संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे द्वारकामाहात्म्यम्| अध्याय ३७ प्रभासखण्डे द्वारकामाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ विषयानुक्रमणिका द्वारकामाहात्म्यम् - अध्याय ३७ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ३७ Translation - भाषांतर ॥श्रीप्रह्लाद उवाच॥कृष्णकृष्णेति कृष्णेति श्वपचो जागरन्निशि ॥जपेदपि कलौ नित्यं कृष्णरूपी भवेद्धि सः ॥१॥कृष्णकृष्णेति कृष्णेति कलौ वदत्यहर्निशम् ॥नित्यं यज्ञायुतं पुण्यं तीर्थकोटिसमुद्भवम् ॥२॥संपूर्णैकादशी भूत्वा द्वादश्यां वर्द्धते यदि ॥उन्मीलिनीति विख्याता तिथीनामुत्तमा तिथिः ॥३॥वंजुलीवासरे ये वै रात्रौ कुर्वंति जागरम्॥यज्ञायुतायुतं पुण्यं मुहूर्तार्द्धेन जायते॥४॥संपूर्णा द्वादशी भूत्वा वर्द्धते चापरे दिने ॥त्रयोदश्यां मुनिश्रेष्ठा वंजुली दुर्ल्लभा कलौ ॥५॥उन्मीलिनीमनुप्राप्य ये प्रकुर्वंति जागरम् ॥निमिषार्द्धेन तत्पुण्यं गवां कोटिफलप्रदम् ॥६॥संपूर्णैकादशी भूत्वा प्रत्यऽहं वर्द्धते यदि ॥दर्शश्च पौर्णमासी च पक्षवृद्धिस्तथोच्यते ॥७॥पक्षवृद्धिकरीं प्राप्य ये प्रकुर्वंति जागरम् ॥निमिषार्द्धार्द्धमात्रेण गवां कोटिफलप्रदम् ॥८॥ ॥श्रीप्रह्लाद उवाच॥चक्रतीर्थे नरः स्नात्वा मुच्यते सर्व किल्बिषैः ॥स याति परमं स्थानं दाहप्रलयवर्जितम् ॥९॥चक्रं प्रक्षालितं यत्र कृष्णेन स्वयमेव हि ॥तेन वै चक्रतीर्थं हि पुण्यं च परमं हरेः ॥भवंति तत्र पाषाणाश्चक्रांका मुक्तिदायकाः ॥१०॥तत्रैव यदि लभ्यंते चक्रैर्द्वादशभिः सह ॥द्वादशात्मा स विज्ञेयो मोक्षदः परिकीर्तितः ॥ ॥११॥एकचक्रेण पाषाणो द्वारवत्यां सुशोभनः ॥सुदर्शनाभिधेयोसौ मोक्षैकफलदायकः ॥१२॥लक्ष्मीनारायणौ द्वौ तौ भुक्तिमुक्तिफलप्रदौ ॥त्रिभिश्चैवाच्युतं देवं सदेन्द्रपददायकम् ॥१३॥भूतिदो विघ्नहंता च चतुश्चक्रो जनार्द्दनः ॥पञ्चभिर्वासुदेवस्तु जन्ममृत्युभयापहः ॥१४॥प्रद्युम्नः षड्भिरेवासौ लक्ष्मीं कांतिं ददाति च ॥सप्तभिर्बलदेवस्तु गोत्रकीर्तिविवर्द्धनः ॥१५॥वांछितं चाष्टभिर्भक्त्या ददाति पुरुषोत्तमः ॥सर्वं दद्यान्नवव्यूहो दुर्ल्लभो यः सुरोत्तमैः ॥१६॥राज्यप्रदो दशभिस्तु दशावतार एव च ॥एकादशभिरैश्वर्य्यमनिरुद्धः प्रयच्छति ॥१७॥निर्वाणं द्वादशात्मा तु चक्रैर्द्वादशभिः स्मृतम् ॥अत ऊर्ध्वमनंतोऽसौ सौख्यमोक्षप्रदायकः ॥१८॥ये केचित्तत्र पाषाणाः कृष्णचक्रेण मुद्रिताः॥तेषां स्पर्शनमात्रेण मुच्यते सर्वकिल्बिषैः ॥१९॥ब्रह्महत्यादिकं पापं मनोवाक्कायकर्मजम् ॥तत्सर्वं विलयं याति चक्रांकितप्रपूजनात् ॥२२०॥म्लेच्छदेशे शुभे वाऽपि चक्रांको यत्र तिष्ठति ॥योजनानि दश द्वे च मम क्षेत्रं च सुन्दरि ॥२१॥मृत्युकाले च संप्राप्ते हृदये यस्तु धारयेत् ॥चक्राकं पापदलनं स याति परमां गतिम् ॥२२॥गोमतीसंगमे स्नात्वा भृगुतीर्थे तथैव च ॥न मातुर्वसते कुक्षौ यद्यपि स्यात्स पातकी ॥ ॥२३॥तामसं राजसं वापि यत्कृतं विष्णुपूजनम् ॥तत्सात्त्विकत्वमभ्येति निम्नगांभो यथार्णवे ॥२४॥इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये द्वारकाक्षेत्रस्थसुदर्शनप्रमुखानन्तान्तचक्रचिह्नांकित पाषाणमाहात्म्यवर्णनपूर्वकतत्पूजनफलादिकथनंनाम सप्तत्रिंशत्तमोऽध्यायः ॥३७॥ N/A References : N/A Last Updated : February 04, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP