संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे द्वारकामाहात्म्यम्| अध्याय २६ प्रभासखण्डे द्वारकामाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ विषयानुक्रमणिका द्वारकामाहात्म्यम् - अध्याय २६ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय २६ Translation - भाषांतर ॥श्रीमार्कण्डेय उवाच॥प्रह्लादं सर्वधर्मज्ञं वेदशास्त्रार्थपारगम् ॥वैष्णवागमतत्त्वज्ञं भगवद्भक्तितत्परम् ॥१॥सुखासीनं महाप्राज्ञमृषयो द्रष्टुमागताः ॥सर्वशास्त्रार्थतत्त्वज्ञाः स्वधर्मप्रतिपालकाः ॥ ॥२॥ ॥ऋषय ऊचुः॥विना ज्ञानाद्विना ध्यानाद्विना चेन्द्रियनिग्रहात् ॥अनायासेन येनैतत्प्राप्यते परमं पदम् ॥३॥संक्षेपात्कथय स्नेहाद्दृष्टादृष्टफलोदयम् ॥धर्मान्मनुजशार्दूल ब्रूहि सर्वानशेषतः ॥४॥इत्युक्तोऽसौ महाभागो नारायणपरायणः ॥कथयामास संक्षेपात्सर्वलोकहितोद्यतः ॥५॥ ॥श्रीप्रह्लाद उवाच॥श्रूयतामभिधास्यामि गुह्याद्गुह्यतरं महत् ॥यस्य संश्रवणादेव सर्वपापक्षयो भवेत् ॥६॥अष्टादशपुराणानां सारात्सारतरं च यत् ॥तदहं कथयिष्यामि भुक्तिमुक्तिफलप्रदम् ॥७॥सुखासीनं महादेवं जगतः कारणं परम् ॥पप्रच्छ षण्मुखो भक्त्या सर्वलोकहितोद्यतः ॥८॥ ॥स्कन्द उवाच॥भगवन्सर्वलोकानां दुःखसंसारभेषजम् ॥कथयस्व प्रसादेन सुखोपायं विमुक्तये ॥९॥ ॥ईश्वर उवाच॥चतुर्विधं तु यत्पापं कोटिजन्मार्जितं कलौ ॥जागरे वैष्णवं शास्त्रं वाचयित्वा व्यपोहति ॥१०॥वैष्णवस्य तु शास्त्रस्य यो वक्ता जागरे हरेः ॥मद्भक्तं तं विजानीयाद्विपन्नस्त्वन्यथा भवेत् ॥११॥हरिजागरणं कार्यं मद्भक्तेन विजानता ॥अन्यथा पापिनो ज्ञेया ये द्विषन्ति जनार्द्दनम् ॥१२॥जागरं ये च कुर्वंति गायंति हरिवासरे ॥अग्निष्टोमफलं तेषां निमिषार्द्धेन षण्मुख ॥१३॥जागरे पश्यतां विष्णोर्मुखं रात्रौ मुहुर्मुहुः ॥येषां हृष्यंति रोमाणि रात्रौ जागरणे हरेः ॥कुलानि दिवि तावंति वसंति हरिसन्निधौ ॥१४॥यमस्य पथि निर्मुक्ता जनाः पापशतैर्वृताः॥गीतशास्त्रविनोदेन द्वादशीजागरान्विताः ॥१५॥सुप्रभाता निशा तेषां धन्याः सुकृतिनो नराः ॥प्राणात्ययेन मुह्यंति यैः कृतं जागरं हरेः ॥१६॥पुत्रिणस्ते नरा लोके धनिनः ख्यातपौरुषाः ॥येषां वंशोद्भवाः पुत्राः कुर्वंति हरिजागरम् ॥१७॥इष्टं मखैः कृतं दानं दत्तं पिंडं गयाशिरे ॥स्नातं नित्यं प्रयागे तु यैः कृतं जागरं हरेः ॥१८॥दयिता विष्णुभक्ताश्च नित्यं मम षडानन ॥कुर्वंति वासरं विष्णोर्यस्माज्जागरणं हितम् ॥१९॥श्रुत्वा हर्षं न चाप्नोति जागरं न करोति यः ॥प्रकटीकरोति तन्नूनं जनन्या दुर्विचेष्टितम् ॥२०॥संप्राप्य वासरं विष्णोर्न येषां जागरो हरेः ॥व्यर्थं गतं च तत्पुण्यं तेषां वर्षशतोद्भवम् ॥२१॥पुत्रो वा पुत्रपुत्रो वा दौहित्रो दुहिताऽपि वा ॥।करिष्यति कुलेऽस्माकं कलौ जागरणं हरेः ॥२२॥पात्यमानाः प्रजल्पंति पितरो यमकिंकरैः ॥मुक्तिर्भविष्यत्यस्माकं नरकाज्जागरे कृते ॥२३ ॥।नान्यथा जायतेऽस्माकं मुक्तिर्यज्ञशतैरपि ॥विना जागरणेनैव नरलोकात्कथंचन ॥तस्माज्जागरणं कार्यं पितॄणां हितमिच्छता ॥२४॥भक्तिर्भागवतानां च गोविंदस्यापि कीर्तनम् ॥न देहग्रहणं तस्मात्पुनर्लोके भविष्यति ॥२५॥जागरं कुरुते यश्च संगमे विजयादिने ॥पुनर्द्देहप्रजननं दग्धं तेनाऽऽत्मना स्वयम् ॥२६॥त्रिस्पृशा वासरं येन कृतं जागरणान्वितम् ॥केशवस्य शरीरे तु स लीनो नात्र संशयः ॥२७॥उन्मीलिनी कृता येन रात्रौ जागरणान्विता ॥प्रभवंति न पापानि स्थूलसूक्ष्माणि तस्य तु ॥२८॥सतालवाद्यसंयुक्तं संगीतं जागरं हरेः ॥यः कारयति देवस्य द्वादश्यां दानसंयुतम् ॥२९॥तस्य पुण्यं प्रवक्ष्यामि महाभागवतस्य हि ॥तिलप्रस्थहस्रं तु सहिरण्यं द्विजातये ॥दत्त्वा यत्फलमाप्नोति ह्ययने रविसंक्रमे ॥३०॥हेमभारशतं नित्यं सवत्सं कपिलायुतम् ॥प्रेक्षणीयप्रदानेन तत्फलं प्राप्नुयात्कलौ ॥३१॥यः पुनर्वासरे पुत्र दिव्यैर्ऋषिकृतैः स्तवैः ॥तोषयेत्पद्मनाभं वै वैदिकैर्विष्णुसामभिः ॥३२॥ऋग्यजुःसामसम्भूतैवैष्णवैश्चैव पुत्रक ॥संस्कृतैः प्राकृतैः स्तोत्रैरन्यैश्च विविधैस्तथा ॥३३॥प्रीतिं करोति देवेशो द्वादश्यां जागरे स्थितः ॥शृणु पुण्यं समासेन यद्गीतं ब्रह्मणा मम ॥३४॥त्रिःसप्तकृत्वो धरणीं त्रिगुणीकृत्य षण्मुख ॥दत्त्वा यत्फलमाप्नोति तत्फलं प्राप्नुयान्नरः ॥३५॥गवां शतसहस्रेण सवत्सेनापि यत्फलम् ॥तत्फलं प्राप्नुयान्मर्त्त्यः स्तोत्रैर्यस्तोषयेद्धरिम् ॥३६॥वैदिकी दशगुणा प्रीतिर्यामेनैकेन जागरे ॥एवं फलानुसारेण कार्य्यं जागरणं हरेः ॥३७॥यः पुनः पठते रात्रौ गीतां नामसहस्रकम् ॥द्वादश्यां पुरतो विष्णोर्वेष्णवानां समीपतः ॥३८॥पुण्यं भागवतं स्कांदपुराणं दयितं हरेः ॥माधुरं बालचरितं गोपीनां चरितं तथा ॥३९॥एतान्पठति रात्रौ यः पूजयित्वा तु केशवम् ॥न वेद्म्यहं फलं वत्स यदि ज्ञास्यति केशवः ॥४०॥दीपं प्रज्वालयेद्रात्रौ यः स्तवैर्हरिजागरे ॥न चास्तं गच्छते तस्य पुण्यं कल्पशतैरपि ॥४१॥मंजरीसहितैः पत्रैस्तुलसीसम्भवैर्हरिम् ॥जागरे पूजयेद्भक्त्या नास्ति तस्य पुनर्भवः ॥४२॥स्नानं विलेपनं पूजा धूपं दीपं च संस्तवम् ॥नैवेद्यं च सतांबूलं जागरे दत्तमक्षयम् ॥४३॥ध्यातुमिच्छति षड्वक्त्रं यो मां भक्तिपरायणः ॥ स करोतु महाभक्त्या द्वादश्यां जागरं हरेः ॥४४॥वासरे वासुदेवस्य सर्वे देवाः सवासवाः ॥देहमाश्रित्य तिष्ठंति ये प्रकुर्वंति जागरम् ॥४५॥जागरेवासुदेवस्य महाभारतकीर्तनम् ॥ये कुर्वंति गतिं यांति योगिनां ते न संशयः ॥४६॥चरितं रामदेवस्य ये वधं रावणस्य च ॥पठंति जागरे विष्णोस्ते यांति परमां गतिम ॥४७अधीत्य चतुरो वेदान्कृत्वा चैवार्चनं हरेः ॥स्नात्वा च सर्वतीर्थेषु जागरे तत्फलं हरेः ॥४९॥रथानामयुतैर्यत्तु सहस्रैर्वरवारणैः ॥लक्षेणाश्ववराणां तु तत्फलं जागरे हरेः ॥४९॥धान्यशैलसहस्रैस्तु तुलापुरुषको टिभिः ॥यत्फलं मुनिभिः प्रोक्तं तत्फलं जागरे हरेः ॥५०॥कन्याकोटिप्रदानं च स्वर्णभारशतं तथा ॥दत्तं रत्नायुतशतं यैः कृतो जागरो हरेः ॥५१॥अष्टादशपुराणैस्तु पठितैर्यत्फलं भवेत् ॥तत्फलं शतसाहस्रं कृते जागरणे हरेः ॥५२॥मन्वादि पठतां शास्त्रं यत्फलं हि द्विजन्मनः ॥अधिकं फलमाप्नोति कुर्वाणो जागरं हरेः ॥५३॥दुर्भिक्षे चान्नदातॄणां पुंसां भवति यत्फलम् ॥संन्यासिनां सहस्रैस्तु यत्फलं भोजितैः कलौ ॥फलं तत्समवाप्नोति कुर्वतां जागरं हरेः ॥५४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे चतुर्थे द्वारकामाहात्म्ये द्वादशीजागरणमाहात्म्यवर्णनंनाम षड्विंशतितमोऽध्यायः ॥२६॥ N/A References : N/A Last Updated : February 04, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP