प्रभासक्षेत्र माहात्म्यम् - अध्याय १५८
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ईश्वर उवाच॥
ततो गच्छेन्महादेवि अनंगेश्वरमुत्तमम् ॥
रत्नेश्वरादग्रतःस्थं धनुषान्तरमास्थितम् ॥१॥
स्थापितं कामदेवेन तल्लिंगं विष्णुसूनुना ॥
ज्ञात्वा तद्वैष्णवं स्थानं कलौ पातकनाशनम् ॥२॥
तं दृष्ट्वा पूजयित्वा तु कामदेवसमो भवेत् ॥
स्वर्गविद्याधरीणां च जायते चित्तमोहकः ॥३॥
तस्यान्वयेऽपि न भवेत्कुरूपो दुर्भगोऽपि वा ॥४॥
तत्रानंगत्रयोदश्यां व्रतेन वरवर्णिनि ॥
विशेषाराधनं तत्र जन्मसाफल्यकारणम् ॥५॥
शय्यादानं तु दातव्यं तत्र विप्राय शीलिने ॥
विशेषाद्विष्णुभक्ताय सम्यग्यात्राफलं लभेत् ॥६॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये रत्नेश्वरमाहात्म्येऽनंगेश्वरमाहात्म्यवर्णनंनामाष्टपंचाशदुत्तरशततमोऽध्यायः ॥१५८॥
N/A
References : N/A
Last Updated : January 11, 2025

TOP