संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे द्वारकामाहात्म्यम्| अध्याय ३३ प्रभासखण्डे द्वारकामाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ विषयानुक्रमणिका द्वारकामाहात्म्यम् - अध्याय ३३ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ३३ Translation - भाषांतर ॥श्रीप्रह्लाद उवाच॥श्रुत्वा ब्रह्ममहेशानौ यदुक्तं विष्णुपार्षदैः ॥द्वारकायास्तु माहात्म्यं तद्वर्णयितुमूचतुः ॥१॥ ॥श्रीब्रह्मेशानावूचतुः॥भोभोः क्षेत्राणि तीर्थानि सरांसि सागरादयः ॥प्रयागादीनि तीर्थानि काश्याद्या मुक्तिदायकाः ॥२॥भवतां तीर्थराजानां महाराजस्त्वियं शुभा ॥द्वारका सेवनीया वै स्थीयतां स्वेच्छया बहिः ॥३॥ ॥श्रीप्रह्लाद उवाच॥महेशवचनं श्रुत्वा सर्वेषामुत्सवोऽभवत् ॥प्रदक्षिणां ततः कृत्वा द्वारकां प्रणिपत्य च ॥आवासं चक्रिरे तत्र क्षेत्रतीर्थानि हर्षतः ॥४॥भागीरथी प्रयागं च यमुना च सरस्वती ॥सरयूगंडकी पुण्या गोमती पूर्ववाहिनी ॥५॥अन्याश्च सरितः सर्वाः सिन्धुशोणौ नदौ तथा ॥पंचाशत्कोटिभिस्तीर्थैर्दिग्भागे ह्युत्तरे स्थिताः ॥लंपटाः कृष्णसेवायां पश्यतो द्वारकां मुहुः ॥६॥मन्दाकिनी तथा पुण्या नदी भागीरथी च या ॥महानदी नर्मदा च शिप्रा प्राची सरस्वती ॥७॥चक्षुर्भद्रा तथा सीता नद्योऽन्याः पापनाशिनी ॥वर्तंते पूर्वदिग्भागे तीर्थैश्च षष्टिकोटिभिः ॥८॥पयोष्णी तपती पुण्या विदर्भा च पयस्विनी ॥गोदावरी महापुण्या भीमा कृष्णानदी तथा ॥९॥कावेरीप्रमुखाः पुण्या अन्यैश्चैवाघनाशिनीः ॥स्वतीर्थसहिता भक्त्या नवनवतिकोटिभिः ॥१०॥स्थिता दक्षिणदिग्भागे द्वारकासेवनोत्सुकाः ॥क्रीडंति गोमतीनीरे तीरे च कृष्णसन्निधौ ॥१ १॥सप्तद्वीपेषु याः संति तथाऽन्या वै सरिद्वराः ॥सागराश्च तथा सप्त पश्चिमायां दिशि स्थिताः ॥१२॥क्रीडंति चक्रतीर्थे वै तीर्थैश्च शतकोटिभिः॥पश्यंति च मुहुः कृष्णं पश्चिमाभिमुखं सदा ॥१३॥विदिशासु च सर्वासु तीर्थसंख्या न विद्यते ॥पुष्करादीनि तीर्थानि विशाला विरजा गया ॥१४॥शतैककोटिभिस्तीर्थैर्गोमत्युदधिसंगमे ॥वर्त्तंते कृष्णसेवायां सोत्सवानि द्विजोत्तमाः ॥१५॥वाराणसी पूरैशान्यामवन्ती पूर्वदिक्स्थिता ॥आग्नेय्यां दिशि कांती च दक्षिणे मथुरा स्थिता ॥१६॥नैर्ऋत्यां च तथा माया अयोध्या पश्चिमे स्थिताः॥वायव्यां तु कुरुक्षेत्रं हरिक्षेत्रं तथोत्तरे ॥१७॥शिवक्षेत्रं च ऐशान्यामैंद्र्यां च पुरुषोत्तमः ॥आग्नेय्यां च भृगुक्षेत्रं प्रभासं दक्षिणाश्रितम् ॥१८॥श्रीरंगं नैर्ऋते भागे लोहदंडं तु पश्चिमे ॥नारसिंहानि वायव्ये कोकामुख्यं तथोत्तरे ॥१९॥कामाख्या रेणुकादीनि शाक्तेयानि च सर्वशः ॥क्षेत्रराजानि सर्वाणि यथास्थाने वसंति हि ॥२०॥उत्तरे चैव सौराणि गाणपत्यानि कृत्स्नशः ॥क्षेत्राण्युत्तरतः संति रुक्मिण्याः सन्निधौ द्विजाः ॥२१॥धेनुकं नैमिषारण्यं दंडकं सैंधवं तथा ॥दशारण्यमर्बुदं च नरनारायणाश्रमम् ॥२२॥यथादिशं वसंति स्म द्वारकायाः समन्ततः ॥मेर्वाद्याः पर्वताः सौम्ये द्वारकासेवनोत्सुकाः ॥२३॥कैलासाद्याश्च ऐशान्यामैन्द्र्यां हिमवदादयः ॥श्रीशैलाद्याश्च आग्नेय्यां सिंहाद्र्याद्या यमे तथा ॥२४॥नैर्ऋत्यां वाममार्गाद्या महेन्द्रऋषभादयः ॥अन्ये च पुण्यशैलाश्च सलोकालोक मानसाः ॥द्वारकां परितः संति पर्य्युपासंति प्रत्यहम् ॥२५॥एवं ब्रह्मादयो देवा ऋषयः सनकादयः ॥क्षेत्रतीर्थादिभिर्युक्ता अन्यैः पुण्यतमैस्तथा ॥२६॥श्रद्धया परया भक्त्या कन्याराशिस्थिते गुरौ ॥आयांति द्वारकां द्रष्टुं ब्राह्म्याद्याश्च प्रहर्षिताः ॥२७॥इति श्रीस्कान्दे महा पुराण एकाशीतिसाहस्र्यां संहिताया सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये द्वारकामाहात्म्यवर्णनपूवकं द्वारकायां सर्वतीर्थक्षेत्रादिकृतनिवास वर्णनंनाम त्रयस्त्रिंशत्तमोऽध्यायः ॥३३॥ N/A References : N/A Last Updated : February 04, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP