संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे द्वारकामाहात्म्यम्| अध्याय ६ प्रभासखण्डे द्वारकामाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ विषयानुक्रमणिका द्वारकामाहात्म्यम् - अध्याय ६ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ६ Translation - भाषांतर ॥ऋषय ऊचुः॥साधुसाधु महाभाग प्रह्लादा सुरसत्तम ॥येन नः कलिमध्ये तु दर्शितो भगवान्हरिः ॥१॥त्वन्मुखक्षीरसिंधूत्था कथेयममृतोपमा ॥कर्णाभ्यां पिबतां तृप्तिर्मुनीनां न प्रजायते ॥कथयस्व महाबाहो तीर्थयात्रां सुविस्तराम् ॥२ ।अस्माभिस्तत्र गंतव्यं वहते यत्र गोमती ॥तिष्ठते यत्र भगवांश्चक्रतीर्थावलोककः॥३॥भवाब्धौ पतितांस्तात उद्धरस्व भवार्णवात् ॥तीर्थयात्राविधानं च कथयस्व महामते ॥४॥ ॥प्रह्लाद उवाच॥गत्वा तु गोमतीतीरे प्रणमेद्दंडवच्च ताम् ॥प्रक्षाल्य पाणिपादौ च कृत्वा च करयोः कुशान् ॥५॥गृहीत्वा तु फलं शुभ्रमक्षतैश्च समन्वितम् ॥प्राङ्मुखः प्रयतो भूत्वा दद्यादर्घ्यं विधानतः ॥६॥ब्रह्मलोकात्समायाते वसिष्ठतनये शुभे ॥सर्वपापविशुद्ध्यर्थं ददाम्यर्घ्यं तु गोमति ॥७॥वसिष्ठतनये देवि सुरवंद्ये यशस्विनि ॥त्रैलोक्यवंदिते देवि पापं मे हर गोमति ॥८॥इत्युच्चार्य्य द्विजश्रेष्ठा मृदमालभ्य पाणिना ॥विष्णुं संस्मृत्य मनसा मंत्रमेतमुदीरयेत् ॥९॥अश्वक्रांते रथक्रांते विष्णुक्रांते वसुंधरे ॥उद्धृताऽसि वराहेण कृष्णेन शतबाहुना ॥१०॥मृत्तिके हर मे पापं यन्मया पूर्वसंचितम् ॥त्वया हतेन पापेन पूतः संवत्सरं भवेत् ॥११॥इत्येवं मृदमालिप्य स्नानं कुर्य्याद्यथाविधि ॥आपो अस्मानिति स्नात्वा शृणुध्वं यत्फलं लभेत् ॥१२॥कुरुक्षेत्रे च यत्पुण्यं राहुग्रस्ते दिवाकरे ॥स्नानमात्रेण तत्पुण्यं गोमत्यां कृष्णसन्निधौ ॥१३॥भक्त्या स्नात्वा तु तत्रैवं कुर्यात्कर्म यथोदितम्॥देवान्पितॄन्मनुष्यांश्च तर्पयेद्भावसंयुतः ॥१४॥ये च रौरवसंस्था हि ये च कीटत्वमागताः ॥गोमतीनीरदानेन मुक्तिं यांति न संशयः ॥१५॥विनाप्यक्षतदर्भैर्वा विना भावनया तथा ॥वारिमात्रेण गोमत्यां गयाश्राद्धफलं लभेत् ॥१६॥ततश्च विप्रानाहूय वेदज्ञांस्तीरसंश्रयान् ॥विश्वेदेवादि संपूज्य पितॄणां श्राद्धमाचरेत् ॥१७॥श्रद्धया परया युक्तः श्राद्धं कृत्वा विधानतः ॥दक्षिणां च ततो दद्यात्सुवर्णं रजतं तथा ॥१८॥सुवर्णशृंगसहितां राजतखुरभूषिताम् ॥रत्नपुच्छां वस्त्रयुतां ताम्रपृष्ठां सवत्सकाम् ॥२९॥दद्याद्विप्रं समभ्यर्च्य वस्त्रालंकारभूषणैः ॥सप्तधान्ययुतां दद्याद्विष्णुर्मे प्रीयतामिति ॥२०॥आसीमांतं विसृज्यैतान्ब्राह्मणान्नियतेंद्रियः ॥दीनांधकृपणेभ्यश्च दानं दद्यात्स्वशक्तितः ॥२१॥गोमती गोमयस्नानं गोदानं गोपिचन्दनम् ॥दर्शनं गोपिनाथस्य गकाराः पंच दुर्लभाः ॥२२॥तस्माच्चैव प्रकर्तव्यं गोदानं गोमतीतटे ॥एवं कृत्वा द्विजश्रेष्ठाः कृतकृत्यो भवेन्नरः ॥२३॥ये गता नरकं घोरं ये च प्रेतत्वमागताः ॥पूर्वकर्मविपाकेन स्थावरत्वं गताश्च ये ॥२४॥पितृपक्षे च ये केचिन्मातृपक्षे कुलोद्भवाः ॥सर्वे ते मुक्तिमायांति गोमत्या दर्शनात्कलौ ॥२५॥कृतं श्राद्धं नरैर्यैस्तु गोमत्यां भूसुरोत्तमाः ॥हयमेधस्य यज्ञस्य फलमायांत्यसंशयम् ॥२६॥गंगास्नानेन यत्पुण्यं प्रयागे परिकीर्त्तितम् ॥तत्पुण्यं समवाप्नोति गोमत्यां श्राद्धकृन्नरः ॥२७॥विष्णुलोकं हि गच्छंति पितरस्तत्कुलोद्भवाः ॥अनेकजन्मसाहस्रं पापं याति न संशयः ॥२८॥वाचा च यत्कृतं पापं कर्मणा मनसा तथा॥तत्सर्वं विलयं याति गोमतीदर्शनेन हि ॥२९॥यो नरः कार्त्तिके स्नानं गोमत्यां कुरुते द्विजाः॥प्रसन्नो भगवांस्तस्य लक्ष्म्या सह न संशयः॥३०॥प्रत्यहं हुतँ भोक्तारं तर्पयेत्सुसमाहितः॥प्रत्यहं षड्रसं देयं भोजनं च द्विजातये॥३१॥पूजयेत्कृष्णदेवं च प्रत्यहं भक्तितत्परः ॥येन केनापि विप्रेन्द्राः स्थातव्यं नियमेन तु ॥३२॥ब्राह्मणानुज्ञया तत्र गृह्णीयान्नियमान्नरः ॥संपूर्णे कार्त्तिके मासि संप्राप्ते बोधवासरे ॥३३॥पंचामृतेन देवेशं स्नापयेत्तीर्थवारिणा ॥श्रीखण्डं कुंकुमोन्मिश्रं मृगनाभिसमन्वितम् ॥विलेपयेच्च देवेशं भक्त्या दामोदरं हरिम् ॥३४॥कुसुमैर्वारिसंभूतैस्तुलस्या करवीरकैः ॥तद्देशसंभवैः पुष्पैः पूजयेद्गरुडध्वजम् ॥३५॥नैवेद्यं रुचिरं दद्याद्वि ष्णुर्मे प्रीयतामिति ॥गीतवाद्यादिनृत्येन तथा पुस्तकवाचनैः ॥३६॥रात्रौ जागरणं कार्य्यं स्तोत्रैर्नानाविधैरपि ॥आहूय ब्राह्मणान्भक्त्या भोजयेच्च स्वशक्तितः ॥३७॥ततो रथस्थितं देवं पूजयेद्गरुडध्वजम् ॥कार्त्तिकांते च विप्रेंद्रा गोमत्युदधिसंगमे ॥३८॥स्नात्वा पितॄंश्च संतर्प्य पूजयेच्च जनार्द्दनम् ॥सुवस्त्रैर्भूषणैश्चापि समभ्यर्च्य रमापतिम् ॥अनुज्ञया तु विप्राणां व्रतं संपूर्णतां नयेत् ॥३९॥एवं यः स्नाति विप्रेन्द्राः कार्त्तिके कृष्णसन्निधौ ॥सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥४०॥माघस्नानं नरो भक्त्या गोमत्यां कुरुते तु यः ॥वैनतेयोदये नित्यं संतुष्टः सह भार्यया ॥४१॥तिला हिरण्यसहिता देया ब्राह्मणसत्तमे ॥मोदका गुडसंमिश्राः प्रत्यहं दक्षिणान्विताः ॥४२॥तिलैराज्याप्लुतैर्होमः कर्त्तव्यः प्रत्यहं नरैः ॥होमार्थं सेवयेद्वह्निं न शीतार्थं कदाचन ॥४३॥गोमत्यां स्नाति यो भक्त्या माघं माधववल्लभम् ॥समाप्तौ रक्तवस्त्राणि कञ्चुकोष्णीषमेव च ॥४४॥दद्यादुपानहौ भक्त्या कुंकुमं च विशेषतः ॥कम्बलं तैलपक्वं च विष्णुर्मे प्रीयतामिति ॥४५॥स्वामिकार्य्यमृतानां च संग्रामे शस्त्रसंकुले ॥गवार्थे ब्राह्मणार्थे च मृतानां या गतिः स्मृता ॥४६॥माघस्नाने च सा प्रोक्ता गोमत्यां नात्र संशयः ॥सर्वदानफलं तस्य सर्व तीर्थफलं तथा ॥४७॥माघस्नानान्नरो याति विष्णुलोकं सनातनम् ॥सर्वान्कामानवाप्नोति समभ्यर्च्य जनार्द्दनम् ॥४८॥माघं यः क्षपते सर्वं गोमत्युदधिसंगमे ॥ब्राह्मणानुज्ञया विप्राः सर्वं संपूर्णतां व्रजेत् ॥४९॥पापिनोऽपि द्विजश्रेष्ठा ये स्नाता गोमतीजले ॥यज्विनां च गतिं यांति प्रसादाच्चक्रपाणिनः ॥५०॥ब्रह्मरुद्रपदादूर्ध्वं यत्पदं चक्रपाणिनः ॥स्नानमात्रेण गोमत्यां तत्प्रोक्तं कृष्णसंनिधौ ॥५१॥मित्रद्रोहे च यत्पापं यत्पापं गुरुघातिनि ॥तत्पापं समवाप्नोति यात्राभंगं करोति यः ॥५२॥ब्रह्मस्वहारिणः पापास्तथा देवस्वहारिणः ॥स्नानमात्रेण शुद्ध्यंति गोमत्यां नात्र संशयः ॥५३॥भीताऽभयप्रदानेन यत्पुण्यं लभते नरः ॥तत्पुण्यं समवाप्नोति गोमत्यां स्नानमात्रतः ॥५४॥भीताभय प्रदानेन पुत्रानिष्टान्न संशयः ॥धनकामस्तु विपुलं लभते धनमूर्जितम् ॥५५॥प्राप्नुयादीप्सितान्कामान्गोमतीनीरसंगमे ॥कृतकृत्यो भवेद्विप्रा ऋणान्मुच्येत पैतृकात् ॥५६॥मनसा वचसा चैव कर्मणा यदुपार्जितम् ॥तत्सर्वं नश्यते पापं गोमतीनीरसंगमात् ॥५७॥पीतांबरधरो भूत्वा तथा गरुडवाहनः ॥वनमाली चतुर्बाहुर्दिव्यगन्धानुलेपनः ॥याति विष्ण्वालयं विप्रा अपुनर्भवलक्षणम् ॥५८॥गोमतीस्नानमात्रेण मानवो नात्र संशयः ॥सर्वपापविनिर्मुक्तो याति विष्णुं सनातनम् ॥५९॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखंडे चतुर्थे द्वारकामाहात्म्ये गोमत्युदधिसंगमे स्नानदानादिमाहात्म्यवर्णनंनाम षष्ठोऽध्यायः ॥६॥ N/A References : N/A Last Updated : February 03, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP