संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे द्वारकामाहात्म्यम्| अध्याय १६ प्रभासखण्डे द्वारकामाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ विषयानुक्रमणिका द्वारकामाहात्म्यम् - अध्याय १६ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय १६ Translation - भाषांतर प्रह्लाद उवाच॥ततो गच्छेद्द्विजश्रेष्ठा गदातीर्थमनुत्तमम्॥यत्र स्नात्वा नरो भक्त्या लभेद्भूदानजं फलम् ॥१॥तर्पयेत्पितृदेवांश्च ऋषींश्चैव यथाक्रमम् ॥श्राद्धं च कारयेत्तत्र पितॄणां तृप्तिहेतवे ॥२॥गदातीर्थे तु देवेशं विष्णुं वाराहरूपिणम् ॥समभ्यर्च्य नरो भक्त्या विष्णुलोके महीयते ॥३॥नागतीर्थं ततो गच्छेत्सरः परमशो भनम्॥यत्र स्नात्वा नरः सम्यङ्नागलोकमवाप्नुयात् ॥४॥भद्रतीर्थं ततो गच्छेत्सरस्त्रिभुवनार्चितम् ॥स्नानमात्रेण लभते तिलधेनुफलं नरः ॥५॥चित्रातीर्थं ततो गच्छेत्सरः परमशोभनम् ॥स्नानमात्रेण लभते घृतधेनुफलं नरः ॥६॥यदा द्वारावती विप्रा प्लाविता सागरेण हि ॥पुण्यानि बहुतीर्थानि च्छन्नानि जलपांसुभिः ॥७॥दृश्यानि कतिचित्संति ह्यदृश्यान्यपराणि च ॥तानि सर्वाणि विप्रेन्द्राः कथयिष्यामि सर्वतः ॥८॥चंद्रभागां ततो गच्छेत्सर्वपापप्रणाशिनीम् ॥यत्र स्नात्वा नरो भक्त्या वाजपेयफलं लभेत् ॥९॥देवी चंद्रार्चिता यत्र यशोदा नंदनंदिनी ॥कौमारिका शक्तिहस्ता खङ्गखेटकधारिणी ॥१०॥केश्यादिदैत्यदलिनी स्वसा वै रामकृष्णयोः ॥यस्या दर्शनमात्रेण सर्वान्कामानवाप्नुयात् ॥११॥ततो गच्छेत विप्रेन्द्रास्तीर्थं महिषसंज्ञकम् ॥यस्य दर्शनमात्रेण मुच्यते सर्वपातकैः ॥१२॥मुक्तिद्वारं ततो गच्छेत्तीर्थं पाप प्रणाशनम् ॥१३॥वसिष्ठेन समानीता मुनिना यत्र गोमती ॥स्नातो भवति गंगायां यत्र स्नात्वा कलौ युगे ॥१४॥गोमती निःसृता यस्मा त्प्रविष्टा वरुणालयम् ॥तत्र स्नात्वा नरो भक्त्या अश्वमेधफलं लभेत् ॥१५॥भृगुणा हि तपस्तप्तं स्थापिता यत्र चांबिका ॥भृग्वर्चिता ततो देवी प्रसिद्धा श्रूयते क्षितौ ॥१६॥संसिद्धिं परमां याति यस्याः संस्मरणान्नरः ॥शिवलिंगान्यनेकानि यत्र सन्ति महीतले ॥१७॥ततो गच्छेत विप्रेन्द्राः कालिन्दीसर उत्तमम्॥कालिन्दी सूर्यतनया सरश्चक्रे त्वनुत्तमम् ॥१८॥तत्र स्नात्वा नरो भक्त्या न दुर्गतिमवाप्नुयात् ॥सांबतीर्थं ततो गच्छेत्सर्वपापप्रणाशनम् ॥१९॥कृत्वा श्राद्धं च विधिवल्लभेद्गोदानजं फलम् ॥२०॥गच्छेच्च शांकरं तीर्थं ततस्त्रैलोक्यपावनम् ॥यत्र स्नात्वा नरो भक्त्या लभेद्बहुसुवर्णकम् ॥२१॥ततो नागसरो गच्छेत्तीर्थं पापप्रणाशनम् ॥पितॄन्सन्तर्प्य विधिवन्नागलोकमवाप्नुयात् ॥२२॥लक्ष्मीं नदीं ततो गच्छेद्गच्छन्तीं सागरं प्रति ॥यस्या दर्शनमात्रेण मुच्यते सर्वपातकैः ॥२३॥श्राद्धे कृते तु विप्रेन्द्राः पितरो मुक्तिमाप्नुयुः ॥दाने मनोरथावाप्तिर्जायते नात्र संशयः ॥२४॥कंबुसरस्ततो गच्छेत्तीर्थं पापप्रणाशनम्॥तर्पणे च कृते श्राद्धे ह्यग्निष्टोमफलं लभेत् ॥२५॥कुशतीर्थं ततो गच्छेत्स्नात्वा सन्तर्पयेत्पितॄन्॥दानं दत्त्वा यथाशक्त्या निर्मलं लोकमाप्नुयात् ॥२६॥द्युम्नतीर्थं च तत्रैव सर्वपापप्रणाशनम्॥कृत्वा श्राद्धं च तत्रैव वाजिमेधफलं लभेत् ॥२७॥कुशतीर्थं ततो गच्छेत्पितॄणां तृप्तिरक्षया ॥यत्र श्राद्धात्तर्पणाच्च जायते नात्र संशयः ॥ ॥२८॥जालतीर्थं ततो गच्छेत्सर्वपापहरं शुभम् ॥दुर्वाससा यत्र शप्ताः कोपाद्यदुकुमारकाः ॥२९॥देवो जालेश्वरस्तत्र सं बभूव उमापतिः ॥जालेश्वरं नरो दृष्ट्वा सद्यः पापात्प्रमुच्यते ॥३०॥संपूज्य देवं भक्त्या च शिवलोकमवाप्नुयात् ॥३१॥चक्रस्वामिसुतीर्थं च ततो गच्छेद्धि मानवः ॥कृत्वा स्नानं पितॄंस्तर्प्य विष्णुलोकमवाप्नुयात् ॥३२॥जरत्कारुकृतं तीर्थं सर्वपापप्रणाशनम् ॥स्नात्वा तत्र द्विजश्रेष्ठा न दुर्गतिमवाप्नुयात् ॥३३॥ततो गच्छेद्द्विजश्रेष्ठास्तीर्थं खञ्जनकाभिधम् ॥आसीत्खञ्जनको नाम दैत्यश्चातिबलान्वितः ॥३४॥ततः खञ्जनकं तीर्थं तस्य नाम्नेति विश्रुतम् ॥तत्र स्नात्वा नरो याति सोमलोकं न संशयः ॥३५॥सन्ति तीर्थान्यनेकानि सुगुप्तानि द्विजोत्तमाः ॥तानि गच्छेत्तु विप्रेन्द्राः सर्वपापापनुत्तये ॥३६॥ततो गच्छेद्द्विजश्रेष्ठास्तीर्थमानकदुन्दुभेः ॥शूरतीर्थं परमकं गदतीर्थमतः परम् ॥३७॥गावल्गणस्य तीर्थं च अक्रूरस्य महात्मनः ॥बलदेवस्य तीर्थं तु उग्रसेनस्य चापरम् ॥३८॥अर्जुनस्य च तीर्थं तु सुभद्रातीर्थमेव च ॥देवकीतीर्थमाद्यं तु रोहिणीतीर्थमेव च ॥३९॥उद्धवस्य च तीर्थं तु सारंगाख्यं तथैव च ॥सत्यभामाकृतं तीर्थं भद्रातीर्थमतः परम् ॥४०॥जामदग्न्यस्य तीर्थं तु रामस्य च महात्मनः ॥भासतीर्थं च तत्रैव शुकतीर्थमतः परम् ॥४१॥कर्दमस्य च तीर्थं तु कपिलस्य महात्मनः ॥सोमतीर्थं च तत्रैव रोहिणीतीर्थमेव च ॥४२॥एतान्यन्यानि संक्षेपान्मया वः कथितानि च ॥सर्वपापहराणीह मोक्षदानि न संशयः ॥४३॥प्रच्छन्नानि द्विजवरास्तीर्थानि कलिसंक्रमे ॥प्लावितानि समुद्रेण पांसुनाऽप्युदकेन च ॥४४॥एतन्मया वः कथितं संक्षेपात्तीर्थविस्तरम् ॥आत्मप्रज्ञानुमानेन किमन्यच्छ्रोतुमिच्छथ ॥४५॥शृणुयात्परया भक्त्या तीर्थयात्रामिमां द्विजाः ॥सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥४६॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारका माहात्म्ये तीर्थवृन्दमाहात्म्यवर्णनंनाम षोडशोऽध्यायः ॥१६॥ N/A References : N/A Last Updated : February 04, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP