संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे द्वारकामाहात्म्यम्| अध्याय २९ प्रभासखण्डे द्वारकामाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ विषयानुक्रमणिका द्वारकामाहात्म्यम् - अध्याय २९ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय २९ Translation - भाषांतर ॥प्रह्लाद उवाच॥अथान्यच्च प्रवक्ष्यामि गुह्याद्गुह्यतरं महत् ॥द्वारकायाः परं पुण्यं माहात्म्यं ह्युत्तमोत्तमम् ॥१॥इतिहासं पुरावृत्तं वर्णयिष्ये मनोहरम् ॥तीर्थक्षेत्रादिदेवानामृषीणां संशयापहम् ॥२॥सौभाम्यमतुलं दृष्ट्वा सिंहराशिगते गुरौ ॥गोदावर्य्यां द्विजश्रेष्ठा नारदो भगवत्प्रियः ॥३॥गौतमस्याऽभितो दृष्ट्वा त्रैलोक्यसंभवानि वै ॥तीर्थानि सरितः सर्वा विस्मयं परमं गतः ॥४॥तत्र काशी कुरुक्षेत्रमयोध्या मथुरापुरी ॥माया कांची ह्यवंती च अरण्यान्याश्रमैः सह ॥५॥हरिक्षेत्रं गया मिश्रक्षेत्रं च पुरुषोत्तमम् ॥प्रभासादीनि पुण्यानि मुक्तिक्षेत्राण्यशेषतः ॥६॥जाह्नवी यमुना रेवा तत्र पुण्या सरस्वती ॥सरयूर्गंडकी तापी पयोष्णी सरितां वरा ॥७॥कृष्णा भीमरथी पुण्या कावेर्य्याद्याः सरिद्वराः ॥स्वर्गे मर्त्ये च पाताले वर्त्तमानाः सतीर्थकाः ॥८॥स्थिता गोदावरीतीरे सिंहराशिं गते गुरौ ॥तथा च पुष्करादीनि सप्तसिंधुसरांसि च ॥९॥मेर्वादिपर्वताः पुण्या दर्शनात्पापनाशनाः ॥तीर्थराज प्रयागश्च सर्वतीर्थसमन्वितः ॥१०॥वेदोपवेदाः शास्त्राणि पुराणानि च सर्वशः ॥सिद्धा मुनिगणाः सर्वे देवर्षिपितृदेवताः ॥११॥चंद्रादित्यौ सुरगणाः सिंहस्थे च बृहस्पतौ ॥स्थिता गोदावरीतीरे वर्षमेकं प्रहर्षिताः ॥१२॥यानि कानि च पुण्यानि तीर्थक्षेत्राणि संति वै ॥त्रैलोक्ये तानि सर्वाणि गौतम्यां वीक्ष्य विस्मिताः ॥१३॥देवर्षिर्नारदस्तत्र मुनिभिर्मुदितोऽवसत् ॥सिंहस्यांते(स्थांते) च सर्वाणि स्वस्थानगमनाय वै ॥१४॥आमन्त्र्य गौतमीं देवीं स्थितानि पुरतस्ततः ॥सर्वेषां शृण्वतां विप्रा गौतमी खिन्नमानसा ॥तप्ता दुर्जनसंसर्गान्नारदं दुःखिताऽब्रवीत् ॥१५॥ ॥गौतम्युवाच॥पश्यैतानि सुतीर्थानि गंगाद्याः सरितोऽमलाः ॥सागरा गिरयः पुण्या गयात्रितयमेव च ॥१६॥क्षेत्राणि मोक्षदान्यंग त्रैलोक्यजानि नारद ॥देवाश्च पितरः सिद्धा ऋषयो मानवादयः ॥१७॥तीर्थ राज प्रयागश्च सर्वतीर्थसमन्वितः ॥एतेषामेव सर्वेषां मत्संसर्गान्महामुने ॥विशुद्धानां प्रकाशेन राजते भुवनत्रयम् ॥१८॥प्रयांति तानि सर्वाणि स्वंस्वं स्थानं प्रति प्रभो ॥अधुनाऽहं परिश्रांता दह्यमाना त्वहर्निशम् ॥१९॥दुर्जनानां सुसंपर्काद्भृशं पापात्मना प्रभो ॥सौभण्यमधुना प्राप्तं सत्संसर्गेण नारद ॥२२०॥प्रयांत्येतानि सर्वाणि स्वस्थानं मुदितानि च ॥२१॥एतानि मत्प्रसादेन पुण्यानि कथितानि च ॥कथय श्रमशांत्यर्थं दुःखि ता किं करोम्यहम् ॥२२॥ ॥प्रह्लाद उवाच॥गोदावर्य्या वचः श्रुत्वा भगवान्नारदो द्विजाः ॥क्षणं ध्यात्वा तु दुःखार्त्तः प्राह संशयमानसः ॥२३॥ ॥नारद उवाच॥अहो अत्यद्भुतं ह्येतद्गौतम्या व्यसनं महत् ॥पश्यन्त्वसंशयं देवास्तीर्थक्षेत्रसरिद्वराः ॥२४॥सत्पुण्यनिचयो यस्यां युष्माकं समभूद्ध्रुवम् ॥तस्याः पापाग्निशमनं कथं स्यादिति चिन्त्यताम् ॥२५॥ ॥श्रीप्रह्लाद उवाच॥तदा चिन्तयतां तेषां सर्वेषां भावितात्मनाम् ॥गौतमो भगवांस्तत्र समायातो मुनीश्वराः ॥२६॥दृष्ट्वा तमृषयो देवा यथोचितमपूजयन् ॥जाह्नवी यमुना पुण्या नर्मदा च सरस्वती ॥२७॥अन्याश्च सर्वाः सरितस्त्रैलोक्यमनुवर्तिताः ॥वाराणसी कुरुक्षेत्र प्रमुखान्याश्रमैः सह ॥युगपत्तानि सर्वाणि संपूज्य मुनिमबुवन् ॥२८॥त्वत्प्रसादेन वै त्राताः सम्यक्छुद्धा महामुने ॥यदानीता त्वया गंगा गौतमी भूतलं प्रति ॥२९॥कृतार्था मानवाः सर्वे सर्वपापविवर्जिताः ॥किंतु दुर्जनसंपर्कात्संतप्ता गौतमी भृशम् ॥२३०॥कथं पापैर्विनिर्मुक्ता परमानन्दसंप्लुता ॥सुप्रभा जायते देवी तद्गौतम विचिन्त्यताम् ॥३१॥ ॥प्रह्लाद उवाच॥एवमुक्तो मुनिस्तैस्तु चिन्ताकुलितमानसः ॥नारदस्य मुखं वीक्ष्य प्रहसन्गौतमोऽब्रवीत् ॥३२॥ ॥गौतम उवाच॥सर्वेषां क्षेत्रतीर्थानां महाशुभविनाशिनी ॥गौतमीयं महाभागा अस्यास्तापः क्व शाम्यति ॥३३॥नास्ति लोकत्रये तीर्थं स्नातुं सिंहगते गुरौ ॥यद्वै नायाति गौतम्यां क्षेत्रं चापि विशुद्धये ॥काशीप्रयागमुख्यानि राजंते यत्प्रसादतः ॥३४॥वदंतु मुनयः सर्वे क्षेत्रतीर्थसमाश्रिताः ॥शुद्धं विचार्यं यत्कार्य्यं मयाऽस्मिञ्जातसंकटे ॥३५॥ ॥प्रह्लाद उवाच॥इत्युक्त्वा मुनयः सर्वे नोचुः किञ्चिद्विमोहिताः ॥तत्रोपायमविज्ञाय गौतमीं गौतमोऽब्रवीत् ॥३६॥ ॥गौतम उवाच॥आनीतासि मया देवि तपसाऽऽराध्य शंकरम्॥वदिष्यति स चोपायमित्युक्त्वाऽचिन्तयत्तदा ॥३७॥गौतमः श्रद्धया भक्त्या गंगामौलिमखंडधीः ॥तदाऽभून्महदाश्चर्यं शृण्वंतु ऋषयोऽमलाः ॥३८॥ध्यायमाने महादेवे गौतमेन महात्मना ॥अकस्मादभवद्वाणी हर्षयन्ती जगत्त्रयम् ॥३९॥नादयन्ती दिशः सर्वा आब्रह्मभुवनं द्विजाः ॥अरूपलक्षणाकारा विषादशमनी शुभा ॥४०॥ ॥दिव्यवाण्युवाच॥अहो बत महाश्चर्य्यं सर्वेषां सुखदे शुभे ॥प्रसंगेऽत्र महाक्षेत्रे मग्ना दुःखार्णवे बुधाः ॥४१॥अहो हे गौतमाचार्य्य ऋषयो नारदादयः ॥शृण्वंतु तीर्थक्षेत्राणि कृपया संवदाम्यहम् ॥४२॥पश्चिमस्य समुद्रस्य तीरमाश्रित्य वर्तते ॥अस्माच्च दिशि वायव्यां द्वारकाक्षेत्रमुत्तमम् ॥४३॥यत्राऽऽस्ते गोमती पुण्या सागरेण समन्विता ॥पश्चिमाभिमुखो यत्र महाविष्णुः सदा स्थितः ॥४४॥अनेकपापराशीनामुग्राणामपि सर्वदा ॥दाहस्थान समाख्यातमिन्धनानां यथाऽनलः ॥४५॥देवविश्वद्रुहो यत्र दग्ध्वा पातकमद्भुतम् ॥लोकत्रयवधाज्जातं विराजतेऽर्कवत्सदा ॥४६॥तद्गम्यतां महाभागा गोमतीमघदाहकाम् ॥गोदावरीं पुरस्कृत्य क्षेत्रतीर्थसमन्विताम् ॥४७॥प्राप्य द्वारवतीं पुण्यां मत्प्रसादाद्द्विजोत्तमाः ॥प्रभावाद्द्वारकायाश्च सत्यमाविर्भविष्यति ॥४८॥ ॥प्रह्लाद उवाच॥इत्युक्ते सति ते सर्वे हर्ष निर्भरमानसाः ॥श्रुत्वा सर्वोत्तमं क्षेत्रं जगर्जुर्हरिनामभिः ॥४९॥जितं भो जितमस्भाभिर्धन्या धन्यतमा वयम् ॥दैवादपगतो मोहो ज्ञातं तीर्थोत्तमोत्तमम् ॥५०॥तदा सर्वाणि तीर्थानि क्षेत्रारण्याश्रमैः सह ॥वाराणसीप्रयागादि सरांसि सिन्धवो नगाः ॥५१॥गया च देवखातानि पितरो देवमानवाः ॥श्रुत्वा प्रमुदिता वाचं प्रोचुर्जयजयेति च ॥५२॥अहो सर्वोत्तमं क्षेत्रं सर्वेषां नोऽघनाशनम् ॥राजानं तीर्थराजानं द्वारकां शिरसा नमः ॥९३॥ ॥श्रीप्रह्लाद उवाच॥श्रुत्वा सर्वोत्तमं क्षेत्रं तीर्थं सर्वोत्तमोत्तमम् ॥देवोत्तमोत्तमं देवं श्रीकृष्णं क्लेशनाशनम् ॥५४॥उत्कण्ठा ह्यभवत्तेषां तीर्थादीनां ह्यनुत्तमा ॥प्रोचुरन्योन्यतो वाचं सर्वाणि युगपत्तदा ॥५५॥ ॥ऋषितीर्थदेवा ऊचुः॥कदा द्रक्ष्यामहे पुण्यां द्वारकां कृष्णपालिताम् ॥श्रीकृष्णदेवमूर्तिं च कृष्णवक्त्रं सुशोभितम् ॥५६॥कदा नु गोमतीस्नानमस्माकं तु भविष्यति ॥चक्रतीर्थे कदा स्नात्वा कृष्णदेवस्य मंदिरम् ॥द्रक्ष्यामः सुमहापुण्यं मुक्तिद्वारमपावृतम् ॥५७॥दुर्ल्लभो द्वारकावासो दुर्ल्लभं कृष्णदर्शनम् ॥दुर्ल्लभं गोमती स्नानं रुक्मिणीदर्शनं द्विजाः ॥५८॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये गौतमीतीरस्थसमस्ततीर्थक्षेत्रादीनां देववाण्या द्वारकाप्रभावं श्रुत्वा द्वारकागमनोत्सुकतापूर्वक गोमतीवर्णनंनामैकोनत्रिंशत्तमोऽध्यायः ॥२९॥ N/A References : N/A Last Updated : February 04, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP