संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्| अध्याय २४ प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ अध्याय २८० अध्याय २८१ अध्याय २८२ अध्याय २८३ अध्याय २८४ अध्याय २८५ अध्याय २८६ अध्याय २८७ अध्याय २८८ अध्याय २८९ अध्याय २९० अध्याय २९१ अध्याय २९२ अध्याय २९३ अध्याय २९४ अध्याय २९५ अध्याय २९६ अध्याय २९७ अध्याय २९८ अध्याय २९९ अध्याय ३०० अध्याय ३०१ अध्याय ३०२ अध्याय ३०३ अध्याय ३०४ अध्याय ३०५ अध्याय ३०६ अध्याय ३०७ अध्याय ३०८ अध्याय ३०९ अध्याय ३१० अध्याय ३११ अध्याय ३१२ अध्याय ३१३ अध्याय ३१४ अध्याय ३१५ अध्याय ३१६ अध्याय ३१७ अध्याय ३१८ अध्याय ३१९ अध्याय ३२० अध्याय ३२१ अध्याय ३२२ अध्याय ३२३ अध्याय ३२४ अध्याय ३२५ अध्याय ३२६ अध्याय ३२७ अध्याय ३२८ अध्याय ३२९ अध्याय ३३० अध्याय ३३१ अध्याय ३३२ अध्याय ३३३ अध्याय ३३४ अध्याय ३३५ अध्याय ३३६ अध्याय ३३७ अध्याय ३३८ अध्याय ३३९ अध्याय ३४० अध्याय ३४१ अध्याय ३४२ अध्याय ३४३ अध्याय ३४४ अध्याय ३४५ अध्याय ३४६ अध्याय ३४७ अध्याय ३४८ अध्याय ३४९ अध्याय ३५० अध्याय ३५१ अध्याय ३५२ अध्याय ३५३ अध्याय ३५४ अध्याय ३५५ अध्याय ३५६ अध्याय ३५७ अध्याय ३५८ अध्याय ३५९ अध्याय ३६० अध्याय ३६१ अध्याय ३६२ अध्याय ३६३ अध्याय ३६४ अध्याय ३६५ अध्याय ३६६ विषयानुक्रमणिका प्रभासक्षेत्र माहात्म्यम् - अध्याय २४ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय २४ Translation - भाषांतर ॥देव्युवाच॥कस्मिन्काले जगन्नाथ तत्र लिंगं प्रतिष्ठितम् ॥कथमाराधनं चक्रे कृतार्थो रोहिणीपतिः ॥१॥ ॥ईश्वर उवाच॥त्रेतायुगे च दशमे मनोर्वैवस्वतस्य हि ॥संजातो रोहिणीनाथो युक्तो दुर्वाससा प्रिये ॥२॥तस्मिन्काले तदा तत्र गते वर्षसहस्रके ॥ततः कृत्वा तपश्चायं प्रत्यक्षीकृतशंकरः ॥३॥लिंगं प्रतिष्ठयामास ब्रह्मणा लोककर्तॄणा ॥पुनर्वर्षसहस्रं तु पूजयामास शंकरम् ॥४॥ततः संपूज्य विधिना निजकार्यार्थसिद्धये ॥स्तुतिं चक्रे निशानाथः प्रत्यक्षीकृतशंकरः ॥५॥ ॥चंद्र उवाच ॥नास्ति शर्वसमो देवो नास्ति शर्वसमा गतिः ॥[१]नास्ति शर्वसमो देवो नास्ति शर्वसमा गतिः ॥६॥यं पठंति सदा सांख्याश्चितयंति च योगिनः ॥परं प्रधानं पुरुषं तस्मै [२]ज्ञेयात्मने नमः ॥७॥उत्पत्तौ च विनाशे च कारणं यं विदुर्बुधाः ॥देवासुरमनुष्याणां तस्मै [३]ज्ञानात्मने नमः ॥८॥यमव्ययमनाद्यंतं यं नित्यं शाश्वतं ध्रुवम् ॥निष्कलं परमं [४]ब्रह्म तस्मै योगात्मने नमः ॥९॥यः पवित्रं पवित्राणामादिदेवो महेश्वरः ॥पुनाति दर्शनादेव तस्मै तीर्थात्मने नमः ॥१०॥यतः प्रवर्त्तते सर्वं यस्मिन्सर्वं विलीयते ॥पालयेद्यो जगत्सर्वं तस्मै सर्वात्मने नमः ॥११॥अनिष्टोमादिभिर्यज्ञैर्यं यजंति द्विजातयः ॥संपूर्णदक्षिणैरेव तस्मै यज्ञात्मने नमः ॥१२॥ ॥ईश्वर उवाच॥एवं स संस्तुते यावद्दिवारात्रौ निशाकरः ॥अब्रवीद्भगवान्प्रीतः प्रहसन्निव शंकरः ॥१३॥ ॥शंकर उवाच॥परितुष्टोऽस्मि ते वत्स स्तोत्रेणानेन शीतगो ॥वरं वरय भद्रं ते भूयो यत्ते मनोगतम् ॥१४॥ ॥चंद्र उवाच॥यदि देयो वरोऽस्माकं यदि तुष्टोऽसि मे प्रभो ॥सांनिध्यं कुरु देवेश लिंगेऽस्मिन्सर्वदा विभो ॥१५॥ये त्वां पश्यंति चात्रस्थं भक्त्या परमया युताः ॥तेषां तु परमा सिद्धिस्त्वत्[५]प्रसादात्सुरेश्वर ॥ ॥१६॥ ॥शंभुरुवाच॥अग्रे तु मम सांनिध्यमस्मिँल्लिंगे महाप्रभो ॥विशेषतोऽधुना चंद्र तव भक्त्या निरंतरम् ॥१७॥स्थातव्यमद्यप्रभृति क्षेत्रेऽस्मिन्नुमया सह ॥यस्मात्त्वया प्रभा लब्धा क्षेत्रेऽस्मिन्मत्प्रसादतः ॥तस्मात्प्रभासमित्येवं नामास्य प्रभविष्यति ॥१८॥यस्मात्प्रतिष्ठितं लिंगं त्वया सोम शुभं मम ॥सोमनाथेति मे नाम तस्मात्ख्यातिं[६] गमिष्यति ॥१९॥यन्ममाग्रेतनं नामख्यातं ब्रह्मावसानिकम्॥सोमनाथेति च पुनस्तदेव प्रचरिष्यति॥द्रक्ष्यंति हि नरा ये मामत्रस्थं भक्तितत्पराः ॥२०॥शृणु तेषां फलं वत्स भवि[७]ष्यति निशाकर ॥न तेषां जायते व्याधिर्न दारिद्र्यं न दुर्गतिः ॥न चेष्टेन वियोगश्च मम चंद्र प्रभावतः ॥२१॥यात्रां कुर्वंति ये भक्त्या मम दर्शनकांक्षिणः ॥पदे पदेश्वमेधस्य तेषां फलमुदाहृतम् ॥२२॥किं कृतैर्बहुभिर्यज्ञैरुपवासैर्निशाकर ॥सकृत्पश्यंति मां येऽत्र ते सर्वे लेभिरे[८] फलम् ॥। २३॥एकमासोपवासं तु कुरुते भक्तितत्परः ॥यावद्वर्षसहस्रं तु एकः पश्यंति मामिह ॥२४॥[९]द्वाभ्यामपि फलं तुल्यं नास्ति काचिद्विचारणा ॥२५॥एको भवेद्ब्रह्मचारी यावज्जीवं निशाकर ॥सकृत्पश्यति मामत्र समं [१०]ताभ्यां फलं स्मृतम् ॥२६॥एको दानानि सर्वाणि प्रयच्छति द्विजातये ॥एकः पश्यति मामत्र समं ताभ्यां फलं स्मृतम् ॥२७॥एको व्रतानि सर्वाणि कुरुते मृगलांछन ॥अन्यः पश्यति मामत्र समं ताभ्यां फलं स्मृतम् ॥२८॥एकस्तीर्थानि कुरुते जपजाप्यानि भूरिशः ॥अन्यः पश्यति मामत्र फलं ताभ्यां समं स्मृतम् ॥२९॥एको ज्ञानादियोगेन मुमुक्षुर्जायते ध्रुवम्॥अन्यः पश्यति मामत्र फलं ताभ्यां समं स्मृतम्॥३॥।एकस्तु भृगुपातेन याति मृत्युं निशाकर॥अन्यः पश्यति मामत्र समं ताभ्यां फलं स्मृतम् ॥३१॥एकः स्नाति सदा माघं प्रयागे नरसत्तमः ॥अन्यः पश्यति मामत्र फलं ताभ्यां समं स्मृतम् ३२॥एकः पिण्डप्रदानं च पितृतीर्थे समाचरेत् ॥अन्यः पश्यति मामत्र फलं ताभ्यां समं स्मृतम् ॥३३॥गोसहस्रप्रदो ह्येको ब्राह्मणे वेदपारगे॥एकः पश्यति मामत्र फलं ताभ्यां समं स्मृतम् ॥३४॥पञ्चाग्निं साधयेदेको ग्रीष्मकाले सुदारुणे ॥एकः पश्यति मामत्र फलं ताभ्यां समं स्मृतम् ॥३५॥स्नातः सोमग्रहे चन्द्र सोमवारे च भक्तितः ॥यो मां पश्यति सर्वेषामेतेषां लभते फलम् ॥३६॥सरस्वती समुद्रश्च सोमः सोमग्रहस्तथा ॥दर्शनं सोमनाथस्य सकाराः पञ्च दुर्ल्लभाः ॥३७॥नैरंतर्येण षण्मासान्विधिना यः प्रपूजयेत् ॥पुण्यं तदेव सफलं लभते विषुवार्चनात् ॥३८॥एतदेव तु विज्ञेयं ग्रहणे चोत्तरायणे ॥संक्रांतिदिनच्छिद्रेषु [११]षडशीतिमुखेषु च ॥३९॥मासैश्चतुर्भिर्यत्पुण्यं विधिनाऽऽपूज्य शंकरम् ॥कार्त्तिक्यां स लभेत्पुण्यं चैत्र्यां तद्द्विगुणं स्मृतम् ॥पुण्यमेतत्तु फाल्गुन्यामाषाढ्यामेवमेव तु ॥४०॥एको दद्याद्गवां लक्षं दोग्ध्रीणां वेदपारगे ॥एको ममार्चयेल्लिंगं तस्य पुण्यं ततोऽधिकम् ॥४१॥मासेमासे च योऽश्नीयाद्यावज्जीवं सुरेश्वरि ॥यश्चार्च्चयेत्सकृल्लिंगं सममेतन्न संशयः ॥४२॥तपःशीलगुणोपेते पात्रे वेदस्य पारगे ॥सुवर्णकोटिं यद्दत्त्वा तत्फलं कुसुमेन तु ॥४३॥अर्कपुष्पेऽपि चैकस्मिञ्छिवाय विनिवेदिते ॥दश दत्त्वा सुवर्णानि यत्फलं तदवाप्नुयात् ॥४४॥अर्कपुष्पसहस्रेभ्यः करवीरं विशिष्यते ॥करवीर सहस्रेभ्यो द्रोणपुष्पं विशिष्यते ॥४५॥द्रोणपुष्पसहस्रेभ्यो ह्यपामार्गं विशिष्यते ॥अपामार्गसहस्रेभ्यः कुशपुष्पं विशिष्यते ॥कुशपुष्प सहस्रेभ्यः शमीपुष्पं विशिष्यते ॥४६॥शमीपुष्पं बृहत्याश्च कुसुमं तुल्यमुच्यते ॥करवीरसमा ज्ञेया जातीविजयपाटलाः ॥४७॥श्वेतमंदार कुसुमं [१२]सितंपद्मसमं भवेत् ॥नागचंपकपुन्नागधत्तूरकुसुमं स्मृतम् ॥४८॥केतकीजातिमुक्तं च कन्दयूथीमदन्तिकाः ॥शिरीषसर्जजंबूककुसुमानि विवर्ज्जयेत् ॥४९॥आकुलीकुसुमं पत्रं करंजेन्द्रसमुद्भवम् ॥बिभीतकानि पुष्पाणि कुसुमानि विवर्ज्जयेत् ॥५०॥कनकानि कदंबानि रात्रौ देयानि शंकरे ॥देवशेषाणि पुष्पाणि दिवा रात्रौ च मल्लिका ॥५१॥प्रहरं तिष्ठते मल्ली करवीरमहर्निशम् ॥कीटकेशापविद्धानि रात्रौ पर्युषितानि च ॥५२॥स्वयं पतितपुष्पाणि त्यजेदुपहतानि च ॥तुलसी शतपत्रं च गन्धारी दमनस्तथा ॥५३॥सर्वासां पत्रजातीनां श्रेष्ठो मरुबकः स्मृतः ॥एतैः पुष्पविशेषैस्तु पूज्यः सोमेश्वरः सदा ॥५४॥यात्रायाः फलमाप्नोति स्वर्गलोके महीयते॥एतावदुक्त्वा वचनं तत्रैवान्तरधीयत ॥५५॥चन्द्रमा यक्ष्मणा मुक्तः स्वस्थाननिरतोऽभवत् ॥आहूय विश्वकर्माणं प्रासादं पर्यकल्पयत् ॥शुद्धस्फटिकसंकाशं गोक्षीरधवलोज्ज्वलम् ॥५६॥प्रासादं मेरुनामानं हेमप्राकारतोरणम् ॥चतुर्दशान्ये परितः प्रासादाः परिकल्पिताः ॥तेषां नामानि वक्ष्यामि प्रत्येकं तानि मे शृणु ॥५७॥केसरी सर्वतोभद्रो नदनो [१३]नन्दिशालकः ॥नन्दीशो मन्दरश्चैव श्रीवृक्षो ह्यमृतोद्भवः ॥५८॥हिमवान्हेमकूटश्च कैलासः पृथिवीजयः ॥इन्द्रनीलो महानीलो भूधरो रत्नकूटकः ॥५९॥वैडूर्यः पद्मरागश्च वज्रको मुकुटोज्ज्वलः ॥ऐरावतो राजहंसो गरुडो वृषभस्तथा ॥६०॥मेरुः प्रासादराजा च देवानामालयो हि सः ॥आदौ पञ्चाण्डको ज्ञेयः केसरीनामतः स्थितः ॥६१॥[१४]चतुर्थांशा च तद्वृद्धिर्यावन्मेरुः प्रकीर्तितः ॥६२॥एवं पृथक्कारयित्वा प्रासादांश्च चतुर्दश ॥ब्रह्मादीनां देवतानां समीपस्थानवासिनाम् ॥६३॥दश चान्यान्भूधरादीन्वृषभान्तान्वरानने ॥आदौ कपर्द्दिनं कृत्वा प्रासादान्पर्यकल्पयत् ॥६४॥मेरुः प्रासादराजो वै स तु सोमेश्वरे कृतः ॥त्रेतायुगे तु दशमे मनोवैर्वस्वतस्य च ॥६५॥कारयित्वा मंडपांश्च प्रतिष्ठाप्य यथाविधि ॥नदानां तु शतं कृत्वा वापीकूप सहस्रकम् ॥६६॥गृहाणां तु सहस्राणि दीनानाथाश्रयाणि च ॥कारयित्वा विधानेन विप्रेभ्यः प्रददौ पृथक् ॥६७॥निवेश्य नगरं सोमः श्रीसोमेश्वरसन्निधौ ॥स्वकर्मणां प्रचारार्थमथाभ्यर्थयत द्विजान् ॥६८॥सोमोऽस्मि भवतां राजा प्रसादात्परमेष्ठिनः ॥तथापि विनयेनैव भक्त्या[१५] विज्ञापयामि वः ॥६९॥धनं हिरण्यरत्नादि धान्यं व्रीहियवादिकम् ॥गोमहिष्यादिपशवो वस्त्राणि विविधानि च ॥७०॥कदलीनालिकेराणि तांबूलीपूगमालिनः ॥मनोऽभिरामचरमा[१६] आरामाः परितः स्थिताः ॥७१॥जंबूद्वीपाधिपाः सर्वे भवतामत्रवासि नाम्॥आदेशं च करिष्यंति शिरस्याधाय शोभनम्[१७] ॥७२॥द्वीपांतरादागतैश्च कर्पूरागुरुचंदनैः ॥अन्यैश्च विविधैर्द्रव्यैः संपूर्णा भवतां गृहाः ॥७३॥पण्यानां शतसंख्यानां व्यवहारनिदर्शिनः ॥[१८]ब्रह्मोत्तराणि तन्वंति वणिजो लाभकांक्षिणः ॥७४॥भवत्सु भृत्यभावेन वर्त्तमाना हितैषिणः ॥ते चान्ये च तथा पौरा नावसीदंति कर्हिचित् ॥७५॥एवं संपूर्णविभवैर्भवद्भिः श्रेयसे मम ॥क्रतुक्रिया वितन्यंतां विधिवद्भूरिदक्षिणाः ॥७६॥[१९]ब्रह्मादीनि च सर्वाणि प्रवर्तंतामहर्निशम् ॥दीनांधकृपणादीनां क्रियतामार्तिनाशनम् ॥७७॥अभ्यागतानामौचित्यादातिथ्यं च विधीयताम्॥तीर्थयात्राप्रसंगेन समेतानां महात्मनाम् ॥७८॥ब्रह्मर्षीणामाश्रमेषु दीयतामाश्रयाः सदा ॥मयात्र स्थापितं लिंगं सर्वकालं दृढव्रताः ॥७९॥पवित्रैरुपचारैश्च पूजयंतु द्विजोत्तमाः ॥अष्टौ प्रमाणपुरुषाः पौराणां कार्यदर्शिनः ॥८०॥व्यवहारानवेक्षध्वं स्मृत्याचारविशारदाः ॥व्यवस्थां मत्कृतामेतां भवंतोऽत्र द्विजोत्तमाः ॥८१॥धारयंतु महात्मानो दिग्गजा इव मेदिनीम् ॥एवं प्रभुत्वमास्थाय स्थानेऽस्मिञ्छिवशालिनि ॥८२॥श्रुतिस्मृतिपुराणोक्तान्धर्मानाचरत द्विजाः ॥निशम्य सोमस्य वचो विनीतमिति ते द्विजाः ॥८३॥उवाच कौशिकस्तेषु गोत्राणां प्रथमो द्विजः ॥साधूपदिष्टमस्माकं द्विजराजेन सर्वथा ॥८४॥सर्वमेतत्करिष्यामः किंतु किंचिन्निशामय ॥नियोगतः पूजयतां शिवनिर्माल्यसेविनाम् ॥८५॥पातित्यं जायतेऽस्माकं श्रुतिस्मृतिविगर्हितम् ॥श्रुतिस्मृती हि रुद्रस्य यस्मादाज्ञाद्वयं महत् ॥८६॥कस्तदुल्लंघयेन्मूढः प्राणैः कंठग तैरपि ॥८७॥[२०]अष्टमूर्तेः पुनर्मूर्त्तावग्नौ देवमुखे मखान् ॥कुर्वाणाः श्रुतिमार्गेण प्रीणयामोऽखिलं जगत् ॥८८॥जगद्भगवतो रूपं व्यक्तमेत त्पुरद्विषः ॥मिथो विभिन्नमित्येतदभिन्नं पुनरीश्वरात् ॥८९॥अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते ॥आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥९०॥श्रुतिस्मृतिपुराणादिसदभ्यासप्रसंगिनाम् ॥तत्तदर्थेषु पुण्यार्थं प्रवृत्ताखिलकर्मणाम् ॥९१॥अस्माकमवकाशोऽपि विरलो लिंग पूजने ॥रुद्रजाप्यैर्महायज्ञैर्यजानाश्चैवमीश्वरम् ॥९२॥यथाक्षणं यथाकालं लिंगं वेदमुपास्महे ॥यत्तु तेऽभिमतं सोम श्रीसोमेश्वरपूजनम् ॥तच्च संपादयिष्यामः सविशेषं महामते ॥९३॥येन त्वदीप्सितं सिध्येत्तमुपायं निशामय ॥गौरीशंकरसंवादं श्रुत्वा भगवतो मुखात् ॥९४॥नारदः प्राह नः पूर्वं कथयामस्तमेव ते ॥ब्रह्मदेवद्विषः पूर्वं शतशो दैत्यदानवाः ॥तपोभिरुग्रैर्विविधैः शंकरं प्रतिपेदिरे ॥९५॥तेषामत्युग्रतपसामनन्यासक्तचेतसाम् ॥प्रसादमीश्वरश्चक्रे कारुण्यामृतसागरः ॥९६॥स हि त्रिभुवनस्वामी देवदेवो महेश्वरः ॥अपेक्षते वरं दातुं भक्तिमेवानपायिनीम् ॥९७॥ददौ स भुवनैश्वर्य्यप्रायानभिमतान्वरान् ॥तेषां भक्त्यैव संतुष्टो देवब्रह्मद्विषामपि ॥९८॥ब्रह्मणा विष्णुना चापि यस्यांतो नाधिगम्यते ॥तस्यातर्क्यप्रभावस्य को नु वेदाशयं प्रभोः ॥९९॥दुर्वृत्तेभ्योऽपि दैत्येभ्यस्तपोभिर्वरदायिनम् ॥पप्रच्छ स्वच्छ्हृदया पार्वती परमेश्वरम् ॥१००॥ ॥पार्वत्युवाच॥भगवन्प्रसादं ते प्राप्य धृष्यंतो भुवनत्रयम् ॥उपद्रवंतींद्रमुखान्देवान्संक्षोभयंति[२१] च ॥१०१॥वरं ददासि किं तेषां तादृशानां दुरात्मनाम् ॥जगतः स्वस्तये येषां न मनागपि चेष्टितम् ॥१०२॥त्वया दत्तवरानेतान्दिव्यान्भोगोपभोगिनः ॥अवधीर्य तवैश्वर्यं कथं विष्णुर्निहंति च ॥१०३॥हतानां च पुनस्तेषां का गतिः स्याद्वद प्रभो ॥१०४॥ ॥ईश्वर उवाच॥सात्त्विका राजसाश्चैव तामसाश्चेति वै त्रिधा ॥भवंति लोकास्तेष्वेते तमःप्राया दुरासदाः ॥१०५॥सुरैः सह स्पर्धमानास्तपोभिरपि तामसैः ॥मां भजंते मुहुर्मोहाज्जगदुत्सादनोद्यताः ॥१०६॥वरं ददामि यत्तेषां भक्तिस्तत्र तु कारणम् ॥अहं हि भक्त्या सुग्राह्यो नात्र कार्या विचारणा ॥१०७॥तपोनुरूपानासाद्य वरांस्ते पापकारिणः ॥विष्णुना यन्निहन्यते तच्च देवि निबोध मे ॥१०८॥अहं हरिश्च यद्भिन्नौ गुणभागोऽत्र कारणम् ॥परमार्थादभिन्नौ च रहस्यं परमं ह्यदः ॥१०९॥आराध्याराधकादिश्च भेदः सामान्य एव नौ॥तथा ह्यहमिमां गंगां विष्णोः पादाग्रनिःसृताम् ॥११॥।वहामि शिरसा भक्त्या त्वदीक्षाशंकितोऽपि सन् ॥अपि विष्णुस्त्रिभुवनं परित्रातुं व्यवस्थया ॥१११॥मामुपास्य चिरं लेभे चक्रं दुष्टनिबर्हणम्॥त्वां च तस्य महामायामप्रमेयात्मनो हरेः ॥११२॥आराधयामि तद्भक्त्या त्रिजगजन्मकारणम् ॥शिरस्याधाय चान्यां मे शक्तिरूपां तथा हरिः ॥११३॥अजोऽपि जन्मान्यासाद्य लोकरक्षां करोति वै ॥हंतुं हिरण्यकशिपुं नरसिंहवपुश्च सः ॥११४॥जगज्जिघांसुः शमितो मया शरभ रूपिणा ॥मां च बाणपरित्राणे त्रिशूलोद्यमकारिणम् ॥११५॥मानुष्येऽप्यवतारेऽसौ स्तंभयित्वा स लीलया ॥प्रभावं महिमानं च वर्द्धयन्मामकं हरिः ॥[२२]वरिवस्यति मां नित्यमंतरात्मापि मे विभुः ॥११६॥अथाहं परमात्मानमेनमाद्यंतवर्जितम् ॥ध्यानयोगैः समाधौ च भावयामि निरंतरम् ॥११७॥तदेवं नावयोर्भेदो विद्यते पारमार्थिकः ॥भेदं च तारतम्यं च मूढा एव वितन्वते ॥११९॥वैष्णवं रूपमास्थाय दुर्वृत्तान्हन्मि तानहम् ॥गतिं च तेषामधुना महेश्वरि निशामय ॥११९॥मयि भक्त्यवसाने तु हरेः संदर्शनेन च ॥क्रोधदर्पाभिभूतत्वान्न मुक्तिं प्राप्नुवंति ते ॥१२०॥आवयोस्तु प्रभावेन ते पुनर्द्धौतकल्मषाः ॥ब्रह्मर्षीणां कुले जन्म संप्राप्ता मुक्तिहेतुकम् ॥१२१॥ब्रह्मचारिव्रता दूर्ध्वं योगं पाशुपतं श्रिताः ॥[२३]प्राचीनकर्मसंस्कारात्ते पुनर्मामुपासते ॥१२२॥भक्तियोगेन चास्थाय व्रतं पाशुपतादिकम् ॥श्मशानवासिनो नग्ना अपरे चैकवाससः ॥१२३॥भिक्षाभुजो भूतिभृतो मल्लिंगान्यर्च्चयंति ते ॥तथा मदेकाग्रधियो मद्ध्यानैकदृढव्रताः ॥१२४॥ये त्वामपि नमस्यंति जगतां मम चेश्वरीम्॥देहावसानयोगेन मुक्तिं तेषां ददाम्यहम् ॥१२५॥सारूप्यसालोक्यमयीं मय्यावेशितचेतसाम् ॥सायुज्यमुक्तये नायं योगः पाशुपतो यतः ॥स्मृत्याचारेण मुनिभिः स सद्भिस्तेन गर्हितः ॥१२६॥ ॥द्विजा ऊचुः॥तीर्थयात्राप्रसंगेन तानि होपगतान्द्विजान् ॥[२४]स्वमानमुपनेष्यामो भक्त्यावर्ज्जितमानसान् ॥१२७॥शुचिभिक्षान्नकौपीनकमण्डल्वादिसत्कृताः ॥अनन्यकार्य्याः सततमिहागत्य तपस्विनः ॥१२८॥भवत्प्रदत्तैर्विविधैरुपहारैरतंद्रिताः ॥[२५]तत्त्वतस्तत्त्वसंख्यास्ते शिवधर्मैकतत्पराः ॥१२९॥श्रीसोमेश्वरमभ्यर्च्य तव श्रेयोऽभिवर्द्धकाः ॥मुक्तिमंते गमिष्यंति देवस्यातिसुदुर्ल्लभाम् ॥१३०॥ततोऽन्येऽथ ततोऽप्यन्ये ततश्चान्ये तपोधना ॥परीक्षितास्तु तेऽस्माभिर्भवितारो निशापते ॥१३१॥ ॥द्विजा ऊचुः॥इत्याह भगवान्देव्या पृष्टः स च त्रिलोचनः ॥तत्रैव नारदः सर्वं संवादं शिवयेरितम्(?) ॥१३२॥श्रुत्वा नः कथयामास कथां गोष्ठीषु पृच्छताम्॥तव चास्माभिरधुना सर्वमेतदुदीरितम् ॥१३३॥एवमुक्तस्तु तैः प्रीतः सोमः स्वभवनं ययौ ॥तदाज्ञया च तत्सर्वं यथोक्तं तेऽपि कुर्वते ॥१३४॥ ॥देव्युवाच॥एवं प्रभावो देवेशः सोमेशः पापनाशनः ॥केनोपायेन तुष्येत व्रतेन नियमेन वा ॥१३५॥ ॥ईश्वर उवाच॥कथयामि स्फुटं धर्म्मं मानुषाणां हिताय वै ॥स येन तुष्यते देवः शृणु त्वं सुरसुन्दरि ॥१३६॥नित्योपवासनक्तानि व्रतानि विविधानि च ॥तीर्थे दानानि सर्वाणि पात्रे दत्तान्यशेषतः ॥१३७॥तपश्च तप्तं तेनैव स्नातं तेनैव पुष्करे ॥केदारे तु जलं तेन गत्वा पीतं [२६]तु निश्चितम् ॥१३८॥तेन दृष्टं वरारोहे ज्योतिर्लिंगं महाप्रभम् ॥सोमवारव्रतं दिव्यं येन चीर्णं तु संश्रये ॥१३९॥किमन्यैर्बहुभिर्दानैर्दत्तैः पात्रेषु सुन्दरि ॥१४०॥पूजितं येन भावेन सोमवारदिनाष्ट कम् ॥तेन सर्वं कृतं देवि चीर्णं तत्र महाव्रतम् ॥१४१॥इतिहासमिमं पूर्वं कथयामि तव प्रिये ॥यथावृत्तं महादेवि सोमवारव्रतं प्रति ॥१४२॥ ॥ईश्वर उवाच॥कैलासस्य महेशानि उत्तरे च व्यवस्थिता॥निषधोपरि विस्तीर्णा पुरी नाम स्वयंप्रभा ॥ ॥१४३॥नानारत्नसुशोभाढ्या नानागन्धर्वसंकुला ॥सर्वावयवसंपूर्णा शक्रस्येवामरावती ॥१४४॥[२७]घनवाहननामा च गन्धर्वस्तत्र तिष्ठति ॥भुंक्ते तत्र महाभोगान्देवैरपि सुदुर्लभान् ॥१४५॥नवयौवनसंयुक्ता भार्या तस्य मनोहरा ॥प्रौढवाक्या सुशीला च पीनोन्नतपयोधरा ॥१४६॥तया सार्द्धं तु सम्भोगान्भुंक्ते गंधर्वनायकः ॥उत्पन्ना तस्य कालेन पुत्री पुत्राष्टकोपरि ॥१४७॥सर्वावयवसंपन्ना सर्वविज्ञानवेदिनी ॥गंधर्वसेना विख्याता नाम्ना सा परमेश्वरि ॥१४८॥कन्यानां तु सहस्रेषु प्रवरा रूपशालिनी ॥कौतूहलेन सा पित्रा प्रोक्ता क्रीडस्व भामिनि ॥१४९॥उद्याने रमणीयेऽत्र नानाद्रुमलताकुले ॥वृक्षैरनेकैः संकीर्णे फलपुष्पसमन्विते ॥१५०॥एवं सा रमते नित्यं कन्यापरिवृता सदा ॥एवं दृष्ट्वा क्रीडमाना माता भर्तारमब्रवीत् ॥१५१॥जीवितं निष्फलं स्वामिन्मम ते सह बांधवैः ॥यस्येदृशी गृहे कन्या तिष्ठते भर्तृवर्ज्जिता ॥१५२॥इत्युक्तः स तु गंधर्वो भार्यां वचनमब्रवीत् ॥अन्वेषयामि भर्त्तारं पुत्र्यर्थे तु मनोहरम् ॥१५३॥इत्युक्त्वाऽऽह्वापयामास[२८] पुत्रीं तां घनवाहनः[२९] ॥आहूता पितृमातृभ्यां त्वरिताऽऽगत्य सुन्दरि ॥१५४॥अनुक्रमेण सर्वेषां पतिता पादयोः शुभा ॥आदेशं देहि मे तात कि नु कार्यं मयाऽऽधुना ॥१५५॥उक्तं च घनवाहेन हर्षितेन वचस्ततः ॥हे पुत्रि तव यः कश्चिद्वरः संप्रति रोचते ॥दिव्यं द्रक्ष्ये त्वत्सदृशं गंधर्वाणां शिरोमणिम् ॥१५६॥इत्युक्ता क्रोधताम्राक्षी पितरं वाक्यमब्रवीत् ॥मम रूपस्य कोट्यंशे किं कोप्यस्ति जगत्त्रये ॥तच्छ्रुत्वा चाद्भुतं वाक्यं पिता माता च मोहितौ ॥१५७॥सर्वे विषादमापन्ना बांधवाश्च परे जनाः ॥अशोभनमिदं वाक्यं कन्यया यत्प्रभाषितम् ॥इत्युक्त्वा तु गताः सर्वे जननीजनबांधवाः ॥१५८॥सा तत्रैव महोद्याने रमते सखिसंयुता ॥हिंडोलके समारूढा वसंते मासि भामिनि ॥१५९॥तावद्दिव्यविमानस्थः शिखण्डी गणनायकः ॥गच्छन्खे ददृशे कन्यां रूपौदार्य्यसमाकुलाम् ॥१६०॥गीतवाद्येन नृत्येन रमतीं दुदुभिस्वनैः ॥स माध्याह्निकसंध्यायामवतीर्य विमानतः ॥१६१॥क्रीडमानोऽप्सरोभिस्तु तत्रोद्याने स्थितस्ततः ॥शुश्राव वाक्यं कन्याया गंधर्वदुहितुस्तदा ॥१६२॥न कोऽपि सदृशो लोके मम रूपेण दृश्यते ॥देवो वा दानवो वापि कोट्यंशे मम रूपतः ॥१६३॥इति वाक्यं ततः श्रुत्वा गणः क्रोधसमन्वितः ॥शशाप तां सुचार्वंगीं साहंकारां गणेश्वरः ॥१६४॥ ॥गण उवाच॥मां दृष्ट्वा यद्विशालाक्षि रूपसौभाग्यगर्विता ॥समाक्षिपसि गंधर्वान्देवाद्यांश्चैव गर्विता ॥१६५॥तस्मात्ते गर्वसंयुक्ते कुष्ठमंगे भविष्यति ॥श्रुत्वा शापं ततः कन्या भयभीता तपस्विनी ॥१६६॥साष्टांगं प्रणिपत्याथानुग्रहार्थमयाचत ॥भगवन्मम दीनायाः शापस्यानुग्रहं प्रभो ॥प्रयच्छ त्वं महा भाग नैवं कर्त्री पुनः क्वचित् ॥१६७॥इत्युक्तस्तव कारुण्याच्छिखण्डी गणनायकः ॥अनुग्रहं ददौ तस्या गंधर्वदुहितुस्तदा ॥१६८॥। ॥ ॥शिखण्ड्युवाच॥जातिरूपेण संयुक्तो विद्याहंकारसंपदा ॥यो येन गर्वितः प्राणी स तं प्राप्य विनश्यति ॥१६९॥तस्माद्गर्वो नैव कार्यो गर्वस्यैतत्फलं स्मृतम् ॥शृणुष्वानुग्रहं बाले श्रुत्वा चैवावधारय ॥१७०॥हिमवद्वनमध्यस्थो गोशृंग ऋषिपुंगवः ॥करिष्यत्युपकारं स एवमुक्त्वा गतः प्रिये ॥१७१॥तावत्संध्या समायाता तत्क्षणाद्भुवनांतरे ॥१७२॥ततो गंधर्व्वतनया भग्नोत्साहा नतानना ॥परित्यज्य वनं रम्यमागता पितुरंतिके ॥१७३॥कथयामास तत्सर्वं कारणं कुष्ठसंभवम् ॥तच्छ्रुत्वा शोकसंतप्तौ पितरौ विगतप्रभौ ॥१७४॥हिमवंतं गिरिं प्राप्तौ त्वरितौ सुतया सह ॥गोशृंगस्य ऋषेस्तत्र ददृशाते तथाश्रमम् ॥१७५॥तत्र मध्यस्थितं दृष्ट्वा गोशृंगमृषिपुंगवम् ॥प्रणम्य दण्डवद्भूमौ स्तुत्वा स्तोत्रैरनेकधा ॥१७६॥उपविष्टोग्रतस्तस्य प्रणिपत्य पुनःपुनः ॥प्रोवाच वचनं तत्र पूर्ववृत्तं यथाऽभवत् ॥१७७॥कथिते चैव वृत्तांते पुनः पप्रच्छ कारणम्॥पृष्टे तु कारणे तत्र गंधर्वः प्रोक्तवांस्तदा ॥१७८॥ ॥गंधर्व उवाच॥दुहितुर्मे शरीरं तु व्याधिकुष्ठेनपीडितम् ॥येनोपशमनं याति तत्त्वं कर्त्तुमिहार्हसि ॥१७९॥प्रसादं कुरु विप्रर्षे मम दीनस्य सांप्रतम् ॥यथा कुष्ठं शमं याति मम पुत्र्यास्तु कारणम्[३०] ॥ ॥१८०॥॥गोशृंग उवाच॥भारते तु महातेजास्तिष्ठत्युदधिसन्निधौ ॥देवः सोमेश्वरोनाम सर्वदेवनमस्कृतः ॥१८१॥[३१]क्षणं कृत्वा हि संपूज्य एकाहारेण मानवैः ॥सर्वव्याधिविनाशाय सर्वकार्यार्थसिद्धये ॥१८२॥सोमवारव्रतेनेशं समाराधय शंकरम् ॥एवं कृते व्याधिनाशस्तव पुत्र्या भविष्यति ॥१८३॥ ॥ईश्वर उवाच॥इति तद्वचनं श्रुत्वा महर्षेर्भावितात्मनः ॥तत्र गंतुं मनश्चक्रे सोमेशाराधनं प्रति ॥१८४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये श्रीसोमेश्वर वर्णने सोमवारव्रतमाहात्म्यवर्णनंनाम चतुर्विंशोऽध्यायः ॥२४॥ N/A References : N/A Last Updated : January 07, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP