संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे द्वारकामाहात्म्यम्| अध्याय १४ प्रभासखण्डे द्वारकामाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ विषयानुक्रमणिका द्वारकामाहात्म्यम् - अध्याय १४ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय १४ Translation - भाषांतर ॥श्रीप्रह्राद उवाच॥संत्यनेकानि तीर्थानि बह्वाश्चर्यकराणि च ॥प्राप्ते कलियुगे घोरे तानि पुप्लुविरेर्णवे ॥१॥उद्देशतो मया विप्राः कीर्त्यमाना निबोधत ॥संक्षेपतो विप्रवरा यथा तेषां च याः क्रियाः ॥२॥संहृत्य च भुवो भारं साधू न्संस्थाप्य सत्पथे ॥द्वारवत्यामगात्कृष्णो वृष्णिसंघैः समावृतः ॥३॥दर्शनार्थं तदा ब्रह्मा दैवतैः परिवारितः ॥वरुणो यमवित्तेशौ सूर्य्याचन्द्रमसौ तथा ॥४॥आगत्य सह कृष्णेन कार्यं संसाध्य चात्मनः ॥वेधाश्चक्रे तदा तीर्थं स्वनाम्ना कीर्तितं भुवि ॥५॥ब्रह्मकुण्डमिति ख्यातं सर्वपापहरं शुभम् ॥तत्तीरे स्थापयामास सहस्रकिरणं प्रभुम् ॥६॥मूलं सुराणां हि किल ब्रह्मा लोकपितामहः ॥तेन संस्थापितं यस्मान्मूल स्थानमिति स्मृतम् ॥७॥ब्रह्मतीर्थं तु तद्दृष्ट्वा चन्द्रश्चक्रे ततः सरः ॥तडागं चन्द्रनाम्ना वै सर्वपापप्रणाशनम् ॥८॥तं दृष्ट्वा तेजसा युक्तं संहृष्टाः सुरसत्तमाः ॥ऊचुस्ते लोकस्रष्टारं शृणुष्व वचनं हि नः ॥९॥योऽत्र स्नानं प्रकुरुते पितॄन्संतर्पयिष्यति ॥पूजयिष्यति देवेशं मूलस्थानं सुरर्षभ ॥१०॥सर्वपापविनिर्मुक्तो धनधान्यसमन्वितः ॥सप्तम्यां माघमासस्य शुक्लपक्षे द्विजर्षभाः ॥योऽत्र स्नानं प्रकुरुते मानवो भक्तिसंयुतः ॥११॥मूलस्थानं च देवेश संस्नाप्य प्रविलेपयेत् ॥पूजयिष्यति वस्त्राद्यैः स्वशक्त्या भूषणैस्तथा ॥१२॥पुष्पधूपादिभिश्चैव नैवेद्येन च मानवः ॥सर्वान्कामानवाप्नोति ब्रह्मलोकं स गच्छति ॥१३॥सावित्रीं च ततो दृष्ट्वा ब्रह्मणा स्थापितां च वै ॥कृत्वा चायतनं दिव्यं स्वां मूर्तिं सन्निवेश्य च ॥नाम चक्रे तदा देव्याः स्वयं तस्याः पितामहः ॥१४॥यः पश्यति स्वयं भक्त्या कृष्णं दृष्ट्वा जगत्पतिम् ॥सावित्रीं स सुखी भूत्वा सर्वान्कामानवाप्नुयात् ॥१५॥आयुरारोग्यमैश्वर्य्यं पुत्रसन्तानमेव च ॥न दौर्भाग्यं भवेत्तस्य न दारिद्यं न मूर्खता ॥न च व्याधिभयं तस्य यः पश्यति विधिं नरः ॥१६॥गत्वा संस्नापयेद्देवीं कुंकुमेन कुसुंभकैः ॥संछाद्य वस्त्रैः संपूज्य पुष्पैर्नानाविधै स्तथा ॥१७॥नैवेद्यफलतांबूलग्रीवासूत्रकदीपकैः ॥संपूज्य परया भक्त्या यात्रां च सफला लभेत् ॥१८॥न वैधव्यं न दौर्भाग्यं न वंध्या न मृतप्रजा ॥विधिर्दृष्टो नरैर्यैस्तु कुले तेषां प्रजायते ॥१९॥तस्मात्सर्वप्रयत्नेन विधिं पश्येत्सुभावतः ॥परितुष्टो भवेत्कृष्णो यात्रा च सफला भवेत् ॥२०॥ ॥प्रह्लाद उवाच॥ब्रह्मणा स्थापितं दृष्ट्वा सरः परमशोभनम् ॥इन्द्रश्चक्रे महाभागः सरः परमशोभनम् ॥२१॥स्थापयामास देवेशो लिंगमप्रतिमौजसम् ॥तस्मिन्स्नात्वा च लभते यस्मादिन्द्रपदं नरः ॥२२॥तस्मादिन्द्रपदं नाम सुप्रसिद्धं धरातले ॥इन्द्रेण स्थापितं लिंगं यस्माद्भावनया सह ॥प्रसिद्धमिंद्रनाम्ना वा इन्द्रेश्वरमिति स्मृतम् ॥२३॥यस्य प्रसिद्धिरतुला वृद्धिलिंगमिति द्विजाः॥यस्य दर्शनमात्रेण मुच्यते सर्वपातकैः ॥२४॥पितॄणामक्षया तृप्तिर्जायते द्विजसत्तमाः ॥अष्टम्यां च चतुर्द्दश्यां स्नात्वा चेन्द्रपदे नरः ॥२५॥इन्द्रेश्वरं च संपूज्य याति मुक्तिपदं नरः ॥विशेषतस्तु संपूज्यो मकरस्थे दिवाकरे ॥२६॥उत्तरायणसंक्रांतौ लिंगपूरणकेन हि ॥शिवरात्रौ विशेषेण संपूज्य उमया सह ॥रात्रौ जागरणं कृत्वा परमं लोकमाप्नुयात् ॥२७॥ ॥प्रह्लाद उवाच॥ब्रह्मतीर्थं च तद्दृष्ट्वा तथा शक्रसरोभवम् ॥दर्शयन्विष्णुना सार्द्धमेकरूपत्वमाप्नुयात् ॥२८॥सरश्चकार देवेशो भगवान्पार्वतीपतिः ॥सुमृष्टनिर्मलजलं नलिनीदलशोभितम् ॥२९॥उत्पलैः सर्वतश्छन्नं सरः सारसशोभितम् ॥तदगाधजलं दृष्ट्वा स्वयमेव पिनाकधृक् ॥सब्रह्मविष्णुना सार्द्धं स्नातस्तत्र वृषध्वजः ॥३०॥ते देवास्तत्सरो दृष्ट्वा ब्रह्मविष्णुसुराऽसुराः ॥ऊचुः सर्वे सुसंहृष्टा वीक्षंतः पार्वतीपतिम् ॥३१॥यस्मात्कृतमिदं देवा ईश्वरेण महत्सरः ॥महादेव सरोनाम सुप्रसिद्धं भविष्यति ॥३२॥योऽत्र स्नानं प्रकुरुते पितॄणां तर्पणं तथा ॥श्राद्धं पितॄणां भक्त्या च स गच्छेत्परमां गतिम् ॥३३॥सुप्रसन्ना भविष्यन्ति सर्वे देवा न संशयः ॥दर्शनात्पापनिर्मुक्तो महादेवसरस्य च ॥३४॥महेशस्य च तद्दृष्ट्वा सरः परमशोभनम् ॥चकार पार्वती तत्र सरश्चाप्रतिमं तथा ॥३५॥गौरीसर इति ख्यातं सर्वपापप्रणाशनम् ॥तत्र स्नात्वा नरो भक्त्या न दुर्गतिमवाप्नुयात् ॥३६॥न दौर्भाग्यं स्त्रियश्चैव न वैधव्यं कदाचन ॥स्नात्वा गौरीतीर्थवरे सर्वान्कामानवाप्नुयात् ॥३७॥वरुणश्च ततो दृष्ट्वा पुण्यान्यायतनानि च ॥चकार च सरो दिव्यं विष्णुभक्तिसमन्वितः ॥३८॥नाम्ना वरुणपदं तच्च पापक्षयकरं भुवि ॥नभस्ये पौर्णमास्यां च संतर्प्य पितृदेवताः ॥३९॥श्राद्धं कृत्वा विधानेन पितॄणां श्रद्धयान्वितः ॥उत्तमं लोकमाप्नोति यत्र गत्वा न शोचति ॥४०॥प्रदद्यादुदकुम्भांश्च दध्योदनसमन्वितान् ॥गाश्च वासांसि रत्नानि विष्णुर्मे प्रीयतामिति ॥४१॥सरो दृष्ट्वा जलेशस्य सरश्चक्रे धनेश्वरः ॥यक्षाधिपसरोनाम सुप्रसिद्धं धरातले ॥४२॥तथा तत्र नरो भक्त्या संपूज्य पितृदेवताः ॥सर्वान्कामानवाप्नोति दद्याद्वस्त्रद्विजातये ॥४३॥ ॥प्रह्लाद उवाच॥विष्णुं वरप्रदं श्रुत्वा भ्रातॄणां ब्रह्मनंदनाः ॥मंदाकिनी वसिष्ठेन समानीता धरातले ॥४४॥अम्बरीषादयः सर्व आजग्मुः कृष्णपालिताम्॥द्वारवत्यां च ते दृष्ट्वा गोमतीं सागरंगमाम् ॥४५॥तीर्थानि देवतानां च पुण्यान्यायतनानि च ॥तीर्थं पंचनदं चक्रुः प्रजानां पतयस्तथा ॥४६॥पंच नद्यः समाहूतास्तत्राऽऽजग्मुः सुरान्विताः ॥मरीचये गोमती च लक्ष्मणा चात्रये तथा ॥४७॥चंद्रभागा चांगिरसे पुलहाय कुशावती ॥पावनार्थं जांबवती जगाम क्रतवे तथा ॥४८॥तासु स्नात्वा महाभागा ब्रह्मपुत्रा यशस्विनः ॥नाम तस्य तदा चक्रुः पंचनद्यश्च तापसाः ॥४९॥तस्मात्पंचनदं तीर्थं सर्वपापप्रणाशनम् ॥स्नातव्यं तत्र मनुजैः स्वर्गमोक्षार्थिभिस्तदा ॥५०॥तत्र गत्वा सुनियतो गृहीत्वार्घ्यं फलेन हि ॥मंत्रेणानेन वै विप्रा दद्यादर्घ्यं विधानतः ॥५१॥ब्रह्मपुत्रैः समानीताः पंचैताः सरितां वराः ॥गृह्णंत्वर्घ्यमिमं देव्यः सर्वपापप्रशांतये ॥५२॥ ॥इत्यर्घ्यमन्त्रः॥स्नानं कृत्वा विधानेन पितॄन्संतर्प्पयेन्नरः ॥श्राद्धं कुर्य्याद्विधानेन श्रद्भया परया युतः ॥५३॥पंचरत्नं ततो देयं सप्तधान्यं द्विजातये ॥दीनांधकृपणानां च दानं दद्यात्स्वशक्तितः ॥५४॥सर्वान्कामानवाप्नोति विष्णुलोकं स गच्छति ॥पुत्रपौत्रसमायुक्तः परं सुखमवाप्नुयात् ॥५५॥प्रेतयोनिं गता ये च ये च कीटत्वमागताः ॥सर्वे ते मुक्तिमायांति पितरस्त्रिकुलोद्भवाः ॥५६॥श्रुत्वाऽध्यायमिमं पुण्यं शिवलोके च मोदते ॥सर्वपाप विनिर्मुक्तः स याति परमं पदम् ॥५७॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे चतुर्थे द्वारकामाहात्म्ये पञ्चनदतीर्थमाहात्म्यवर्णनंनाम चतुर्दशोऽध्यायः ॥१४॥छ ॥ N/A References : N/A Last Updated : February 04, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP