प्रभासक्षेत्र माहात्म्यम् - अध्याय १५४
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ईश्वर उवाच॥
ततो गच्छेन्महादेवि लिंगं पापविमोचनम् ॥
हिरण्येश्वरवायव्ये धनुषां त्रितये स्थितम् ॥१॥
पापघ्नं सर्वजंतूनां दर्शनात्स्पर्शनादपि ॥
आद्यं लिंगं महादेवि गायत्र्या संप्रतिष्ठितम् ॥२॥
तल्लिंगं समनुप्राप्य गायत्रीं जपते तु यः ॥
ब्राह्मणस्तु शुचिर्भूत्वा मुच्यते दुष्प्रतिग्रहात् ॥३॥
ज्येष्ठस्य पूर्णिमायां तु दंपती यस्तु भोजयेत् ॥
परिधाप्य यथाशक्त्या दौर्भाग्यैर्मुच्यते नरः ॥४॥
गंधपुष्पोपहारैश्च पौर्णमास्यां तु योऽर्चयेत् ॥
ब्राह्मण्यं जायते तस्य सप्त जन्मानि सुंदरि ॥५॥
इत्येवं कथितं देवि माहात्म्यं पापनाशनम् ॥
ब्रह्मकुण्डप्रसादेन सारात्सारतरं प्रिये ॥६॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये ब्रह्मकुण्डमाहात्म्ये गायत्रीश्वरमाहात्म्यवर्णनंनाम चतुःपञ्चाशदुत्तरशततमोऽध्यायः ॥१५४॥
N/A
References : N/A
Last Updated : January 11, 2025

TOP