प्रभासक्षेत्र माहात्म्यम् - अध्याय ३५२
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ईश्वर उवाच॥
ततो गच्छेन्महादेवि सुपर्णेलां च भैरवीम् ॥
दुर्गकूटाद्दक्षिणतो धनुःपंचशतांतरे ॥१॥
सुपर्णेन पुरा देवि पातालादमृतं हृतम् ॥
गृहीत्वा तत्र मुक्तं तु नागानां पश्यतां किल ॥२॥
ततो देव्या तदा दृष्ट्वा रक्षितं नागपार्श्वतः ॥
ततः सुपर्णेलेत्येवं ख्याता सा वसुधातले ॥३॥
इला तु कथ्यते भूमिः सुपर्णेन प्रतिष्ठिता ॥
ततः सुपर्णेलेत्येव नाम्ना पातकनाशिनी ॥४॥
सुपर्णकुण्डे तत्रैव स्नात्वा तां पूजयेन्नरः ॥
विप्रेभ्यो भोजनं दद्यान्नापद्भिर्म्रियते नरः ॥
जीववत्सा भवेन्नारी आत्मजैश्चाप्यलंकृता ॥५॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये सुपर्णेलामाहात्म्यवर्णनंनामैकपञ्चाशदुत्तरत्रिशततमोऽध्यायः ॥३५२॥
N/A
References : N/A
Last Updated : January 13, 2025

TOP