संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय ९३

प्रभासक्षेत्र माहात्म्यम् - अध्याय ९३

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
ततो गच्छेद्वरारोहे महाकालेश्वरं हरम् ॥
अघोरेशादुत्तरतः किंचिद्वायव्यसंस्थितम् ॥१॥
धनुषां त्रिंशता देवि श्रुतं पातकनाशनम् ॥
पूर्वं कृतयुगे देवि स्मृतं चित्रांगदेश्वरम् ॥२॥
महाकालेश्वरं देवि कलौ नाम प्रकीर्तितम् ॥
कालरूपी महारुद्रस्तस्मिँल्लिंगे व्यवस्थितः ॥३॥
चराचरगुरुः साक्षाद्देवदानवदर्पहा ॥
सूर्यरूपेण यत्सर्वं ब्रह्मांडे ग्रसते प्रिये ॥४॥
स देवः संस्थितो देवि तस्मिँल्लिंगे महाप्रभः ॥
यस्तत्पूजयते भक्त्या कल्ये लिंगं मम प्रियम् ॥
षडक्षरेण मंत्रेण मृत्युं जयति तत्क्षणात् ॥५॥
कृष्णाष्टम्यां विशेषेण गुग्गुलं घृतसंयुतम् ॥
यो दहेद्विधिवत्तत्र पूजां कृत्वा निशागमे ॥६॥
अपराधसहस्रं तु क्षमते तस्य भैरवः ॥
धेनुदानं प्रशंसंति तस्मिन्स्थाने महर्षयः ॥७॥
धेनुदस्तारयेन्नूनं दश पूर्वान्दशापरान् ॥
देवस्य दक्षिणे भागे यो जपेच्छतरुद्रियम् ॥८॥
उद्धरेत्पितृवर्गं च मातृवर्गं च मानवः ॥
बाल्ये वयसि यत्पापं वार्द्धके यौवनेऽपि वा ॥
क्षालयेच्चैव तत्सर्वं दृष्ट्वा कालेश्वरं हरम् ॥९॥
अयने चोत्तरे प्राप्ते यः कुर्याद्घृतकंबलम् ॥
न स भूयोऽत्र संसारे जन्म प्राप्नोति दारुणम् ॥१०॥
न दुःखितो दरिद्रो वा दुर्भगो वा प्रजायते ॥
सप्तजन्मान्तराण्येव महाकालेशदर्शनात् ॥११॥
धनधान्यसमायुक्ते स्फीते सञ्जायते कुले ॥
भक्तिर्भवति भूयोऽपि महाकालेश्वरार्चने ॥१२॥
इति संक्षेपतः प्रोक्तं महाकालेश्वरं प्रिये ॥
चित्रांगदो गणो देवि तेन चाराधितं पुरा ॥१३॥
दिव्याब्दानां सहस्रं तु महा कालेश्वरं हि तत् ॥
चित्रांगदेश्वरं नाम तेन ख्यातं धरातले ॥१४॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खंडे प्रथमे प्रभासक्षेत्रमाहात्म्य एकादशरुद्रमाहात्म्ये महाकालेश्वरमाहात्म्यवर्णनंनाम त्रिणवतितमोऽध्यायः ॥९३॥॥

N/A

References : N/A
Last Updated : January 08, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP