मराठी मुख्य सूची|स्तोत्रे|सहस्रनामावली| श्रीगणेशाय नमः । श्रीमहाल... सहस्रनामावली ब्रह्मानन्दं परमसुखदं केव... अथ मूलम् । ॐ श्रीं ह्रीं ... ॐ श्रीगणेशाय नमः । श्वेता... श्रीअरुणाचलेश्वरसहस्रनामावली अर्धनारीश्वरसहस्रनामावलिः ॐ हिरण्यबाहवे हिरण्यवर्णा... श्रीहनुमत्सहस्रनामावलिः ॐ श्रीगणेशाय नमः । ॐ ब्र... ॐ इन्द्राय नमः । देवतमाय ... ॐ श्रीगणेशाय नमः । ॐ नमोद... ॐ अस्य श्रीसर्वसाम्राज्यम... ध्यानम् । कान्त्या काञ्चन... ॐ श्रीगणेशाय नमः । ॐ नका... ॐ अस्य कामकलाकालीसहस्रनाम... श्री गणेशाय नमः । श्रीकाम... कालोऽहम् । अस्य श्रीकालना... शिव उवाच- नाम्नां सहस्रं ... ॐ श्मशानकालिकायै नमः । ॐ ... अथ कुञ्चितपादसहस्रनामावलि... धनं दारान्सुतान्क्षेत्रं ... षड्वक्त्रं शिखिवाहनं त्रि... ॐ कृष्णाय नमः । श्रीवल्लभ... ॐ अस्य श्रीपुराणपुरुषोत्त... श्रीगणेशाय नमः । श्रीकेदा... सितमकरनिषण्णां शुभ्रवर्णा... श्रीगणेशाय नमः । श्रीसमर्... ॐ अस्य श्रीगणपतिगकारादिसह... ॐ सुमुखाय नमः । सुवहाय । ... ध्यानम् रक्तश्वेतहिरण्यनी... ध्यानम् - रक्तश्वेतहिरण्य... ॐ शं शां षं ह्रीं क्लीं ग... अथ ध्यानम् । सूर्यस्पर्धि... ॐ श्री गुरुभ्यो नमः । गुर... ॐ श्रीगणेशाय नमः । सर्वत्... अथ श्रीगोपालदिव्यसहस्रनाम... ॐ गवे नमः । ॐ गौविन्द्यै ... श्रीगुरुभ्यो नमः । श्रीका... ॐ अस्य श्रीप्रचण्डचण्डिका... अथ श्रीयोगेश्वरकवि द्वारा... अस्य श्रीज्वालामुखीसहस्रन... विश्वव्यापकवारिमध्यविलसच्... ॐ अस्य श्रीतारासहस्रनामस्... ॐ भुवनेश्यै नमः । ॐ भुवार... ॐ अस्य श्रीमहोग्रतारा दिव... वरिष्ठ उवाच - कथं नामसहस्... ॐ तुलस्यै नमः । ॐ श्रीप्र... ॐ श्रीमत्त्यागमहाराजाय नम... श्रीगणपतये नमः । ॐ अनेजते... ध्यानम् । उद्यद्भानुसहस्र... ॐ योगेशाय नमः । ॐ अमरप्रभ... महाकालभैरव ऋषिस्त्रिष्टुप... अस्य श्रीदक्षिणामूर्तिसहस... ॐ आदिदेवाय नमः । दयासिन्ध... ध्यानम् । स्फटिकरजतवर्णां... ऋषिच्छन्दांसि - अस्य श्री... तन्त्रराजतन्त्रे पूर्वपीठ... ध्यानम् । १. सिंहस्था शशि... महामन्त्रस्य श्रीमहेश्वर ... ध्यानम् - रक्ताभां रक्तवस... ॐ श्रीमते नमः । ॐ धन्वन्त... ॐ नमो भगवते भूतनाथाय । ॐ ... ध्यानम् । विवर्णा चञ्चला ... अस्य श्री शिवकामसुन्दरीसम... ॐ अस्य श्रीनटेशसहस्रनामस्... ॐ श्री गणेशाय नमः । अस्य ... श्री गुरुभ्यो नमः । ॐ श्र... श्री गुरुभ्यो नमः । ॐ श्र... ॥ ध्यानम् ॥ श्रीमित्रेश्... श्रीराधासर्वेश्वरो विजयते... पद्मावतीशतम् ॐ श्री पद्मा... ॐ श्रीगणेशाय नमः । ॐ अस्य... अथ विनियोगः । ॐ अस्य श्री... अथ अकारादि-क्षकारान्तासहस... ॐ शिवायै नमः । उमायै । पर... ॐ श्रीकृष्णाय नमः । सच्चि... अस्य श्रीप्रणवसहस्रनामस्त... ईश्वर उवाच । शृणु देवि प... ॐ ब्रह्मास्त्राय नमः । ॐ ... श्रीमहादेव उवाच - अस्य श्... विनियोगः - ॐ अस्य श्रीबटु... रुद्रयामलोक्तबटुकभैरवसहस्... ॐ अस्य श्रीबलभद्रसहस्रनाम... ॐ ऐं ह्रीं श्रीं-आनन्दसिन... शौनक उवाच - कैलासशिखरे रम... श्रीदेव्युवाच - भगवन्भाषि... ओं ऐं ह्रीं श्रीङ्कल्याण्... ॐ परमात्मने नमः ॐ धर्मक्... ॐ निस्सीमोद्यद्गुणाय नमः ... ॐ क्रकुच्छन्दाय नमः । ॐ क... ध्यानम् - बालार्कमण्डलाभा... विनोयोगः - ॐ अस्य श्रीभुव... प्रणवाय ब्रह्मणे उद्गीथाय... विनियोगः । ॐ अस्य श्रीमहा... श्रीः । ॐ नमश्चण्डिकायै ।... ॐ ह्रीं श्रीं क्लीं गणाध्... ॐ महामार्यै नमः । महामाया... पार्वत्युवाच - भगवन् वेदत... श्रीगणेशाय नमः । श्रीमहाल... ॐ ह्रीं ऐं ह्रीं महावाण्य... ध्यानम् श्रीमच्चन्दनचर्चि... ॐ अद्भुताय नमः । अद्भुतचा... ॐ सुमुख्यै नमः । ॐ शेमुष्... ॐ अम्बायै नमः । ॐ अम्बालि... ॐ अस्यश्री मूकाम्बिकायाः ... श्रीभैरव उवाच । अस्य श्री... अस्य श्री मेधादक्षिणामूर्... ॐ नमो भगवते दक्षिणामूर्तय... गर्गसंहितातः ॐ कालिन्द्य... अस्य श्रीयोगेश्वरीसहस्रना... ॐ योगिन्यै नमः । योगमायाय... देव्युवाच - भगवन्सर्वशास्... सोन्दूर श्रीकृष्ण अवधूतवि... वन्दे वृन्दावनानन्दा राधि... ॐ श्रीराधायै नमः । राधिका... ॐ श्रीराधायै नमः । राधिका... ॐ अस्य श्रीरामसहस्रनाममाल... ॐ आर्यश्रेष्ठाय नमः । धरा... सङ्कल्पः - यजमानः, आचम्य,... ॐ नमो भगवते वासुदेवाय । ॐ... ॐ स्थिराय नमः । स्थाणवे ।... न्यासः । अस्य श्रीरुद्रसह... अथ श्रीरेणुकातन्त्रान्तर्... सिन्दूरारुणविग्रहां त्रिन... ॐ श्रियै नमः । वासुदेवमहि... ॐ नित्यागतायै नमः । ॐ अनन... ॐ श्रीवराहाय नमः । भूवराह... ॐ वल्ल्यै नमः । ॐ वल्लीश्... ॐ श्रीवाग्मत्याः सहस्रनाम... ॐ श्रीगणेशाय नमः । श्रीनन... वराहमुख्यै विद्महे । दण्ड... ध्यानम् - ओङ्कारबीजाक्षरी... शुक्लाम्बरधरं विष्णुं शशि... ॐ क्लीं विट्टलाय नमः । पा... पूर्वन्यासः । श्रीवेदव्या... श्रीविष्णुसहस्रनामावलिः प... रुद्र उवाच । संसारसागराद... ॐ श्रीगणेशाय नमः । ॐ विष... श्रीशिवाय गुरवे श्रीवीरभ... वेङ्कटेशस्य नाम्नां हि सह... ॐ श्री गुरुभ्यो नमः । अथ ... ॐ शङ्कराय नमः । ॐ श्रीधरा... ॐ गाढध्वान्तनिमज्जनप्रमुष... ॐ अमिताभाषिणे नमः । ॐ अघह... ॐ श्रीगणेशाय नमः । ॐ श्री... विनियोगः - अस्य श्रीशारिक... अस्य श्रीशास्तृशवर्णसहस्र... ॐ अस्य श्री शिवकामसुन्दरी... अस्य श्रीशिवकामसुन्दरीसहस... ॐ अखिलेश्वर्यै नमः । अग्न... ॐ स्थिराय नमः । ॐ स्थाणवे... ॐ श्री गणेशाय नमः । अथ श्... ॐ ओङ्कारकण्ठनिलयाय नमः । ... ॐ ॐकारनिलयात्मस्थाय नमः ।... श्री विष्णुरुवाच ॐ भवाय ... अस्य श्रीशिवसहस्रनामस्तोत... ॐ सौभाग्यलक्ष्म्यै नमः । ... ॐ राधिकेशाय नमः । ॐ जगन्न... सद्गुरु श्रीधरस्वामिनाप्र... ईशानमुखपूजा- ॐ जगद्भुवे न... ॐ वचनभुवे नमः । पराय । शङ... ॐ रुद्रभुवनाय नमः । अनन्त... ॐ ब्रह्मभुवे नमः । भवाय ।... अघोर मुखपूजा । ॐ विश्वभुव... ॐ अचिन्त्य शक्तये नमः । अ... जपसाधना ॐ अस्य श्रीमहात्र... ॐ सङ्कटायै नमः । ॐ विजयाय... ॐ सङ्गीतालय-प्रतिष्ठित-भग... ॐ सीतायै नमः । उमायै । पर... ॐ श्रीचक्राय नमः । ॐ श्री... ॐ शुक्लाम्बरधरं विष्णुं श... ॐ श्री गणेशाय नमः । अस्य ... ॐ अस्य श्रीसुब्रह्मण्यसहस... बिल्वैर्वा चम्पकाद्यौर्वा... ध्यानम् - ध्येयः सदा सवित... श्रीरुद्रयामले तन्त्रे श्... श्रीसूर्यसहस्रनामावलिः ॐ सुब्रह्मण्याय । सुरेशान... ॐ नमः । ओङ्कारनमोरूपाय । ... ॐ श्रीहयग्रीवाय नमः । श्र... स्वामिनारायणं कृष्णं भक्त... १. ॐ स्थिराय नमः । २. ॐ ... ॥ श्रीदुर्गादैव्ये नम: ॥ ... १. ॐ राजीवलोचनाय नमः । ... १ ॐ अचिन्त्यलक्षणायै नमः ... १ ॐ कालिन्द्यै नमः । २ ॐ... १ ॐ अन्नपूर्णायै नमः । ... १. ॐ नारसिंहाय नमः । २. ... १ ॐ देवकीनन्दनाय नमः । २... १ ॐ क्लीं देवाय नमः । २ ... १ ॐ श्रियै नमः । २ ॐ पद्... १ ॐ हनुमते नमः । २ ॐ श्र... ॥ श्रीकृष्णाय नमः ॥ १. ॐ ... १. ॐ विश्वविदे नम: । २. ... १. ॐ गणेश्वराय नम: । २.... १. ॐ ऐं ह्रीं श्रीं श्रीम... १ ॐ सीतायै नमः । २ ॐ उमा... १ ॐ ओंकाररूपिण्यै नमः । ... १. ॐ विश्वस्मै नमः । २.ॐ... १. ॐ श्रीराधायै नमः । २.... ॐ गणपतये नमः ॥ ॥ ॐ गणेश्व... श्रीमहालसा सहस्रनामस्तोत्रम् - श्रीगणेशाय नमः । श्रीमहाल... हिंदू देवी देवतांची एक हजार नावे म्हणजेच सहस्त्रनामावली. हिंदू धर्मिय रोज सकाळी संध्याकाळी या नावांचा जप करतात.A sahasranamavali is a type of Hindu scripture in which a diety is referred to by 1000 or more different names.Many devout Hindus chant them every morning or evening. Tags : 1000godgoddesssahasranamavaliसहस्त्रनामावली श्रीमहालसा सहस्रनामस्तोत्रम् Translation - भाषांतर श्रीगणेशाय नमः । श्रीमहालसायै नमः ।ब्रह्मा उवाच -नाम्नां सहस्रैर्जननीं सृष्टिज्ञानप्रदां पराम् ।तद्गोप्यमति ते पुत्र कथये शृणु नारद ॥१॥विष्णुमूर्तिरजा देवी मोहिनी श्री महालसा ।सर्वदेवमयी माता त्रिगुणा परमेश्वरी ॥२॥तस्या नाम्नां सहस्रं ते दिव्यं वच्मि शुणुष्व तत् ।पुष्टिदं तुष्टिदं भुक्तिमुक्तिदं मोहनाशनम् ॥३॥मातृकाक्रमसाहस्रं सर्वनामामृतं शुभम् ।भक्तियुक्तः शुचिर्भूत्वा जपेत् श्रीमूर्तिसन्निधौ ॥४॥हृदि ध्यात्वाऽधिदेवं च विष्णुमेतज्जपेन्मनुम् ।चिच्छक्तिधर्मकामार्थमोक्षेषु विनियोज्यते ॥५॥अस्य श्री महालसासहस्रनाममन्त्रस्य शिवऋषिः ।श्रीविष्णुमूर्तिमोहिनी श्रीमहालसा देवता । अनुष्टुप् छन्दः ।ह्रीं बीजम् । क्लीं शक्तिः । सर्वज्ञा सर्वशक्तिश्चेति कीलकम् ।चिच्छक्तिधर्मकामार्थमोक्षप्राप्त्यर्थं श्रीमहालसाप्रीत्यर्थे जपे विनियोगः ॥अथ ध्यानं -अरुणामतिपीतवाससां धृतकार्तस्वरचारुभूषणां अतिरम्यवपुश्चतुर्भुजामनिशं नौमि महालसां शुभाम् ।उद्यद्भानुसहस्रदीप्तिवपुषां जाम्बूनदालङ्कृतां ब्रह्मेन्द्रादिसुरैः स्वमौलिमणिभिर्नीराजितश्रीपदाम् ॥भक्ताभीष्टफलप्रदां च दधतीं हस्तैश्च कौक्षेयक- । शूलामित्रशिरांसि राहुमथिनीं ध्यायेत्सदा मोहिनीम् ॥इति ध्यानं-ॐ महालसायै नमः ॥अथ नामावलिः ।ॐ ओङ्काररूपायै नमः । नम्यायै । नयनानन्ददायिन्यै । नित्यायै ।नतिप्रियायै । नन्दायै । महादेव्यै । महेश्वर्यै । महालसायै ।विष्णुशक्त्यै । महामायायै । महालयायै । सिद्ध्यै । धियै ।अमृतायै । नन्दायै । आनन्दायै । आकूत्यै । अनिन्दितायै । आढ्यायै नमः । २०ॐ आर्यायै नमः । अभयायै । अशक्यायै । अजयायै । अजेयायै ।अमलायै । अमरायै । अमूर्त्यै । अदित्यै । आर्यायै । आदित्यमात्रे ।अगुणायै । अवन्यै । आनन्दिन्यै । असुरघ्ने । अर्च्यै । रूपवत्यै ।अमृतप्रसुवे । आकाररूपायै । अयोध्यायै नमः । ४०ॐ असुरच्छिदे नमः । अमरवल्लभायै । अखण्डितायुषे । अनघायै ।अलिराज्यै । अहस्करायै । आमयघ्न्यै । अलकायै । अनेकायै । अहल्यायै ।अभीत्यै । अक्षयायै । अन्नपूर्णायै । अनसूयायै । अग्र्यायै ।अशुभघ्न्यै । अजवन्दितायै । आद्यायै । अभयप्रदायै । अरूपायै नमः । ६०ॐ अजरायै नमः । अमलविग्रहायै । आराध्यायै । आशापुर्यै ।आर्तिनाशिन्यै । अमरवन्दितायै । अनाकारायै । अतुलायै । अभीष्टायै ।अशेषायै । अभीप्सितप्रदायै । अप्रमेयायै । अरुणायै । अलक्ष्यायै ।अद्वैतायै । अमूर्तायै । अच्युतायै । आकृत्यै । अष्टसिद्धिप्रदायै ।अनर्घ्यकौस्तुभायै नमः । ८०ॐ मुक्तकन्धरायै नमः । अनन्तशक्त्यै । अज्ञेयायै । अणुरूपायै ।अरुणाकृत्यै । अवाच्यायै । अनन्तरूपायै । अपूर्वायै । अनादये ।आदये । ईश्वर्यै । इष्टेष्टदायै । इन्द्राण्यै । ईशायै । ईशान्यै ।इन्द्रमोहिन्यै । इलायै । ईशानमदघ्न्यै । ईशानवरदायै । इन्दिरायै नमः । १००ॐ इच्छायै नमः । ईषत्फुल्लकमललोचनायै । इन्दीवरप्रदायै ।इडायै । इभास्यनुतायै । ईशानप्रियायै । इन्दुनिभाननायै । इडायै ।इन्द्रादिस्तुतायै । इन्द्राणीवरदायै । ईड्यायै । इन्दिरायै । ईश्वर्यै ।उत्तमायै । उत्कृष्टवर्णायै । उर्व्यै । उमायै । उर्वश्यै ।उदयप्रभायै । ऊतये नमः । १२०ॐ उद्यद्भानुकोटिप्रभायै नमः । उभयतोमुख्यै । उरगेन्द्रशयायै ।उत्केल्यै । उरुशक्त्यै । उरुप्रदायै । ऊर्ध्वकेश्यै । उरुदेहायै ।उष्ठोद्धृतवसुन्धरायै । ऊर्णावासायै । उन्नताकाररूपायै ।उन्नद्धमदापहायै । ऋतुपर्णार्चितायै । ऋद्ध्यै । ऋतुपुष्पायै ।ऌकारिकायै । एकैश्वर्यप्रदायै । ऐन्द्र्यै । ऐन्दव्यै ।ओङ्कारसंस्थितायै नमः । १४०ॐ ओषध्यन्नप्रदात्र्यै नमः । औषध्यै । और्ववन्दितायै ।अन्तर्वत्यै । अम्बिकायै । अम्बालिकायै । अम्बुधिशयायै । अम्बुध्यै ।अन्तकघ्न्यै । अन्तकर्त्र्यै । अन्तिमायै । अन्तकरूपिण्यै । अम्बुदायै ।अम्बरसंस्थाङ्कायै । अशेषस्वरभूषितायै । काम्यायै । कामप्रदायै ।कृष्णायै । कल्याण्यै । कल्पकारिण्यै नमः । १६०ॐ काल्यै नमः । कलायै । कलिहरायै । काश्यै । कलिमलापहायै ।कम्बुग्रीवायै । कलाकेल्यै । कमलाक्ष्यै । कलानिध्यै । कावेर्यै ।कुलकान्तायै । कौमार्यै । कालिकायै । कथायै । केतक्यै । कुलजायै ।कन्यायै । कलकण्ठ्यै । कवित्वदायै । कामबीजवत्यै नमः । १८०ॐ कान्त्यै नमः । कोट्यै । केल्यै । कुह्वै । कृत्यै । कमलायै ।कलभोरवे । कामाक्ष्यै । कमनीयभ्रुवे । कलङ्करहितायै । कान्तायै ।कुशलायै । कुटिलालकायै । काष्ठायै । कलायै । कुरुक्षेत्रभूम्यै ।कलितदानवायै । कुल्यायै । कलावत्यै । कीर्त्यै नमः । २००ॐ केशिघ्न्यै नमः । कीर्तिदायिन्यै । कविप्रीतायै । करुणायै ।कृपायै । काश्मीरवासिन्यै । कादम्बर्यै । कलरवायै ।कुचमण्डलमण्डितायै । कौशिक्यै । कृतमालायै । कौशाम्ब्यै ।कोशवर्धिन्यै । कुशावर्तायै । कामधेनवे । कपिलायै । कुलोद्भवायै ।कुङ्कुमाङ्कितदेहायै । कुमार्यै । कुङ्कुमारुणायै नमः । २२०ॐ काशपुष्पप्रतीकाशायै नमः । कालमार्यै । कालिकायै । किरणायै ।कल्पलतिकायै । कल्पसङ्ख्यायै । कुमुद्वत्यै । काश्यप्यै । कुतुकायै ।कुध्रायै । कृशाङ्ग्यै । कायवर्जितायै । कामिन्यै । कुन्तहस्तायै ।कुलविद्यायै । कौलिक्यै । काव्यशक्त्यै । केलिपरायै । कलहायै ।कान्तिलोचनायै नमः । २४०ॐ काञ्च्यै नमः । कनकधारायै । कलये । कनककुण्डलायै ।कमलस्रग्धरायै । कामवरदायै । कमलाकृत्यै ।काञ्चीकलापरम्यायै । कमलासनसंस्तुतायै । कम्बीजायै ।कौत्सवरदायै । कामरूपनिवासिन्यै । खड्गिन्यै । खड्गहस्तायै ।खट्वाङ्गवरधारिण्यै । खेटहस्तायै । खड्गधरायै । खन्यै ।खस्थायै । खलापहायै नमः । २६०ॐ खगमात्रे नमः । खगाख्यात्यै । खगेन्द्रवरवाहनायै ।खुराभिघातसैन्यघ्न्यै । खेचर्यै । खेटकामदायै ।खरदूषणहन्त्र्यै । खरस्पर्शायै । खरूपिण्यै । गीतायै ।गीतप्रियायै । गीतिर्गायत्र्यै । गौतमीगुरवे । गुणाध्यक्षायै ।गुणवत्यै । गोपीचन्दनचर्चितायै । गङ्गायै । गोप्त्र्यै । गुणाढ्यायै ।गवे नमः । २८०ॐ गणेशायै नमः । गियै । गोपिकायै । गोवर्धनधरायै । गुर्व्यै ।गोकुलाभयदायिन्यै । गण्डक्यै । गौतम्यै । गाथायै । गयायै । गौर्यै ।गणेशसुवे । गोदावर्यै । गोस्वरूपायै । गौतमाख्यमुनिस्तुतायै ।गानप्रियायै । गम्भीरायै । गेयायै । गन्धर्वसेवितायै । गान्धर्व्यै नमः । ३००ॐ गीतकीर्त्यै नमः । गेयविद्याविशारदायै । गम्भीरनाभ्यै । गरिमायै ।गुणरूपायै । गुणोद्धतायै । गोपालरूपिण्यै । गोष्ठ्यै । गहनायै ।गोधनप्रदायै । गन्धप्रियायै । गोपसख्यै । गारुड्यै । गोहितायै ।गत्यै । गोप्यायै । गुरुतमायै । गम्यायै । गोदायै । गुरुसुतप्रदायै नमः । ३२०ॐ घण्टानादप्रियायै नमः । घोरायै । घोरदैत्यविनाशिन्यै ।घण्टायै । घोरवपुषे । धृष्टदैत्यवक्षस्थलायै । घृणये ।घटस्तन्यै । घण्टिकायै । घटोघ्न्यै । घटजन्मसुवे ।घोषायै । घृताहुतये । घासायै । घोरघर्घरनादिन्यै ।ङ्काराकृतिसंविष्टायै । चतुष्कोणसबिन्दुकायै । चारवे ।चन्द्रप्रभायै । चञ्चवे नमः । ३४०ॐ चतुराश्रमपूजितायै नमः । चतुर्वेदमय्यै । चित्त्यै ।चित्स्वरूपायै । चराचरायै । चित्रिण्यै । चक्रिण्यै । चित्रायै ।चित्राभरणभूषितायै । चाणूरमर्दिन्यै । चण्डायै । चण्डहर्त्र्यै ।चण्डिकायै । चिदात्मिकायै । चतुर्वर्गफलदायै । चतुराकृत्यै ।चकोराक्ष्यै । चारुहासायै । चमर्यै । चतुराननायै नमः । ३६०ॐ चतुःषष्टिःश्रीसुतन्त्रपूजनीयायै नमः । चित्सुखायै ।चिन्त्यायै । चक्षवे । चन्द्रभागायै । चपलायै । चलकुण्डलायै ।चतुःषष्टिकलाज्ञानदायिन्यै । चाक्षुष्यै । मनवे । चर्मण्वत्यै ।चन्द्रिकायै । चन्द्रमात्रे । चापिन्यै । छत्रछायायै । छत्रवत्यै ।छात्रबुद्धिप्रदायै । छव्यै । छायाग्रहहरायै । छायायै नमः । ३८०ॐ छद्मदैत्यविनाशिन्यै नमः । जयायै । जयन्त्यै । जयदायै ।जगत्त्रयहितैषिण्यै । जातरूपमय्यै । ज्योत्स्नायै । जनतायै ।जातवत्सलायै । जगत्यै । जङ्गमायै । ज्येष्ठायै । जन्मदायै ।ज्वलितद्युत्यै । जगज्जीवायै । जगद्वन्द्यायै । जरामृत्युविनाशिन्यै ।जैत्र्यै । जीमूतसङ्काशायै । जीवनायै नमः । ४००ॐ जीवनप्रदायै नमः । जितश्वासायै । जितारातये । जनित्र्यै ।जनमोहिन्यै । जलमूर्त्यै । जगद्बीजायै । जनन्यै । जन्मनाशिन्यै ।जगद्धात्र्यै । जितेन्द्रायै । ज्योतिषे । जायायै । जनेष्टदायै ।जीर्णायै । जनमात्रे । जन्यायै । जनकनन्दिन्यै । जालन्धरहरायै ।जात्यै नमः । ४२०ॐ जनलोकनिवासिन्यै नमः । जयायै । अजय्यायै । जयकर्यै ।जरायवे । जवनायै । जव्यै । जाम्बूनदविभूषायै । ज्वालायै ।जम्भवधोद्यतायै । झल्लर्यै । झङ्कृन्यै । झम्पायै ।झणझ्झणितनूपुरायै । झङ्काररूपायै । झटितिवरदायै ।झर्झर्यै । झर्यै । ङ्काराकृत्यै । संव्यक्त्यै नमः । ४४०ॐ कर्णिकाकुसुमाक्षरायै नमः । टङ्कहस्तायै । टङ्कृत्यै । टीकायै ।टङ्कारभीषणायै । ठरूपायै । ठाकृत्यै । डिम्भायै । डामर्यै ।डमरुप्रियायै । ढौकिताशेषपातालायै । ढुण्ढिपूज्यायै । ढरूपिण्यै ।णकाराकृत्यै । अनुस्यूतेभदन्ताक्षमालिन्यै । ताम्रपर्ण्यै ।तीर्थमय्यै । तापस्यै । तापसप्रियायै । त्रैलोक्यपूजितायै नमः । ४६०ॐ तारायै नमः । त्रिपदायै । तोमरायै । त्रुट्यै । तन्तवे ।स्त्रयीतनवे । ताप्यै । त्रिपथायै । त्र्यम्बकस्तुतायै । तुलायै ।तामरसाभास्यायै । त्रिलोकस्थायै । त्रिविक्रमायै । तमालदलरुचे ।तन्व्यै । तरुण्यै । तामस्यै । तर्यै । तत्त्वतुष्टायै । तत्त्वरूपायै नमः । ४८०ॐ तमोहन्त्र्यै नमः । त्रिशक्तिधृचे । तपस्विन्यै । तपोयुक्तायै ।तपस्विकुलवन्दितायै । तापापहन्त्र्यै । तार्क्ष्यमात्रे । तृप्त्यै ।त्रपायै । तृषायै । तपःसिद्ध्यै । तपोनिष्ठायै । तृप्तायै ।तापितदानवायै । थाथाथैथैथरीथारतालविद्याविशारदायै । दयायै ।दयानिधये । दुःखहन्त्र्यै । दान्तायै । द्रुतेष्टदायै नमः । ५००ॐ दात्र्यै नमः । दीनार्तिशमन्यै । दैत्यदर्पविनाशिन्यै । द्वारकायै ।दरपाणये । दृशे । दिव्यायै । दिग्दमितेन्द्रियायै । दक्षायै ।दक्षिणायै । दीक्षायै । दीक्षितायै । दक्षपूजितायै । दीर्घकेश्यै ।दीर्घनिद्रायै । दयालवे । दनुजापहायै । दारिद्र्यनाशिन्यै । द्यावे ।दिङ्मण्डलविकासितायै नमः । ५२०ॐ द्रौपद्यै नमः । देवमात्रे । दुर्धर्षायै । दीधितिप्रदायै ।दशाननहरायै । दोलायै । द्युतये । दीप्तायै । दितये । दनवे ।दिवागतये । दर्पहरायै । दीप्तपावकलोचनायै । दिव्यसौख्यप्रदायै ।दीप्त्यै । दिक्पालवरदायै । दशायै । दावाग्निनाशिन्यै । दूत्यै ।देवदुःखविनाशिन्यै नमः । ५४०ॐ धर्मदायै नमः । धनदायै । धारायै । धराधरायै ।धनुर्धरायै । धेनुकायै । ध्वजिन्यै । धीरायै । धूल्यै ।ध्वान्तहरायै । ध्वन्यै । ध्येयायै । ध्यानायै । ध्यानशीलायै ।धूतपापायै । धुरन्धरायै । धृत्यै । धुवे । धार्मिक्यै ।धुर्यायै नमः । ५६०ॐ धनधान्यविवर्धिन्यै नमः । धर्मिष्ठायै । धर्मफलदायै ।ध्यानगम्यायै । धारणायै । धरण्यै । धवलायै । नीत्यै ।निष्ठायै । नाकगतिप्रदायै । नागरूपायै । नागवल्ल्यै । नीलायै ।नागेन्द्रपूजितायै । नारसिंह्यै । नद्यै । नन्दायै । नन्द्यावर्तप्रियायै ।निधये । निधिपुरस्थायै नमः । ५८०ॐ न्यायसुवे नमः । न्यायकोविदायै । नाभिस्तुतायै । नयवत्यै ।नरकार्तिहर्यै । नाभये । नासायै । नूतनाङ्गायै । नरकघ्न्यै ।नुत्यै । नागपाशधरायै । नित्यायै । नानामङ्गलदायिन्यै । नार्यै ।नारायण्यै । नौकायै । नीलमेघसमप्रभायै । नट्यै । नीलाम्बरायै ।नक्रपोथिन्यै नमः । ६००ॐ नलिन्यै नमः । नत्यै । निशुम्भघ्न्यै । नर्मदायै ।नक्षत्राख्यायै । नन्दिन्यै । पद्मिन्यै । पद्मकोशाक्ष्यै ।पुण्डलीकवरप्रदायै । पुराणपरमायै । प्रीत्यै । प्रेष्ठायै ।पीताम्बरायै । परायै । पुण्यायै । प्रज्ञायै । पयोष्ण्यै । पम्पायै ।पद्मायै । पयस्विन्यै नमः । ६२०ॐ पीवरायै नमः । पुरुषायै । पुष्ट्यै । परमात्मस्वरूपिण्यै ।पापघ्न्यै । प्रियकर्त्र्यै । पवित्रायै । परमेश्वर्यै । पुत्रिण्यै ।परमानन्दायै । पद्महस्तायै । पिकस्वरायै । पुरुषार्थप्रदायै ।प्रौढायै । प्राप्त्यै । पर्वतनन्दिन्यै । पतिव्रतायै । पतिमय्यै ।प्रियायै । प्रीतिमञ्जर्यै नमः । ६४०ॐ पातालवासिन्यै नमः । पूर्त्यै । पाञ्चाल्यै । प्राणिनां प्रसुवे ।पराशक्त्यै । पाशहस्तायै । प्रसिद्धायै । पद्मजार्चितायै ।प्रवरातीरसंस्थायै । पुत्रपौत्रप्रदायिन्यै । पितामह्यै ।पितृमात्रे । प्राच्यै । पूर्णायै । परात्मिकायै । परापवादसंहन्त्र्यै ।पतगेन्द्रकृतासनायै । पतगेन्द्रशयायै । पाकहन्त्र्यै ।परशुप्रियायै नमः । ६६०ॐ फणिमात्रे नमः । फलदायै । फलभुजे । फेनदैत्यहृते ।फुल्लाम्बुजासनायै । फुल्लायै । फुल्लपद्मकरायै । बल्यै । बलिदायै ।बालिकायै । बालायै । बदर्यै । बलशालिन्यै । बलभद्रप्रियायै ।बुद्ध्यै । बाहुदायै । बलिसंस्तुतायै । बालेन्दुशिखरायै । बन्द्यै ।बालग्रहविनाशिन्यै नमः । ६८०ॐ ब्राह्म्यै नमः । बृहत्तमायै । बाणायै । ब्रह्माण्यै ।ब्रह्मणस्पत्यै । बृहद्भानवे । ब्रह्मरूपायै । ब्रह्मस्थायै ।बृहस्पत्यै । बालसौख्यप्रदायै । लीलायै । बाणासुरकरापहायै ।बलिमात्रे । बृहद्धाम्न्यै । बादरायणसंस्तुतायै । भयघ्न्यै ।भीमरूपायै । भियै । भूतस्थायै । भीमनन्दिन्यै नमः । ७००ॐ भूत्यै नमः । भवान्यै । भयदायै । भीषणायै । भवभीषणायै ।भूपतये । भूधरधरायै । भूतावेशनिवासिन्यै । भालनेत्रायै ।भैरव्यै । भूतिदायै । भ्रामर्यै । भ्रम्यै । भूर्भुवःस्वःस्वरूपायै । भीमायै । भवभयापहायै । भीमभ्राजन्मणिग्रीवायै ।भ्रातृपूज्यायै । भार्गव्यै । भ्राजिष्णवे नमः । ७२०ॐ भासुरायै नमः । भास्यायै । भानुकोटिसमप्रभायै । भक्तिगम्यायै ।भ्रमघ्न्यै । भक्तकामदुहायै । भुवे । भवभीतिहरायै ।भव्यायै । भ्रान्त्यै । भगवत्यै । मह्यै । महालक्ष्म्यै । महाकाल्यै ।महिषासुरघातिन्यै । मत्तमातङ्गगमनायै । मधुसूदनरूपिण्यै ।मधुप्रियायै । मधुरवाचे । मधुघ्न्यै नमः । ७४०ॐ मथुरायै नमः । मधवे । मालतीकुसुमारामायै । मदमन्थरगामिन्यै ।मातङ्ग्यै । मानदायै । मात्रे । मातृमण्डलवासिन्यै ।मायायै । मान्यापुर्यै । मुख्यायै । मोक्षदायै । मीनरूपिण्यै ।मन्दारभूधरधरायै । मन्दारस्रग्धरायै । मख्यै । मातामह्यै ।मातृमात्रे । मध्यमायै । मानस्यै नमः । ७६०ॐ मनवे नमः । मेनकामुदे । महेज्यायै । मोहिनीमन्त्रदेवतायै ।मधुस्रवायै । मत्यै । मेधायै । मनीषायै । मृत्युमारिकायै ।मृगत्वचे । मायै । मृगाक्ष्यै । मोहहन्त्र्यै । मनस्विन्यै ।मनेप्सितप्रदायै । मात्रे । मदहृते । मदिरेक्षणायै । यमुनायै ।यमभीतिघ्न्यै नमः । ७८०ॐ यमलार्जुनमध्यगायै नमः । यमलोकहरायै । याम्यायै ।योगिन्यै । यमलायै । यत्यै । यन्त्रोद्धारवत्यै । यात्रायै ।योगनिद्रायै । यमप्रियायै । यशस्विन्यै । योगिगम्यायै । योग्यायै ।योगिजनप्रियायै । योगाङ्गध्यानशीलायै । यज्ञभुवे । यज्ञवर्धिन्यै ।योगपट्टधरायै । यज्ञायै । यज्ञाङ्गायै नमः । ८००ॐ यज्ञकामदायै नमः । यज्ञरूपायै । यज्ञकर्त्र्यै ।यत्तत्पदनिबन्धिन्यै । यशोदायै । यादव्यै । यूत्यै । युद्धज्ञायै ।यदुवंशजायै । यादवार्तिहरायै । युक्तायै । यक्षिण्यै । यवनार्दिन्यै ।रक्ताम्बरधरायै । रक्तायै । रक्तबीजवधोद्यतायै । रमण्यै ।राममूर्त्यै । रागिण्यै । रक्तदन्तिकायै नमः । ८२०ॐ रतिप्रियायै नमः । रतिकर्यै । रक्तकेश्यै । रणप्रियायै ।रक्तकेयूरवलयायै । रतिरागविवर्धिन्यै । रोलम्बपूर्णमालायै ।रमणीयायै । रमापत्यै । राकायै । राकेशवदनायै । रम्यायै ।रणितनूपुरायै । रक्षोघ्न्यै । रतिदात्र्यै । रागज्ञायै ।रागवल्लभायै । रत्नगर्भायै । रत्ननख्यै । राक्षस्यै नमः । ८४०ॐ रजनीप्रियायै नमः । रात्र्यै । राजीवनेत्रायै । रणभूम्यै ।रणस्थिरायै । लक्ष्म्यै । लावण्यरूपायै । ललितायै । लोललोचनायै ।लीलावत्यै । लक्षरूपायै । लङ्कायै । लवणोदध्यै । लङ्केशहन्त्र्यै ।लेखायै । लङ्काराज्यप्रदायै । लतायै । लीलायै । लीलानरवपुषे ।लोलायै नमः । ८६०ॐ लक्ष्यायै नमः । लसत्तनवे । लवणासुरसंहन्त्र्यै ।लेख्यायै । लावण्यभुवे । लिप्यै । लक्ष्मणायै । लक्षणाढ्यायै ।लोलार्कपरिपूजितायै । वरेण्यायै । वसुधायै । वीरायै । वरिष्ठायै ।वरप्रदायै । वामनायै । वैदिक्यै । विद्युते । वाराह्यै । वेत्रवत्यै ।विश्वेशायै नमः । ८८०ॐ वीरमात्रे नमः । वीरश्रियै । वैष्णव्यै । विभवे । वेद्यै ।वेद्यायै । वेदितायै । विष्णुमायायै । वसुन्धरायै । व्योमहन्त्र्यै ।विश्वरूपायै । विद्यायै । वाचे । विश्ववेदितायै । वृद्ध्यै ।वृत्त्यै । वरायै । विश्वायै । व्योमरूपायै । वषट्कृत्यै नमः । ९००ॐ वनमालाधरायै नमः । व्याप्त्यै । विख्यातायै । विमलायै । वसवे ।व्यालरूपायै । वैद्यविद्यायै । वासिष्ठ्यै । वीर्यदायिन्यै । वाताल्यै ।वारूण्यै । विष्वक्सेनायै । वाचस्पत्यै । वध्वे । विरिञ्चिजनन्यै ।वेदमात्रे । वह्निस्वरूपधृचे । वागुरायै । वधुरूपायै । वालिहन्त्र्यै नमः । ९२०ॐ वराप्सरायै नमः । शाम्भव्यै । शम्भुजनन्यै ।शम्बरासुरघातिन्यै । शाम्बर्यै । शमन्यै । शान्त्यै । श्रेष्ठायै ।श्रियै । श्रीकर्यै । शम्यै । शातकुम्भमय्यै । शक्त्यै । श्यामायै ।शीलवत्यै । शिवायै । शालग्रामशिलायै । शीतायै । श्रीनिध्यै ।श्रीमत्यै नमः । ९४०ॐ शुभायै नमः । शाकम्भर्यै । शुच्यै । श्रद्धायै । शोणाक्ष्यै ।शेषवन्दितायै । शताक्ष्यै । शबलायै । शान्तायै । शस्तायै ।शोकविनाशिन्यै । शत्रुमार्यै । शत्रुरूपायै । शरधन्वधरायै ।श्रुत्यै । शरदिन्दुप्रभायै । शिक्षायै । शतघ्न्यै । शान्तिदायिन्यै ।षण्मातृजनन्यै नमः । ९६०ॐ षष्ठ्यै नमः । षष्टिहायनरूपिण्यै । षडङ्गज्ञायै ।षड्विकाररहितायै । षोडश्यै । कलायै । सर्वज्ञायै । सर्वशक्त्यै ।सुलभायै । सरय्वे । सख्यै । सुखदायै । सामगीत्यै । स्मृत्यै ।सत्यायै । समायै । सत्यै । सरण्यै । सुन्दर्यै । सीतायै नमः । ९८०ॐ सुभद्रायै नमः । सरस्वत्यै । सुश्रोण्यै । सुमुख्यै । सौम्यायै ।सुस्पर्शायै । सुमत्यै । सुधायै । स्वच्छन्दायै । सुभगायै ।साध्व्यै । सुतन्तवे । सुप्रभायै । समिते । सुस्पृष्टायै । सात्विक्यै ।सार्यै । सकलागमपूजितायै । हंसायै । हैहयसंहन्त्र्यै नमः । १०००ॐ हर्षदात्र्यै नमः । हरिप्रियायै । हविषे । हलधरायै । हन्त्र्यै ।ह्रीम्बीजायै । हरवन्दितायै । हालाहलधरायै । होरायै । हयगायै ।हतदानवायै । हयग्रीवतनवे । हैम्यै । हंसोज्ज्वलशिरोरुहायै ।हुङ्कारहतदैत्याहये । हयघ्न्यै । हंसवाहनायै । हाहागीतप्रियायै ।हावभूम्यै । हास्यप्रियायै नमः । १०२०ॐ क्षेमङ्कर्यै नमः । क्षित्यै । क्षीरसमुद्रशयनायै । क्षमायै ।ज्ञेयायै । ज्ञानस्वरूपायै । ज्ञानदायै । ज्ञानदीपिकायै । १०२८इति भविष्योत्तरपुराणे ब्रह्मनारदसंवादे महालसासहस्रनामावलिः समाप्ता । N/A References : N/A Last Updated : January 18, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP