संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे द्वारकामाहात्म्यम्| अध्याय ३१ प्रभासखण्डे द्वारकामाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ विषयानुक्रमणिका द्वारकामाहात्म्यम् - अध्याय ३१ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ३१ Translation - भाषांतर ॥प्रह्लाद उवाच॥। ॥दिव्यस्वप्रभया ध्वांतं भूतानां नाशयन्सदा ॥जनयन्परमानंदं भक्तानां च भयापहः ॥१॥पताकाभिर्ध्वजस्थाभिर्द्वारकाजयवर्द्धनः ॥दिव्यपुण्यप्रकाशेन राजते गिरिराडिव ॥२॥दृष्ट्वाऽऽलयं तदा विष्णोस्तदायुधविभूषितम्॥विहाय पादुके च्छत्रं दण्डवत्पतिता भुवि ॥३॥भूमिसंलुठनं तेषां तीर्थानामद्भुतं महत् ॥अभवद्विप्र शार्दूलाः क्षेत्रादीनां च सर्वशः ॥४॥वाराणसी कुरुक्षेत्रं प्रयागो जाह्नवी तथा ॥यमुना नर्मदा पुण्या पुण्या प्राची सरस्वती ॥५॥गोदावरी महापुण्या गया तिस्रस्तु मंगलाः ॥शालिग्रामं महाक्षेत्रं पुण्या चक्रनदी शुभा ॥६॥पयोष्णी तपती कृष्णा कावेर्य्याद्याः सुपुण्यदाः ॥पुष्करादीनि तीर्थानि सागराः पर्वतोत्तमाः ॥७॥अयोध्या मथुरा माया अवंत्याद्याश्च मुक्तिदाः ॥श्रीरंगाख्यमनंतं च प्रभासं च विशेषतः ॥८॥पुरुषोत्तमं महाक्षेत्रमरण्यान्यादयः शुभाः ॥त्रैलोक्ये वर्त्तमानानि सर्वतीर्थानि सर्वशः ॥९॥दृष्ट्वा कृष्णालयं पुण्यं मुहुर्मुहुः प्रहर्षिताः ॥जय शब्दैर्नमःशब्दैर्गर्जंतो हरिनामभिः ॥१०॥आनंदाश्रूणि मुंचंतः प्रेम्णा गद्गदया गिरा ॥स्तुवंति मुनयः सर्वे तीर्थादीनि च सर्वशः ॥११॥अथ संस्तुवतां तेषामन्योन्यं मुदितात्मनाम् ॥वीक्ष्य वक्त्राणि सर्वेषां महर्षिर्नारदोऽब्रवीत् ॥१२॥ ॥श्रीनारद उवाच॥राशयः पुण्य पुंजानां कृता युष्माभिरुत्तमाः ॥तज्जन्मना सहस्रैस्तु यद्दृष्टं कृष्णमंदिरम् ॥१३॥दर्शनं कृष्णदेवस्य द्वारकागमने मतिः ॥दृढभक्तिर्महाविष्णोर्नाल्पस्य तपसः फलम् ॥१४॥धन्या वै पूर्वजास्तेषां वंशजाः कृष्णदर्शनं ॥सोत्सवा द्वारकां यांति पश्यंति च हरिप्रियाम् ॥१९॥धन्येयं गौतमी गंगा गौतमोऽयं महातपाः ॥यत्प्रसादेन सर्वेषां कल्याणं समुपस्थितम् ॥१६॥यज्ञाध्ययनदानानां तपोव्रतसमाधिनाम्॥संप्राप्तफलमस्माभिर्युष्माभिः सर्वतीर्थकाः ॥१७॥यूयं सर्वाणि तीर्थानि क्षेत्राणि चैव कृत्स्नशः ॥कृष्णाज्ञया सर्वकालं तिष्ठध्वं सर्वदैवतैः ॥ ॥१८॥वसंति येऽत्र ते धन्या एकाहमपि पावनाः ॥पश्यंतु सुमहाभागा गोदावर्य्यत्र जाह्नवी ॥१९॥इयं च शोभते पुण्या द्वारका कृष्ण वल्लभा ॥प्रपश्यंतु महाभागास्तथा वाराणसीं शुभाम् ॥२०॥क्षेत्राणि कुरुमुख्यानि पश्यंतु द्वारकां प्रभोः ॥तादृशी मथुरा काशी मायाऽध्योध्या च राजते ॥२१॥अवन्ती न च कांची च क्षेत्रं च पुरुषोत्तमम् ॥सूर्योपरागकालेऽपि कुरुक्षेत्रं न राजते ॥२२॥ईदृशं न गयातीर्थं यादृगेतत्प्रकाशते ॥२३॥ग्रहनक्षत्रताराणां यथा सूर्य्यो विराजते ॥सक्षेत्रतीर्थराजानां द्वारकार्को विराजते ॥२४॥ ॥प्रह्लाद उवाच॥निशम्य नारदेनोक्तं प्रहृष्टाश्च तथा द्विजाः ॥क्षेत्राणि सर्वतीर्थानि पुरस्कृत्य च गौतमम् ॥२५॥विहाय गौतमीं तत्र प्रययुर्ह्यग्रतोग्रतः ॥प्रहृष्टा गौतमी तत्र प्रणम्य त्वरिता ययौ ॥२६॥गीतवाद्यैश्च नृत्यैश्च पताकाभिः समंततः ॥प्रययुः स्तोत्रपाठैश्च सर्वे ते द्वारकाश्रये ॥२७॥स तीर्थान्यग्रतः कृत्वा मध्ये कृत्वा तु शोभनम् ॥प्रयागं तीर्थराजं च प्रहृष्टं क्षेत्रदर्शनात् ॥२८॥ततः पश्चात्सरित्स्नानं चकार ऋषिसत्तमः ॥जाह्नवी गौतमी रेवा यमुनाप्राक्सरस्वती ॥२९॥सरयूर्गंडकी तापी पयोष्णी यमुना तथा ॥कृष्णा भीमरथी गंगा कावेरी चाघनाशिनी॥३०॥मंदाकिनी महापुण्या पुण्या भोगवती नदी ॥व्रजंति युगपत्सर्वाः पश्यंत्यो द्वारकां पुरीम् ॥३१॥ततस्ते सागराः सप्त स्वैःस्वैस्तीर्थैः समन्विताः ॥ततः पश्चादरण्यान्याश्रमैः पुण्यैयुतानि च ॥३२॥ततस्तु पर्वता रम्या मेर्वाद्यास्तु सुशोभनाः ॥नृत्यंतो गायमानाश्च स्तवाद्यैस्तु महर्षिभिः ॥३३॥ततश्च ऋषयो देवाः समंताद्धृष्टमानसाः ॥गायंतो नृत्यमानाश्च गर्जंतो हरिनामभिः ॥३४॥वादित्रनिनदैरुच्चैर्जयशब्दैः प्रहर्षिताः ॥प्राप्तास्ते गोमतीतीरं सर्वयज्ञसमन्विताः ॥ववंदिरे महापुण्याः सर्वे ते हृष्टमानसाः ॥३५॥ ॥श्रीनारद उवाच॥हे भागीरथि हे रेवे यमुने शृणु गौतमि ॥श्रेष्ठा श्रीगोमतीदेवी विख्याता भुवनत्रये ॥३६॥यस्याः सकृज्जलस्नानं स्पर्द्धते ब्रह्मविद्यया ॥तेन वै गोमती सेयं सर्वतीर्थोत्तमोत्तमा ॥ब्रह्मज्ञानेन मुच्यंते प्रयागमरणेन वा ॥स्नानमात्रेण गोमत्यां मुच्यते पूर्वजैः सह ॥३७॥ ॥प्रह्लाद उवाच॥निशम्य तानि तीर्थानि माहात्म्यं महदद्भुतम् ॥गोमत्याः श्रद्धया स्नात्वा उत्सवैरग्रतो ययुः ॥३८॥ततः क्षेत्राणि तीर्थानि सरितः सागरादयः ॥ददृशुर्द्वारकां रम्यामागता द्वारमण्डपे ॥३९॥स्थितां सिंहासने दिव्ये मणिकांचनभूषिते ॥सुन्दरां शुक्ल वर्णां च रुद्रादित्यसमप्रभाम् ॥४०॥दिव्यवस्त्रां सुगंधाढ्यां रत्नाभरणभूषिताम् ॥किरीटकुण्डलैर्दिव्यैः शोभितां कंकणादिभिः ॥४१॥वरदाभयहस्तां च शंखचक्रगदायुधाम्॥श्वेतातपत्रशोभाढ्यां चामरव्यजनादिभिः ॥४२॥संस्तवैः स्तूयमानां च गीतवाद्यादिहर्षिताम् ॥महासिंहासनस्थां तु दृष्ट्वा द्वारवतीं पुरीम्॥प्रणेमुर्युगपत्सर्वे सर्वाणि च सुभक्तितः ॥४३॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे चतुर्थे द्वारकामाहात्म्ये मूर्तिमतीद्वारवतीदर्शनवर्णनंनामैकत्रिंशत्तमोऽध्यायः ॥३१॥ N/A References : N/A Last Updated : February 04, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP