाढध्वान्तनिमज्जनप्रमुष... ॐ अमिताभाषिणे नमः । ॐ अघह... ॐ श्रीगणेशाय नमः । ॐ श्री... विनियोगः - अस्य श्रीशारिक... अस्य श्रीशास्तृशवर्णसहस्र... ॐ अस्य श्री शिवकामसुन्दरी... अस्य श्रीशिवकामसुन्दरीसहस... ॐ अखिलेश्वर्यै नमः । अग्न... ॐ स्थिराय नमः । ॐ स्थाणवे... ॐ श्री गणेशाय नमः । अथ श्... ॐ ओङ्कारकण्ठनिलयाय नमः । ... ॐ ॐकारनिलयात्मस्थाय नमः ।... श्री विष्णुरुवाच ॐ भवाय ... अस्य श्रीशिवसहस्रनामस्तोत... ॐ सौभाग्यलक्ष्म्यै नमः । ... ॐ राधिकेशाय नमः । ॐ जगन्न... सद्गुरु श्रीधरस्वामिनाप्र... ईशानमुखपूजा- ॐ जगद्भुवे न... ॐ वचनभुवे नमः । पराय । शङ... ॐ रुद्रभुवनाय नमः । अनन्त... ॐ ब्रह्मभुवे नमः । भवाय ।... अघोर मुखपूजा । ॐ विश्वभुव... ॐ अचिन्त्य शक्तये नमः । अ... जपसाधना ॐ अस्य श्रीमहात्र... ॐ सङ्कटायै नमः । ॐ विजयाय... ॐ सङ्गीतालय-प्रतिष्ठित-भग... ॐ सीतायै नमः । उमायै । पर... ॐ श्रीचक्राय नमः । ॐ श्री... ॐ शुक्लाम्बरधरं विष्णुं श... ॐ श्री गणेशाय नमः । अस्य ... ॐ अस्य श्रीसुब्रह्मण्यसहस... बिल्वैर्वा चम्पकाद्यौर्वा... ध्यानम् - ध्येयः सदा सवित... श्रीरुद्रयामले तन्त्रे श्... श्रीसूर्यसहस्रनामावलिः ॐ सुब्रह्मण्याय । सुरेशान... ॐ नमः । ओङ्कारनमोरूपाय । ... ॐ श्रीहयग्रीवाय नमः । श्र... स्वामिनारायणं कृष्णं भक्त... १. ॐ स्थिराय नमः । २. ॐ ... ॥ श्रीदुर्गादैव्ये नम: ॥ ... १. ॐ राजीवलोचनाय नमः । ... १ ॐ अचिन्त्यलक्षणायै नमः ... १ ॐ कालिन्द्यै नमः । २ ॐ... १ ॐ अन्नपूर्णायै नमः । ... १. ॐ नारसिंहाय नमः । २. ... १ ॐ देवकीनन्दनाय नमः । २... १ ॐ क्लीं देवाय नमः । २ ... १ ॐ श्रियै नमः । २ ॐ पद्... १ ॐ हनुमते नमः । २ ॐ श्र... ॥ श्रीकृष्णाय नमः ॥ १. ॐ ... १. ॐ विश्वविदे नम: । २. ... १. ॐ गणेश्वराय नम: । २.... १. ॐ ऐं ह्रीं श्रीं श्रीम... १ ॐ सीतायै नमः । २ ॐ उमा... १ ॐ ओंकाररूपिण्यै नमः । ... १. ॐ विश्वस्मै नमः । २.ॐ... १. ॐ श्रीराधायै नमः । २.... ॐ गणपतये नमः ॥ ॥ ॐ गणेश्व... श्रीज्वालामुखीसहस्रनामावलिः - अस्य श्रीज्वालामुखीसहस्रन... हिंदू देवी देवतांची एक हजार नावे म्हणजेच सहस्त्रनामावली. हिंदू धर्मिय रोज सकाळी संध्याकाळी या नावांचा जप करतात.A sahasranamavali is a type of Hindu scripture in which a diety is referred to by 1000 or more different names.Many devout Hindus chant them every morning or evening. Tags : 1000godgoddesssahasranamavaliसहस्त्रनामावली श्रीज्वालामुखीसहस्रनामावलिः Translation - भाषांतर अस्य श्रीज्वालामुखीसहस्रनामस्तवस्य भैरव ऋषिः,अनुष्टुप् छन्दः, श्रीज्वालामुखी देवता, ह्रीं बीजं, श्रीं शक्तिः,ॐ कीलकं पाठे विनियोगः ।॥ अङ्गन्यासः ॥भैरवऋषये नमः शिरसि । अनुष्टुप्छन्दसे नमो मुखे ।श्रीज्वालामुखीदेवतायै नमो हृदि ।ह्रीं बीजाय नमो नाभौ । श्रीं शक्तये नमो गुह्ये ।ॐ कीलकाय नमः पादयोः । विनियोगाय नमः सर्वाङ्गेषु ।ॐ ह्यामिति षड् दीर्घयुक्तमायया करषडङ्गानि विधाय ध्यायेत् ॥॥ ध्यानम् ॥उद्यच्चन्द्रमरीचिसन्निभमुखीमेकादशाराब्जगांपाशाम्भोजवराभयान् करतलैः सम्बिभ्रतीं सादरात् ।अग्नीन्द्वर्कविलोचनां शशिकलाचूडां त्रिवर्गोज्ज्वलांप्रेतस्थां ज्वलदग्निमण्डलशिखां ज्वालामुखीं नौम्यहम् ॥ॐ ॐ ह्रीं नमः । ज्वालामुख्यै । जैत्र्यै । श्रीं । ज्योत्स्नायै । जयदायै ।जयायै । औदुम्बरायै । महानीलायै । शुक्रलुप्तायै । शच्यै ।श्रुतये । स्मयदायै । स्मयहर्त्र्यै । स्मरशत्रुप्रियङ्कर्यै ।मानदायै । मोहिन्यै । मत्तायै । मायायै । बालायै नमः । २०ॐ बलन्धरायै नमः । भगरूपायै । भगावासायै । भीरुण्डायै ।भयघातिन्यै । भीत्यै । भयानकास्यायै । भ्रुवे । सुभ्रुवे ।सुखिन्यै । सत्यै । शूलिन्यै । शूलहस्तायै । शूलिवामाङ्गवासिन्यै ।शशाङ्कजनन्यै । शीतायै । शीतलायै । शारिकायै । शिवायै ।स्रुचिकायै नमः । ४०ॐ मधुमन्मान्यायै नमः । त्रिवर्गफलदायिन्यै । त्रेतायै ।त्रिलोचनायै । दुर्गायै । दुर्गमायै । दुर्गत्यै । गतये । पूतायै ।प्लुतये । विमर्शायै । सृष्टिकर्त्र्यै । सुखावहायै । सुखदायै ।सर्वमध्यस्थायै । लोकमात्रे । महेश्वर्यै । लोकष्टायै । वरदायै ।स्तुत्यायै नमः । ६०ॐ स्तुतये नमः । द्रुतगतये । नुत्यै । नयदायै । नयनेत्रायै ।नवग्रहनिषेवितायै । अम्बायै । वरूथिन्यै । वीरजनन्यै ।वीरसुन्दर्यै । वीरसुवे । वारुण्यै । वार्तायै । वराभयकरायै ।वध्वै । वानीरतलगायै । वाम्यायै । वामाचारफलप्रदायै । वीरायै ।शौर्यकर्यै नमः । ८०ॐ शान्तायै नमः । शार्दूलत्वचे । शर्वर्यै । शलभ्यै ।शास्त्रमर्यादायै । शिवदायै । शम्बरान्तकायै । शम्बरारिप्रियायै ।शम्भुकान्तायै । शशिनिभाननायै । शस्त्रायुधधरायै । शान्तये ।ज्योतिषे । दीप्तये । जगत्प्रियायै । जगत्यै । जित्वरायै । जार्यै ।मार्जार्यै । पशुपालिन्यै नमः । १००ॐ मेरुमध्यगतायै नमः । मैत्र्यै । मुसलायुधधारिण्यै । मान्यायै ।मन्त्रेष्टदायै । माध्व्यै । माध्वीरसविघूर्णितायै । मोदकाहारमत्तायै ।मत्तमातङ्गगामिन्यै । महेश्वरप्रियायै । उन्मत्तायै । दार्व्यै ।दैत्यविमर्दिन्यै (महेश्वरप्रियोन्नत्तायै) । देवेष्टायै । साधकेष्टायै ।साध्व्यै । सर्वत्रगायै । असमायै । सन्तानकतरुच्छायासन्तुष्टायै ।अध्वश्रमापहायै नमः । १२०ॐ शारदायै नमः । शरदब्जाक्ष्यै । वरदायै । अब्जनिभाननायै(वरदाऽब्जनिभाननायै) । नम्राङ्ग्यै । कर्कशाङ्ग्यै । वज्राङ्ग्यै ।वज्रधारिण्यै । वज्रेष्टायै । वज्रकङ्कालायै । वानर्यै । वायुवेगिन्यै ।वराक्यै । कुलकायै । काम्यायै । कुलेष्टायै । कुलकामिन्यै । कुन्तायै ।कामेश्वर्यै । क्रूरायै नमः । १४०ॐ कुल्यायै नमः । कामान्तकारिण्यै । कुन्त्यै । कुन्तधरायै । कुब्जायै ।कष्टहायै । बगलामुख्यै । मृडान्यै । मधुरायै । मूकायै ।प्रमत्तायै । बैन्दवेश्वर्यै । कुमार्यै । कुलजायै । अकामायै । कूबर्यै ।नडकूबर्यै । नगेश्वर्यै । नगावासायै । नगपुत्र्यै नमः । १६०ॐ नगारिहायै नमः । नागकन्यायै । कुह्वै । कुण्ढ्यै । करुणायै ।कृपयान्वितायै । ककारवर्णरूपाढ्यायै । ह्रियै । लज्जायै । श्रियै ।शुभाशुभायै । खेचर्यै । खगपत्न्यै । खगनेत्रायै । खगेश्वर्यै ।खातायै । खनित्र्यै । खस्थायै । जप्यायै । जाप्यायै नमः । १८०ॐ अजरायै नमः । धृतये । जगत्यै । जन्मदायै । जम्भ्यै ।जम्बुवृक्षतलस्थितायै । जाम्बूनदप्रियायै । सत्यायै । सात्विक्यै ।सत्त्ववर्जितायै । सर्वमात्रे । समालोकायै । लोकायै । ख्यात्यै ।लयात्मिकायै (लोकायै) । लूतायै । लतायै । रत्यै । लज्जायै ।वाजिगायै नमः । २००ॐ वारुण्यै नमः । वशायै (लतारतिर्लज्जायै) । कुटिलायै । कुत्सितायै ।ब्राह्म्यै । ब्रह्माण्यै । ब्रह्मदायिन्यै । व्रतेष्टायै । वाजिन्यै ।वस्तये । वामनेत्रायै । वशङ्कर्यै । शङ्कर्यै । शङ्करेष्टायै ।शशाङ्ककृतशेखरायै । कुम्भेश्वर्यै । कुरुघ्न्यै । पाण्डवेष्टायै ।परात्परायै । महिषासुरसंहर्त्र्यै नमः । २२०ॐ माननीयायै नमः । मनुप्रियायै । दक्षिणायै । दक्षजायै ।दक्षायै । द्राक्षायै । दूत्यै । द्युतये । धरायै । धर्मदायै ।धर्मराजेष्टायै । धर्मस्थायै । धर्मपालिन्यै । धनदायै ।धनिकायै । धर्म्यायै । पताकायै । पार्वत्यै । प्रजायै ।प्रजावत्यै नमः । २४०ॐ पुर्यै नमः । प्रज्ञायै । पुरे । पुत्र्यै । पत्रिवाहिन्यै ।पत्रिहस्तायै । मातङ्ग्यै । पत्रिकायै । पतिव्रतायै । पुष्टये ।प्लक्षायै । श्मशानस्थायै । देव्यै । धनदसेवितायै । दयावत्यै ।दयायै । दूरायै । दूतायै । निकटवासिन्यै । नर्मदायै नमः । २६०ॐ अनर्मदायै नमः । नन्दायै । नाकिन्यै । नाकसेवितायै ।नासासङ्क्रान्त्यै । ईड्यायै । भैरव्यै । छिन्नमस्तकायै । श्यामायै ।श्यामाम्बरायै । पीतायै । पीतवस्त्रायै । कलावत्यै । कौतुक्यै ।कौतुकाचारायै । कुलधर्मप्रकाशिन्यै । शाम्भव्यै । गारुड्यै ।विद्यायै । गरुडासनसंस्थितायै (गारुडीविद्यायै नमः) । २८०ॐ विनतायै नमः । वैनतेयेष्टायै । वैष्णव्यै । विष्णुपूजितायै ।वार्तादायै । वालुकायै । वेत्र्यै । वेत्रहस्तायै । वराङ्गनायै ।विवेकलोचनायै । विज्ञायै । विशालायै । विमलायै । अजायै । विवेकायै ।प्रचुरायै । लुप्तायै । नावे । नारायणपूजितायै । नारायण्यै नमः । ३००ॐ सुमुख्यै नमः । दुर्जयायै । दुःखहारिण्यै । दौर्भाग्यहायै ।दुराचारायै । दुष्टहन्त्र्यै । द्वेषिण्यै । वाङ्मय्यै । भारत्यै ।भाषायै । मष्यै । लेखकपूजितायै । लेखपत्र्यै । लोलाक्ष्यै ।लास्यायै । हास्यायै । प्रियङ्कर्यै । प्रेमदायै । प्रणयज्ञायै ।प्रमाणायै नमः । ३२०ॐ प्रत्ययाङ्कितायै नमः । वाराह्यै । कुब्जिकायै । कारायै ।काराबन्धनमोक्षदायै । उग्रायै । उग्रतरायै । उग्रेष्टायै ।नृमान्यायै । नरसिंहिकायै । नरनारायणस्तुत्यायै । नरवाहनपूजितायै ।नृमुण्डायै । नूपुराढ्यायै । नृमात्रे । त्रिपुरेश्वर्यै ।दिव्यायुधायै । उग्रतारायै । त्र्यक्षायै । त्रिपुरमालिन्यै नमः । ३४०ॐ त्रिनेत्रायै नमः । कोटराक्ष्यै । षट्चक्रस्थायै । क्रिमीश्वर्यै ।क्रिमिहायै । क्रिमियोनये । कलायै । चन्द्रकलायै । चम्वै ।चर्माम्बरायै । चार्वङ्ग्यै । चञ्चलाक्ष्यै । भद्रदायै ।भद्रकाल्यै । सुभद्रायै । भद्राङ्ग्यै । प्रेतवाहिन्यै । सुषमायै ।स्त्रीप्रियायै । कान्तायै नमः । ३६०ॐ कामिन्यै नमः । कुटिलालकायै । कुशब्दायै । कुगतये ।मेधायै । मध्यमाङ्कायै । काश्यप्यै । दक्षिणायै कालिकायै ।काल्यै । कालभैरवपूजितायै । क्लींकार्यै । कुमतये । वाण्यै ।बाणासुरनिषूदिन्यै । निर्ममायै । निर्ममेष्टायै । निरयो(र्यो)नये ।निराश्रयायै (निरर्योनिर्निराश्रयायै) । निर्विकारायै । निरीहायै नमः । ३८०ॐ निलयायै नमः । नृपपुत्रिण्यै । नृपसेव्यायै ।विरिञ्चीष्टायै । विशिष्टायै । विश्वमातृकायै । मातृकायै ।अर्ण(मातृकार्ण)विलिप्ताङ्ग्यै । मधुस्नातायै । मधुद्रवायै ।शुक्रेष्टायै । शुक्रसन्तुष्टायै । शुक्रस्नातायै । कृशोदर्यै ।वृषायै । वृष्टये । अनावृष्टये । लभ्यायै । लोभविवर्जितायै ।अब्धये नमः । ४००ॐ ललनायै नमः । लक्ष्यायै । लक्ष्म्यै । रामायै । रमायै । रत्यै ।रेवायै । रम्भायै । उर्वश्यै । वश्यायै । वासुकिप्रियकारिण्यै ।शेषायै । शेषरतायै । श्रेष्ठायै । शेषशायिनमस्कृतायै ।शय्यायै । शर्वप्रियायै । शस्तायै । प्रशस्तायै ।शम्भुसेवितायै नमः । ४२०ॐ आशुशुक्षणिनेत्रायै नमः । क्षणदायै । क्षणसेवितायै ।क्षुरिकायै । कर्णिकायै । सत्यायै । सचराचररूपिण्यै । चरित्र्यै ।धरित्र्यै । दित्यै । दैत्येन्द्रपूजितायै । गुणिन्यै । गुणरूपायै ।त्रिगुणायै । निर्गुणायै । घृणायै । घोषायै । गजाननेष्टायै ।गजाकारायै । गुणिप्रियायै नमः । ४४०ॐ गीतायै नमः । गीतप्रियायै । तथ्यायै । पथ्यायै । त्रिपुरसुन्दर्यै ।पीनस्तन्यै । रमण्यै । रमणीष्टायै । मैथुन्यै । पद्मायै ।पद्मधरायै । वत्सायै । धेनवे । मेरुधरायै । मघायै । मालत्यै ।मधुरालापायै । मातृजायै । मालिन्यै । वैश्वानरप्रियायै नमः । ४६०ॐ वैद्यायै नमः । चिकित्सायै । वैद्यपूजितायै । वेदिकायै ।वारपुत्र्यै । वयस्यायै । वाग्भव्यै । प्रसुवे । क्रीतायै । पद्मासनायै ।सिद्धायै । सिद्धलक्ष्म्यै । सरस्वत्यै । सत्त्वश्रेष्ठायै ।सत्त्वसंस्थायै । सामान्यायै । सामवायिकायै । साधकेष्टायै ।सत्पत्न्यै । सत्पुत्र्यै नमः । ४८०ॐ सत्कुलाश्रयायै नमः । समदायै । प्रमदायै । श्रान्तायै ।परलोकगतये । शिवायै । घोररूपायै । घोररावायै । मुक्तकेश्यै ।मुक्तिदायै । मोक्षदायै । बलदायै । पुष्ट्यै । मुक्त्यै । बलिप्रियायै ।अभयायै । तिलप्रसूननासायै । प्रसूनायै । कुलशीर्षिण्यै ।परद्रोहकर्यै नमः । ५००ॐ पान्थायै नमः । पारावारसुतायै । भगायै । भर्गप्रियायै ।भर्गशिखायै । हेलायै । हैमवत्यै । ईश्वर्यै । हेरुकेष्टायै ।वटुस्थायै । वटुमात्रे । वटेश्वर्यै । नटिन्यै । त्रोटिन्यै । त्रातायै ।स्वस्रे । सारवत्यै । सभायै । सौभाग्यायै । भाग्यदायै नमः । ५२०ॐ भाग्यायै नमः । भोगदायै । भुवे । प्रभावत्यै । चन्द्रिकायै ।कालहर्त्र्यै । ज्योत्स्नायै । उल्कायै । अशनये । आह्निकायै । ऐहिक्यै ।औष्मिक्यै । ऊष्मायै । ग्रीष्मांशुद्युतिरूपिण्यै । ग्रीवायै ।ग्रीष्माननायै । गव्यायै । कैलासाचलवासिन्यै । मल्ल्यै ।मार्ताण्डरूपायै नमः । ५४०ॐ मानहर्त्र्यै नमः । मनोरमायै । मानिन्यै । मानकर्त्र्यै । मानस्यै ।तापस्यै । तुट्यै (त्रुट्यै) । पयःस्थायै । परब्रह्मस्तुतायै ।स्तोत्रप्रियायै । तन्वै । तन्व्यै । तनुतरायै । सूक्ष्मायै ।स्थूलायै । शूरप्रियायै । अधमायै । उत्तमायै । मणिभूषाढ्यायै ।मणिमण्डपसंस्थितायै नमः । ५६०ॐ माषायै नमः । तीक्ष्णायै । त्रपायै । चिन्तायै । मण्डिकायै ।चर्चिकायै । चलायै । चण्ड्यै । चुल्ल्यै । चमत्कारकर्त्र्यै ।हर्त्र्यै । हरीश्वर्यै । हरिसेव्यायै । कपिश्रेष्ठायै । चर्चितायै ।चारुरूपिण्यै । चण्डीश्वर्यै । चण्डरूपायै । मुण्डहस्तायै ।मनोगतये नमः । ५८०ॐ पोतायै नमः । पूतायै । पवित्रायै । मज्जायै । मेध्यायै ।सुगन्धिन्यै । सुगन्धायै । पुष्पिण्यै । पुष्पायै । प्रेरितायै ।पवनेश्वर्यै । प्रीतायै । क्रोधाकुलायै । न्यस्तायै । न्यक्कारायै ।सुरवाहिन्यै । स्रोतस्वत्यै । मधुमत्यै । देवमात्रे ।सुधाम्बरायै नमः । ६००ॐ मत्स्यायै नमः । मत्स्येन्द्रपीठस्थायै । वीरपानायै । मदातुरायै(भत्स्यायै) । पृथिव्यै । तैजस्यै । तृप्तये । मूलाधारायै ।प्रभायै । पृथवे । नागपाशधरायै । अनन्तायै । पाशहस्तायै ।प्रबोधिन्यै (नागपाशधरानन्तायै) । प्रसादनायै । कलिङ्गाख्यायै ।मदनाशायै । मधुद्रवायै । मधुवीरायै । मदान्धायै नमः । ६२०ॐ पावन्यै नमः । वेदनायै । स्मृत्यै । बोधिकायै । बोधिन्यै ।पूषायै । काश्यै । वाराणस्यै । गयायै । कौश्यै । उज्जयिन्यै ।धारायै । काश्मीर्यै । कुङ्कुमाकुलायै । भूम्यै । सिन्धवे । प्रभासायै ।गङ्गायै । गौर्यै । शुभाश्रयायै नमः । ६४०ॐ नानाविद्यामय्यै नमः । वेत्रवत्यै । गोदावर्यै । गदायै ।गदहर्त्र्यै । गजारूढायै । इन्द्राण्यै । कुलकौलिन्यै । कुलाचारायै ।कुरूपायै । सुरूपायै । रूपवर्जितायै । चन्द्रभागायै । यमुनायै ।याम्यै । यमक्षयङ्कर्यै । काम्भोज्यै । सरय्वे । चित्रायै ।वितस्तायै नमः । ६६०ॐ ऐरावत्यै नमः । झषायै । चषिकायै । पथिकायै । तन्त्र्यै ।वीणायै । वेणवे । प्रियंवदायै । कुण्डलिन्यै । निर्विकल्पायै । गायत्र्यै ।नरकान्तकायै । कृष्णायै । सरस्वत्यै । ताप्यै । पयोर्णायै ।शतरुद्रिकायै । कावेर्यै । शतपत्राभायै । शतबाहवे नमः । ६८०ॐ शतह्रदायै नमः । रेवत्यै । रोहिण्यै । क्षिप्यायै (क्षिप्रायै) ।क्षीणायै । क्षोण्यै । क्षमायै । क्षयायै । क्षान्त्यै । भ्रान्त्यै ।गुरवे । गुर्व्यै । गरिष्ठायै । गोकुलायै । नद्यै । नादिन्यै ।कृषिण्यै । कृष्यायै । सत्कुट्यै । भूमिकायै नमः । ७००ॐ भ्रमायै नमः । विभ्राजमानायै । तीर्थ्यायै । तीर्थायै ।तीर्थफलप्रदायै । तरुण्यै । तामस्यै । पाशायै । विपाशायै ।पाशधारिण्यै । पशूपहारसन्तुष्टायै । कुक्कुट्यै । हंसवाहनायै ।मधुरायै । विपुलायै । आकाङ्क्षायै । वेदकाण्ड्यै । विचित्रिण्यै ।स्वप्नावत्यै । सरिते नमः । ७२०ॐ सीताधारिण्यै नमः । मत्सर्यै । मुदे । शतद्रुवे । भारत्यै ।कद्रूवे । अनन्तायै । अनन्तशाखिन्यै । वेदनायै । वासव्यै । वेश्यायै ।पूतनायै । पुष्पहासिन्यै । त्रिशक्तये । शक्तिरूपायै । अक्षरमात्रे ।क्षुर्यै । क्षुधायै । मन्दायै । मन्दाकिन्यै नमः । ७४०ॐ मुद्रायै नमः । भूतायै । भूतपतिप्रियायै । भूतेष्टायै ।पञ्चभूतघ्न्यै । स्वक्षायै । कोमलहासिन्यै । वासिन्यै । कुहिकायै ।लम्भायै । लम्बकेश्यै । सुकेशिन्यै । ऊर्ध्वकेश्यै । विशालाक्ष्यै ।घोरायै । पुण्यपतिप्रियायै । पांसुलायै । पात्रहस्तायै । खर्पर्यै ।खर्परायुधायै नमः । ७६०ॐ केकर्यै नमः । काकिन्यै । कुम्भ्यै । सुफलायै । केकराकृत्यै ।विफलायै । विजयायै । श्रीदायै । श्रीदसेव्यायै । शुभङ्कर्यै ।शैत्यायै । शीतालयायै । शीधुपात्रहस्तायै । कृपावत्यै । कारुण्यायै ।विश्वसारायै । करुणायै । कृपणायै । कृपायै । प्रज्ञायै नमः । ७८०ॐ ज्ञानायै नमः । षड्वर्गायै । षडास्यायै । षण्मुखप्रियायै ।क्रौञ्च्यै । क्रौञ्चाद्रिनिलयायै । दान्तायै । दारिद्र्यनाशिन्यै ।शालायै । आभासुरायै । साध्यायै । साधनीयायै । सामगायै ।सप्तस्वरायै । सप्तधरायै । सप्तसप्तिविलोचनायै । स्थित्यै ।क्षेमङ्कर्यै । स्वाहायै । वाचाल्यै नमः । ८००ॐ विविधाम्बरायै नमः । कलकण्ठ्यै । घोषधरायै । सुग्रीवायै ।कन्धरायै । रुचये । शुचिस्मितायै । समुद्रेष्टायै । शशिन्यै ।वशिन्यै । सुदृशे । सर्वज्ञायै । सर्वदायै । शार्यै । सुनासायै ।सुरकन्यकायै । सेनायै । सेनासुतायै । शृङ्ग्यै ।शृङ्गिण्यै नमः । ८२०ॐ हाटकेश्वर्यै नमः । होटिकायै । हारिण्यै । लिङ्गायै ।भगलिङ्गस्वरूपिण्यै । भगमात्रे । लिङ्गाख्यायै । लिङ्गप्रीत्यै ।कलिङ्गजायै । कुमार्यै । युवत्यै । प्रौढायै । नवोढायै ।प्रौढरूपिण्यै । रम्यायै । रजोवत्यै । रज्जवे । रजोल्यै । राजस्यै ।घट्यै नमः । ८४०ॐ कैवर्त्यै नमः । राक्षस्यै । रात्र्यै । रात्रिञ्चरक्षयङ्कर्यै ।महोग्रायै । मुदितायै । भिल्ल्यै । भल्लहस्तायै । भयङ्कर्यै ।तिलाभायै । दारिकायै । द्वाःस्थायै । द्वारिकायै । मध्यदेशगायै ।चित्रलेखायै । वसुमत्यै । सुन्दराङ्ग्यै । वसुन्धरायै । देवतायै ।पर्वतस्थायै नमः । ८६०ॐ परभुवे नमः । परमाकृतये । परमूर्तये । मुण्डमालायै ।नागयज्ञोपवीतिन्यै । श्मशानकालिकायै । श्मश्रवे । प्रलयात्माने ।प्रलोपिन्यै । प्रस्थस्थायै । प्रस्थिन्यै । प्रस्थायै । धूम्रार्चिषे ।धूम्ररूपिण्यै । धूम्राङ्ग्यै । धूम्रकेशायै । कपिलायै । कालनाशिन्यै ।कङ्काल्यै । कालरूपायै नमः । ८८०ॐ कालमात्रे नमः । मलिम्लुच्यै । शर्वाण्यै । रुद्रपत्न्यै ।रौद्र्यै । रुद्रस्वरूपिण्यै । सन्ध्यायै । त्रिसन्ध्यायै । सम्पूज्यायै ।सर्वैश्वर्यप्रदायिन्यै । कुलजायै । सत्यलोकेशायै । सत्यवाचे ।सत्यवादिन्यै । सत्यस्वरायै । सत्यमय्यै । हरिद्वारायै । हरिन्मय्यै ।हरिद्रतन्मय्यै । राशये नमः । ९००ॐ ग्रहतारातिथितनवे नमः । तुम्बुरुवे । त्रुटिकायै । त्रौट्यै ।भुवनेश्यै । भयापहायै । राज्ञ्यै । राज्यप्रदायै । योग्यायै ।योगिन्यै । भुवनेश्वर्यै । तुर्यै । तारायै । महालक्ष्म्यै । भीडायै ।भार्ग्यै । भयानकायै । कालरात्र्यै । महारात्र्यै । महाविद्यायै नमः । ९२०ॐ शिवालयायै नमः । शिवासङ्गायै । शिवस्थायै । समाधये ।अग्निवाहनायै । अग्नीश्वर्यै । महाव्याप्तये । बलाकायै । बालरूपिण्यै(महीव्याप्त्यै) । वटुकेश्यै । विलासायै । सते । असते । पुरभैरव्यै ।विघ्नहायै । खलहायै । गाथायै । कथायै । कन्थायै ।शुभाम्बरायै नमः । ९४०ॐ क्रतुहायै नमः । क्रतुजायै । क्रान्तायै । माधव्यै । अमरावत्यै ।अरुणाक्ष्यै । विशालाक्ष्यै । पुण्यशीलायै । विलासिन्यै । सुमात्रे ।स्कन्दमात्रे । कृत्तिकायै । भरण्यै । बलये । जिनेश्वर्यै ।सुकुशलायै । गोप्यै । गोपतिपूजितायै । गुप्तायै । गोप्यतरायै नमः । ९६०ॐ ख्यातायै नमः । प्रकटायै । गोपितात्मिकायै । कुलाम्नायवत्यै ।कीलायै । पूर्णायै । स्वर्णाङ्गदायै । उत्सुकायै । उत्कण्ठायै ।कलकण्ठ्यै । रक्तपायै । पानपायै । अमलायै । सम्पूर्णचन्द्रवदनायै ।यशोदायै । यशस्विन्यै । आनन्दायै । सुन्दर्यै । सर्वानन्दायै ।नन्दात्मजायै नमः । ९८०ॐ लयायै नमः । विद्युते । खद्योतरूपायै । सादरायै । जविकायै ।जवये (जीवकायै) । जनन्यै । जनहर्त्र्यै । खर्परायै ।खञ्जनेक्षणायै । जीर्णायै । जीमूतलक्ष्यायै । जटिन्यै ।जयवर्धिन्यै । जलस्थायै । जयन्त्यै । जम्भारिवरदायै ।सहस्रनामसम्पूर्णायै । देव्यै । ज्वालामुख्यै नमः । १०००इति श्रीरुद्रयामलान्तर्गता श्रीभैरवप्रोक्ता श्रीज्वालामुखीसहस्रनामावलिः समाप्ता । N/A References : N/A Last Updated : January 15, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP