संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे द्वारकामाहात्म्यम्| अध्याय ३२ प्रभासखण्डे द्वारकामाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ विषयानुक्रमणिका द्वारकामाहात्म्यम् - अध्याय ३२ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ३२ Translation - भाषांतर ॥प्रह्लाद उवाच ॥नारदस्त्वग्रतो गत्वा प्रणम्याथ हरिप्रियाम् ॥उवाच ललितां वाचं हर्षयन्द्वारकां पुरीम् ॥१॥ ॥श्रीनारद उवाच॥पश्यपश्य महाभागे सर्वे प्राप्ताः सुशोभने ॥तीर्थक्षेत्राणि देवाश्च ऋषयश्चैव कृत्स्नशः ॥२॥पश्येमं पुरतः प्राप्तं प्रयागं तीर्थकैः सह ॥द्वारके तव पादाब्जे लुण्ठंते श्रद्धयाद्भुतम् ॥३॥इदं तु पुष्करं तीर्थं नमति श्रद्धया शुभे ॥इयं तु गौतमी पुण्या सर्वतीर्थसमाश्रया ॥४॥सिंहस्थे च गुरौ भद्रे संप्राप्ता सौभगं महत् ॥किन्तु दुर्जनसंसर्गाद्दग्धा पापाग्निना भृशम् ॥५॥तत्रोपायमभिज्ञाय ऋषीणां शृण्वतां तदा ॥श्रुत्वा कर्णे महच्छब्दं संप्राप्तेयं तवांतिकम् ॥६॥नमस्करोति देवि त्वां द्वारके गौतमी शुभा ॥पश्यपश्य महापुण्या इयं भागीरथी शुभा ॥७॥नमस्करोति ते पादौ संहृष्टा च पुनःपुनः ॥पश्येमां नर्मदां रम्यां प्रणतां तव पादयोः ॥८॥यमुना चन्द्रभागेयमियं प्राचीसरस्वती ॥सरयूर्गंडकी प्राप्ता गोमती पूर्ववाहिनी ॥९॥शोणः सिन्धुनदी चैता अन्याश्च सरितां वराः ॥कृष्णा भीमरथी पुण्या कावेर्य्याद्याः सरिद्वराः ॥१०॥सीताचक्षुर्नदी भद्रा नमंत्येताः पदांबुजम् ॥द्वारके ता महापुण्याः सप्तद्वीपोद्भवाः पराः ॥११॥मन्दाकिनी महापुण्या भोगवत्यादिसंयुता॥पश्याश्चर्यमिदं भद्रे वाराणसी विमुक्तिदा ॥१२॥भक्त्या ते च पदांभोजं शिरस्याधाय वर्तते ॥कुरुक्षेत्रं महापुण्यं नमति त्वामहर्निशम् ॥१३॥द्वारके मथुरां पश्य प्रणतां तव पादयोः ॥अयोध्याऽवंतिकामायास्ता नमंति पदांबुजम् ॥१४॥कांची गया विशाला च विरजा लुठति क्षितौ ॥शालिग्रामं महाक्षेत्रं पतितं तव पादयोः॥विराजते प्रभासं च क्षेत्रं च पुरुषोत्तमम् ॥१५॥भार्गवादीनि चान्यानि सर्वक्षेत्राणि सुन्दरि ॥द्वारके प्रणमंति त्वां भक्त्योत्थाय पुनःपुनः ॥ ॥१६॥पश्येमान्सागरान्सप्त पतितस्तांब पादयोः ॥पश्यारण्यानि सर्वाणि नैमिषं प्रणतं पुरः ॥१७॥धनुष्कं च दशारण्यं दंडकारण्यमर्बुदम्॥नारायणाश्रमं पश्य द्वारके प्रणतं तथा ॥१८॥अयं मेरुश्च कैलासो मन्दराद्याः सहस्रशः ॥हिमाद्रिर्विंध्यशैलश्च श्रीशैलाद्याः प्रहर्षिताः ॥एते ह्यृषिगणाः सर्वे नमंतिस्म पुनःपुनः ॥१९॥गंगाद्याः सागराः शैला नृत्यंति पुरतस्तव ॥ऋषिदेवगणाः सर्वे सर्वे गर्जंति नामभिः ॥२०॥॥ ॥श्रीप्रह्लाद उवाच॥इत्येवं वदतस्तस्य द्वारका हृष्टमानसा ॥नृत्यतो मुदितान्वीक्ष्य सर्वान्प्रेम्णाभिनंद्य च ॥उवाच ललिता वाचं गौतमीं स्पृश्य पाणिना ॥२१॥भागीरथीप्रयागादीन्क्षेत्रादीनथ सर्वशः ॥द्वारका मधुरालापैः सर्वानानंदयत्तदा ॥२२॥अथाश्चर्यमभूत्तत्र सर्वानंदविवर्द्धनम् ॥अथ तावत्तदाऽऽकाशे गीतवाद्यजयस्वनाः ॥२३॥गर्जनानि सुपुण्यानि हरिशब्दैः पृथक्पृथक् ॥अपश्यन्वै तदा सर्वे ब्रह्माद्या देवनायकाः ॥२४॥महेशः स्वगणैः सार्द्धं भवान्या समदृश्यत ॥इन्द्रस्तु त्रिदशैः सार्द्धं यक्षगन्धर्वकिन्नरैः ॥२५॥मरुद्भिर्लोकपालैश्चा नृत्यमानाः प्रहर्षिताः ॥सिद्धविद्याधराः सर्वे वस्वादित्याश्च सग्रहाः ॥२६॥भृग्वाद्याः सनकाद्याश्च नृत्यमानाः प्रहर्षिताः ॥ब्रह्माणं च नमस्कृत्य सप्तस्वर्गस्थिताः सुराः ॥२७॥ऊचुस्ते द्वारकां दृष्ट्वा ब्रह्मेशानादयस्तदा ॥हर्षविह्वलितात्मानो वीक्ष्याऽन्योन्यं च विस्मिताः ॥२८॥॥ ॥देवा ऊचुः॥सेयं वै द्वारका देवी वहते यत्र गोमती ॥यत्राऽऽस्ते भगवान्कृष्णः सेयं पुण्या विराजते ॥२९॥सर्वक्षेत्रोत्तमा या च सर्वतीर्थोत्तमोत्तमा ॥स्वर्गादप्यधिका भूमौ द्वारकेयं प्रकाशते ॥३०॥एतद्वै चक्रतीर्थं च यच्छिला चक्र चिह्निता ॥मुक्तिदा पापिनां लोके म्लेच्छदेशेऽपि पूजिता ॥३१॥ ॥प्रह्लाद उवाच॥ब्रह्मादीनागतान्दृष्ट्वा विस्मिता नारदादयः ॥क्षेत्राणि तीर्थमुख्यानि विस्मितानि सरिद्वराः ॥प्रणेमुर्युगपत्सर्वे सर्वाः सर्वाणि सर्वशः ॥३२॥ब्रह्मादीनां च तीर्थानां दृष्ट्वा यात्रां मनोहराम् ॥द्वारकां प्रति विप्रेन्द्रा विस्मिता द्वारकौकसः ॥३३॥दृष्ट्वा देवगणाः सर्वे द्वारकां प्रति मंदिरे ॥गीतवाद्यादि निर्घोषैर्नृत्यमानाः प्रहर्षिताः ॥३४॥वदन्तो जयशब्दांश्च सेयं कृष्णप्रियेति च ॥दृष्ट्वा ब्रह्ममहेशानौ द्वारकां प्रीतमानसौ ॥३५॥त्यक्त्वा च वाहने श्रेष्ठे दण्डवत्पतितौ भुवि ॥ऊचतुश्च तदा देवौ द्वारकां प्रति हर्षितौ ॥३६॥श्रेष्ठा त्वमम्ब सर्वेभ्योऽस्मदादिभ्योऽपि सर्वतः ॥यतस्त्वां न त्यजेत्साक्षाद्भगवान्विष्णुरव्ययः ॥३७॥अतो दर्शय देवेशं कृष्णं कंसविनाशनम् ॥यद्दर्शनान्महासिद्धिः सर्वेषां च भविष्यति ॥३८॥॥ ॥प्रह्लाद उवाच॥इत्युक्त्वा प्रययौ देवी तीर्थक्षेत्रादिसंयुता ॥ब्रह्मेशानौ पुरस्कृत्य हृष्टौ दृष्ट्वा महोत्सवान् ॥३९॥गीतवाद्यपताकैश्च दिव्योपायनपाणिभिः ॥प्राप्योवाच ततो देवान्द्वारका हर्षविह्वला ॥४०॥पश्यतां पश्यतां देवाः सोऽयं वै द्वारकेश्वरः ॥प्राप्य संदर्शनं यस्य मुक्तानां यत्फलं भवेत् ॥न विद्यते सहस्रेषु ब्रह्मांडेषु च यत्फलम् ॥४१॥ततो देवगणाः सर्वे क्षेत्रतीर्थादिसंयुताः ॥पश्चिमाभिमुखं दृष्ट्वा कृष्णं क्लेशविनाशनम् ॥प्रणेमुर्युगपत्सर्वे प्रहृष्टाः समुपागताः ॥४२॥गीतवाद्यप्रघोषैश्च नृत्यमानाः समंततः ॥जयशब्दं नमःशब्दं गर्जंतो हरिनामभिः ॥४३॥ब्रह्मा भवो भवानी च सेन्द्रा देवगणा भुवि ॥दृष्ट्वा कृष्णं प्रणेमुस्ते भक्त्योत्थाय पुनःपुनः ॥४४॥प्रयागादीनि तीर्थानि गंगाद्याः सरितोऽमलाः ॥ऋषयो देवगंधर्वाः शुकाद्याः सनकादयः ॥वीक्ष्य वक्त्रं महाविष्णोः प्रणेमुश्च मुहुर्मुहुः ॥४५॥कृष्णकृष्णेति कृष्णेति जय कृष्णेति वादिनः ॥स्नात्वा तु गोमतीनीरे तीरे चैव महोदधेः ॥कमलासनः संहृष्टः श्रीमत्कृष्णमपूजयत् ॥४६॥स्वर्धेनुपयसा स्नाप्य दिव्यैश्चा मृतपंचकैः ॥भवश्चाथ भवानी च पूजयामास भक्तितः ॥४७॥इन्द्रो देवगणाः सर्वे योगिनः सनकादयः ॥ऋषयो नारदाद्याश्च गंगाद्याश्च सरिद्वराः ॥४८॥अमूल्याभरणैर्भक्त्या महारत्नविनिर्मितैः ॥दिव्यैर्माल्यैरनेकैश्च नन्दनादिसमुद्भवैः ॥४९॥प्रियया श्रीतुलस्या वै श्रीमत्कृष्णमपूजयन् ॥धूपैर्नीराजनैर्दिव्यैः कर्पूरैश्च पृथक्पृथक् ॥५०॥नैवेद्यैर्विविधैः पुष्पैर्दिव्यैः कर्पूरवासितैः ॥सकर्पूरैश्च तांबूलैः प्रियैश्चोपायनैस्तथा ॥५१महामांगलिकैः सर्वैः सुदिव्यैर्मंगलाऽऽर्तिकैः ॥संपूज्यैवं महाविष्णुं कृष्णं क्लेशविनाशनम् ॥प्रहृष्टा ननृतुः सर्वे गीतवाद्यप्रहर्षिताः ॥५२॥पुरतः कृष्णदेवस्य ह्यप्सरोभिः समन्विताः ॥ब्रह्मा च ब्रह्मपुत्राश्च ततः सेन्द्रा मरुद्गणाः ॥५३॥ब्रह्मादीन्नृत्यतः प्रेक्ष्य भगवान्कमलेक्षणः ॥वारयामास हस्तेन प्रीतः प्राह सुरान्विभुः ॥५४॥ ॥श्रीभगवानुवाच॥भोभो ब्रह्मन्महेशान हे भवानि महेश्वरि ॥क्षेत्राणि सर्वतीर्थानि नारदः सनकादयः ॥प्रीतोऽहं भवता सम्यक्सर्वान्कामानवाप्स्यथ ॥५५॥ ॥प्रह्लाद उवाच॥तदाभिलषिताँल्लब्ध्वा स र्वान्कामवरानथ ॥भक्त्या परमया श्रीमत्कृष्णं प्रोचुः प्रहर्षिताः ॥५६॥ ॥देवा ऊचुः॥प्राप्तः कामवरोऽस्माभिः सर्वतः कृपया विभो ॥सप्रेमा त्वत्पदांभोजे भक्तिर्भव्याऽनपायिनी ॥५७॥ ॥प्रह्लाद उवाच॥तथैव पूजयामासू रुक्मिणीं कृष्णवल्लभाम् ॥अथ ब्रह्ममहेशानौ सर्वेषां शृण्व तामिदम् ॥५८॥श्रद्धया परया युक्तौ द्वारकां प्रत्यवोचतुः ॥त्वं देवि सर्वतीर्थानां क्षेत्राणामुत्तमोत्तमा ॥५९॥पर्वतानां यथा मेरुः सिन्धूनां सागरो यथा ॥प्राणो यथा शरीराणामिन्द्रियाणां तु वै मनः ॥६०॥तेजस्विनां यथा वह्निस्तत्त्वानां चैत्त्य ईज्यते ॥यथा ग्रहर्क्षताराणां सोमो वै ज्योतिषां धुवम् ॥एषां प्रकाशपुंजानां यथा सूर्य्यः प्रकाशते ॥६१॥यथा नः सर्वदेवानां महाविष्णुरयं महान् ॥तथैव सर्वतीर्थानां पूज्येयं द्वारका शुभा ॥६२॥ ॥प्रह्लाद उवाच॥इत्युक्त्वा सर्वदेवानां क्षेत्रादीनां च सत्तमाः ॥आधिपत्ये सुरेशानौ द्वारकामभिषेचतुः ॥६३॥ब्रह्मेशानौ तथा देवाः प्रजेशा ऋषयोऽमलाः ॥तीर्थानां क्षेत्रराजानां महाराजत्वकारणम्॥६४॥चक्रुर्महाभिषेकं तु द्वारकायाः प्रहर्षिताः॥वादयन्तो विचित्राणि वादित्राणि महोत्सवे ॥६५॥दिव्यैः पञ्चामृतैस्तोयैः सर्वतीर्थसमुद्भवैः ॥पुण्यैश्चाकाशगंगाया दिग्गजानां करोद्धृतैः ॥६६॥अथ वासांसि दिव्यानि दत्त्वा चाऽऽचमनं तथा ॥चर्चितां चन्दनैर्दिव्यैर्दिव्याभरणभूषिताम् ॥६७॥पूजां च चक्रिरे पुष्पैश्चंदनादिसमुद्भवैः ॥तदा जाता महादिव्या पुरुषाः पार्षदा हरेः ॥६८॥विष्वक्सेनसुनंदाद्या द्योतयन्तो दिशो दश ॥जयशब्दं नमःशब्दं वदंतः पुष्पवर्षिणः ॥६९॥गीतवादित्रघोषेण नृत्यमानाः प्रहर्षिताः ॥किरीटकुण्डलैर्हारैर्वैजयंत्या विभूषिताः ॥७०॥श्यामाश्चतुर्भुजाः पीतवस्त्रमाल्यैर्विभूषिताः ॥स्वप्रभा दीप्यमानौ ते दृष्ट्वा ब्रह्ममहेश्वरौ ॥७१॥नारदं सनकादींश्च महाभागवतानृषीन् ॥तेऽपि तानपि संहृष्टाः प्रहर्षागतसंभ्रमाः ॥७२॥ववंदिरे ततो ऽन्योऽन्यं हृष्टा आलिंगनादिभिः ॥ऋषयोऽन्ये च देवाश्च प्रणेमुर्विष्णुपार्षदान् ॥७३॥अथ ते समुपागम्य द्वारकां विष्णुपार्षदाः ॥नत्वाऽथ द्वारकानाथं द्वारकां वै तथैव च ॥७४॥संपूज्य श्रद्धया भक्त्या निःश्रेयसवनोद्भवैः ॥कुसुमैर्विविधैर्दिव्यैस्तुलस्या तद्वनोत्थया ॥७५॥तदुत्पन्नैः फलैर्दिव्यैर्धूपैर्नीराजनैः प्रभुम् ॥विविधैश्चान्नतांबूलैर्दत्त्वा कृष्णमतोषयन् ॥७६॥क्षेत्रतीर्थादिराजानां महाराजस्त्वमीश्वरि ॥इति सर्वे वदन्तस्तु द्वारकां च ववंदिरे ॥७७॥एतस्मिन्नंतरे विप्रा देवदुन्दुभिनिस्वनाः ॥अश्रूयंत महाशब्दा अभवन्पुष्पवृष्टयः ॥७८॥अथाऽऽसीन्महदाश्चर्य्यं शृण्वन्तु ऋषिसत्तमाः ॥कुरुक्षेत्रं प्रयागं च सव्यदक्षिणपार्श्वयोः ॥७९॥स्थित्वा जगृहतुर्द्दिव्ये श्वेतच्छत्रे मनोहरे ॥द्वारकायस्तथा शुभ्रे चामरव्यजने शुभे ॥८०॥अयोध्या मथुरा माया वाराणसी जयस्वनैः ॥स्तुवंत्यन्यास्तथान्यानि सर्वक्षेत्राणि सर्वशः ॥८१॥तीर्थानि सरितः सर्वा द्वारकाया मुखांबुजम् ॥पश्यतः परमानंदं लेभिरे देवमानवाः ॥८२॥आहुश्च पार्षदा विष्णोर्धन्यान्येतानि सर्वशः ॥दृष्ट्वा तु द्वारकां पुण्यां सर्वलोकैकमण्डनाम् ॥८३॥वेदयज्ञतपोजाप्यैः सम्यगाराधितो हरिः ॥प्रसीदेद्यस्य तस्य स्याद्द्वारकागमने मतिः ॥८४॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये विष्णुपार्षदवर्णितद्वारकामाहात्म्यवर्णनंनाम द्वात्रिंशत्तमोऽध्यायः ॥३२॥ N/A References : N/A Last Updated : February 04, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP