संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे द्वारकामाहात्म्यम्| अध्याय १ प्रभासखण्डे द्वारकामाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ विषयानुक्रमणिका द्वारकामाहात्म्यम् - अध्याय १ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय १ Translation - भाषांतर ॥शौनक उवाच॥कथं सूत युगे ह्यस्मिन्रौद्रे वै कलिसंज्ञके ॥बहुपाखंडसंकीर्णे प्राप्स्यामो मधुसूदनम् ॥१॥युगत्रये व्यतिक्रान्ते धर्माचारपरे सदा ॥प्राप्ते कलियुगे घोरे क्व विष्णुर्भगवानिति ॥२॥ ॥सूत उवाच॥दिवं याते महाराजे रामे दशरथात्मजे ॥दुष्टराजन्यभारेण पीडिते धरणीतले ॥३॥देवानां कार्यसिद्ध्यर्थं भूभारहरणाय च ॥वसुदेवगृहे साक्षादाविर्भूते जनार्दने ॥४॥नंदव्रजं गते देवे पूतनाशोषणे सति ॥घातिते च तृणावर्ते शकटे परिवर्तिते ॥५॥दमिते कालिये नागे प्रलंबे च निषूदिते ॥धृते गोवर्धने शैले परित्राते च गोकुले ॥६॥सुरभ्या चाभिषिक्ते तु इन्द्रे च विमदीकृते ॥रासक्रीडारते देवे दारिते केशिदानवे ॥७॥अक्रूरवचनाद्देवे मथुरायां गते हरौ ॥हते कुवलयापीडे मल्लराजे च घातिते ॥८॥पश्यतां देव दैत्यानां भोजराजे निपातिते ॥यदुपुर्यामभिषिक्त उग्रसेने नराधिपे ॥९॥जरासंधबले रौद्रे यवने च हते क्षितौ ॥राजसूये क्रतुवरे चैद्ये चैव निपातिते ॥१०॥निवृत्ते भारते युद्धे भारे च क्षपिते भुवः ॥यात्राव्याजसमानीते प्रभासं यादवे कुले ॥११॥मद्यपानप्रसक्ते तु परस्परवधो द्यते ॥कलहेनातिरौद्रेण विनष्टे यादवे कुले ॥१२॥गात्रं संत्यज्य चात्रैव गतेऽनंते धरातलात् ॥अश्वत्थमूललमाश्रित्य समासीने जनार्दने ॥ ॥१३॥व्याधप्रहारभिन्नांगे परित्यक्ते कलेवरे ॥स्वधामसंस्थिते देवे पार्थे च पुनरागते ॥१४॥यदुपुर्य्यां प्लावितायां सागरेण समंततः ॥शक्रप्रस्थं ततो गत्वा कारयित्वा हरेर्गृहम् ॥१५॥द्वापरे च व्यतिक्रांते धर्माधर्मविमिश्रिते ॥संप्राप्ते च महारौद्रे युगे वै कलिसंज्ञिते ॥१६॥क्षीयमाणे च सद्धर्मे विधर्मे प्रबले तथा ॥नष्टधर्मक्रियायोगे वेदवादबहिष्कृते ॥एकपादे स्थिते धर्मे वर्णाश्रमविवर्जिते ॥१७॥अस्मिन्युगे विलुलिते ह्यृषयो वनचारिणः ॥समेत्यामंत्रयन्सर्वे गर्गच्यवनभार्गवाः ॥१८॥असितो देवलो धौम्यः क्रतुरुद्दालकस्तथा ॥एते चान्ये च बहवः परस्परमथाब्रुवन् ॥१९॥पश्यध्वं मुनयः सर्वे कलिव्याप्तं दिगंतरम् ॥समंतात्परिधावद्भिर्दस्युभिर्बाध्यते प्रजा ॥२०॥अधर्मपरमैः पुंभिः सत्यार्जवनिराकृतैः ॥कथं स भगवान्विष्णुः संप्राप्यो मुनिसत्तमाः ॥२१॥को वा भवाब्धौ पततस्तारयिष्यति संगतान् ॥न कलौ संभवस्तस्य त्रियुगो मधुसूदनः ॥तं विना पुंडरीकाक्षं कथं स्याम कलौ युगे ॥२२॥तेषां चिंतयतामेवं दुःखितानां तपस्विनाम् ॥उवाच वचनं तत्र ऋषिरुद्दालकस्तदा ॥२३॥उद्दालक उवाच ॥यावन्न कलिदोषेण लिप्यामो मुनिसत्तमाः ॥अपापा ब्रह्मसदनं गच्छामः परिसंगताः ॥२४॥पृच्छामो लोकधातारं स्थितं विष्णुं कलौ युगे ॥यदि विष्णुः कलौ न स्याद्रुद्रेण ब्रह्मणाऽसह ॥२५॥तं विना पुंडरीकाक्षं त्यक्ष्यामः स्वकलेवरम् ॥विना भगवता लोके कः स्थास्यति कलौ युगे ॥२६॥तच्छ्रुत्वा वचनं तस्य ऋषयः संशितव्रताः ॥साधुसाध्विति ते चोक्त्वा प्रस्थिता ब्रह्मणोंऽतिकम् ॥२७॥कथयन्तः कथां विष्णोः स्वरूपमनुवर्णनम् ॥तापसाः प्रययुः सर्वे संहृष्टा ब्रह्मणोंऽतिकम् ॥२८॥ददृशुस्ते तदा देवमासीनं परमासने ॥पितामहभूतगणैर्मूर्तामूर्तैर्वृतं तथा ॥२९॥दृष्ट्वा चतुर्मुखं देवं दंडवत्प्रणताः क्षितौ ॥प्रणम्य देवदेवं तु स्तोत्रेण तुषुवुस्तदा ॥३०॥ ॥ऋषय ऊचुः॥नमस्ते पद्मसंभूत चतुर्वक्त्राक्षयाव्यय ॥नमस्ते सृष्टिकर्त्रे तु पितामह नमोऽस्तु ते ॥३१॥एवं स्तुतः सन्मुनिभिः सुप्रीतः कमलोद्भवः ॥पाद्यार्घ्येणाभिवन्द्यैतान्पप्रच्छ मुनिपुंगवान् ॥३२॥ ॥ब्रह्मोवाच ॥किमागमनकृत्यं वो ब्रूत तत्त्वेन पुत्रकाः ॥कुशलं वो महाभागाः पुत्रशिष्याग्निबन्धुषु ॥३३॥ ॥ऋषय ऊचुः॥भवत्प्रसादात्सकलं प्राप्तं नस्तपसः फलम् ॥यद्भवंतं प्रपश्यामः सर्वदेवगुरुं प्रभुम् ॥३४॥शृण्वेतत्कारणं शंभो एते प्राप्तास्तवांतिकम् ॥युगत्रये व्यतिक्रांते कृतादिद्वापरांतके ॥३५॥प्राप्ते कलियुगे घोरे क्व विष्णुः पृथिवीतले ॥यं दृष्ट्वा परमां मुक्तिं यास्यामो मुक्तबन्धनाः ॥३६॥ ॥ब्रह्मोवाच॥मत्स्यकूर्मादिरूपैश्च भगवाञ्ज्ञायते मया ॥विष्णोः पारमिकां मूर्तिं न जानामि द्विजोत्तमाः ॥३७॥ ॥ऋषय ऊचुः॥यदि त्वं न विजानासि तात विष्णोरवस्थितिम् ॥गत्वा प्रयागं तत्रैव संत्यक्ष्यामः कलेवरम् ॥३८॥ ॥ब्रह्मोवाच॥मा विषादं व्रजध्वं हि उपदेक्ष्यामि वो हितम् ॥इतो व्रजध्वं पातालं यत्रास्ते दैत्यसत्तमः ॥३९॥तं गत्वा परिपृच्छध्वं प्रह्लादं दैत्यसत्तमम् ॥स ज्ञास्यति हरेः स्थानं याथातथ्येन भो द्विजाः ॥२४०॥तच्छुत्वा वचनं तस्य ब्रह्मणः परमात्मनः ॥प्रणिपत्य च देवेशं प्रस्थितास्ते तपोधनाः ॥४१॥जग्मुः संहृष्टमनसः स्तुवन्तो दैत्यसत्तमम् ॥धन्यः स दैत्यराजोऽयं यो जानाति जनार्द्दनम् ॥४२॥इति संचिंतयानास्ते प्राप्ता वै सुतलं द्विजाः ॥४३॥गत्वा ते तस्य नगरं विविशुर्भवनोत्तमम् ॥दूरादेव स तान्दृष्ट्वा बलिर्वैरोचनिस्तदा ॥प्रत्युत्थायार्हयाञ्चक्रे प्रह्लादेन समन्वितः ॥४४॥मधुपर्कं च गां चैव दत्त्वा चार्घ्यं तथैव च ॥उवाच प्रांजलिर्भूत्वा प्रहृष्टेनांतरात्मना ॥४५॥स्वागतं वो महाभागाः सुव्युष्टा रजनी मम॥भवतो यत्प्रपश्यामि ब्रूत किं करवाणि च ॥४६॥एवं हि दैत्यराजेन सत्कृतास्ते द्विजोत्तमाः॥ऊचुः प्रहृष्टमनसो दानवेन्द्रसुतं तदा ॥४७॥ऋषय ऊचुः॥कार्यार्थिनस्तु संप्राप्ताः प्रह्लाद हरिवल्लभ ॥तदस्माकं महाबाहो भवांस्त्राता भवार्णवात् ॥४८॥कथं दैत्य युगे ह्यस्मिन्रौद्रे वै कलिसंज्ञके ॥भविष्यामो विना विष्णुं भीतानामभयप्रदम् ॥४९॥अस्मिन्युगे ह्यधर्मेण जितो धर्मः सनातनः ॥अनृतेन जितं सत्यं विप्राश्च वृषलैर्जिताः ॥५०॥विटैर्जिता वेदमार्गाः स्त्रीभिश्च पुरुषा जिताः ॥ब्राह्मणाश्चापि वध्यन्ते म्लेच्छ राजन्यरूपिभिः ॥५१॥अस्मिन्विलुलितप्राये वर्णाश्रमविवर्जिते ॥अविलुप्ते वेदमार्गे क्व विष्णुर्भगवानिति ॥५२॥विना ज्ञानाद्विना ध्यानाद्विना चेंद्रियनिग्रहात् ॥प्राप्यते भगवान्यत्र तद्गुह्यं कथयस्व नः ॥५३॥दैत्यराज त्वमस्माकं सुहृन्मार्गप्रदर्शकः ॥कथयस्व महाभाग यत्र तिष्ठति केशवः ॥५४॥एवं स द्विजमुख्यैश्च संपृष्टो दैत्यसत्तमः ॥प्रणम्य ब्राह्मणान्सर्वान्भक्त्या संहृष्टमानसः ॥५५॥स नमस्कृत्य देवेभ्यो ब्रह्मणे परमात्मने ॥भगवद्भक्तिर्युक्तः सन्व्याहर्त्तुमुपचक्रमे ॥५६॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये कलिभीतमहर्षिभिर्ब्रह्मवचनात्प्रह्लादसंनिधौ कलियुगे भगवत्स्थितिविषये प्रश्नकरणवर्णनंनाम प्रथमोऽध्यायः ॥१॥ N/A References : N/A Last Updated : February 03, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP