संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे द्वारकामाहात्म्यम्| अध्याय ४१ प्रभासखण्डे द्वारकामाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ विषयानुक्रमणिका द्वारकामाहात्म्यम् - अध्याय ४१ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ४१ Translation - भाषांतर ॥श्रीप्रह्लाद उवाच॥धन्यास्तु नरलोकास्ते गोमत्यां तु कृतोदकाः ॥पूजयिष्यंति ये कृष्णं केतकीतुलसीदलैः ॥१॥न तेषां संभवोऽस्तीह घोरसंसा रगह्वरे ॥तेषां मृत्युः पुनर्नास्ति ह्यमरत्वं हि ते गताः ॥२॥अन्यत्र वै यतीनां तु कोटीनां यत्फलं भवेत् ॥द्वारकायां तु चैकेन भोजितेन ततोऽधिकम् ॥३॥अतीतं वर्त्तमानं च भविष्यद्यच्च पातकम् ॥निर्द्दहेन्नास्ति संदेहो द्वारका मनसा स्मृता ॥४॥ज्ञात्वा कलियुगे घोरे हाहाभूतमचेतनम्॥द्वारकां ये न मुञ्चन्ति कृतार्थास्ते नरोत्तमाः ॥५॥मृतानां यत्र जंतूनां श्वेतद्वीपे स्थितिः सदा ॥६॥अग्निष्वात्ता बर्हिषद आज्यपाः सोमपाश्च ये ॥एकविंशतिः पितृगणा द्वारकायां वसंति ते ॥७॥पुष्करादीनि तीर्थानि गंगाद्याः सरितस्तथा ॥कुरुक्षेत्रादि क्षेत्राणि काश्यादीन्यूषराणि च ॥८॥गयादिपितृतीर्थानि प्रभासाद्यानि यानि च ॥स्थानानि यानि पुण्यानि ग्रामाश्च निवसंति वै ॥९॥काश्यादिपुर्यो या नित्यं निवसंति कलौ युगे ॥नित्यं कृष्णस्य सदने पापिनां मुक्तिदे सदा ॥१०॥वैशाखशुक्लद्वादश्यां प्रबोधिन्यां शेषतः ॥वैशाख्यां दैत्यशार्दूल कल्पादिषु युगादिषु ॥११॥चंद्रसूर्योपरागेषु मन्वादिषु न संशयः ॥व्यतीपातेषु संक्रांतौ वैधृतौ दैत्यनायक ॥१२॥तिलोदकं च यद्दत्त तत्स्थले पितृभक्तितः ॥तत्सर्वमक्षयं प्रोक्तं गोमत्यां स्नानपूर्वकम् ॥१३॥येऽत्र श्राद्धं प्रकुर्वंति पिंडदानपुरःसरम् ॥तेषामत्राक्षया तृप्तिः पितॄणामुपजायते ॥१४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थ द्वारकामाहात्म्ये गोमतीस्नान कृष्णपूजन यतिभोजन दान श्राद्धादिसत्फलवर्णनंनामैकचत्वारिंशोऽध्यायः ॥४१॥ N/A References : N/A Last Updated : February 04, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP