संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय १८५

प्रभासक्षेत्र माहात्म्यम् - अध्याय १८५

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
ततो गच्छेन्महादेवि नागस्थानमनुत्तमम् ॥
मंकीशात्पश्चिमे भागे संगमत्रितयं गतम् ॥१॥
पापघ्नं सर्वजंतूनां पातालविवरं महत् ॥२॥
बलभद्रः पुरा देवि श्रुत्वा कृष्णस्य पंचताम् ॥
भल्लतीर्थे तु भल्लेन ततः प्रभासमागतः ॥३॥
क्षेत्रं महाप्रभावं हि ज्ञात्वा सर्वार्थसिद्धिदम् ॥
यादवानां क्षयं कृत्वा ततो वैराग्यमेयिवान् ॥४॥
शेषनागेशरूपेण निष्क्रम्य च शरीरतः ॥
गच्छन्गच्छंस्तदा प्राप्य तीर्थं त्रैसंगमं परम् ॥५॥
पातालस्य तदा दृष्ट्वा द्वारं विवररूपकम् ॥
प्रविष्टोऽथ जगामाशु यत्रानंतः स्वयं स्थितः ॥६॥
यतो नागस्वरूपेण स्थानेऽस्मिंश्च समाविशत् ॥
तत्प्रभृत्येव देवेशि नागस्थानमिति श्रुतम् ॥७॥
नागरादित्यपूर्वेण यत्र कायो विसर्जितः ॥
तदद्यापि प्रसिद्धं वै शेषस्थानमिति श्रुतम् ॥८॥
अतः स्नात्वा महादेवि तत्र तीर्थे त्रिसंगमे ।
नागस्थानं समभ्यर्च्य पञ्चम्यामकृताशनः ॥९॥
श्राद्धं कृत्वा यथाशक्त्या दत्त्वा विप्राय दक्षिणाम् ॥
विमुक्तः सर्वदुःखेभ्यो रुद्रलोकं स गच्छति ॥१०॥
पायसं मधुसंमिश्रं भक्ष्यभोज्यैः समन्वितम् ॥
शेषनागं समुद्दिश्य विप्रं यस्तत्र भोजयेत् ॥
कोटिभोज्यं कृतं तेन जायते नात्र संशयः ॥११॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये नाग स्थानमाहात्म्यवर्णनंनाम षडशीत्युत्तरशततमोऽध्यायः ॥१८६॥

N/A

References : N/A
Last Updated : January 12, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP