प्रभासक्षेत्र माहात्म्यम् - अध्याय २३९
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ईश्वर उवाच॥
ततो गच्छेन्महादेवि हिरण्यापार्श्वतः स्थितम् ॥
प्रत्युक्तं नागरादित्यं सर्वव्याधिविनाशनम् ॥१॥
पुरा सत्राजिता राज्ञा द्वारवत्यां गतेन तु ॥
आराधितो भास्करोऽभूद्यादवेन महात्मना ॥२॥
महाव्रतमुपास्थाय निघ्नपुत्रेण धीमता ॥
तस्य तुष्टस्तदा भानुः स्यमन्तकमणिं ददौ ॥३॥
स मणिः सवते नित्यं भारानष्टौ दिनेदिने ॥(सवते- सूते)
सुवर्णस्य सुशुद्धस्य भक्त्या व्रततपोयुतः ॥४॥
भूयोऽपि भानुना प्रोक्तो वरं ब्रूहि वरानने ॥
स चाह देवदेवेशं भास्करं वारितस्करम् ॥५॥
यदि तुष्टोऽसि मे देव वरदानं करोषि च ॥
अत्रैव चाश्रमे पुण्ये नित्यं संनिहितो भव ॥६॥
एवं भविष्यतीत्युक्त्वा सूर्यः सत्राजितं नृपम् ॥
अभिनंद्य वरं तस्य तत्रैवादर्शनं गतः ॥७॥
तेनापि निघ्नपुत्रेण देवदेवस्य भास्वतः ॥
स्थापिता प्रतिमा शुभ्रा तत्रैव वरवर्णिनि ॥८॥
शंखदुंदुभिनिर्घोषैर्ब्रह्मघोषैश्चपुष्कलैः ॥
ततस्तुनागरान्सर्वान्समाहूय द्विजोत्तमान् ॥
अब्रवीत्प्रणतो भूत्वा दत्त्वा वृत्तिमनुत्तमाम् ॥९॥
युष्मत्पादप्रसादेन सूर्यस्यानुग्रहेण वै ॥
साधयित्वा तपश्चोग्रं स्थापिता प्रतिमा मया ॥१०॥
इंद्रलोकादिहानीता जित्वा शक्रं सुरारिणा॥
दशाननस्य पुत्रेण लंकायां स्थापिता पुरा ॥११॥
तं निहत्य तु रामेण लक्ष्मणानुगतेन वै॥
अयोध्यायां समानीता सौमित्रिजयलक्षिका ॥१२॥
मित्रावरुणपुत्राय वसिष्ठाय समर्पिता॥
तेनापि मम तुष्टेन द्वारकायां निवेदिता ॥१३॥
मयापि स्थापिता चात्र ज्ञात्वा क्षेत्रमनुत्तमम् ॥
किमत्र बहुनोक्तेन भवद्भिः सर्वथैव हि ॥१४॥
परिपाल्या प्रयत्नेन यावच्चंद्रार्कतारकम्॥
तस्माद्युष्माकमादिष्टा प्रतिमेयं मया शुभा ॥१५॥
नागराणां तु विप्राणां सोमेशपुरवासिनाम् ॥
तस्मान्नाम मया दत्तं नागरादित्यमेव हि ॥१६॥
॥ब्राह्मणा ऊचुः॥
सर्वमेव करिष्यामो देवस्य परिपालनम् ॥
यावन्मही च चंद्रार्कौ यावत्तिष्ठति सागरः ॥
तावत्ते ह्यक्षया कीर्तिः स्थाने चास्मिन्भविष्यति ॥१७॥
एवमुक्त्वा तु ते सर्वे नागरा द्विजपुंगवाः ॥
राजापि तुष्टः प्रययौ तदा द्वारवतीं पुरीम् ॥१८॥
॥ईश्वर उवाच॥
शृणु देवि प्रवक्ष्यामि तस्मिन्दृष्टे तु यत्फलम् ॥
गोशतस्य प्रयागेषु सम्यग्दत्तस्य यत्फलम् ॥
तत्फलं समवाप्नोति नागरार्कस्य दर्शनात् ॥१९॥
दारिद्र्यदुःखशोकार्त्तेः कोन्योस्ति हरणक्षमः॥
प्रभासे पावने क्षेत्रे मुक्त्वा नागरभास्करम् ॥२०॥
बंधकुष्ठादिकं दुःखं ये भजंत्यल्पबुद्धयः ॥
तत्र ते नैव जानंति वैद्यं नागरभास्करम् ॥२१॥
स्नात्वा हिरण्यातोयेन यस्तं पूजयते नरः ॥
कल्पकोटिसहस्राणि सूर्यलोके महीयते ॥२२॥
शुक्लपक्षे तु सप्तम्यां यदा संक्रमते रविः ॥
महाजया तदा ख्याता सप्तमी भास्करप्रिया ॥२३॥
स्नानं दानं जपो होमः पितृदेवाभिपूजनम् ॥
सर्वं कोटिगुणं प्रोक्तं भास्करस्यवचो यथा ॥२४॥
एकं यो भोजयेत्तत्र ब्राह्मणं सूर्यसंनिधौ ॥
कोटिभोज्यं कृतं तेन इत्याह भगवान्हरिः ॥२५॥
एतन्मया ते कथितं पुरा नोक्तं वरानने ॥
यः शृणोति नरो भक्त्या स गच्छेद्भास्करं पदम् ॥२६॥
सूर्यस्य देवि नामानि रहस्यानि शृणुश्व मे॥
अलं नामसहस्रेण पठस्वैनं शुभं स्तवम् ॥२७॥
विकर्त्तनो विवस्वांश्च मार्त्तंडो भास्करो रविः ॥
लोकप्रकाशकः श्रीमाँल्लोकचक्षुर्ग्रहेश्वरः ॥२८॥
लोकसाक्षी त्रिलोकेशः कर्त्ता हर्त्ता तमिस्रहा ॥
तपनस्तापनश्चैव शुचिः सप्ताश्ववाहनः ॥२९॥
गभस्तिहस्तो ब्रह्मा च सर्वदेवनमस्कृतः ॥
एकविंशक इत्येष नागरार्कस्तवः स्मृतः ॥३०॥
स्तवराज इति ख्यातः शरीरारोग्यवृद्धिदः ॥३१॥
य एतेन महादेवि द्वे संध्येऽस्तमनोदये ॥
नागरार्कं तु संस्तौति स लभेद्वांछितं फलम् ॥३२॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये नागरार्कमाहात्म्यवर्णनंनामैकोनचत्वारिंशदुत्तरद्विशततमो ऽध्यायः ॥२३९॥
N/A
References : N/A
Last Updated : January 12, 2025

TOP