संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे द्वारकामाहात्म्यम्| अध्याय १८ प्रभासखण्डे द्वारकामाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ विषयानुक्रमणिका द्वारकामाहात्म्यम् - अध्याय १८ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय १८ Translation - भाषांतर ॥श्रीप्रह्लाद उवाच॥पूजयेद्गणनाथं तं रुक्मिणं रुक्मभूषितम् ॥दुर्वाससं च कृष्णं च बलभद्रं च भक्तितः ॥१॥यजत्येको महायज्ञैः संपूर्णवरदक्षिणैः ॥एकः पश्यति देवेशं कृष्णं तुल्यफलौ हि तौ ॥२॥वापीकूपतडागानि करोत्येकः समाहितः ॥एकः पश्यति देवेशं कृष्णं तुल्यफलौ हि तौ ॥३॥गोभूतिलहिरण्यादि ददात्येको दिनेदिने ॥एकः पश्यति देवेशं कृष्णं तुल्यफलौ हि तौ ॥४॥ प्राणायामादिसंयुक्तो जपध्यानपरायणः ॥एकः पश्यति देवेशं कृष्णं तुल्यफलौ हि तौ ॥५॥जाह्नव्यादिषु तीर्थेषु सुस्नात्वैकः समाहितः ॥एकः पश्यति देवेशं कृष्णं तुल्यफलौ हि तौ ॥६॥त्रिभिर्विक्रमणैर्येन विक्रांतं भुवनत्रयम् ॥त्रिविक्रमं च तं दृष्ट्वा मुच्यते पातकत्रयात् ॥७॥ ॥ऋषय ऊचुः॥कथं त्रैविक्रमी मृर्त्तिरागतेयं धरातले ॥कलान्यासाच्च कृष्णत्वं कदेयं प्राप्तवत्यथ ॥८॥दैत्य संशयमस्माकं छेत्तुमर्हस्यशेषतः ॥दुर्वाससश्च कृष्णस्य संभवः कथ्यतामिति ॥९॥ ॥प्रह्लाद उवाच॥तच्छ्रूयतां द्विजश्रेष्ठा यथा मूर्त्तिस्त्रिविक्रमी ॥दुर्वाससा समायुक्ता संभूता धरणीतले ॥१०॥पूर्वं कृतयुगस्यांते बलिना च पुरंदरः ॥निर्जित्य भ्रंशितः स्थानात्तदर्थं मधुसूदनः ॥ ॥११॥कश्यपाद्वामनो जज्ञे ततोऽभूच्च त्रिविक्रमः ॥त्रिभिः क्रमैर्मिताँल्लोकानाक्रम्य मधुहा हरिः ॥१२॥बलिं चकार भगवान्पातालतलवासि नम् ॥भक्त्या त्वनन्यया कृष्णो दैत्येन परितोषितः ॥१३॥स्वयं चैवाऽवसत्तत्र भक्त्या क्रीतो हरिस्तदा ॥अनुग्रहाय भगवान्द्वारपालो बभूव ह ॥१४॥दुर्वासाश्चापि भगवानात्रेयो मुनिसत्तमः॥अटंस्तीर्थानि मोक्षार्थं मुक्तिक्षेत्रमचिंतयत् ॥१५॥एवं चितयमानः स ज्ञानदृष्ट्या महामुनिः॥गोमत्या संगमो यत्र चक्रतीर्थेन भो द्विजाः ॥१६॥तन्मुक्तिक्षेत्रमाज्ञाय गमनाय मतिं दधे ॥सोतीत्य नगरग्रामानुद्यानानि वनानि च ॥१७॥आनर्त्तविषयं प्राप्य दैत्यभूमिं विवेश ह ॥निःस्वाध्यायवषट्कारां वेदध्वनिविवर्ज्जिताम् ॥१८॥कुशेन दैत्यराजेन सेवितां पालितां तथा ॥बहुम्लेच्छ समाकीर्णामधर्मोपार्जकैर्जनैः ॥१९॥प्रत्यासन्नामिति ज्ञात्वा चक्रतीर्थमगाद्द्विजः ॥स्नात्वा च संगमे पुण्ये मोक्ष्येऽहं च कृताह्निकः ॥२०॥इति कृत्वा स नियमं ययौ शीघ्रं मुनिस्तदा ॥स्नात्वा शीघ्रं प्रयास्यामि दैत्यभूमिं विहाय च ॥२१॥इत्येवं चिंतयन्मार्गे शीघ्रमेव जगाम सः॥दृष्ट्वा च संगमं पुण्यं गोमत्या सागरस्य च ॥२२॥निधाय वाससी तत्र मृदमालभ्य गोमयम् ॥शिखां च बद्ध्वा करयोः कृत्वा च नियतः कुशान् ॥ ॥२३॥यावत्स्नाति च विप्रोऽसौ दृष्टो दैत्यैर्दुरात्मभिः ॥ब्रुवंतः कोऽयमित्येवं हन्यतांहन्यतामिति ॥२४॥अस्माभिः पालिते देशे कः स्नाति मनुजाधमः ॥ब्रुवंत इति जघ्नुस्ते जानुभिर्मुष्टिभिस्तथा ॥२५॥ब्राह्मणोऽहं न हंतव्यः श्रुत्वा चाऽतीव पीडितः ॥तं दृष्ट्वा हन्यमानं तु ब्राह्मणं तैर्दुरात्मभिः ॥२६॥निवारयामास च तान्रुरुर्नाम महासुरः ॥जगृहुस्तस्य वस्त्राणि कुशांस्ते चिक्षिपुर्जले ॥२७॥चकर्षुश्चरणौ गृह्य शपंतो दुष्टचेतसः ॥पदे गृहीत्वा तमृषिं नीत्वा सीम्नि व्यसर्जयन् ॥२८॥तं तदा मूर्छितप्रायं दृष्ट्वोचुः कुपिताश्च ते ॥अत्रागतो यदि पुनर्हनिष्यामो न संशयः ॥आनर्त्तविषयांस्तान्वै दृष्ट्वा तत्र जलाशयम् ॥२९॥प्राणसंशयमापन्नस्ततश्चिंतापरोऽभवत् ॥शप्येहं यदि दैतेयांस्तपसः किं व्ययेन मे ॥३०॥अथवा नियमभ्रष्टस्त्यक्ष्ये चेदं कलेवरम् ॥मम पक्षं च कः कुर्य्यात्को मे दास्यति जीवितम् ॥३१॥चक्रतीर्थे च कः स्नानं कारयिष्यति मामिह ॥को वा दैत्यगणानेताञ्छक्तो जेतुं महामृधे ॥तं विना पुण्डरीकाक्षं भक्तानामभयप्रदम् ॥३२॥ब्रह्मादीनां च नेतारं शरणागतवत्सलम् ॥चक्रहस्तं विना मेद्य कोन्यः शर्म्मप्रदो भवेत् ॥३३॥इति ध्यात्वा च सुचिरं ज्ञात्वा पातालवासि नम् ॥आत्रेयो विष्णुशरणं जगाम धरणीतलम् ॥३४॥उपवासैः कृशो दीनो भूतलं प्रविवेश ह ॥स दैत्त्यराजभवनं गन्धर्वाप्सरसावृतम् ॥३५॥शोभितं सुरमुख्येन विष्णुना प्रभविष्णुना ॥दुर्वासाः प्रविवेशाथ प्रहृष्टेनांतरात्मना ॥३६॥दुर्वाससमथायांतं दृष्ट्वा दैत्यपतिस्तदा ॥प्रत्युत्थायार्हयांचक्रे स्वासने संन्यवेशयत् ॥३७॥मधुपर्कं च गां चैव दत्त्वार्घ्यं पार्श्वतः स्थितः ॥प्रोवाच प्रणतो ब्रह्मन्कथमत्रागतो भवान् ॥३८॥सुखोपविष्टः स ऋषिस्तत्रापश्यत्त्रिविक्रमम् ॥दैत्येन्द्रद्वारदेशे तु तिष्ठन्तमकुतोभयम् ॥३९॥तं दृष्ट्वा देवदेवेशं श्रीवत्सांकं चतुर्भुजम् ॥रुरोद स ऋषिश्रेष्ठस्त्राहित्राहीत्युवाच च ॥४०॥संसारभयभीतानां दुःखितानां जनार्दन ॥शत्रुभिः परिभूतानां शरणं भव केशव ॥४१॥मम दुःखाभितप्तस्य शत्रुभिः कर्षितस्य च ॥पराभूतस्य दीनस्य क्षुधया पीडितस्य च ॥४२॥अपूर्णनियमस्याऽथ क्लेशितत्य च दानवैः ॥ब्रह्मण्यदेव विप्रस्य शरणं भव केशव ॥४३॥इत्युक्त्वा दर्शयामास शरीरं दैत्यताडितम् ॥तद्ब्राह्मणावमानं च दृष्ट्वा चुक्रोध वामनः ॥४४॥केनापमानितो ब्रह्मन्नियमः केन खण्डितः ॥कथयस्व महाभाग धर्मपाले मयि स्थिते ॥४५॥ ॥दुर्वासा उवाच॥मुक्तितीर्थमहं ज्ञात्वा ज्ञानेन मधुसूदन ॥चक्रतीर्थं गतः स्नातुं यात्रायां हर्षसंयुतः ॥४६॥अकृतस्नान एवाऽहं दृष्टो दैत्यैर्दुरासदैः ॥गले गृहीतः कृष्णाहं मुष्टिभिस्ताडितस्तथा ॥४७॥बलाद्गृहीत्वा वासांसि कुशांश्चैवाक्षतैः सह ॥जले क्षिप्त्वा चरणयोर्गृहीत्वा मां समाकृषन् ॥४८॥सीमांते मां तु प्रक्षिप्य प्रोचुस्ते दानवाधमाः ॥हनिष्यामो यदि पुनरागंतासि न संशयः ॥४९॥स्नातोऽहं चक्रतीर्थे तु करिष्ये भोजनं विभो ॥तस्मात्स्नापय गोविंद नियमं सफलं कुरु ॥५०॥तव प्रसादात्स्नात्वाऽहं भुक्त्वा च प्रीतमानसः ॥प्रतिज्ञां सफलां कृत्वा विचरिष्ये महीमिमाम् ॥५१॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये चक्रतीर्थमाहात्म्ये राक्षसकृतदुर्वासःपराभववृत्तान्तवर्णनं नामाष्टादशोऽध्यायः ॥१८॥ N/A References : N/A Last Updated : February 04, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP