संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्| अध्याय २३७ प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ अध्याय २८० अध्याय २८१ अध्याय २८२ अध्याय २८३ अध्याय २८४ अध्याय २८५ अध्याय २८६ अध्याय २८७ अध्याय २८८ अध्याय २८९ अध्याय २९० अध्याय २९१ अध्याय २९२ अध्याय २९३ अध्याय २९४ अध्याय २९५ अध्याय २९६ अध्याय २९७ अध्याय २९८ अध्याय २९९ अध्याय ३०० अध्याय ३०१ अध्याय ३०२ अध्याय ३०३ अध्याय ३०४ अध्याय ३०५ अध्याय ३०६ अध्याय ३०७ अध्याय ३०८ अध्याय ३०९ अध्याय ३१० अध्याय ३११ अध्याय ३१२ अध्याय ३१३ अध्याय ३१४ अध्याय ३१५ अध्याय ३१६ अध्याय ३१७ अध्याय ३१८ अध्याय ३१९ अध्याय ३२० अध्याय ३२१ अध्याय ३२२ अध्याय ३२३ अध्याय ३२४ अध्याय ३२५ अध्याय ३२६ अध्याय ३२७ अध्याय ३२८ अध्याय ३२९ अध्याय ३३० अध्याय ३३१ अध्याय ३३२ अध्याय ३३३ अध्याय ३३४ अध्याय ३३५ अध्याय ३३६ अध्याय ३३७ अध्याय ३३८ अध्याय ३३९ अध्याय ३४० अध्याय ३४१ अध्याय ३४२ अध्याय ३४३ अध्याय ३४४ अध्याय ३४५ अध्याय ३४६ अध्याय ३४७ अध्याय ३४८ अध्याय ३४९ अध्याय ३५० अध्याय ३५१ अध्याय ३५२ अध्याय ३५३ अध्याय ३५४ अध्याय ३५५ अध्याय ३५६ अध्याय ३५७ अध्याय ३५८ अध्याय ३५९ अध्याय ३६० अध्याय ३६१ अध्याय ३६२ अध्याय ३६३ अध्याय ३६४ अध्याय ३६५ अध्याय ३६६ विषयानुक्रमणिका प्रभासक्षेत्र माहात्म्यम् - अध्याय २३७ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय २३७ Translation - भाषांतर ॥ईश्वर उवाच॥ततो गच्छेन्महादेवि यादवस्थलमुत्तमम् ॥यादवा यत्र नष्टा वै षट्पंचाशच्च कोटयः ॥१॥यत्र वज्रेश्वरो देवो वज्रेणाराधितः सदा ॥यत्राभूद्दिव्यदृष्टीनामृषीणामाश्रमं कुलम् ॥२॥ ॥देव्युवाच॥कथं विनष्टा भगवन्नन्धका वृष्णिभिः सह ॥पश्यतो वासुदेवस्य भोजाश्चैव महारथाः ॥३॥केन शप्तास्तु ते वीरा नष्टा वृष्ण्यन्धकादयः ॥भोजाश्चैव महादेव विस्तरेण वदस्व मे ॥४॥ ॥ईश्वर उवाच॥षट्त्रिंशे च कलौ वर्षे संप्राप्तेऽन्धकवृष्णयः ॥अन्योन्यं मुशलैस्ते हि निजघ्नुः कालनोदिताः ॥५॥विश्वामित्रं च कण्वं च नारदं च यशस्विनम् ॥सारणप्रमुखान्भोजान्ददृशुर्द्वारकां गतान् ॥६॥ते वै सांबं समानिन्युर्भूषयित्वा स्त्रियं यथा ॥अब्रुवन्नुपसंगम्य देवदंडनिपीडिताः ॥७॥इयं स्त्री पुत्रकामस्य बभ्रोरमिततेजसः ॥ऋषयः साधु जानीत किमियं जनयिष्यति ॥८॥इत्युक्तास्ते तदा देवि विप्रलंभप्रधर्षिताः ॥प्रत्यब्रुवंस्तान्मुनयस्तच्छृणुष्व यथातथम् ॥९॥ ॥ऋषय ऊचुः॥वृष्ण्यन्धकविनाशाय मुशलं घोरमायसम्॥वासुदेवस्य दायादः सांबोऽयं जनयिष्यति ॥१०॥येन यूयं सुदुर्वृत्ता नृशंसा जातमन्यवः ॥उच्छेत्तारः कुलं सर्वमृते रामाज्जनार्द्दनात् ॥११॥त्यक्त्वा यास्यति वः श्रीमांत्यक्त्वा भूमिं हलायुधः ॥जरा कृष्णं महाभागं शयानं तु निवेत्स्यति ॥१२॥इत्यब्रुवंस्ततो देवि प्रलब्धास्ते दुरात्मभिः ॥मुनयः क्रोधरक्ताक्षाः समीक्ष्याथ परस्परम् ॥१३॥तथोक्ता मुनयस्ते तु ततः केशवमभ्ययुः ॥अथावदत्तदा वृष्णीञ्छ्रुत्वैवं मधुसूदनः ॥१४॥अभिज्ञो मतिमांस्तस्य भवितव्यं तथेति तत् ॥एवमुक्त्वा हृषीकेशः प्रविवेश पुनर्गृहान् ॥१५॥कृतांतमन्यथाकर्त्तुं नैच्छत्स जगतः प्रभुः ॥श्वोभूते सततः सांबो मुसलं तदसूत वै ॥१६॥येन वृण्ष्यन्धककुले पुरुषा भस्मसात्कृताः॥वृष्ण्यन्धकविनाशाय किंकरप्रतिमं महत् ॥१७॥(किंकर – यमकिंकर)असूत शापजं घोरं तच्च राज्ञे न्यवेदयत् ॥विषण्णोऽथ ततो राजा सूक्ष्मं चूर्णमकारयत् ॥१८॥प्राक्षिपत्सागरे तत्र पुरुषो राजशासितः ॥अथोवाच स्वनगरे वचनादाहुकस्य हि ॥१९॥जनार्द्दनस्य रामस्य बभ्रोश्चैव महात्मनः ॥अद्यप्रभृति सर्वेषां वृष्णन्धकगृहेष्विह ॥सुरासवो न कर्त्तव्यः सर्वैर्विषयवासिभिः ॥२॥।यश्च वो विदितं कुर्यादेवं कश्चित्क्वचिन्नरः ॥स जीवञ्छूलमारोहेत्स्वयं कृत्वा सबांधवः ॥२१॥ततो राजभयात्सर्वे नियमं तत्र चक्रिरे ॥नराः शासनमाज्ञाय रामस्याक्लिष्टकर्मणः ॥२२॥एवं प्रयतमानानां वृष्णीनामन्धकैः सह ॥कालो गृहाणि सर्वाणि परिचक्राम नित्यशः ॥२३॥करालो विकटो मुंडः पुरुषः कृष्णपिंगलः ॥सम्मार्जनी महाकेतुर्जपापुष्पावतंसकः ॥२४॥कृकलासवाहनश्च रत्तिकाकर्णभूषणः ॥गृहाण्यवेक्ष्य वृष्णीनां नादृश्यत पुनः क्वचित् ॥२५॥तस्य चासन्महेष्वासाः शरैः शतसहस्रशः ॥न चाशक्यत वेद्धुं स सर्वभूताप्ययं सदा ॥२६॥उत्पेदिरे महावाता दारुणा हि दिने दिने ॥वृष्ण्यन्धकविनाशाय बहवो लोमहर्षणाः ॥२७॥विवृद्ध्य मूषिका रथ्यावितुन्नमणिकास्तथा ॥केशान्ददंशुः सुप्तानां नृणां युवतयो निशि ॥२८॥चीचीकूचीत्यवाशंत सारिका वृष्णिवेश्मसु ॥नोपशाम्यति शब्दश्च स दिवारात्रमेव वा ॥२९॥अन्वकुर्वन्नुलूकाश्च वायसान्वृष्णिवेश्मसु ॥अजाः शिवानां च रुतमन्वकुर्वत भामिनि ॥३०॥पांडुरारक्तपादाश्च विहगाः कालप्रेरिताः ॥वृष्ण्यन्धकगृहेष्वेवं कपोता व्यचरंस्तदा ॥३१॥व्यजायंत खरा गोषु करभाश्चाश्वतरीषु च ॥शुनीष्वपि बिडालाश्च मूषका नकुलीषु च ॥३२॥तापत्रयांत पापानि कुर्वंतो वृष्णयस्तथा ॥अद्विषन्ब्राह्मणांश्चापि पितॄन्देवांस्तथैव च ॥३३॥गुरूंश्चाप्यवमन्यंते न तु रामजनार्दनौ ॥भार्याः पतीन्व्युच्चरंति पत्नीश्च पुरुषास्तथा ॥३४॥विभावसुः प्रज्वलितो वामं विपरिवर्त्तते ॥नीललोहितमांजिष्ठा विसृजंश्चार्चिषः पृथक् ॥३५॥उदयास्तमने नित्यं पर्यस्तः स्याद्दिवाकरः ॥व्यदृश्यत सकृत्पुंभिः कबन्धैः परिवारितः ॥३६॥महानसेषु सिद्धांते संस्कृतेऽन्ने तु भामिनि ॥उत्तार्यमाणे कृमयो दृश्यंते च वरानने ॥३७॥पुण्याहे वाच्यमाने च पठत्सु च महात्मसु ॥अभिधावंति श्रूयंते न चादृश्यत कश्चन ॥३८॥परस्परस्य नक्षत्रं हन्यमानं पुनःपुनः ॥ग्रहैरपश्यन्सर्वैस्ते नात्मनस्तु कथञ्चन ॥३९॥न हुतं पाचयत्यग्निर्वृष्ण्यंधकपुरस्कृतम् ॥समंतात्प्रत्यवाशंत रासभा दारुणस्वनाः ॥४०॥एवं पश्यन्हृषीकेशः संप्राप्तान्कालपर्ययान् ॥त्रयोदशीं ह्यमावास्यां तां दृष्ट्वा प्राब्रवीदिदम् ॥४१॥त्रयोदशी पंचदशी कृतेयं राहुणा पुनः ॥तदा च भारते युद्धे प्राप्ता चाद्य क्षयाय नः ॥४२॥धिग्धिगित्येवकालं तं परिचिंत्य जनार्दनः ॥मेने प्राप्तं स षट्त्रिंशं वर्षं केशिनिषूदनः ॥पुत्रशोकाभिसंतप्ता गांधारी यदुवाच ह ॥४३॥एवं पश्यन्हृषीकेशस्तदिदं समुपस्थितम्॥इदं च समनुप्राप्तमब्रवीद्यद्युधिष्ठिरः ॥४४॥पुरा व्यूढेष्वनीकेषु दृष्ट्वोत्पातान्सुदारुणान्॥पुण्यग्रन्थस्य श्रवणाच्छांतिहोमाद्विशोधनात् ॥४५॥पूततीर्थाभिषेकांच्च नान्यच्छ्रेयो भवेदिति ॥इत्युक्त्वा वासुदेवस्तच्चिकीर्षन्सत्यमेव च ॥आज्ञापयामास तदा तीर्थयात्रामरिंदमः ॥४६॥अघोषयंत पुरुषास्तत्र केशवशासनात् ॥तीर्थयात्रा प्रभासे वै कार्येति वरवर्णिनि ॥४७॥अथारिष्टानि वक्ष्यामि पुरीं द्वारवतीं प्रति ॥काली स्त्री पांडुरैर्दंतैः प्रविश्य नगरीं निशि ॥४८॥स्त्रियः स्वप्नेषु मुष्णन्ती द्वारकां प्रति धावति ॥अग्निहोत्रनिकेतं च सुमेध्येषु च वेश्मसु ॥४९॥वृष्ण्यंधकांश्च खादंती स्वप्ने दृष्टा भयानका ॥कुर्वंती भीषणं नादं कुर्कुटश्वानसंयुता ॥५०॥तथा सहस्रशो रौद्राश्चतुर्बाहव एव च ॥स्त्रीणां गर्भेष्वजायंत राक्षसा गुह्यकास्तथा ॥५१॥अलंकाराश्च च्छत्राणि ध्वजाश्च कवचानि च ॥ह्रियमाणानि दृश्यंते रक्षोभिस्तु भयानकैः ॥५२॥यच्चाग्निदत्तं कृष्णस्य वज्रनाभमयस्मयम् ॥दिवमाचक्रमे चक्रं वृष्णीनां पश्यतां तदा ॥५३॥युक्तं रथं दिव्यमादित्यवर्णं भयावहं पश्यतो दारुकस्य ॥ते सागरस्योपरिष्टाद्वर्तमानान्मनोजवांश्चतुरो वाजिमुख्यान् ॥५४॥तालः सुपर्णश्च महाध्वजौ तौ सुपूजितौ रामजनार्दनाभ्याम् ॥उच्चैर्जगुः स्वप्सरसो दिवानिशं वाचं चोचुर्गम्यतां तीर्थयात्राम् ॥५५॥ततो जिगमिषंतस्ते वृष्ण्यंधकमहारथाः ॥सांतःपुरास्तीर्थयात्रामीहंते स्म नरर्षभाः ॥५६॥ततो मांसपरा हृष्टाः पेयं वेश्मसु वृष्णयः ॥बहु नानाविधं चक्रुर्मांसानि विविधानि च ॥५७॥तथा सीधुषु बद्धेषु निर्ययुर्नगराद्बहिः ॥यानैरश्वैर्गजैश्चैव श्रीमंतस्तिग्मतेजसः ॥५८॥ततः प्रभासे न्यवसन्यथोद्देशं यथागृहम् ॥प्रभूतभक्ष्यपेयास्ते सदारा यादवास्तदा ॥५९॥निर्विष्टांस्तान्निशम्याथ समुद्रांते स योगवित् ॥जगामामंत्र्य तान्वीरानुद्धवोर्थविशारदः ॥६०॥प्रस्थितं तं महात्मानमभिवाद्य कृतांजलिम्॥जानन्विनाशं भोजानां नैच्छद्वारयितुं हरिः ॥६१॥ततः कालपरीतास्ते वृष्ण्यंधकमहारथाः ॥अपश्यन्नुद्धवं यांतं तेजसाऽऽदीप्य रोदसी ॥६२॥ब्राह्मणार्थेषु यत्क्लृप्तमन्नं तेषां वरानने ॥तद्वाहनेभ्यः प्रददुः सुरागंधरसान्वितम्॥६३॥ततस्तूर्यशताकीर्णं नटनर्त्तकसंकुलम्॥प्रावर्त्तत महापानं प्रभासे तिग्मतेजसाम् ॥६४॥कृष्णस्य संनिधौ रामः सहितः कृतवर्मणा ॥अपिबद्युयुधानश्च गदो बभ्रुस्तथैव च ॥६५॥ततः परिषदो मध्ये युयुधानो मदोत्कटः ॥अब्रवीत्कृतवर्माणमवहस्यावमन्य च ॥६६॥कः क्षत्रियो मन्यमानः सुप्तान्हन्यान्मृतानिव ॥न तन्मृष्यत हार्दिक्यस्त्वया तत्साधु यत्कृतम् ॥६७॥इत्युक्ते युयुधानेन पूजयामास तद्वचः ॥प्रद्युम्नो रथिनां श्रेष्ठो हार्दिक्यमथ भर्त्सयन् ॥६८॥ततः पुनरपि क्रुद्धः कृतवर्मा तमब्रवीत् ॥निर्विशन्निव सावज्ञं तदा सव्येन पाणिना ॥६९॥भूरिश्रवाश्छिन्नबाहुर्युद्धे प्रायोगतस्त्वया ॥व्याधेनेव नृशंसेन कथं वैरेण घातितः ॥७०॥इति तस्य वचः श्रुत्वा केशवः परवीरहा ॥तिर्यक्सरोषया दृष्ट्या वीक्षांचक्रे समः पुमान् ॥७१॥मणिं स्यमंतकं चैव यः स सत्राजितोऽभवत् ॥स कथं स्मारयामास सात्यकिर्मधुसूदनम् ॥७२॥तच्छ्रुत्वा केशवस्यांकमगमद्रुदती सती ॥सत्यभामा प्रक्षुभिता कोपयन्ती जनार्द्दनम् ॥७३॥तत उत्थाय स क्रोधात्सात्यकिर्वाक्यमब्रवीत् ॥पंचानां द्रौपदेयानां धृष्टद्युम्नशिखंडिनः ॥७४॥एष गच्छामि पदवीं सत्ये तव पथे सदा ॥सौप्तिके निहता ये च सुप्तास्तेन दुरात्मना ॥७५॥द्रोणपुत्रसहायेन पापेन कृतवर्मणा ॥समाप्तं चायुरस्याद्य यशश्चापि सुमध्यमे ॥७६॥इतीदमुक्त्वा खङ्गेन केशवस्य समीपतः ॥अभिहत्य शिरः क्रुद्धश्चिच्छेद कृतवर्मणः ॥७७॥तथान्यानपि निघ्नंतं युयुधानं समंततः ॥अन्वधावद्धृषीकेशो विनिवारयिषुस्तथा ॥७८॥एकीभूतास्ततस्तस्य कालपर्यायप्रेरिताः ॥भोजांधका महाराजं शैनेयं पर्यवारयन् ॥७९॥तान्दृष्ट्वाऽऽपततस्तूर्णमभिक्रुद्धाञ्जनार्द्दनः ॥न चुक्रोध महातेजा जानन्कालस्य पर्ययम् ॥८०॥ते च पानमदाविष्टाश्चोदिताश्चैव मन्युना ॥युयुधानमथाजघ्नुरुच्छिष्टै र्भोजनैस्तथा ॥८१॥हन्यमाने तु शैनेये कुद्धो रुक्मिणिनंदनः ॥तदंतरमथाधावन्मोक्षयिष्यञ्छिनेः सुतम् ॥८२॥स भोजैः सह संयुक्तः सात्यकिश्चांधकैः सह ॥बहुत्वात्तु हतौ वीरावुभौ कृष्णस्य पश्यतः ॥८३॥हतं दृष्ट्वा तु शैनेयं पुत्रं च यदुनंदनः ॥एरकाणां तदा मुष्टिं कोपाज्जग्राह केशवः ॥८४॥तदभून्मुशलं घोरं वज्रकल्पमयस्मयम् ॥जघान तेन कृष्णोपि ये तस्य प्रमुखे स्थिताः ॥८९॥ततोंऽधकाश्च भोजाश्च शिनयो वृष्णयस्तदा ॥न्यघ्नन्नन्योन्यमाक्रन्दैर्मुशलैः कालप्रेरिताः ॥८६॥यश्चैकामेरकां कश्चिज्जग्राह रुषितो नरः ॥वज्रभूता च सा देवि ह्यदृश्यत तदा प्रिये ॥८७॥तृणं च मुशलीभूतमण्वपि तत्र दृश्यते ॥ब्रह्मदंडकृतं सर्वमिति तद्विद्धि भामिनि ॥८८॥आविध्याविध्य देवेशि प्रहरंति स्म सायकान्॥तद्वज्रभूतं मुशलमपश्यंत तदा दृढम् ॥८९॥अवधीत्पितरं पुत्रः पिता पुत्रं च भामिनि ॥मत्तास्ते पर्यटंति स्म योधमानाः परस्परम् ॥९०॥पतंगा इव चाग्नौ तु न्यपतन्यदुपुंगवाः ॥नासीत्पलायने बुद्धिर्वध्यमानस्य कस्यचित् ॥९१॥तं तु पश्यन्महाबाहुर्जानन्कालस्यपर्ययम् ॥मुशलं समवष्टभ्य तस्थौ स मधुसूदनः ॥९२॥सांबं च निहतं दृष्ट्वा चारुदेष्णं च माधवः ॥प्रद्युम्नमनिरुद्धं च ततश्चुक्रोध भामिनि ॥९३॥यादवान्क्ष्माशयानांश्च भृशं कोपसमन्वितः ॥स निःशेषं तदा चक्रे शार्ङ्गचक्रगदाधरः ॥९४॥एवं तत्र महादेवि अभवद्यादव स्थलम् ॥गव्यूतिमात्रं तद्देवि यादवानां चिताः स्मृताः ॥९५॥तेषां किलास्थिनिचयैः स्थलरूपं बभूव तत् ॥भस्मपुंजनिभाकारं तेनाभूद्यादव स्थलम् ॥९६॥दिव्यरत्नसमायुक्तं मणिमाणिक्यपूरितम् ॥यादवानां किरीटैश्च दिव्यगन्धैः सुपूरितम् ॥९७॥तेषां रक्षानिमित्तं हि गंगा गणपतिस्तथा ॥यादवानां तु सर्वेषां जीवितो वज्र एव हि ॥९८॥वयसोंते ततः सोऽपि प्रभासं क्षेत्रमागतः ॥निषिच्य स्वसुतं राज्ये नाम्ना ख्यातं महद्बलम् ॥९९॥तेनापि स्थापितं लिंगं यादवेन्द्रेण धीमता ॥वज्रेश्वरमिति ख्यातं तत्स्थितं यादवस्थले ॥१००॥तत्रैव सुचिरं कालं तपस्तप्तं सुपुष्कलम् ॥नारदस्योपदेशेन प्रभासे पापनाशने ॥१०१॥प्राप्तवान्परमां सिद्धिं स राजा यादवोत्तमः ॥तत्रैव यो नरः सम्यक्स्नात्वा जांबवती जले ॥१०२॥वज्रेश्वरं तु संपूज्य ब्राह्मणांस्तत्र भोजयेत् ॥यादवस्थलसामीप्ये गोसहस्रफलं लभेत् ॥१०३॥षट्कोणं तत्र दातव्यमंगुल्या यादवस्थले ॥यात्राफलमवाप्नोति सम्यक्छ्रद्धासमन्वितः ॥१०४॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमेप्रभासक्षेत्रमाहात्म्ये यादवस्थलोत्पत्तौ वज्रेश्वरमाहात्म्यवर्णनंनाम सप्तत्रिंशदुत्तरद्विशततमोऽध्यायः ॥२३७॥ N/A References : N/A Last Updated : January 12, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP