संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे द्वारकामाहात्म्यम्| अध्याय २० प्रभासखण्डे द्वारकामाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ विषयानुक्रमणिका द्वारकामाहात्म्यम् - अध्याय २० भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय २० Translation - भाषांतर ॥प्रह्लाद उवाच॥ब्रह्मघोषध्वनिं श्रुत्वा दानवो दुर्मुखस्तदा ॥क्रोधसंरक्तनयनो दुर्वाससमथाब्रवीत् ॥१॥हन्यमानस्त्वमस्माभिर्यदि मुक्तोसि वै द्विज ॥कस्मात्पुनः समायातो मरणाय च दुष्टधीः ॥२॥इत्युक्त्वा मुष्टिना हन्तुं प्राद्रवद्दानवाधमः ॥प्राह प्रधावमानं तं दुर्वासा मुनिसत्तमः ॥३॥स्पर्शं मा कुरु पापिष्ठ ब्राह्मणं मां कृताह्निकम् ॥तं दृष्ट्वा दानवं विष्णुर्ब्राह्मणं हन्तुमुद्यतम् ॥१३॥तस्य क्रुद्धो जगन्नाथो दुर्वाससः कृते तदा ॥चक्रेण क्षुरधारेण शिरश्चिच्छेद लीलया ॥५॥ ॥प्रह्लाद उवाच॥दुर्मुखं निहतं दृष्ट्वा दानवो दुःसहस्तदा ॥आक्रोशदुच्चैर्दितिजाञ्छीघ्रमागम्यतामिति ॥६॥श्रुत्वा दैत्यगणाः सर्वे दुर्मुखं निहतं तदा ॥दुर्वाससं पुनस्तत्र परित्रातं च विष्णुना ॥७॥कूर्मपृष्ठो गोलकश्च क्रोधनो वेददूषकः ॥यज्ञघ्नो यज्ञहंता च धर्मान्तकस्तपस्विहा ॥८॥एते चान्ये च बहवो विविधायुधपाणयः॥क्रोधसंरक्तनयनाः शपन्तो ब्राह्मणं तथा ॥९॥परिक्षिप्य तदात्रेयं विष्णुं संकर्षणं तथा ॥तोमरैर्भिन्दिपालैश्च मुशलैश्च भुशुंडिभिः ॥१०॥अस्त्रैर्नानाविधैश्चापि युयुधुः क्रोधमूर्छिताः ॥दानवैः संवृतो विष्णुः समन्ताद्घोरदर्शनैः ॥११॥संकर्षणश्च शुशुभे चंद्रादित्यौ घनैरिव ॥गृहीत्वा धनुषी दिव्ये शीघ्रं संयोज्य चाशुगान् ॥१२॥तान्मार्गणगणैर्दैत्याञ्जघ्नतुस्ते महामृधे ॥ते हन्यमानाः समरे विष्णुना विद्रुता दिशः ॥१३॥दानवान्विद्रुतान्दृष्ट्वा विष्णुना निहतान्परान् ॥गोलकः कूर्मपृष्ठश्च मानं कृत्वा न्यवर्तताम् ॥१४॥संकर्षणं गोलकश्च ह्याजघान त्रिभिः शरैः ॥अनन्तं व्यथितं दृष्ट्वा गोलकः क्रोधमूर्छितः ॥१५॥उत्पत्य तरसा मूर्ध्नि दुर्वाससमताडयत् ॥स मुष्टिघाताभिहतश्चुक्रोश पतितः क्षितौ ॥१६॥संकर्षणस्तु पतितं दृष्ट्वा मूर्ध्नि प्रताडितम् ॥दृष्ट्वा चुकोप भगवांस्तिष्ठतिष्ठेति चाब्रवीत् ॥संगृह्य मुशलं वीरो जघान समरे रिपुम् ॥१७॥मुशलेनाहतो मूर्ध्नि गोलको विकलेन्द्रियः ॥संभिन्नमस्तकश्चैव पपात च ममार च ॥१८॥गोलकं पतितं दृष्ट्वा क्रन्दंतं ब्राह्मणं तथा ॥कूर्मपृष्ठं च भगवान्विष्णुर्हन्तुं मनो दधे ॥नाराचेन सुतीक्ष्णेन जघान हृदये रिपुम् ॥१९॥स विष्णुबाणाभिहतस्त्यक्तशस्त्रः पलायितः ॥तस्मिन्प्रभिन्नेऽतिबले गते वै कूर्मपृष्ठके ॥अभज्यत बलं सर्वं विद्रुतं च दिशो दश ॥२०॥तत्प्रभग्रं बलं सर्वं निहतं गोलकं तथा ॥द्वारस्थः कथयामास दैत्यराज्ञे कुशाय सः ॥२१॥गोलकं निहतं श्रुत्वा दैत्यानन्यांश्च दैत्यराट् ॥योधानाज्ञापयामास सन्नद्धान्स्वबलस्य च ॥२२॥आज्ञां कुशस्य ते लब्ध्वा दैत्याः पंचजनादयः ॥युद्धायाभिमुखाः सर्वे रथैर्नागैश्च निर्ययुः ॥२३॥अनीकं दशसाहस्रं कूर्मपृष्ठस्य निर्ययौ ॥अयुते द्वे रथानां तु नागानामयुतं तथा ॥२४॥दशायुतानि चाश्वानामुष्ट्राणां च तथैव च ॥बकश्च निर्ययौ दैत्यो बहुसैन्यसमन्वितः ॥२५॥तथा दीर्घनखो दैत्यः स्वेनानीकेन संवृतः ॥मंत्रिपुत्रो महामायो दैत्यराज कुशस्य वै ॥निर्ययौ विघसो दैत्यः प्रघसश्च महाबलः ॥२६॥ऊर्द्ध्वबाहुर्वक्रशिराः कञ्चुकश्च शिवोलुकैः ॥ब्रह्मघ्नो यज्ञहा दैत्यो राहुर्बर्बरकस्तथा ॥२७॥सुनामा वसुनामा च मंत्रिणौ बुद्धिसत्तमौ ॥सेनापतिश्चोग्रदंष्टस्तस्य भ्राता महाहनुः ॥२८॥एते चान्ये च बहवो दैत्याः क्रोधसमन्विताः ॥महता रथघोषेण निर्ययुर्युद्धकांक्षिणः ॥२९॥स्नात्वा शुक्लांबरधरः शुक्लमालाविभूषितः ॥कुशः शंभुं महादेवं भवानीपतिमव्ययम् ॥आर्चयमास भूतेशं परमेण समाधिना ॥३०॥पंचामृतेन संस्नाप्य तथा गन्धैर्वि लिप्य च ॥अर्चयामास दैत्येन्द्रो ह्यनेककुसुमोत्करैः ॥३१॥गीतवादित्रशब्दैश्च तथा मंगलवाचकैः ॥पूजयित्वा महादेवं ब्राह्मणान्स्वस्ति वाच्य च ॥३२॥भूषयित्वा भूषणैश्च मणिवज्रविभूषणैः ॥मुकुटेनार्कवर्णेन ज्वलद्भास्कररोचिषा ॥३३॥भ्राजमानो दैत्यराजो हारेणाऽतीव शोभितः ॥संनह्य च महाबाहुः सारथिं समुदैक्षत ॥३४॥सुनामानं वसुं चैव मंत्रिणौ वाक्यमब्रवीत् ॥कश्चायमसुरान्हंति किमर्थं ज्ञायतामिति ॥३५॥तस्य तद्वचनं श्रुत्वा रुरुर्वचनमब्रवीत् ॥गतेह्नि ब्राह्मणः स्नातुं गोमत्याः संगमे किल ॥३६॥आगतः प्रतिषिद्धः सन्दैत्यैस्तत्र मही पते ॥तेन विष्णुः समानीतः संकर्षणसमन्वितः ॥३७॥सोऽस्मान्हंति महाराज ब्रह्मण्यो जगदीश्वरः ॥तेन ते बहवो दैत्या हताः केचित्पलायिताः ॥३८॥ ॥सुनामोवाच॥स्नात्वा गच्छतु विप्रोऽसौ वासुदेवसमन्वितः ॥राजन्वृथा विग्रहेण किं कार्यं कथयस्व नः ॥३९॥तस्य तद्वचनं श्रुत्वा कुशः क्रोधसमन्वितः ॥कथं गोलकहंतारं न हनिष्यामि केशवम् ॥२४०॥एतावदुक्त्वा स क्रुद्धो ययौ दैत्यपतिस्तदा ॥ततो वादित्र शब्दैश्च भेरीशब्दैः समन्वितः ॥४१॥ददर्श तत्र देवेशं सहस्रशिरसं प्रभुम् ॥तथा विष्णुं चक्रपाणिं दुर्वाससमकल्मषम् ॥४२॥ईश्वरांशं च तं दृष्ट्वा न हन्तव्योऽयमीश्वरः ॥विष्णुमुद्दिश्य तान्सर्वान्प्रेरयामास दानवान् ॥४३॥नागैः पर्वतसंकाशै रथैर्जलदसन्निभैः ॥अश्वैर्महाजवैश्चैव परिवव्रुः समंततः ॥४४॥ततो युद्धं समभवद्देवयोर्दानवैः सह ॥आच्छादितौ तौ ददृशुर्दैत्यैर्देवगणास्तदा ॥४५॥ततो गृहीत्वा मुशलं हलं च बलवान्हली ॥जघान दैत्यप्रवरान्कालानलयमोपमान् ॥४६॥ते हन्यमाना दैतेया बलेन बलशालिना ॥सर्वतो विद्रुता भग्नाः कुशमेव ययुस्तदा ॥४७॥बकश्च यज्ञकोपश्च ब्रह्मघ्नो वेददूषकः ॥महामखघ्नो जंभश्च राहुर्वक्रशिरास्तथा ॥४८॥एते चान्ये च बहवः प्रवरा दानवोत्तमाः ॥क्रोधसंरक्तनयना बिभिदुस्ते जनार्द्दनम् ॥४९॥ततः क्रोधसमायुक्तौ संकर्षणजनार्दनौ ॥चक्रलांगलघातेन जघ्नतुर्दानवोत्तमान् ॥५०॥।चक्रेण च शिरः कायाच्चिच्छेदाशु बकस्य वै ॥चूर्णयामास मुशली यज्ञहंतारमेव च ॥५१॥राहुं जघान चक्रेण तथान्यान्मुशलेन च ॥ते हता हन्यमानाश्च भग्ना जग्मुर्दिशो दश ॥५२॥कुशः स्वां वाहिनीं दृष्ट्वा विद्रुतां निहतां तथा ॥क्रोधसंरक्तनयनः प्राह याहीति सारथिम् ॥५३॥स तयोरंतिकं गत्वा नाम विश्राव्य चात्मनः ॥उवाच कस्त्वं दैतेयान्मम हंसि गदाधर ॥५४॥ ॥श्रीवासुदेव उवाच॥यस्माद्विमुक्तिदं पुण्यं गोमत्युदधिसंगमम् ॥रुद्धं दुरात्मभिः पापैस्तस्मात्ते निहता मया ॥५५॥ ॥कुश उवाच॥मां न जानासि चात्रस्थं कथं जीवन्प्रयास्यसि ॥युध्यस्व त्वं स्थिरो भूत्वा ततस्त्यक्ष्यसि जीवितम् ॥५६॥इत्युक्त्वा पंचविंशत्या ताडयामास केशवम् ॥अनंतं चाष्टभिर्बाणैर्हत्वाऽऽत्रेयं निरीक्ष्य तम् ॥ईश्वरांशं च तं दृष्ट्वा प्राह याहीति मा चिरम् ॥५७॥स बाणैर्भिन्नसर्वांगः शार्ङ्गं हि धनुषां वरम् ॥विकृष्य घातयामास चतुर्भिश्चतुरो हयान् ॥५८॥सारथेस्तु शिरः कायादर्द्धचंद्रेण पत्त्रिणा ॥चिच्छेद धनुरेकेन ध्वजमेकेन चिच्छिदे ॥५९॥स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः ॥प्रगृह्य च महाखङ्गमुवाच वचनं तदा ॥६०॥यदि त्वां पातयिष्यामि कीर्तिर्मे ह्यतुला भवेत् ॥पातितोऽहं त्वया वीर यास्यामि परमां गतिम् ॥६१॥तिष्ठतिष्ठ हरे स्थाने शरणं मे सदाशिवः ॥धावंतमतिसंक्रुद्धं खङ्गहस्तं निरीक्ष्य तम् ॥चक्रेण शितधारेण शिरश्चिच्छेद लीलया ॥६२॥तं छिन्नशिरसं भूमौ पतितं वीक्ष्य दानवम् ॥अथोवाह रथेनाजौ दैत्यः खंजनकस्तथा ॥६३॥अपयाते कुशे दैत्ये विष्णुः संकर्षणस्तदा ॥दुर्वाससा च सहितः संन्यवर्तत हर्षितः ॥६४॥शिवालये तु पतितं कुशं निक्षिप्य दानवः ॥स्नानगन्धार्चनैर्धूपैर्गीतवाद्यैरतोषयत् ॥६५॥अवाप जीवितं सद्यः प्रसादाच्छंकरस्य च ॥उत्थितः स तदा दैत्यो ब्रुवञ्छिवशिवेति च ॥६६॥तं पुनर्जोवितं दृष्ट्वा दैत्यं दैत्यगणस्तदा ॥उवाच सुमना वाक्यं वर्द्धस्व सुचिरं विभो ॥६७॥स्नापयित्वा यदि पुनर्ब्राह्मणं विनिवर्त्तते ॥यथेष्टं गच्छतु तदा किं वृथा विग्रहेण ते ॥६८॥तस्य तद्वचनं श्रुत्वा कुशो वचनमब्रवीत् ॥गच्छ प्रेषय तौ शीघ्रं विप्रत्राणकरावुभौ ॥६९॥स च राज्ञा समादिष्ट सुमना मुनिसत्तमाः ॥उवाच विष्णुमानम्य नमस्कृत्य हलायुधम् ॥७०॥कुशेन प्रेषितश्चास्मि समीपे ते जनार्दन ॥किं तवापकृतं नाथ येन दैत्याञ्जिघांससि ॥७१॥दुर्वाससं स्नापयित्वा गच्छ मुक्तोऽसि मानद ॥अमरत्वं महादेवात्प्राप्तं विद्धि कुशेन हि ॥७२॥॥ ॥श्रीविष्णुरुवाच॥मुक्तितीर्थमिदं रुद्धं भवद्भिः पापकर्मभिः ॥तस्माद्धनिष्ये सर्वांश्च दानवान्नात्र संशयः ॥७३॥दुर्वाससश्च ये दर्भास्तिलाश्चैवाक्षतैः सह ॥पुनस्तानानयध्वं हि क्षिप्ता ये वरुणालये ॥७४॥सवाहनपरीवाराः सजातिकुलबांधवाः ॥पुण्यतीर्थमिदं हित्वा प्रविशध्वं धरातले ॥७५॥सुमनास्तद्वचः श्रुत्वा क्रोधसंरक्तलोचनः ॥युध्यध्वमिति तं चोक्त्वा नैतदेवं भविष्यति ॥७६॥कुशाय कथयामास यदुक्तं शार्ङ्गधन्विना ॥क्रुद्धस्तद्वचनं श्रुत्वा मंत्रिणा समुदीरितम् ॥७७॥रथमारुह्य वेगेन ययौ योद्धुमरिंदमः ॥संस्मृत्य मनसा देवं पिनाकिं वृषभध्वजम् ॥७८॥ततः प्रववृते युद्धं सुमहल्लोमहर्षणम् ॥अन्येषां दानवानां च केशवस्य कुशस्य च ॥७९॥यज्ञघ्नो गदया गुर्व्या संकर्षणमताडयत् ॥संकर्षणहतः शीर्ष्णि मुसलेन पपात ह ॥८०॥कञ्चुकं च जघानाशु चक्रेण भगवान्हरिः ॥उल्मुकश्चाथ निहतो ब्रह्मघ्नश्च निपातितः ॥८१॥एते चान्ये च बहवो घातिताः केशवेन हि ॥दानवान्पतितान्दृष्ट्वा कुशः परमकोपितः ॥८२॥जघान युधि संरब्धः परमास्त्रेण केशवम् ॥भगवान्क्रोधसंयुक्तश्चक्रेण चाहरच्छिरः ॥८३॥तं छिन्नशिरसं भूमौ पातितं वीक्ष्य केशवः ॥चिच्छेद बाहू पादौ च खङ्गेन तिलशस्तथा ॥८४॥खंडशो घातितं दृष्ट्वा केशवेन कुशं तदा ॥संगृह्य ते पुनर्देत्या निन्युः सर्वे शिवालयम् ॥८५॥प्रसादाच्छूलिनः सद्यो जीवितं प्राप्य दानवः ॥उत्थितः सहसा क्रुद्धः क्व विष्णुरिति चाब्रवीत् ॥८६॥गदामुद्यम्य संक्रुद्धो योद्धुमागाज्जनार्द्दनम् ॥तमुद्यतगदं दृष्ट्वा निहतं जीवितं पुनः ॥८७॥दुर्वाससमथोवाच किमिदं न म्रियेत यत् ॥मयाऽसकृच्छिरश्छिन्नं खंडशस्तिलशः कृतम् ॥८८॥जीवत्ययं पुनः कस्मात्कारणं कथ यस्व नः ॥इत्युक्तश्चिंतयामास ध्यानेन ऋषिसत्तमः ॥८९॥ज्ञात्वा तत्कारणं सर्वमुवाच मधुसूदनम् ॥महादेवेन तुष्टेन कुशोऽयममरः कृतः॥९०॥खंडशश्च कृतश्चापि न च प्राणैर्वियुज्यते ॥ततः स विस्मयाविष्टो हंतव्योऽयं मया कथम् ॥९१॥उपायं च करिष्यामि येनायं न भवे दिति ॥ततः स जीवितं प्राप्य प्रसादाच्छंकरस्य च ॥चर्मखङ्गमथादाय तिष्ठतिष्ठेति चाब्रवीत् ॥९२॥तमायांतं ततो दृष्ट्वा कुशं शिवपरिग्रहम् ॥जघान गदया गुर्व्या गदाहस्तं तदा कुशम् ॥९३॥स भिन्नमूर्द्धा न्यपतत्केशवेनाभिताडितः ॥भूमौ निपतितं वेगात्परिगृह्य कुशं हरिः ॥९४॥गर्ते निक्षिप्य तद्देहं पूरयामास वै पुनः ॥लिंगं संस्थापयामास तस्योपरि जनार्द्दनः ॥९५॥स लब्धसंज्ञो दनुजः शिवलिंगमपश्यत ॥आत्मोपरिस्थितं तच्च तदा चिन्तापरोऽभवत् ॥९६॥इति श्रीस्कान्देमहापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये चक्रतीर्थे राक्षसकुशविष्णुयुद्धे कुशराक्षसोपरि विष्णुना शिवलिंगस्थापनवर्णनंनाम विंशतितमोऽध्यायः ॥२०॥ N/A References : N/A Last Updated : February 04, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP