संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे द्वारकामाहात्म्यम्| अध्याय ३४ प्रभासखण्डे द्वारकामाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ विषयानुक्रमणिका द्वारकामाहात्म्यम् - अध्याय ३४ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ३४ Translation - भाषांतर ॥श्रीप्रह्लाद उवाच॥एवमद्भुतमाहात्म्यं द्वारकायां मुनीश्वराः ॥सर्वेषां क्षेत्रतीर्थानां महापापविदारक्म् ॥१॥ वर्णानामश्रमाणां च पतितानां विशेषतः।महापापहरं प्रोक्तं महापुण्यविवर्द्धनं ॥२॥अत्युग्रपापराशीनां दाहस्थानं यथा स्मृतम् ॥द्वारकागमनं विप्राः किं पुनर्द्वारकास्थितिः ॥३॥विशेषेण तु विप्रेन्द्राः कन्याराशिस्थिते गुरौ ॥ब्रह्मादयोपि दृश्यंते यत्र तीर्थैश्च संयुताः ॥४॥प्रतिवर्षं प्रकुर्वंति द्वारकागमनं नराः ॥तेषां पादरजः स्पृष्ट्वा दिवं यांति च पापिनः ॥५॥गोमती नीरपूतानां कृष्णवक्त्रावलोकिनाम् ॥दर्शनात्पातकं तेषां याति जन्मशतार्जितम् ॥६॥इतिहासेन पूर्वोक्तं श्रूयतां मुनिपुङ्गवाः ॥दिलीपवसिष्ठ संवादे परमाश्चर्य्यवर्द्धनम् ॥७॥काश्यां तु वज्रलेपो हि क्षेत्र एकत्र नश्यति ॥यातुर्दर्शनतः श्रुत्वा दिलीपो वाक्यमब्रवीत् ॥८॥ ॥दिलीप उवाच॥वज्रलेपश्च काश्यां तु घोरो यत्र विनश्यति ॥कृत्स्नशोऽथ महापुण्यं प्राप्यं यत्र तदस्ति किम् ॥९॥न प्ररोहंति पापानि यस्मिन्क्षेत्रे द्विजोत्तम ॥तत्क्षेत्रं कथ्यतां पुण्यं यत्र पापं प्रणश्यति ॥२१०॥ ॥वसिष्ठ उवाच॥आसीत्काश्यां पुरा कश्चित्त्रिदण्डी मोक्षधर्मवित् ॥जपन्दशाश्वेमेधे तु गायत्रीं च समाहितः ॥११॥तत्र काचित्समायाता युवती गजगामिनी ॥तीरे संस्थाप्य वासांसि गंगायाः श्रमशान्तये ॥प्रविष्टा च जले नग्ना जलक्रीडां चकार ह ॥१२॥नग्नां तां क्रीडतीं वीक्ष्य यतिर्मदनपूरितः ॥दैवाग्निभ्रंशितो मार्गात्सहसा च विमोहितः ॥१३॥मनसा कामयामास साऽपि तं तरुणं यतिम् ॥तयोश्च संगतिस्तत्र संजाता पापकर्मणोः ॥१४॥तया विमोहितः सद्यस्तामेवानुससार सः ॥तत्प्रीत्यै चार्जयामास धनमन्यायतस्तदा ॥१५॥वाराणस्यां हि न त्यक्तश्चंडालस्य प्रतिग्रहः ॥स्नानहीनः सदा पापी रात्रौ चौर्य्येण वर्त्तते ॥१६॥कस्मिंश्चित्समये पापी मांसार्थी तु वनं गतः ॥ददर्श प्रमदां तत्र मातंगीं मदिरेक्षणाम् ॥१७॥तस्याः प्रथमतारुण्यं दृष्ट्वा गर्वेण पाप्मना ॥वनेऽथ निर्जने तत्र मातंगीसंगमेयिवान् ॥१८॥तया सहान्नपानादि कृतवान्पापमोहितः ॥अश्नाति सुरया पंकं गोमांसं पापलंपटः ॥१९॥तद्गृहे निधनं प्राप्तः पापात्मा सर्वभक्षकः ॥वाराणसीप्रभावेन न प्राप्तो नरकं तदा ॥२०॥किं तु तत्र कृतं पापं वज्रलेपं सुदारुणम् ॥शूद्रीसंपर्क पापेन जातोऽसौ क्रूरयोनिषु ॥२१॥वृको व्याघ्रोरगः श्वानः शृगालः सूकरोऽभवत् ॥दुरंतां यातनां प्राप्तः शमलेशं न विन्दति ॥२२॥एवं जन्मसहस्रैस्तु न तस्य पापकर्मणः ॥मातंग्या संगजं पापं व्यनश्यत युगायुतैः ॥२३ ।ततोऽसौ सप्तमे जातः शशकश्चैव जन्मनि ॥ततोऽसौ राक्षसो जातः पापात्मा सर्वभक्षकः ॥२४॥प्राणिनो भक्षयन्सर्वान्संप्राप्तो विंध्यपर्वते ॥अस्मादनन्तरं भाव्यं कृकलासत्वमद्भुतम् ॥२५॥शूद्रीसंगजपापेन भाव्यं च कृमियोनिना ॥मातंगीसंगमे प्रोक्तं फलं ह्यतिजुगुप्सितम् ॥२६॥युगायुतं सहस्रैस्तु भोक्ष्यमाणं सुदारुणम् ॥अत्याश्चर्य्यमभूत्तत्र दिलीप श्रूयतां महत् ॥२७॥आलोकितं च विंध्याद्रौ सर्वेषां विस्मयास्पदम् ॥दृष्ट्वा द्वारावतीं कश्चित्कृष्णवक्त्रं सुशोभनम् ॥२८॥गोमतीनीरपूतस्तु विंध्यं प्राप्तः स पांथिकः ॥मात्रां कृष्णप्रसादस्य स्कन्धे कृत्वा प्रहर्षितः ॥२९॥प्रयास्यन्स्वगृहं तत्र ददर्श पथि राक्षसम् ॥द्रुतं च क्रूरकर्माणं दृष्ट्वा भक्षितुमागतम् ॥३०॥तस्य दर्शनमात्रेण वज्रलेपः सुदारुणः ॥वाराणसीसमुद्भूतो भस्मसादभवत्क्षणात् ॥३१॥जन्मकोटिशतेनापि यो न शक्यो व्यपोहितुम् ॥तत्पापपर्वतान्मुक्तः कृष्णपांथिकदर्शनात् ॥३२॥दग्धेऽथ क्रूरभावे तु घनमुक्तो यथा शशी ॥रेजे पुण्यप्रकाशेन कृष्णपांथिकदर्शनात् ॥३३॥ततोऽभिमुखमभ्येत्य द्वारकापथिकं मुदा ॥ननाम श्रद्धया भूमौ तद्दर्शनमहोत्सवः ॥३४॥नत्वाऽथ विस्मितः प्राह अहोऽद्य तव दर्शनात् ॥गतो घोरतमो भावः प्राप्ता संसिद्धिरुत्तमा ॥३५॥कस्मात्त्वमागतो भद्र प्रभावः कीदृशस्तव ॥वज्रलेपस्तु काश्यां वै दग्धस्ते दर्शनादनु ॥३६॥ ॥वसिष्ठ उवाच॥इत्येवं राक्षसेनोक्तं श्रुत्वा कृष्णस्य पांथिकः ॥विस्मयं परमापन्नः प्राह तं हर्षमानसः ॥३७॥ ॥पांथिक उवाच॥।श्रीमद्द्वारवतीं दृष्ट्वा ह्यागतोऽस्म्यत्र राक्षस ॥वज्रलेपहरोऽस्माकं प्रभावः कृष्णदर्शनात् ॥३८॥गोमत्यां यः सकृत्स्नात्वा पश्येत्कृष्णमुखांबुजम् ॥।सर्वानुद्धरते पापादपि त्रैलाक्यदाहकात् ॥३९॥ ॥वसिष्ठ उवाच॥इत्युक्तो राक्षसो हृष्टः शुद्धात्मा भक्तिसंयुतः ॥नत्वा प्रदक्षिणं कृत्वा संप्राप्तो द्वारकां तदा ॥४०॥गोमत्यां स तनुं त्यक्त्वा प्राप्तोऽसौ वैष्णवं पदम् ॥स्तूयमानः सुरेशानैर्गधर्वैः पुष्पवृष्टिभिः ॥४१॥इत्थं महाप्रभावो हि द्वारकायाः प्रकीर्त्तितः ॥न प्ररोहंति पापानि यस्याः पांथिकदर्शनात् ॥द्वारकायां तु किं वाच्यं न प्ररोहंति पातकम् ॥४२॥इत्येतत्कथितं राजन्यत्पृष्टोहं त्वयाऽनघ ॥सर्वक्षेत्रोत्तमं क्षेत्रं वज्रलेपविनाशनम् ॥४३॥ ॥श्रीप्रह्लाद उवाच॥वसिष्ठेनोदितं श्रुत्वा दिलीपो हृष्ट मानसः ॥द्वारकां क्षेत्रराजं तं ज्ञात्वा च विस्मयं ययौ ॥४४॥ययौ द्वारवतीं हृष्टो देवदेवस्य सादरम् ॥कृष्णं दृष्ट्वा परां सिद्धिं संप्राप्तो देवमंदिरे ॥४५॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये द्वारकापान्थदर्शन मात्रतः काश्यां कृतस्य पापवज्रलेपस्य विनाशने यतिवृत्तान्तवर्णनपूर्वकं दिलीपकृतद्वारकायात्रावर्णनंनाम चतुस्त्रिंशत्तमोऽध्यायः ॥३४॥॥ N/A References : N/A Last Updated : February 04, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP