प्रभासक्षेत्र माहात्म्यम् - अध्याय २५१
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ईश्वर उवाच॥
ततो गच्छेन्महादेवि शंकरादित्यमुत्तमम् ॥
गंगेश्वरस्य पूर्वेण शंकरेण प्रतिष्ठितम् ॥१॥
षष्ठ्यां चैव तु शुक्लायामेनं यः पूजयिष्यति ॥
गमिष्यति परं स्थानं यत्र देवो दिवाकरः ॥२॥
रक्तचंदनमिश्रैश्च रक्तपुष्पैः समाहितः ॥
ताम्रपात्रे समाधाय योऽर्घ्यं दास्यति मानवः ॥
स यास्यति परां सिद्धिं न च याति दरिद्रताम् ॥३॥
तस्मात्सर्वप्रयत्नेन तस्मिन्क्षेत्रे वरानने ॥
पूजयेच्छंकरादित्यं सर्वकामफलप्रदम् ॥४॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये शंकरादित्यमाहात्म्यवर्णनंनामैकपञ्चाशदुत्तरद्विशततमोऽध्यायः ॥२५१॥
N/A
References : N/A
Last Updated : January 13, 2025

TOP