संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्| अध्याय २९ प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ अध्याय २८० अध्याय २८१ अध्याय २८२ अध्याय २८३ अध्याय २८४ अध्याय २८५ अध्याय २८६ अध्याय २८७ अध्याय २८८ अध्याय २८९ अध्याय २९० अध्याय २९१ अध्याय २९२ अध्याय २९३ अध्याय २९४ अध्याय २९५ अध्याय २९६ अध्याय २९७ अध्याय २९८ अध्याय २९९ अध्याय ३०० अध्याय ३०१ अध्याय ३०२ अध्याय ३०३ अध्याय ३०४ अध्याय ३०५ अध्याय ३०६ अध्याय ३०७ अध्याय ३०८ अध्याय ३०९ अध्याय ३१० अध्याय ३११ अध्याय ३१२ अध्याय ३१३ अध्याय ३१४ अध्याय ३१५ अध्याय ३१६ अध्याय ३१७ अध्याय ३१८ अध्याय ३१९ अध्याय ३२० अध्याय ३२१ अध्याय ३२२ अध्याय ३२३ अध्याय ३२४ अध्याय ३२५ अध्याय ३२६ अध्याय ३२७ अध्याय ३२८ अध्याय ३२९ अध्याय ३३० अध्याय ३३१ अध्याय ३३२ अध्याय ३३३ अध्याय ३३४ अध्याय ३३५ अध्याय ३३६ अध्याय ३३७ अध्याय ३३८ अध्याय ३३९ अध्याय ३४० अध्याय ३४१ अध्याय ३४२ अध्याय ३४३ अध्याय ३४४ अध्याय ३४५ अध्याय ३४६ अध्याय ३४७ अध्याय ३४८ अध्याय ३४९ अध्याय ३५० अध्याय ३५१ अध्याय ३५२ अध्याय ३५३ अध्याय ३५४ अध्याय ३५५ अध्याय ३५६ अध्याय ३५७ अध्याय ३५८ अध्याय ३५९ अध्याय ३६० अध्याय ३६१ अध्याय ३६२ अध्याय ३६३ अध्याय ३६४ अध्याय ३६५ अध्याय ३६६ विषयानुक्रमणिका प्रभासक्षेत्र माहात्म्यम् - अध्याय २९ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय २९ Translation - भाषांतर ॥ईश्वर उवाच॥अग्नितीर्थं ततो गच्छेत्सागरस्य तटे शुभे ॥यत्राऽसौ वाडवो मुक्तः सरस्वत्या वरानने ॥१॥दक्षिणे सोमनाथस्य सर्वपापप्रणाशनम् ॥तीर्थं त्रैलोक्यविख्यातं पद्मकं नाम नामतः ॥२॥धन्वंतरशते प्रोक्तं सोमेशाज्जलमध्यगम्॥कुण्डं पापहरं प्रोक्तं शतहस्तप्रमाणतः ॥तत्र स्नानं प्रकुर्वीत विगाह्य निधिमंभसाम् ॥३॥आदौ कृत्वा तु वपनं सोमेश्वरसमीपतः ॥शंकरं मनसा ध्यायन्केशांस्तत्र परित्यजेत् ॥समुत्तार्य ततः केशान्भूयः स्नानं समाचरेत् ॥४॥यत्किंचित्कुरुते पापं मनुष्यो वृत्तिकर्शितः ॥तदेव पर्वतसुते सर्वं केशेषु तिष्ठति ॥५॥तस्मात्सर्वप्रयत्नेन केशांस्तत्र विनिक्षिपेत् ॥तदेव सोमनाथाग्रे कृत्वा तु द्विगुणं फलम् ॥६॥अग्नितीर्थसमीपस्थं कपर्द्दिद्वारमध्यगम् ॥तत्रैव द्विगुणं ज्ञेयमन्यत्रैकगुणं स्मृतम् ॥७॥क्षुरकर्म न शस्तं स्याद्योषितां तु वरानने ॥सभर्तृकाणां तत्रैव विधिं तासां शृणुष्व मे ॥८॥सर्वान्केशान्समुद्धृत्य च्छेदयेदंगुलद्वयम् ॥ततो देवान्विधानेन तर्प्पयेत्पितृदेवताः॥९॥मुण्डनं चोपवासश्च सर्वतीर्थेष्वयं विधिः ॥१०॥गंगायां भास्करे क्षेत्रे मातापित्रोर्गुरौ मृते ॥आधाने सोमपाने च वपनं सप्तसु स्मृतम् ॥११॥अश्वमेधसहस्राणां सहस्रं यः समाचरेत् ॥नासौ तत्फलमाप्नोति वपनाद्यच्च लभ्यते ॥१२॥विना मन्त्रेण यस्तत्र देवि स्नानं समाचरेत् ॥समाप्नोति क्वचिच्छ्रेयो मुक्त्वैकं पर्ववासरम् ॥१३॥विना मंत्रं विना पर्व क्षुरकर्म विना नरैः ॥कुशाग्रेणापि देवेशि न स्प्रष्टव्यो महोदधिः ॥ ॥१४॥एवं स्नात्वा विधानेन दत्त्वाऽर्घ्यं च महोदधौ ॥संपूज्य पुष्पगंधैश्च वस्त्रैः पुण्यानुलेपनैः ॥१५॥हिरण्मयं यथाशक्त्या निक्षिपेत्तत्र कंकणम् ॥१६॥एवं कृत्वा विधानं तु स्पर्शयेल्लवणोदधिम् ॥मन्त्रेणानेन देवेशि ततः सांनिध्यतां व्रजेत् ॥१७॥ॐ नमो विष्णुगुप्ताय विष्णुरूपाय ते नमः ॥सांनिध्ये भव देवेश सागरे लवणाम्भसि ॥१८॥अग्निश्च रेतो मृडया च देहो रेतोधा विष्णुरमृतस्य नाभिः ॥एतद्ब्रुवन्पार्वति सत्यवाक्यं ततोऽवगाहेत्तु पतिं नदीनाम् ॥१९॥ॐ नमो रत्नगर्भाय मन्त्रेणानेन भामिनि ॥कंकणं प्रक्षिपेत्तत्र ततः स्नायाद्यदृच्छया ॥२०॥ततश्च तर्पयेद्देवान्मनुष्यांश्च पितामहान्॥तिलमिश्रेण तोयेन सम्यक्छ्रद्धासमन्वितः ॥२१॥आजन्मशतसाहस्रं यत्पापं कुरुते नरः॥सकृत्स्नात्वा व्यपोहेत सागरे लवणाम्भसि ॥२२॥वृषभस्तत्र दातव्यः प्रवृत्ते क्षुरकर्मणि॥आत्मप्रकृतिदानं च पीतवस्त्रं तथैव च ॥२३॥अनेन विधिना तत्र सम्यक्स्नानं समाचरेत् ॥स्पर्शयेद्वाडवं तेजश्चान्यथा दोषभाग्भवेत् ॥२४॥वरः शापश्च तस्यायं पुरा दत्तो यथा द्विजैः ॥। २५॥ ॥देव्युवाच॥कुत्र कुत्र महादेव जलस्नानाद्विशुध्यति ॥किमर्थं सागरे दोषः प्राप्यते कौतुकं महत् ॥२६॥यत्र गंगादयः सर्वा नद्यो विश्रांतिमागताः ॥यत्र विष्णुः स्वयं शेते यत्र लक्ष्मीः स्वयं स्थिता ॥२७॥किमर्थं वरशापं तु तस्य दत्तं द्विजैः पुरा ॥सर्वं विस्तरतो ब्रूहि महान्मे संशयोऽत्र वै ॥२८॥ ॥ईश्वर उवाच॥दीर्घसत्रं पुरा देवि प्रारब्धं सुरसत्तमैः ॥प्रभासं तीर्थमासाद्य सम्यक्छ्रद्धा समन्वितैः ॥२९॥ततः सत्रावसाने तु दत्त्वा दानमनेकधा ॥सर्वस्वं ब्राह्मणेन्द्राणां प्रभासक्षेत्रवासिनाम् ॥३०॥तावदन्ये द्विजास्तत्र दक्षिणार्थं समागताः ॥देशीयास्तत्र वास्तव्याः शतशोऽथ सहस्रशः ॥३१॥प्रार्थनाभङ्गभीताश्च ततो देवाः सवासवाः ॥प्रणष्टास्तान्सुरान्दृष्ट्वा ब्राह्मणाश्चानुवव्रजुः ॥३२॥खेचरत्वं पुरा देवि ह्यासीदग्रभुवां महत् ॥तेन यांति द्रुतं सर्वे यत्र यत्र सुरालयाः ॥३३॥एवं सर्वत्रगामित्वं तेषां वीक्ष्य दिवौकसः ॥प्रविष्टाः सागरं भीता ऊचुर्वाक्यं च तं पुनः ॥३४॥शरणं ते वयं प्राप्ता ब्राह्मणेभ्यो भयं गताः ॥नास्ति वित्तं च दानार्थं तस्माद्रक्ष महोदधे ॥३५॥एकतः क्रतवः सर्वे समाप्तवरदक्षिणाः ॥एकतो भयभीतस्य प्राणिनः प्राणरक्षणम्॥विशेषतश्च देवानां रक्षणं बहुपुण्यदम् ॥३६॥ ॥समुद्र उवाच॥ब्राह्मणेभ्यो न भीः कार्या कथंचित्सुरसत्तमाः ॥अहं वो रक्षयिष्यामि प्रविशध्वं ममोदरे ॥३७॥ततस्ते विबुधाः सर्वे तस्य वाक्येन हर्षिताः ॥प्रविष्टा गह्वरां कुक्षिं तस्यैव भय वर्ज्जिताः ॥३८॥समुद्रोऽपि महत्कृत्वा निजरूपं च भूरिशः ॥जलजाञ्जीवसंघातान्धृत्वा तीरसमीपतः ॥३९॥ततश्चक्र उपायं स ब्राह्मणानां निपातने ॥मत्स्यानामामिषं पक्त्वा महान्नेन च गोपितम् ॥४०॥अथोवाच द्विजान्सर्वान्प्रणिपत्य कृतांजलिः ॥प्रसादः क्रियतां विप्रा मुहूर्त्तं मम सांप्रतम् ॥४१॥आतिथ्यग्रहणादेव दीनस्य प्रणतस्य च ॥युष्मदर्थं मया सम्यगेतत्पाकं समावृतम् ॥क्रियतां भोजनं भूयो गंतव्यमनु नाकिनाम् ॥४२॥अथ ते ब्राह्मणा मत्वा समुद्रं श्रद्धयान्वितम् ॥बाढमित्येव तं प्रोच्य बुभुजुः स्वर्णभाजने ॥४३॥न व्यजानंत तन्मांसं गुप्तं स्वादु क्षुधार्द्दिताः ॥४४॥ततस्तृप्ताश्च ते विप्रा ब्राह्मणा विगतक्षुधः ॥आशीर्वादं ददुः सर्वे ब्राह्मणाः शंसित व्रताः ॥४५॥भोजनांतो ब्राह्मणानां प्राणांतः क्षत्रजन्मनाम् ॥आशीविषाणां सर्पाणां कोपो ज्ञेयो मृतावधिः ॥प्रेरयामास देवान्वै गम्यतामित्युवाच तान् ॥४६॥ततो देवाः सगंधर्वा गच्छंतः शीघ्रगा वियत् ॥गच्छतस्तांस्ततो दृष्ट्वा ब्राह्मणास्तत्र वंदिता ॥४७॥दक्षिणार्थं समुत्पेतुः सुरानुद्दिश्य पृष्ठतः ॥४८॥ततः प्रपतिता भूमौ द्विजास्ते सहसा पुनः ॥अभक्ष्यभक्षणात्ते वै ब्राह्मणा मांसभक्षणात् ॥४९॥निष्कृतिं तां परिज्ञाय समुद्रस्य रुषान्विताः ॥ददुः शापं महादेवि रौद्रं रौद्रवपुर्द्धराः ॥५०॥यस्मादभक्ष्यं मांसं वै ब्राह्मणानां परं स्मृतम् ॥त्वयोपहृतमस्माकं सुगुप्तं भक्ष्यसंयुतम् ॥५१॥एकतः सर्वमांसानि मत्स्यमांसं तथैकतः ॥एकतः सर्वपापानि परदारास्तथैकतः ॥५२॥एवं वयं विजानन्तो यदि मांसस्य दूषणम् ॥तथापि वंचिताः सर्वे अपरीक्षितकारिणः ॥५३॥यस्मात्पापमते क्रूरं त्वया वै वञ्चिता वयम् ॥मांसस्य भक्षणात्तस्मादपेयस्त्वं भविष्यसि ॥५४॥अस्पृश्यस्त्वं द्विजेंद्राणामन्येषां च नृणां भुवि ॥तवोदकेन ये मर्त्त्याः करिष्यंति कुबुद्धयः ॥५५॥स्नानं ते नरकं घोरं प्रयास्यंति न संशयः ॥कृतघ्नानां च ये लोका ये लोकाः पापकर्मिणाम् ॥५६॥तांस्तवोदक संस्पर्शाल्लप्स्यंते मानवा भुवि ॥५७॥ ॥ईश्वर उवाच॥एवं शप्तः समुद्रस्तैर्ब्राह्मणैर्वरवर्णिनि ॥ततो वर्षसहस्रं तु ह्यस्पृश्यः संबभूव ह ॥५८॥ततस्त्रासाकुलो भूत्वा सर्वांस्तानिदमब्रवीत् ॥देवकार्यमिदं विप्रा मया कृतमबुद्धिना ॥५९॥बुभूषता परं धर्मं शरणागतसंभवम् ॥कामात्क्रोधाद्भयाल्लोभाद्यस्त्यजेच्छरणागतम् ॥६०॥सत्याद्वापि स विज्ञेयो महापातककारकः ॥युष्मद्भीत्या समायाताः स्वर्गिणः शरणं मम ॥६१॥ते मया रक्षिताः सम्यग्यथाशक्त्या ह्युपायतः ॥शोषयिष्येऽहमात्मानं यस्माच्छप्तः प्रकोपतः ॥६२॥भवद्भिर्नोत्सहे स्थातुं जनस्पर्शविनाकृतः ॥एवमुक्त्वा ततो देवि समुद्रः सरितांपतिः ॥आत्मानं शोषयामास दुःखेन महता स्थितः ॥६३॥ततो देवगणाः सर्वे स्थलाकारं महार्णवम् ॥शनैःशनैः प्रपश्यंतो भयेन महताऽन्विताः ॥६४॥ऊचुर्गत्वा तु लोकेशं देवदेवं पितामहम् ॥अस्मत्कृते द्विजैः शप्तः सागरो ब्राह्मणोत्तमैः ॥६५॥स शोषयति चात्मानं दुःखेन महतान्वितः ॥समुद्राज्जलमादाय प्रवर्षंति बलाहकाः ॥६६॥ततः संजायते सस्यं सस्याद्यज्ञा भवंति च ॥यज्ञैः संजायते तृप्तिः सर्वेषां त्रिदिवौकसाम् ॥६७॥एवं तस्य विनाशेन नाशोऽस्माकं भविष्यति ॥तस्मात्त्वं रक्ष तं गत्वा यथा शोषं न गच्छति ॥६८॥यथा तुष्यंति विप्रास्ते तथा नीतिर्विधीयताम् ॥६९॥देवानां वचनाद्ब्रह्मा गत्वा सागरसन्निधौ ॥समुद्रार्थे ययाचे तान्ब्राह्मणान्क्षेत्रवासिनः ॥७०॥ ॥ब्रह्मोवाच॥प्रसादः क्रियतामस्य सागरस्य द्विजोत्तमाः ॥यथा पवित्रतां याति मद्वाक्यात्क्रियतां तथा ॥७१॥प्रदास्यति स युष्मभ्यं रत्नानि विविधानि च ॥७२॥यूयं भविष्यथात्यंतं भूमिदेवा इति क्षितौ ॥नाम्ना मद्वचनान्नूनं सत्यमेतन्मयोदितम् ॥७३ । ॥ब्राह्मणा ऊचुः॥नान्यथा कर्तुमिच्छामस्तव वाक्यं जगत्पते ॥न च मिथ्याऽऽत्मनो वाक्यं प्रमाणं चात्र वै भवान् ॥७४॥तन्नो वाक्यात्सुरश्रेष्ठ हितं वा यदि वाहितम् ॥परं स्याज्जगतां श्रेयः सर्वेषां च दिवौकसाम् ॥तथा कुरु जगन्नाथ अस्माकं हितकारणम् ॥७६॥अथोवाच नदीनाथं ब्रह्मा लोकपितामहः॥मा शोषय त्वमात्मानं हितं वाक्यं शृणुष्व मे ॥७६॥नान्यथा शक्यते कर्त्तुं द्विजानां वचनं हि तत् ॥ब्राह्मणाः कुपिता नूनं भस्मीकुर्युः स्वतेजसा ॥७७॥देवान्कुर्युरदेवांश्च तस्मात्तान्नैव कोपयेत् ॥यस्मादेव तव स्पर्शस्त्रिधा मेध्यो भविष्यति ॥७८॥पर्वकाले च संप्राप्ते नदीनां च समागमे ॥सेतुबंधे तथा सिंधौ तीर्थेष्वन्येषु संयुतः ॥७९॥इत्येवमादिसर्वेषु मध्येऽन्यत्र न कर्मणि ॥यत्फलं सर्वतीर्थेषु सर्वयज्ञेषु यत्फलम् ॥तत्फलं तव तोयस्य स्पर्शादेव भविष्यति ॥८०॥गयाश्राद्धे तु यत्पुण्यं गोग्रहे मरणेन च ॥तत्फलं तव तोयस्य स्पर्शादेव भविष्यति ॥८१॥अपेयस्त्वं तथा भावि स्वादमात्रेण केवलम् ॥गंडूषमपि पीतं च तोयस्याशुभनाशनम् ॥८२॥भविष्यति नृणां लोके तव सौख्यविवर्द्धनम् ॥पितॄणां तव तोयेन यः करिष्यति तर्पणम् ॥पूर्वोक्तेन विधानेन तस्य पुण्यफलं शृणु ॥९३॥यावत्त्वं तिष्ठसे लोके यावच्चद्रार्कतारकाः ॥तवोदकामृतैस्तृप्तास्तावत्स्थास्यंति पूर्वजाः ॥८४॥माघे मासि च यः स्नायान्नैरंतर्येण भावितः ॥पौंडरीकफलं तस्य दिवसेदिवसे भवेत् ॥८९॥यात्रायामथवान्यत्र पर्वकाले शशिग्रहे ॥अत्र स्नास्यति यः सम्यक्सागरे लवणांभसि ॥अश्वमेधसहस्रस्य फलं प्राप्स्यति मानवः ॥८६॥श्रीसोमेशसमुद्रस्य अंतरे ये मृता नराः ॥पापिनोऽपि गमिष्यंति स्वर्गं निर्धूतकल्मषाः ॥८७॥एवं भविष्यति सदा तव मद्वचनाद्विभो ॥प्रयच्छस्व द्विजेंद्राणां रत्नानि विविधानि च ॥८८॥तेन तुष्टा वरं भूयः प्रदास्यंति तवेप्सितम् ॥८९॥ ॥ईश्वर उवाच॥पितामहवचः श्रुत्वा बाढमित्येव सागरः ॥ब्राह्मणेभ्यः सुरत्नानि ददौ श्रद्धा समन्वितः ॥९०॥ब्राह्मणैर्ब्रह्मणो वाक्यमशेषं समनुष्ठितम् ॥क्षुरकर्म तथा कृत्वा स्नानं सर्वेऽपि चक्रिरे ॥९१॥एवं पवित्रतां प्राप्तस्तीर्थत्वं लव णोदधिः ॥तस्य मध्ये महादेवि लिंगानां पंचकोटयः ॥९२॥अस्मिन्मन्वंतरे देवि अदृश्याः सागरे कृताः ॥अग्निकुण्डं च तत्रैव तथान्यत्पद्मकं सरः ॥९३॥मध्ये तु प्रावृतं सर्वमस्मिन्मन्वंतरे प्रिये ॥चक्रमैनाकयोर्मध्ये दिशि दक्षिणमुच्यते ॥९४॥शातकुम्भमये कुम्भे धनुषायुतविस्तृते॥तत्र कुंभस्य मध्यस्थो वडवानलसंज्ञितः ॥९५॥सूचीवक्त्रो महाकायः स जलं पिबते सदा ॥एतदंतरमासाद्य अग्नितीर्थं प्रचक्षते ॥९६॥तस्य मध्ये महासारं वाडवं यत्र वै मुखम् ॥श्रीसोमेशाद्दक्षिणतो धन्वंतरशतावधि ॥उत्तरान्मानसात्पूर्वं यावदेव कृतस्मरम् ॥९७॥एतद्गोप्यं वरारोहे न देयं यस्य कस्यचित् ॥ब्रह्मघ्नोपि विशुध्येत श्रुत्वैतन्नात्र संशयः ॥९८॥एवं शापो वरो दत्तः सागरस्य यथा द्विजैः ॥पूर्वं रुष्टैस्ततस्तुष्टैस्तत्सर्वं कथितं मया ॥९९॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये समुदस्यापेयताकारण वर्णनंनामैकोनत्रिंशोऽध्यायः ॥२९॥ N/A References : N/A Last Updated : January 07, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP