संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे द्वारकामाहात्म्यम्| अध्याय ४० प्रभासखण्डे द्वारकामाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ विषयानुक्रमणिका द्वारकामाहात्म्यम् - अध्याय ४० भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ४० Translation - भाषांतर ॥श्रीप्रह्लाद उवाच॥स्वनामांकित पत्रैस्तु श्रीपतिं योऽर्चयेत वै ॥सप्तलोकाननुप्राप्य सप्तद्वीपाधिपो भवेत् ॥१॥माकान्तवृक्षपत्रैस्तु योऽर्चयेत सदा हरिम् ॥पुण्यं भवति तस्येह वाजिमेधायुतं कलौ ॥२॥लक्ष्मीं सरस्वतीं देवीं सावित्रीं चंडिकां तथा ॥पूजयित्वा दिवं याति पत्रैः श्रीवृक्षसंभवैः ॥३॥तुलस्या अधिकं प्रोक्तं दलं श्रीवृक्षसंभवम्॥तस्मान्नित्यं प्रयत्नेन पूजनीयः सदाऽच्युतः ॥४॥द्वादश्यां रविवारेण श्रीवृक्षमर्चयन्ति ये ॥ब्रह्महत्यादिकैः पापैर्न लिप्यंते कृतैरपि ॥५॥यथा करिपदेऽन्यानि प्रविशंति पदानि च ॥तथा सर्वाणि पुण्यानि प्रविष्टानि हरेर्दिने ॥६॥अध्रुवेणैव देहेन प्रतिक्ष णविनाशिना ॥कथं नोपासते जंतुर्द्वादशीं जागरान्विताम् ॥७॥अतीतान्पुरुषान्सप्त भविष्यांश्च चतुर्द्दश ॥नरकात्तारयेत्सर्वाँल्लोकान्कृष्णेति कीर्तनात् ॥न ते जीवंति लोकेऽस्मिन्यत्रतत्र स्थिता नराः ॥८॥द्वारकायां च संप्राप्तास्त्रिषु लोकेषु वंदिताः॥द्वारकायां प्रकुर्वंति यतीनां भोजनं स्थितिम् ॥ग्रासेग्रासे मखशतं ते लभंते फलं नराः ॥९॥यतीनां ये प्रयच्छंति कौपीनाच्छादनादिकम् ॥वसतां द्वारकामध्ये यथाशक्त्या तु भोजनम् ॥शृणु पुण्यं प्रवक्ष्यामि समासेन हि दैत्यज ॥१०॥कोटिभिर्वेदविद्वद्भिर्गयायां पितृवत्सलैः ॥भोजितैर्यत्समाप्नोति तत्फलं दैत्यनायक ॥११॥एकस्मिन्भोजिते पौत्र भिक्षुके फलमीदृशम्॥दातव्यं भिक्षुके चान्नं कुर्य्याद्वै चात्मविक्रयम् ॥१२॥धन्यास्ते यतयः सर्वे ये वसंति कलौ युगे ॥कृष्णमाश्रित्य दैत्येन्द्र द्वारकायां दिनेदिने ॥१३॥प्राणिनो ये मृताः केचिद्द्वारकां कृष्णसन्निधौ ॥पापिनस्तत्पदं यांति भित्त्वा सूर्यस्य मंडलम् ॥१४॥द्वारकाचक्रतीर्थे ये निवसंति नरोत्तमाः ॥तेषां निवारिताः सर्वे यमेन यमकिंकराः ॥१५॥स्नात्वा पश्यंति गोमत्यां कृष्णं कलिमलापहम् ॥न तेषां विषये यूयं न चास्मद्विषये तु ते ॥१६॥अपि कीटः पतंगो वा वृक्षा वा ये तदाश्रिताः ॥यांति ते कृष्णसदनं संसारे न पुनर्हिं ते ॥१७॥किं पुनर्द्विजवर्य्याश्च क्षत्रियाश्च विशेषतः ॥त्रिवर्णपूजासंयुक्ताः शूद्रास्तत्र निवासिनः ॥१८॥गीतां पठंति कृष्णाग्रे कार्तिकं सकलं द्विजाः ॥एकभक्तेन नक्तेन तथैवायाचितेन च ॥१९॥त्रिरात्रेणापि कृच्छ्रेण तथा चान्द्रायणेन च ॥यावकैस्तप्तकृच्छ्राद्यैः पक्षमासमुपोषणैः ॥२०॥क्षपयंति च ये मासं कार्तिकं व्रतचारिणः ॥स्नात्वा वै गोमतीनीरे तथा वै रुक्मिणीह्रदे ॥२१॥शंखचक्रगदा हस्ताः कृष्णरूपा भवंति ते ॥उपोष्यैकादशीं शुद्धां दशमीसंगवर्जिताम् ॥२२॥श्राद्धं कुर्वंति द्वादश्यां चक्रतीर्थे च निर्मले ॥ब्राह्मणान्भोजयित्वा च मधुपायससर्पिषा ॥२३॥संतर्प्य विधिवद्भक्त्या शक्त्या दत्त्वा तु दक्षिणाम् ॥गोभूहिरण्यवासांसि तांबूलं च फलानि च ॥२४॥उपानहौ च्छत्रसुमं जलपूर्णा घटास्तथा ॥पक्वान्नसंयुताः शुभ्राः सफला दक्षिणान्विताः ॥२५॥एवं यः कुरुते सम्यक्कृष्णमुद्दिश्य कार्तिके ॥मार्कंडेय समा प्रीतिः पितॄणां जायते ध्रुवम् ॥२६॥कृष्णस्य त्रिदशैः सार्द्धं तुष्टिर्भवति चाक्षया ॥२७॥ये कार्तिके पुण्यतमा मनुष्यास्तिष्ठंति मासं व्रतदानयुक्ताः ॥रथांगतीर्थे कृतपूतगात्रास्ते यांति पुण्यं पदमव्ययं च ॥२८॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये कार्तिके चक्रतीर्थस्नानदानश्राद्धादिमाहात्म्यवर्णनंनाम चत्वारिंशत्तमोऽध्यायः ॥४०॥ N/A References : N/A Last Updated : February 04, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP