संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे द्वारकामाहात्म्यम्| अध्याय ३ प्रभासखण्डे द्वारकामाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ विषयानुक्रमणिका द्वारकामाहात्म्यम् - अध्याय ३ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ३ Translation - भाषांतर ऋषय ऊचुः॥अहो ब्रह्मण्यदेवस्य कृष्णस्यामिततेजसः ॥महिमा यदयं नैव मृषा चक्रे मुनेर्वचः ॥१॥तेन चक्रे न रोषं स सेतुपालो जनार्दनः ॥भृगोर्यश्चरणाघातं दधार हृदि लाञ्छनम् ॥२॥सा तु देवी कथं तेन प्रेयसा विप्रयोजिता ॥एकाकिनी स्थिता तत्र कथ्यतामसुरेश्वर ॥३॥उत्कण्ठिता अति वयं श्रोतुं द्वारवतीं मुदा ॥इदमादौ बुभुत्सामश्चित्तखेदापनुत्तये ॥४॥ ॥प्रह्लाद उवाच॥।श्रूयतामृषयः सर्वे गदतो मम विस्तरात् ॥यथा शापोद्भवं दुःखं मुमोच हरिवल्लभा ॥५॥अथ दुर्वाससः शापमवाप्यारुन्तुदं तदा॥यादवेन्द्रस्य गृहिणी सहसा पर्यदेवयत् ॥६॥ ॥रुक्मिण्युवाच॥कल्याणी बत वाणीयं लौकिकी संविभाव्यते ॥कूपके चैव सिन्धौ च प्रमाणान्नाधिकं जलम् ॥७॥यासाहं भूरिभाग्या वै प्राप्य नाथं जगत्पतिम्॥इयमेकाकिनी जाता पौलस्त्याद्देवहेलनात् ॥८॥क्व मंगलालयः श्रीमाननवद्यगुणो हरिः ॥अल्पपुण्या सुसंबाधा कामिनी क्वातिचञ्चला ॥९॥तथापि घटयामास धाता वंचनकोविदः ॥विधानमशुभाया मे वियोगविषमव्यथम् ॥१०॥अन्यथा वर्णगुरवः स्नातास्त्रैविद्यवर्त्मनि ॥कथं नु शप्तुमर्हन्ति स्वयं खिन्नामनागसम् ॥११॥विदधे वज्रमयं तु किं न्विदं हृदयं मेऽतिकठोरमेव हि ॥शतधा न विदीर्यते यतो विरहे दुर्विषहे मधुद्विषः ॥१२॥अधिकृत्य सुदुश्चरं तपः प्रतिलब्धः प्रथमं मयात्मजः ॥तनयेन विनाकृताऽप्यहं न मृता पंचसु वासरेष्विह ॥१३॥उपलभ्य सुदारुणामिमामपि पीडामवितास्म्यहं तदा ॥यदिदं विधुनोति कल्मषं खलु तन्मां समुपेत्य लक्षवृद्धिम् ॥१४॥इति साऽतिविलप्य दुःखितार्था कुररीतुल्यतया शुशोच वेगात् ॥विरहेण विघूर्णिताशया द्विजशापापहता मुमूर्च्छ सद्यः ॥१५॥अथ दुर्वाससा शप्ता रुक्मिणी कृष्णवल्लभा ॥मूर्च्छनामाप तत्रैव ह्याजगाम पयोनिधिः ॥१६॥सुधाशीकरगर्भेण पद्मकिंजल्कवायुना ॥न्यवीजयदिमां देवीं रुक्मिणीं कृष्णवल्लभाम् ॥१७॥एतस्मिन्नन्तरे तत्र व्योममार्गेण नारदः ॥गायन्गुणान्भगवतो वीणापाणिः समागतः ॥१८॥स दृष्ट्वा सिंधुनाऽऽश्वास्यमानां विश्वस्य मातरम् ॥अवतीर्य श्रुतकथो बोधयामास नारदः ॥१९॥ ॥नारद उवाच॥मा खेदं देव देवेशि देवि त्वदधिपे पतौ ॥दूरीकृते विप्रशापात्कुरु कल्याणि धीरताम् ॥२०॥त्वं हि साक्षाद्भगवती कृष्णश्च पुरुषोत्तमः ॥अवतीर्णो धराभारमपनेतुं यदृच्छया ॥२१॥देवो ह्यसौ परं ब्रह्म सदाऽनिर्विण्णमानसः ॥मायाशक्तिस्त्वमेतस्य सर्गस्थित्यन्तकारिणः ॥२२॥संहृत्य निखिलं शेते ययाऽसौ कलया स्वराट् ॥तदापि न वियुज्येत त्वया विश्वपतिः प्रभुः ॥२३॥अवियुक्तस्त्वया नित्यं देवदेवो जगत्पतिः ॥लीलावतारेष्वेतस्य सर्वेषु त्वं सहायिनी ॥२४॥योगं वियोगं च तथा न यात्येष त्वयाऽनघे ॥विडंबयति भूतानामुपकाराय चेश्वरः ॥२५॥आराधनीयाः सततं भूदेवा भूतिमीप्सता ॥प्रकोपनीया नैवैते तत्त्वज्ञा हि तपस्विनः ॥२६॥इत्येवं शिक्षयँल्लोकं वियोगं तेऽनुमन्यते ॥मुनि शापाद्धरिः साक्षाद्गूढः कपटमानुषः ॥२७॥अपि स्मरसि कल्याणि जातो रघुकुले स्वयम्॥लोकानुग्रहमन्विच्छन्भूभारहरणोत्सुकः ॥२८॥तं हरिं जगतामीशं रुक्मिणि त्वं न वेत्सि किम्॥प्राणेभ्योऽपि गरीयांसमयं देवः स एव हि ॥२९॥येनेदं पूरितं विश्वं बहिरन्तश्च सुव्रते ॥असंगस्य विभोः संगः कथं स्यादिति मन्मतिः ॥३०॥तया त्वया नियुक्तोऽसाविति प्रत्येमि सर्वशः ॥तद्विमुञ्चाऽऽधिमत्यर्थमात्मानमनुसंस्मर॥प्रसीद मातः संधेहि धीरतां स्वमनीषया ॥३१॥इति ब्रुवति देवर्षाववसाने नदीपतिः ॥प्रोवाच वचनं तस्यै वाचा मृदुसुवर्णया ॥३२॥॥ ॥समुद्र उवाच॥यदाह देवि देवर्षिर्नत्वा त्वां सत्यमेव तत् ॥गीयसे त्वं हि वेदेषु नित्यं विष्णुः सहायिनी ॥३३॥परः पुमानेव निरस्तविग्रहो गूढोऽधिपस्ते विदधाति भूयः ॥विश्वं व्यवस्थापयति स्वरोचिषा त्वया सहायेन बिभर्ति मूर्तिम् ॥३४॥तदेष परिखेदस्ते न मनागपि युज्यते ॥वक्षःस्थलस्था भवती नित्यं श्रीवत्सलक्ष्मणः ॥३५॥इयं भागीरथी देवी मदादेशादुपागता ॥विनोदयिष्यत्यनिशं त्वां हि देवि शरीरिणी ॥३६॥एतस्याः स्यान्मृदु स्वादु पयः पूरोपशोभितम् ॥प्रदेशोऽयमशेषोऽपि भविता त्वत्सुखप्रदः ॥३७॥नानाद्रुमलताकीर्णं निकुंजैरुपशोभितम् ॥मातंगैश्च समाजुष्टं मंजुगुंजन्मधुव्रतम् ॥३८॥नवपल्लवभङ्गीभिः कुसुमस्तबकैः शुभैः ॥फलैरमृतकल्पैश्च मंजरी राजिभिस्तथा ॥३९॥नंदनस्य श्रिया जुष्टं मनोनयननन्दनम्॥वनं रम्यतरं चात्र ह्यचिरेण भविष्यति ॥४०॥त्वया संबोधनीयाः स्म वयं मातः सदैव हि ॥अगम्यरूपा विद्या त्वमस्माभिर्बोध्यसे कथम् ॥४१॥तदा वामनुजानीहि प्रसीद परमेश्वरि ॥नमस्ते विश्वजननि भूयो ऽपि च नमोनमः ॥४२॥ ॥प्रह्लाद उवाच॥एवमुक्त्वा जगद्धात्रीं जग्मतुस्तौ यथागतम् ॥आजगाम च तत्रैव देवी भागीरथी स्वयम् ॥४३॥वनं समभवत्तत्र दिव्यभूरुहसेवितम् ॥सेव्यं समस्तलोकानां फलपुष्पसमृद्धिमत् . ॥४४॥प्रसादेन च भूतानां गंगाऽशेषाघहारिणी ॥भूषयामास तद्देशं सा च विष्णुपदी सरित् ॥४५॥देवो च मुनिवाक्येन गंगायाश्च विनोदनात् ॥सौन्दर्या तस्य देशस्य किञ्चित्स्वास्थ्यमवाप ह ॥४६॥अथ विष्णुपदीं देवीं श्रुत्वा सागरसंगताम् ॥इतस्ततः समाजग्मुः श्रद्दधानाः पयस्विनीम् ॥४७॥द्वारकावासिनश्चैव जनाः काननशोभया ॥हृष्टचित्ताः समाजग्मुरनिशं रुक्मिणीवनम् ॥४८॥श्रुत्वा तदखिलं सर्वं दुर्वासाः शांभवी कला ॥चुकोप स्मयमानश्च भूय एतदभाषत ॥४९॥ ॥दुर्वासा उवाच॥कः प्रभुस्त्रिषु लोकेषु मह्यं वचनमन्यथा ॥विधातुमपि देवानामाद्यो लोकपितामहः ॥५०॥किं न जानाति लोकोऽयं मयि रोषकषायिते ॥शक्रं प्रति त्रिभुवनं भ्रष्टश्रीकमभूत्तदा ॥५१॥मम शापमविज्ञाय नन्दनप्रतिमे वने ॥कथं सा रुक्मिणी तत्र रमते जनसेविते ॥५२॥तदेते तरवः सर्वे संत्वभोज्यफला नृणाम् ॥विभ्रष्टसर्वसौभाग्याः कुसुमस्तबकोज्झिताः ॥५३॥इयं तु शापनिर्दग्धा हरचूडामणिः सरित् ॥वार्यस्याः स्यादपेयं तु नैवेह स्थातुमर्हति ॥५४॥ ॥प्रह्लाद उवाच॥तदा सर्वमभूत्तत्र यद्यदाह च वै मुनिः ॥वाचि वीर्यं हि विप्राणां निर्मितं विष्णुना स्वयम् ॥५५॥सा तु देवी तथा वृत्तमवेक्ष्य भृशदुःखिता ॥मेने दुरत्ययं दैवमापतत्तत्पुनःपुनः ॥५६॥ततस्तु सा विनिश्चित्य मरणं दुःखभेषजम् ॥उत्तरीयांबरेणैव बहिः किञ्चित्प्रबद्ध्य तु॥।५७॥अथावबुध्य तत्सर्वं सर्वभूतगुहाशयः ॥तां ज्ञात्वा सत्वरं चाऽऽगात्सुपर्णेन दयानिधिः ॥५८॥ददर्श तादृशीं देवीं कण्ठपाशकरां विभुः ॥अधस्तात्तरुशाखायां निमीलितविलोचनाम् ॥५९॥विभ्रष्टभूषणगणां कृशदेहवल्लीं म्लानाननांबुजरुचं मरणे प्रसक्ताम् ॥मेने स विग्रहवतीं करुणां कृपालुस्तां सौख्यदां गुणवतीं प्रणतार्तिहन्त्रीम् ॥६०॥संश्रुत्य साऽपि पतगाधिपते रवं वै प्रोन्मील्य नेत्रकमलेऽथ ददर्श कृष्णम् ॥सामन्यत त्रिकविवर्तितलोचनाब्जं प्राप्तं तमिष्टसुहृदं निजजीवनाथम् ॥६१॥सा रोमहर्षविवशा त्रपया परीता कोपानुरागकलुषा कृतविप्रलापा ॥संवर्द्धितद्विगुणशोकभरा च देवी नानारसं बत दृशोर्विषयं प्रपेदे ॥६२॥तस्याः ससाध्वसविसर्गचिकीर्षितायाः पाशं व्यपोह्य करचारु सरोरुहेण ॥आदाय पाणिममृतोपमया च वाचा संजीवयन्निदमुदारमुदाजहार ॥६३॥ ॥श्रीकृष्ण उवाच॥किमेतत्साहसं भीरु चिकीर्षत्यविचारितम् ॥ननु देवि ममाचक्ष्व किं नु ते खेदकारणम् ॥६४॥त्वं विद्याऽहं परो बोधस्त्वं माया चेश्वरस्त्वहम् ॥त्वं च बुद्धिरहं जीवो वियोगः कथमावयोः ॥६५॥त्वया विमोहितात्मानो भ्राम्यन्त्यजभवादयः ॥सा कथं क्षुभ्यसि त्वं तु किं स्वधाम न बुध्यसे ॥६६॥त्वया हि बद्धा ऋषयस्ते चरन्तीह कर्मभिः ॥तां त्वां कथमृषिः शप्तुं शक्नुयाद्वरवर्णिनि ॥६७॥शिक्षार्थं त्विह लोकानामेवं मे देवि चेष्टितम् ॥मन्मायया समाविष्टः कुरुते विवशः पुमान् ॥पश्य कोपपरीतात्मा यः स शान्तो मुनीश्वरः ॥६८॥ ॥प्रह्लाद उवाच॥सोऽभ्येत्य भक्तिनम्रोऽथ दुर्वासा मुनिसत्तमः ॥विचार्य मनसा सर्वं पश्चात्तापानुपाश्रयत् ॥६९॥किं मया कृतमित्युक्त्वा तत्समीपमुपागमत् ॥अपतद्विलुठन्भूमौ दण्डवच्चाश्रुसंप्लुतः ॥७०॥पितरौ जगतो देवौ क्षामयामास दीनवत् ॥तुष्टाव सूक्तवाक्यैस्तु रहस्यैर्भक्तिसंयुतः ॥७१॥आह चेदं जगन्नाथं यदि मय्यस्त्यनुग्रहः ॥तदा पुरेव संयोगो देव देव्या विधीयताम् ॥७२॥अथ प्रहस्य गोविन्दस्तमाह मुनिसत्तमम्॥न हि ते वचनं जातु मृषा भवितुमर्हति ॥७३॥मयैवं विहितः सेतुः कथमुच्छेद्यतां द्विज ॥सद्भिराचरितः सेतुः सिद्धो लोकस्य पालकः ॥७४॥दिनेदिने द्विकालं च आयास्ये मुनिसत्तम ॥विनोदयिष्ये तां तां तु मुनिकन्यां च काम्यया ॥७५॥तुष्यामि साधनैर्नान्यैर्मत्कथाकथनैरपि ॥यथा संपूज्य मामत्र मम प्रीतिर्भविष्यति ॥७६॥यदा च मयि वै(?)कुण्ठमधिरूढे महामुने ॥प्रवेक्ष्यति तदा तेजो मम सर्वं त्रिविक्रमे ॥७७॥रुक्मिणीयं च मन्मूर्तेः संयोगं पुनरेष्यति ॥इयं भागीरथी चापि सागरेण समा गुणैः ॥त्यक्त्वा ह्यशेषदुःखानि सुखं चैव गमिष्यति ॥७८॥अनुग्रहं विधायैवमृषिणा सह केशवः ॥विवेश स्वपुरीं तत्र विधायोपांतिकं मुनिम् ॥७९॥सापि देवी च संबुध्य तदा तस्य विचेष्टितम्॥अनुग्रहाद्भगवतो बभूव विगत ज्वरा ॥८०॥यतश्च मुक्ता दुःखेन तत्र देवी हरिप्रिया॥ततो भागीरथी सा तु गदिता दुःखमोचिनी ॥८१॥अमावास्यां पौर्णमास्यां यस्तस्याः संगमे शुभे ॥स्नायादशेषदुःखात्तु स नरः परिमुच्यते ॥८२॥अष्टम्यां च चतुर्दश्यां नवम्यां चावलोकिता ॥नराणां रुक्मिणी देवी सर्वान्कामा न्प्रयच्छति ॥८३॥इत्येतत्कथितं देव्या ऋषयो दुःखमोचनम् ॥अनुग्रहश्च देवस्य किं भूयः श्रोतुमिच्छथ ॥८४॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये रुक्मिणीदुःखमोचनवर्णनंनाम तृतीयोऽध्यायः ॥३॥७॥। N/A References : N/A Last Updated : February 03, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP