संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे द्वारकामाहात्म्यम्| अध्याय १० प्रभासखण्डे द्वारकामाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ विषयानुक्रमणिका द्वारकामाहात्म्यम् - अध्याय १० भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय १० Translation - भाषांतर ॥प्रह्लाद उवाच॥ततो गच्छेद्द्विजश्रेष्ठास्तीर्थं पापप्रणाशनम् ॥कृकलासमिति ख्यातं नृगतीर्थमनुत्तमम् ॥१॥नृगो यत्र महीपालः कृकलासवपुर्धरः ॥कृष्णेन सह संगत्य संप्राप परमां गतिम् ॥२॥; ॥ ॥ऋषय ऊचुः॥नृगो नाम नृपः कोऽयं कथं कृष्णेन संगतः ॥कर्मणा कृकलासत्वं केन तद्वद विस्तरात् ॥३॥ ॥प्रह्लाद उवाच॥नृगो नाम नृपो विप्राः सार्वभौमो बलान्वितः ॥बुद्धिमान्धृतिमान्दक्षः श्रीमान्सर्वगुणान्वितः ॥४॥अनेकशतसाहस्रा भूमिपा अपि तद्वशाः ॥॥हस्त्यश्वरथसंघैश्च पत्तिभिर्बहुभिर्वृतः ॥५॥सैन्यं च तस्य नृपतेः कोशं चैवाक्षयं तथा ॥स नित्यं गुरुभक्तश्च देवताराधने रतः ॥६॥महा दानानि विप्रेन्द्रा ददात्यनुदिनं नृपः ॥शश्वत्स गोसहस्रं तु ददाति नृपसत्तमः ॥७॥प्रक्षाल्य चरणौ भक्त्या ह्युपविश्यासने शुभे ॥परिधाप्य शुभे क्षौमे सुगन्धेनोपलिप्य च ॥८॥संपूज्य पुष्पमालाभि धूपेन च सुगन्धिना ॥ददौ दक्षिणया सार्द्धं प्रतिविप्राय गां तदा ॥तांबूलसहितां भक्त्या विष्णुर्मे प्रीयतामिति ॥९॥एवं प्रददतस्तस्य यजतश्च तथा मखैः ॥ययौ कालो द्विजश्रेष्ठा भोगांश्चैवानुभुञ्जतः ॥१०॥एकदा तु द्विजश्रेष्ठं जैमिनिं संशितव्रतम् ॥श्रद्धया तं च नृपतिः प्रतिग्रहपराङ्मुखम् ॥उवाच वाक्यं नृपतिः कृतांजलिपुटः स्थितः ॥११॥मामुद्धर महाभाग कृपां कुरु तपोनिधे ॥गृहाण गां मया दत्तां दयां कृत्वा ममोपरि ॥१२॥तच्छ्रुत्वा वचनं तस्य अनिच्छन्नपि गौरवात् ॥नृपस्य चाब्रवीद्विप्र एवमस्त्विति लज्जितः ॥१३॥अवनिज्य ततः पादौ शिरसा धारयज्जलम् ॥सुवर्णशृंगसहितां रौप्यखुरविभूषिताम् ॥१४॥रत्नपुच्छां कांस्यदोहां सितवस्त्रावगुंठिताम् ॥समभ्यर्च्य च विप्रेन्द्रं ददौ दक्षिणयान्विताम् ॥१५॥आसीमान्तमनुव्रज्य हृष्टो राजा बभूव ह ॥तरुणीं हंसवर्णां च हंसीनामेति विश्रुताम् ॥१६॥गां गृह्य स्वगृहं प्राप्तो दाम्ना बद्धां सवत्सकाम् ॥स तस्यै यवसं चार्द्रं ददौ ब्राह्मणसत्तमः ॥१७॥॥सुतृप्ता यवसेनैव मध्याह्ने तृषितां तदा ॥गृहीत्वा निर्ययौ विप्रो दामबद्धां जलाशयम् ॥१८॥मार्गे गजाश्वसंबाधे त्रस्ता सा उष्ट्रदर्शनात् ॥हस्तादाच्छिद्य सा धेनुर्ब्राह्मणस्य ययौ तदा ॥१९॥विचिन्वन्सकलामुर्वीं नापश्यत्तां द्विजर्षभः ॥सा ययौ विद्रुता धेनुस्तन्महद्राजगोधनम् ॥२०॥द्वितीयेऽह्नि पुनर्विप्रमाहूय नृपसत्तमः ॥संपूज्य विधिवद्भक्त्या वस्त्रालंकारभूषणैः ॥२१॥विधिवद्गां ददौ तां च स नृपः सोमशर्मणे ॥गृहीत्वा राजभवनान्निर्ययौ गां द्विजर्षभः ॥२२॥आशंसमानो राजानं धर्मज्ञमिति कोविदम् ॥स च विप्रो विचिन्वानः सर्वतो गां सुदुःखितः ॥ ॥२३॥ददर्श पथि गच्छन्तीं पृष्ठतः सोमशर्मणः ॥दृष्ट्वा तां गां च स मुनिर्जैमिनिस्तमभाषत ॥२४॥मम गां चापि हृत्वा त्वं नयसे दस्युवत्कथम् ॥स तस्य वचनं श्रुत्वा विस्मयं दस्युकीर्त्तनात् ॥२५॥राजतो हि मया लब्धां गां नयामि स्वमन्दिरम् ॥गोहर्त्तेति च मां कस्माद्ब्रवीषि द्विजसत्तम ॥२६॥ ॥ब्राह्मण उवाच॥मयापि राजतो लब्धा ममेयं गौर्न संशयः ॥कथं नयसि विप्र त्वं मयि जीवति मन्दिरम् ॥२७॥सोऽब्रवीदद्य मे लब्धा कथं मां वदसे मृषा ॥सोऽब्रवीद्ध्यो मया लब्धा बलान्नेतुं त्वमिच्छसि ॥२८॥ममेयमिति संक्रुद्धः सोमशर्माऽब्रवीद्वचः ॥प्रज्वलत्क्रोधरक्ताक्षो ममेयमिति सोऽपरः ॥२९॥विवदतौ तथा विप्रौ राजद्वारमुपागतौ ॥कुर्वाणौ कलहं घोरं त्यक्तुकामौ स्वजीवितम् ॥३०॥संक्रुद्धौ ब्राह्मणौ दृष्ट्वा शपन्तौ तौ परस्परम् ॥राज्ञे निवेदयामास द्वास्थं प्रणयपूर्वकम् ॥३१॥अवज्ञाय तदा विप्रौ विवदन्तौ रुषान्वितौ ॥कामव्याकुलचेतस्को न बहिर्निःसृतो नृपः ॥३२॥एवं विवदमानौ तौ त्रिरात्रं समुपस्थितौ ॥अवज्ञातौ नृपेणाथ राजानं प्रति च क्रुधा ॥३३॥ऊचतुः कुपितो वाक्यं सामर्षौ नृपतिं प्रति ॥अवमन्यसे नौ यस्मात्त्वं न निर्गच्छसि मन्दिरात् ॥३४॥शास्ता भवान्प्रजानां हि न न्यायेन नियोक्ष्यति ॥भविष्यति भवांस्तस्मात्कृकलासो न संशयः ॥३५॥एवं शप्त्वा तदा विप्रावन्यस्मै गां प्रदाय तौ ॥क्षुधितौ खेदसंयुक्तौ स्वगृहं गन्तुमुद्यतौ ॥३६॥प्रस्थितौ तौ नृगो द्वार आगत्य समुपस्थितः ॥दंडवत्प्रणिपत्याऽऽशु कृतांजलिरभाषत ॥३७॥अमोघवचना यूयं तत्तथा न तदन्यथा ॥ममोपरि कृपां कृत्वा शापांत उपदिश्यताम् ॥३८॥तस्य तद्वचनं श्रुत्वा ऊचतुर्वचनं नृपम् ॥द्वापरस्य युगस्यान्तं भगवान्देवकीसुतः ॥३९॥वसुदेवगृहे राजन्हरिराविर्भविष्यति ॥तस्य संस्पर्शनादेव शापमुक्तिर्भविष्यति ॥४०॥इत्युक्त्वा तौ तदा विप्रौ प्रयातौ स्वनिवेशनम् ॥राजा बहुविधान्भोगान्भुक्त्वा दत्त्वा च भूरिशः ॥४१॥इष्ट्वा च विविधैर्यज्ञैः कालधर्ममुपेयिवान् ॥ततः स गतवान्विप्रा धर्मराजनिवेशनम् ॥४२॥सत्कृत्योक्तो यमेनाथ स्वागतेन नृपोत्तमः ॥प्रथमं सुकृतं राजन्नथवा दुष्कृतं त्वया ॥भोक्तव्यमिति मे ब्रूहि तत्ते संपाद्यते मया ॥४३॥ ॥नृग उवाच॥यद्यस्ति दुष्कृतं किंचित्प्रथमं प्रतिपादय ॥अनुज्ञातो यमेनैवं कृकलासो भवेति वै ॥ततो वर्षसहस्राणि कृकलासत्वमाप्तवान् ॥४४॥एकस्मिन्दिवसे विप्राः सर्वे यदुकुमारकाः ॥वनं जग्मुर्मृगान्हन्तुं सर्वे कृष्णसमन्विताः ॥४५॥तृषार्द्दिताश्च मध्याह्ने विचिन्वंतो जलं ह्रदे ॥सत्वं च सुमहत्तत्र कृकलासं च संस्थितम् ॥४६॥चक्रुश्चोद्धरणे तस्य यत्नं यदुकुमारकाः ॥आकृष्यमाणः स तदा गुरुत्वान्न चचाल ह ॥४७॥यदा न शेकुस्ते सर्व आचख्युः कृष्णरामयोः ॥ददर्श तं तदा कृष्णो नृगं मत्वा हसन्निव ॥४८॥चिक्षेप वामहस्तेन लीलयैव जगत्पतिः ॥स संस्पृष्टो भगवता विमुक्तः शापबंधनात् ॥४९॥त्यक्त्वा कलेवरं राजा दिव्यमाल्यानुलेपनः ॥कृतांजलिरुवाचेदं भक्त्या परमया युतः ॥५०॥नमस्ते जगदाधार सर्गस्थित्यंतकारिणे ॥सहस्रशिरसे तुभ्यं ब्रह्मणेऽनंतशक्तये ॥५१॥एवं संस्तुवतः प्राह भगवान्देवकीसुतः ॥ददामि ते वरं तुष्टो यत्ते मनसि वर्त्तते ॥५२॥याहि पुण्यकृताँल्लोकान्दर्शनात्स्पर्शनाच्च मे ॥एवमुक्तः स देवेन संप्रहृष्टतनूरुहः ॥५३॥उवाच यदि तुष्टोऽसि यदि देयो वरो मम ॥गर्त्तेयं मम नाम्ना तु ख्यातिं गच्छतु केशव ॥५४॥यः स्नात्वा परया भक्त्या पितॄन्संतर्पयिष्यति ॥त्वत्प्रसादेन गोविंद विष्णुलोकं स गच्छतु ॥५५॥एवमुक्त्वा स भगवान्पुनर्द्वारावतीमगात् ॥५६॥स च राजा विमानेन दिव्यमाल्यानुलेपनः ॥जगाम भवनं विष्णोर्विबुधैरनुसंस्तुतः ॥५७॥ ॥प्रह्लाद उवाच॥तदाप्रभृति विप्रेंद्राः स कूपो नृगसंज्ञया ॥वरदानाच्च कृष्णस्य पावनः सर्वदेहिनाम् ॥५८॥तत्र गत्वा द्विजश्रेष्ठा ह्यर्घ्यं दद्याद्यथाविधि ॥फलपुष्पाक्षतैर्युक्तं चंदनेन च भूसुराः ॥५९॥नमस्ते विश्वरूपाय विष्णवे परमात्मने ॥अर्घ्यं गृहाण देवेश कूपेऽस्मिन्नृगसंज्ञके ॥६०॥ततः स्नायाद्द्विजश्रेष्ठा मृदमालिप्य पाणिना ॥संतर्पयेत्पितॄन्देवान्मनुष्यांश्च यथाक्रमात् ॥६१॥ततः श्राद्धं प्रकुर्वीत पितॄणां श्रद्धयान्वितः ॥विप्रेभ्यो भोजनं दद्याद्दक्षिणां च स्वशक्तितः ॥६२॥विशेषतः प्रदातव्या सवत्सा गौः स्वलंकृता ॥शय्या सोपस्करां दद्याद्विष्णुर्मे प्रीयतामिति ॥६३॥दीनांधकृपणानां च सदा तत्तीरवासिनाम् ॥दद्याद्दानं स्वशक्त्या च वित्त शाठ्यविवर्जितः ॥६४॥स्नानमात्रेण विप्रेन्द्रा लभेद्गोदानजं फलम्॥पितृणां श्राद्धदानेन वियोनिं न च गच्छति ॥६५॥कृकलासे कृतं श्राद्धं येनैव तर्पणं तथा ॥स गच्छेद्विष्णुलोकं तु पितृभिः सहितो नरः ॥६६॥तथा मनोरथावाप्तिर्यात्रा च सफला भवेत् ॥सर्वतीर्थफलावाप्तिं लभते नात्र संशयः ॥६७॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये कृकलासापरनामकनृग तीर्थमाहात्म्यवर्णनंनाम दशमोऽध्यायः ॥१०॥छ ॥ N/A References : N/A Last Updated : February 03, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP