संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्| अध्याय ४ प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ अध्याय २८० अध्याय २८१ अध्याय २८२ अध्याय २८३ अध्याय २८४ अध्याय २८५ अध्याय २८६ अध्याय २८७ अध्याय २८८ अध्याय २८९ अध्याय २९० अध्याय २९१ अध्याय २९२ अध्याय २९३ अध्याय २९४ अध्याय २९५ अध्याय २९६ अध्याय २९७ अध्याय २९८ अध्याय २९९ अध्याय ३०० अध्याय ३०१ अध्याय ३०२ अध्याय ३०३ अध्याय ३०४ अध्याय ३०५ अध्याय ३०६ अध्याय ३०७ अध्याय ३०८ अध्याय ३०९ अध्याय ३१० अध्याय ३११ अध्याय ३१२ अध्याय ३१३ अध्याय ३१४ अध्याय ३१५ अध्याय ३१६ अध्याय ३१७ अध्याय ३१८ अध्याय ३१९ अध्याय ३२० अध्याय ३२१ अध्याय ३२२ अध्याय ३२३ अध्याय ३२४ अध्याय ३२५ अध्याय ३२६ अध्याय ३२७ अध्याय ३२८ अध्याय ३२९ अध्याय ३३० अध्याय ३३१ अध्याय ३३२ अध्याय ३३३ अध्याय ३३४ अध्याय ३३५ अध्याय ३३६ अध्याय ३३७ अध्याय ३३८ अध्याय ३३९ अध्याय ३४० अध्याय ३४१ अध्याय ३४२ अध्याय ३४३ अध्याय ३४४ अध्याय ३४५ अध्याय ३४६ अध्याय ३४७ अध्याय ३४८ अध्याय ३४९ अध्याय ३५० अध्याय ३५१ अध्याय ३५२ अध्याय ३५३ अध्याय ३५४ अध्याय ३५५ अध्याय ३५६ अध्याय ३५७ अध्याय ३५८ अध्याय ३५९ अध्याय ३६० अध्याय ३६१ अध्याय ३६२ अध्याय ३६३ अध्याय ३६४ अध्याय ३६५ अध्याय ३६६ विषयानुक्रमणिका प्रभासक्षेत्र माहात्म्यम् - अध्याय ४ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ४ Translation - भाषांतर ॥सूत उवाच॥एवं मुनीन्द्राः कथिते प्रभावे शंकरेण तु ॥पुनः पप्रच्छ सा देवी कृतांजलिपुटा सती ॥१॥ ॥देव्युवाच॥देवदेव जगन्नाथ क्षेत्रतीर्थमय प्रभो ॥प्रभासक्षेत्रमाहात्म्यं विस्तरात्कथयस्व मे ॥२॥कथं तुष्यसि मर्त्यानां क्षेत्रे तत्र विचेतसाम् ॥जप्तं दत्तं हुतं यष्टं तपस्तप्तं कृतं च यत् ॥प्रभासे तु महाक्षेत्रे कस्मात्तत्राक्षयं भवेत् ॥३॥जात्यंतरसहस्रेषु यत्पापं पूर्वसंचितम् ॥तत्कथं क्षयमाप्नोति तन्ममाचक्ष्व शंकर ॥४॥यदि प्रभासं सर्वेषां तीर्थानां प्रवरं मतम्॥किमन्यैर्बहुभिस्तत्र कर्त्तव्यं तीर्थविस्तरैः ॥५॥एकं यदि भवेत्तीर्थं मनो निःसंशयं भवेत् ॥बहुत्वे सति तीर्थानां मनो विचलते नृणाम् ॥६॥तस्मात्सर्वं परित्यज्य तीर्थजालं सविस्तरम् ॥प्रभासस्यैव माहात्म्यं कथयस्व सुरेश्वर ॥७॥क्षेत्रप्रमाणं सीमां च क्षेत्रसारं हि यत्प्रभो ॥वक्तुमर्हसि तत्सर्वं परं कौतूहलं हि मे ॥८॥॥ईश्वर उवाच॥शृणु देवि प्रवक्ष्यामि क्षेत्राणां क्षेत्रमुत्तमम् ॥सर्वक्षेत्रेषु यत्क्षेत्रं प्रभासं तु प्रियं मम ॥९॥प्रभासे तु परा सिद्धिः प्रभासे तु परा गतिः ॥यत्र संनिहितो नित्यमहं भद्रे निरन्तरम् ॥१०॥तस्य प्रमाणं वक्ष्यामि सर्वसीमासमन्वितम्॥क्षेत्रं तु त्रिविध प्रोक्तं तत्ते वक्ष्याम्यनुक्रमात् ॥११॥क्षेत्रं पीठं गर्भगृहं प्रभासस्य प्रकीर्त्यते ॥यथाक्रमं फलं तस्य कोटिकोटिगुणं स्मृतम् ॥१२॥क्षेत्रं तु प्रथमं प्रोक्तं तच्च द्वादशयोजनम् ॥पञ्चयोजनमानेन क्षेत्रपीठं प्रकीर्तितम् ॥१३॥गर्भगृहं च गव्यूतिः कर्णिका सा मम प्रिया ॥क्षेत्रसीमा प्रवक्ष्यामि शृणु देवि यथाक्रमम् ॥१४॥आयामव्यासतश्चैव आदिमध्यान्तसंस्थितम् ॥पूर्वे तप्तोदक स्वामी पश्चिमे माधवः स्मृतः ॥१५॥दक्षिणे सागरस्तद्वद्भद्रा नद्युत्तरे मता ॥एवं सीमासमायुक्तं क्षेत्रं द्वादशयोजनम् ॥१६॥एतत्प्राभासिकं क्षेत्रं सर्वपातकनाशनम्॥तन्मध्ये पीठिका प्रोक्ता पञ्चयोजनविस्तृता ॥१७॥न्यंकुमन्यपरेणैव वज्रिण्याः पूर्वतस्तथा ॥माहेश्वर्या दक्षिणतः समुद्रोत्तरतस्तथा ॥१८॥आयामव्यासतश्चैव पञ्चयोजनविस्तरम् ॥पीठमेतत्समाख्यातमथो गर्भगृहं शृणु ॥१९॥दक्षिणोत्तरतो यावत्समुद्रा त्कौरवेश्वरी ॥पूर्वपश्चिमतो यावद्गोमुखाच्चाश्वमेधिकम् ॥एतद्गर्भगृहं प्रोक्तं कैलासान्मम वल्लभम् ॥२०॥अत्रान्तरे तु देवेशि यानि तीर्थानि भूतले ॥वापीकूपतडागानि देवतायतनानि च ॥२१॥सरांसि सरितश्चैव पल्वलानि ह्रदास्तथा ॥तानि मेध्यानि सर्वाणि सर्वपापहराणि च ॥२२॥यत्र तत्र नरः स्नात्वा स्वर्गलोके महीयते ॥क्षेत्रस्य प्रथमो भागो मेध्यो माहेश्वरः स्मृतः ॥२३॥द्वितीयो वैष्णवो भागो ब्रह्मभागस्तृतीयकः ॥तीर्थानां कोटिरेका तु ब्राह्मे भागे व्यवस्थिता ॥२४॥वैष्णवे कोटिरेका तु तीर्थानां वरवर्णिनि ॥सार्द्धकोटिस्तु संप्रोक्ता रुद्रभागे च मध्यतः ॥२५॥एवं देवि समाख्यातं तत्क्षेत्रं हि त्रिदैवतम् ॥गुह्याद्गुह्यतरं क्षेत्रं मम प्रियतरं शुभे ॥२६॥तिस्रः कोट्योऽर्द्धकोटिश्च क्षेत्रे प्रोक्ता विभागतः ॥यात्रा तु त्रिविधा ज्ञेया तां शृणुष्व वरानने ॥२७॥रौद्री तु प्रथमा यात्रा वैष्णवी च द्वितीयिका॥ब्राह्मी तृतीया संख्याता सर्वपातकनाशिनी ॥ ॥२८॥ब्राह्मे विभागे संप्रोक्ता इच्छाशक्तिर्वरानने ॥क्रिया च वैष्णवे भागे द्वितीये तु प्रकीर्तिता ॥२९॥रौद्रे भागे तृतीये तु ज्ञानशक्तिर्वरानने ॥यदि पापो यदि शठो यदि नैष्कृतिको नरः ॥३०॥निर्मुक्तः सर्वपापेभ्यो मध्यभागे वसेत्तु यः ॥हिमवंतं परित्यज्य पर्वतं गंधमादनम् ॥३१॥कैलासं निषधं चैव मेरुपृष्ठं महाद्युतिम् ॥रम्यं त्रिशिखरं चैव मानसं च महागिरिम् ॥३२॥देवोद्यानानि रम्याणि नंदनं वनमेव च ॥स्वर्गस्थानानि रम्याणि तीर्थान्यायतनानि च ॥तानि सर्वाणि संत्यज्य प्रभासे तु रतिर्मम ॥३३॥यस्तत्र वसते देवि संयतात्मा समाहितः ॥त्रिकालमपि भुंजानो वायुभक्षसमो भवेत् ॥३४॥विघ्नैरालोड्यमानोऽपि यः प्रभासं न मुंचति ॥स मुंचति जरां मृत्युं जन्मचक्रमशाश्वतम् ॥३५॥जन्मांतरशतैर्देवि योगो वा यदि लभ्यते ॥मोक्षस्य च सहस्रेण जन्मनां लभ्यते न च ॥३६॥प्रभासे तु महादेवि ये स्थिता कृतनिश्चयाः ॥एकेन जन्मना तेषां मोक्षो नैवात्र संशयः ॥३७॥प्रभासे तु स्थिता ये वै ब्राह्मणाः संशितव्रताः ॥मृत्युंजयेन संयुक्तं जपंति शतरुद्रियम् ॥३८॥कालाग्निरुद्रसांनिध्ये दक्षिणां दिशमाश्रिताः ॥ज्ञानं चोत्पद्यते तत्र षण्मासाभ्यंतरेण तु ॥३९॥शिवस्तु प्रोच्यते वेदो नामपर्यायवाचकैः ॥तस्य चात्मस्वरूपं तु शतरुद्रं प्रकीर्तितम् ॥४०॥कल्पेषु वेदाश्च पुनःपुनरावर्तकाः स्मृताः ॥मंत्राश्चैव तथा देवि मुक्त्वा तु शतरुद्रियम् ॥४१॥ईड्यं चैव तु मंत्रेण मामेव हि यजंति ये ॥प्रभासक्षेत्रमासाद्य ते मुक्ता नात्र संशयः ॥४२॥समंत्रोऽमंत्रको वापि यस्तत्र वसते नरः ॥सोऽपि यां गतिमाप्नोति यज्ञैर्दानैर्न साध्यते ॥४३॥अस्मिक्षेत्रे स्वयंभूश्च स्थितः साक्षान्महेश्वरः ॥रुद्राणां कोटयश्चैव प्रभासे संव्यवस्थिताः ॥४४॥ध्यायमानास्तथोंकारं स्थिताः सोमेशदक्षिणे ॥४५॥ब्रह्मांडोदरमध्ये तु यानि तीर्थानि सुव्रते ॥सोमेश्वरं गमिष्यंति वैशाखस्य चतुर्दशी ॥४६॥मनोबुद्धिरहंकारः कामक्रोधौ तथाऽपरे ॥एते रक्षंति सततं सोमेशं पापनाशनम् ॥४७॥न सा गतिः कुरुक्षेत्रे गंगाद्वारे त्रिपुष्करे ॥या गतिर्विहिता पुंसां प्रभासक्षेत्रवासिनाम् ॥४८॥तिर्यग्योनिगताः सत्त्वा ये प्रभासे कृतालयाः ॥कालेन निधनं प्राप्तास्तेपि यांति परां गतिम् ॥४९॥तद्गुह्यं देवदेवस्य तत्तीर्थं तत्तपोवनम् ॥तत्र ब्रह्मादयो देवा नारायणपुरोगमाः ॥५०॥योगिनश्च तथा सांख्या भगवंतं सनातनम् ॥उपासते प्रभासं तु मद्भक्ता मत्परायणाः ॥५१॥अष्टौ मासान्विहारः स्याद्यतीनां संयतात्मनाम् ॥एके च चतुरो मासानष्टौ वा नियतं वसेत् ॥५२॥प्रभासे तु प्रविष्टानां विहारस्तु न विद्यते ॥अत्र योगश्च मोक्षश्च प्राप्यते दुर्लभो नरैः ॥५३॥तस्मात्प्रभासं संत्यज्य नान्यद्गच्छेत्तपोवनम् ॥प्रभासं ये न सेवंते मूढास्ते तमसा वृताः ॥५४॥विण्मूत्ररेतसां मध्ये संभवंति पुनःपुनः ॥कामः क्रोधस्तथा लोभो दंभः स्तंभोऽथ मत्सरः ॥५५॥निद्रा तंद्रा तथाऽऽलस्यं पैशुन्यमिति ते दश ॥एते रक्षंति सततं सोमेशं तीर्थनायकम् ॥५६॥न प्रभासे मृतः कश्चिन्नरकं याति किल्बिषी ॥यावज्जीवं नरो यस्तु वसते कृतनिश्चयः ॥५७॥अग्निहोत्रैश्च संन्यासैराश्रमैश्च सुपालितैः ॥त्रिदंडैरेकदंडैश्च शैवैः पाशुपतैरपि ॥५८॥एतैरन्यैश्च यतिभिः प्राप्यते यत्फलं शुभम् ॥तत्सर्वं लभ्यते देवि श्रीसोमेश्वरयात्रया ॥५९॥एको ह्यर्चयते लिंगं तपस्यति तथापरः ॥तयोर्मध्ये तु श्रेष्ठो यः सोमेशं च प्रपूजयेत् ॥६॥।यत्तद्योगे च सांख्ये च सिद्धांते पंचरात्रिके ॥अन्यैश्च शास्त्रैर्विज्ञेयं प्रभासे संव्यवस्थितम् ॥६१॥लिंगे चैव स्थितं सर्वं जगदेतच्चराचरम्॥तस्माल्लिंगे सदा देवः पूजनीयः प्रयत्नतः ॥६२॥ममैव सा परा मूर्तिः श्रीसोमेशाख्यया स्थिता ॥तेन चैषा त्मनात्मानमाराधनपरो ह्यहम् ॥६३॥अनेकजन्मसाहस्रैर्भ्रममाणस्तु जन्मभिः ॥कस्तां प्राप्नोति वै मुक्तिं विना सोमेशपूजनात् ॥६४॥यत्किञ्चिदशुभं कर्म कृतं मानुषबुद्धिना ॥तत्सर्वं विलयं याति श्रीसोमेश्वरपूजनात् ॥६५॥अनेकजन्मकोटीभिर्जंतुभिर्यत्कृतं ह्यघम् ॥तत्सर्वं नाशमायाति श्रीसोमेश्वरपूजनात् ॥६६॥तीर्थानि यानि लोकेऽस्मिन्सेव्यंते पापमोक्षिभिः ॥तानि सर्वाणि शुद्ध्यर्थं प्रभासे संविशंति हि ॥६७॥योऽसौ कालाग्निरुद्रस्तु प्रोच्यते वेदवादिभिः ॥सोऽयं भैरवनाम्ना तु प्रभासे संव्यवस्थितः ॥६८॥जनानां दुष्कृतं सर्वं क्षेत्रमध्ये व्यवस्थितः ॥भैरवं रूपमास्थाय नाशयामि सुरेश्वरि ॥६९॥जगत्सर्वं चरित्वा तु स्थितोऽहं सचराचरम् ॥तेन भैरवनामाहं प्रभासे संव्यवस्थितः ॥७०॥अग्निना यत्र तप्तं तु दिव्याब्दानां चतुर्युगम् ॥मेघवाहनकल्पे तु तत्र लिंगं बभूव ह ॥७१॥अग्निमीडेति वेदोक्तप्रभावः सुरसुंदरि ॥कालाग्निरुद्रनामा च देवैः सर्वैरुदाहृतम् ॥७२॥अग्नीशानेति देवेशि नामत्रितयमुच्यते ॥कल्पेकल्पे तु नामानि कथितुं नैव शक्यते ॥असंख्यत्वाच्च कल्पानां ब्रह्मणा च वरानने ॥७३॥एवं चैव रहस्यं च महागोप्यं वरानने ॥स्नेहान्महत्या भक्त्या च मया ते परिकीर्तितम् ॥७४॥एकतस्तु जगत्सर्वं कर्म कांडे प्रतिष्ठितम् ॥यज्ञदानतपोहोमैः स्वाध्यायैः पितृतर्पणैः ॥७५॥उपवासैर्व्रतैः कृत्स्नैश्चांद्रायणशतैस्तथा ॥षड्रात्रैश्च त्रिरात्रैश्च तीर्थादिगमनैः परैः ॥७६॥आश्रमैर्विविधाकारैर्यतिभिर्ब्रह्मचारिभिः ॥वानप्रस्थैर्गृहस्थैश्च वेदकर्मपरायणैः ॥७७॥अन्यैश्च विविधाकारैर्लोकमार्गस्थितैः शुभैः ॥न तत्पदं परं देवि शक्यं वीक्षयितुं क्वचित् ॥७८॥यावन्न चार्चयेद्देवि सोमेशं लिंगनायकम् ॥लीलया वापि तैर्द्रष्टुं तत्पदं दुर्लभं परम् ॥७९॥पूजितो यैर्जगन्नाथः सोमेशः किल भैरवः ॥तिर्यग्योनिगता ये तु पशुपक्षिपिपीलिकाः ॥८०॥अन्तर्ज्जलगता ये तु कृमिकीटपतंगकाः ॥स्थावरा जंगमाश्चान्ये मनुष्याः पशवः स्त्रियः ॥८! ॥बाला वृद्धास्तथा षण्ढाः श्वानगर्द्दभवायसाः ॥चंडालाः पुष्कसाः शूद्रा म्लेच्छा येऽन्ये वियोनिजाः ॥८२॥मूर्खास्तु पण्डिताश्चापि ये चान्ये कुत्सिता भुवि ॥ते सर्वे मुक्तिमायांति प्रभासे ये मृताः शुभे ॥८३॥कालानलस्य रुद्रस्य कालराजेन चाग्निना ॥दग्धास्ते जन्तवः सर्वे प्रभासे ये मृताः शुभे ॥८४॥दुर्ल्लभं तु मम क्षेत्रं प्रभासं देवि पापिनाम् ॥न तत्र लभते मृत्युं पापात्मा लोकवंदिते ॥८५॥मया दक्षिणभागे च विघ्नेशः संप्रतिष्ठितः ॥उत्तरे दण्डपाणिस्तु क्षेत्रमेतच्च रक्षति ॥८६॥तथान्ये गणपाः सर्वे मदाज्ञावशवर्तिनः ॥क्षेत्रं रक्षंति देवेशि तेषां नामानि मे शृणु ॥८७॥महाबलस्तु चण्डीशो घंटाकर्णस्तु गोमुखः ॥विनायको महानादः काकवक्त्रः शुभेक्षणः ॥एकाक्षो दुन्दुभिश्चंडस्तालजंघस्तथैव च ॥८८॥भूमिदंडश्च चंडश्च शंकुकर्णश्च वैधृतिः ॥तालचण्डो महातेजा विकटास्यो हयाननः ॥९८९॥हस्तिवक्त्रः श्वानवक्त्रो बिडालवदनस्तथा ॥सिंहव्याघ्रमुखाश्चान्ये वीरभद्रादयस्तथा ॥९०॥विनायकं पुरस्कृत्य देव देवं कपर्द्दिनम् ॥एकादश तथा कोट्यो नियुतानि त्रयोदश ॥९१॥अर्बुदं च गणानां च प्रभासं क्षेत्रमाश्रिताः ॥द्वारिद्वारि प्रचंडास्ते शूलमुद्गरपाणयः ॥९२॥प्रभासक्षेत्रं रक्षंति देवदेवस्य वै गृहम् ॥न कश्चिद्दुष्टबुद्ध्या तु प्रविशेदिति संस्थितिः ॥९३॥शतकोटिगणैश्चापि पूर्वद्वारि तु संवृतः ॥अट्टहासो गणो नाम प्रभासं तत्र रक्षति ॥९४॥कालाक्षो भीषणश्चंडो वृतोऽष्टादशकोटिभिः ॥घंटाकर्णगणो नाम दक्षिणं द्वारमाश्रितः ॥९५॥पश्चिमद्वारमाश्रित्य स्थितवान्विष्टरो गणः ॥दण्डपाणिः स्थितस्तत्र देवदेवस्य चोत्तरे ॥९६॥योगक्षेमं वहन्नित्यं प्रभासे भावितात्मनाम्॥भीषणाक्षस्तथैशान्यामाग्नेय्यां छागवक्त्रकः ॥९७॥नैर्ऋत्यां चंडनादस्तु वायव्यां भैरवाननः ॥नन्दी चैव महाकालो दण्डपाणिर्विनायकः ॥९८॥एतेङ्गरक्षका मध्ये शतकोटिगणैर्वृताः ॥एवं रक्षंति बहवो ह्यसंख्येया गणेश्वराः ॥९९॥कलिकल्मषसंभूत्या येषां चोपहता मतिः ॥न तेषां तद्भवेद्गम्यं स्थानमर्धेन्दुमौलिनः ॥१००॥गंधर्वैः किन्नरैर्यक्षैरप्सरोभिस्तथोरगैः ॥सिद्धैः संपूज्य देवेशं सोमेशं पापनाशनम् ॥१०१॥अन्तर्धानं गतैर्नित्यं प्रभासं तु निषेव्यते ॥सप्तलोकेषु ये सन्ति सिद्धाः पातालवासिनः ॥प्रदक्षिणं ते कुर्वंति सोमेशं कालभैरवम् ॥१०२॥।पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च ॥लाकुलिं भारभूतिं च आषाढिं दण्डमेव च ॥१०३॥पुष्करं नैमिषं चैव अमरेशं तथापरम् ॥।भैरवं मध्यमं कालं केदारं कणवीरकम् ॥१०४॥हरिचंद्रस्तु शैलेशस्तथा वस्त्रांतिकेश्वरः ॥अट्टहासं महेन्द्रं च श्रीशैलं च गया तथा ॥१०५॥एतानि सर्वतीर्थानि देवं सोमेश्वरं प्रभुम् ॥प्रदक्षिणं प्रकुर्वंति तत्र लिंगं स्तुवंति च ॥१०६॥ब्रह्मा जनार्दनश्चान्ये ये देवा जगति स्थिताः ॥अग्निलिंगसमीपस्थाः संध्याकाले स्तुवंति च ॥१०७॥षष्टिकोटिसहस्राणि षष्टिकोटिशतानि च ॥सर्वे सोमेश्वरं यांति माघकृष्णचतुर्द्दशीम् ॥। ॥१०८॥तस्मिन्काले च यो दद्यात्सोमेशे घृतकम्बलम् ॥१०९॥घृतं रसं तिलान्दुग्धं जलं चंद्राधिवासितम् ॥एकत्र कृत्वा काश्मीरमित्येतद्घृतकंबलम् ॥११०॥।शिवरात्र्यां तु कर्त्तव्यमेतद्गोप्यं मम प्रियम् ॥एवं कृते च यत्पुण्यं गदितुं तन्न शक्यते ॥१११॥तत्र दक्षिणभागे तु स्वयं भूतविनायकम् ॥प्रथमं पूजयेद्देवि यदीच्छेत्सिद्धिमात्मनः ॥११२॥ऊषराणां च सर्वेषां प्रभासक्षेत्रमूषरम् ॥पीठानां चैव पीठं च क्षेत्राणां क्षेत्रमुत्तमम् ॥सन्देहानां च सर्वेषामयं संदेह उत्तमः ॥११३॥ये केचिद्योगिनः संति शतकोटिप्रविस्तराः ॥तेषां क्षेत्रे प्रभासे तु रतिर्न्नान्यत्र कुत्रचित् ॥। ॥११४॥लिंगादीशानभागे तु संस्थिता सुरसुन्दरि ॥११५॥मया या कथिता तुभ्यमुमा नाम कला शुभा ॥सा सती प्रोच्यते देवि दक्षस्य दुहिता पुरा ॥११६॥दक्षकोपाच्छरीरं तु संत्यज्य परमा कला ॥हिमवंतगृहे जाता उमानाम्ना च विश्रुता ॥११७॥तेन देवि त्वया सार्द्धं तत्रस्था वरदाः स्मृताः ॥नवकोट्यस्तु चामुंडास्तस्मिन्क्षेत्रे स्थिताः स्वयम् ॥११८॥चैत्रे मासि सिताष्टम्यां तत्र त्वां यदि पूजयेत् ॥एक विंशतिजन्मानि दारिद्र्यं तस्य नो भवेत् ॥११९॥अमा सोमेन संयुक्ता कदाचिद्यदि लभ्यते ॥तस्यां सोमेश्वरं दृष्ट्वा कोटियज्ञफलं लभेत् ॥ ॥१२०॥एतत्क्षेत्रं महागुह्यं सर्वपातकनाशनम्॥रुद्राणां कोटयो यत्र एकादश समासते ॥१२१॥द्वादशात्र दिनेशानां वसवोऽष्टौ समागताः ॥गन्धर्वयक्षरक्षांसि असंख्याता गणेश्वराः ॥१२२॥उमापि तत्र पार्श्वस्था सर्वदेवैस्तु संस्तुता ॥नन्दी च गणनाथो यो देवदेवस्य शूलिनः ॥१२३॥महाकालस्य ये चान्ये गणपाः संति पार्श्वगाः ॥गंगा च यमुना चैव तथा देवी सरस्वती ॥१२४॥अन्याश्च सरितः पुण्या नदाश्चैव ह्रदास्तथा ॥समुद्राः पर्वताः कूपा वनस्पतय एव च ॥१२५॥स्थावरं जंगमं चैव प्रभासे तु समागतम् ॥अन्ये चैव गणास्तत्र प्रभासे संव्यवस्थिताः ॥१२६॥न मया कथिताः सर्व उद्देशेन क्वचित्क्वचित् ॥भक्त्या परमया युक्तो देवदेवि विनायकम् ॥तृतीयं पूजयेत्तत्र वांछेत्क्षेत्रफलं यदि ॥१२७॥द्वादशैवं तथा चाष्टौ चत्वारिंशच्च कोटयः ॥नदीनामग्नितीर्थस्य द्वारे तिष्ठंति भामिनि ॥१२८॥निर्माल्यलंघनं किंचिदज्ञाताद्यदि वै कृतम् ॥तत्सर्वं विलयं याति अग्नितीर्थस्य दर्शनात् ॥१२९॥देवि किं बहुनोक्तेन क्षेत्रमेतन्महाप्रभम् ॥न ते वर्णयितुं शक्यं कल्पकोटिशतैरपि ॥१३॥।ये चांतरिक्षे भुवि ये च देवास्तीर्थानि वै यानि दिगंतरेषु ॥क्षेत्रं प्रभासं प्रवरं हि तेषां सोमेश्वरं देवि तथा वरिष्ठम् ॥१३१॥ये चांडजाश्चोद्भिजाश्चैव जीवाः सस्वेदजाश्चैव जरायुजाश्च ॥देवि प्रभासे तु गतासवोऽथ मुक्तिं परं यांति न संशयोऽत्र ॥१३२॥इति निगदितमेतद्देवदेवस्य चित्रं चरितमिदमचिंत्यं देवि ते शंकरस्य ॥कलिकलुषविदारं सर्वलोकोऽपि यायाद्यदि पठति शृणोति स्तौति नित्यं य इत्थम् ॥१३३॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये क्षेत्रप्रमाणवर्णनं नाम चतुर्थोऽध्यायः ॥४॥ N/A References : N/A Last Updated : January 07, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP