संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय ८६

प्रभासक्षेत्र माहात्म्यम् - अध्याय ८६

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
तस्यास्तु दक्षिणे भागे स्थितं लिंगं महाप्रभम् ॥
पांडवेश्वरनामाढ्यं पंचभिः स्थापितं क्रमात् ॥१॥
गुप्तचर्यां यदा याताः पांडवा वनवासिनः ॥
तीर्थयात्राप्रसंगेन प्रभासं क्षेत्रमागताः ॥२॥
तस्मिन्काले महादेवि सं प्राप्ते सोमपर्वणि ॥
स्थापयामासुस्ते सर्वे लिंगं संनिहिता तटे ॥३॥
मार्कण्डप्रमुखान्कृत्वा ऋत्विजो ब्राह्मणोत्तमान् ॥
वेदोक्तैः कारयामासुरभिषेकं वृषान्ददुः ॥४॥
ततः प्रसन्ना ऋषयो मार्कंडप्रमुखाः प्रिये ॥
प्रतिष्ठितस्य लिंगस्य पांडवैर्वरवर्णिनि ॥५॥
 ॥ऋषय ऊचुः॥
ये चैतत्पूजयिष्यंति लिंगं पांडवपूजितम् ॥
ते वै पूज्या भविष्यंति देवदानवरक्षसाम् ॥६॥
अश्वमेधफलं तेषां सम्यक्छ्रद्धार्चनेन वै ॥
भविष्यति न संदेहो ह्यस्मद्वाक्यप्रभावतः ॥७॥
स्नात्वा संनिहिताकुंडे योऽर्चयेत्पांडवेश्वरम् ॥
माघे मासि समग्रे तु स साक्षात्पुरुषोत्तमः ॥८॥
दर्शनेनापि तस्यापि पापं याति सहस्रधा ॥
विष्णुरूपो हि स प्रोक्तो नात्र कार्या विचारणा ॥९॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये संनिहित्यामाहात्म्ये पांडवेश्वरमाहात्म्यवर्णनंनाम षडशीतितमोऽध्यायः ॥८६॥

N/A

References : N/A
Last Updated : January 08, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP