संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय ३२०

प्रभासक्षेत्र माहात्म्यम् - अध्याय ३२०

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
तस्माच्च पूर्वदिग्भागे किञ्चिदाग्नेयसंस्थितम् ॥
लिंगद्वयं महापुण्यं विश्वकर्मप्रतिष्ठितम् ॥१॥
यदा वै नगरं कर्तुं त्वष्टा तत्र समागतः ॥
प्रतिष्ठाप्य महादेवं नगरं कृतवांस्ततः ॥२॥
कृत्वा च नगरं रम्यं लिंगस्यास्य प्रभावतः ॥
पुनः प्रतिष्ठितं र्लिगं तेन वै विश्वकर्मणा ॥३॥
कर्मादौ कर्मणश्चान्ते यात्रोद्वाहगृहादिके ॥
लिंगद्वयं पूजयित्वा सिद्धिमाप्नोति तत्क्षणात् ॥४॥
तस्मात्सर्वप्रयत्नेन गंधामृतरसोदकैः ॥
नैवेद्यै विविधैर्देवि लिंगयुग्मं प्रपूजयेत् ॥५॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य उन्नतस्थानमाहात्म्ये लिंगद्वयमाहात्म्यवर्णनंनाम विंशोत्तरत्रिशततमोऽध्यायः ॥३२०॥

N/A

References : N/A
Last Updated : January 13, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP