प्रभासक्षेत्र माहात्म्यम् - अध्याय १४४
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ईश्वर उवाच॥
ततो गच्छेन्महादेवि तृतीयं पुष्करं महत् ॥
तस्यैव पूर्वदिग्भागे किञ्चिदीशानगोचरे ॥
कनीयः संस्मृतं कुंडं पुष्करंनाम नामतः ॥१॥
यत्र मध्याह्नसमये ब्रह्मणा समुपासिता ॥
सन्ध्या त्रैलोक्यजननी प्रतिष्ठार्थं गतेन च ॥२॥
तत्र यः कुरुते स्नानं पौर्णमास्यां समाहितः ॥
सम्यक्कृतं भवेत्तेन स्नानं तत्रादिपुष्करे ॥३॥
हिरण्यं तत्र दातव्यं सर्वपापापनुत्तये ॥४॥
इति संक्षेपतः प्रोक्तं माहात्म्यं तव पौष्करम् ॥
श्रुतं पापहरं नॄणां सर्वकामप्रदं तथा ॥५॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये पुष्करकुण्डमाहात्म्य वर्णनंनाम चतुश्चत्वारिंशदुत्तरशततमोऽध्यायः ॥१४४॥
N/A
References : N/A
Last Updated : January 10, 2025

TOP