प्रभासक्षेत्र माहात्म्यम् - अध्याय ९२
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ईश्वर उवाच॥
ततो गच्छेन्महादेवि अघोरेश्वरमुत्तमम्॥
षष्ठं लिंगं समाख्यातं तद्वक्त्रं भैरवं स्मृतम् ॥१॥
त्र्यंबकेश्वरवायव्ये धनुषां पंचके स्थितम्॥
सर्वकामप्रदं पुण्यं कलिकल्मषनाशनम् ॥२।.
यस्तं पूजयते भक्त्या स्नानपूजादिभिः क्रमात्॥
मेरुदानस्य कृत्स्नस्य स लभेन्मनुजः फलम्॥३॥
दक्षिणामूर्तिमास्थाय यत्किंचित्तत्र दीयते॥
अघोरेश्वरदेवस्य तत्सर्वं चाक्षयं भवेत्॥४॥
यः श्राद्धं कुरुते तत्र अघोरेश्वरदक्षिणे॥
आकल्पं तृप्तिमायांति पितरस्तस्य तर्पिताः ॥५॥
किं श्राद्धेन गयातीर्थे वाजिमेधेन किं प्रिये ॥
तत्र श्राद्धेन तत्सर्वं फलमभ्यधिकं लभेत् ॥६॥
त्रुटिमात्रमपि स्वर्णं यात्रायां यः प्रयच्छति ॥
स सर्वं फलमाप्नोति महादानस्य भूरिशः ॥७॥
ब्रह्मकूर्चं चरेद्यस्तु सोमाष्टम्यां विधानतः ॥
अघोरेश्वरसांनिध्ये अघोरेणाभिमंत्रितम् ॥
षडब्दस्य महत्तेन प्रायश्चित्तं कृतं भवेत् ॥८॥
इति संक्षेपतः प्रोक्तमघोरेशमहोदयम् ॥
माहात्म्यं सर्वपापघ्नं श्रुतं सर्वार्थसाधकम् ॥९॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य एकादश रुद्रमाहात्म्येऽघोरेश्वरमाहात्म्यवर्णनंनाम द्विनवतितमोऽध्यायः ॥९२॥
N/A
References : N/A
Last Updated : January 08, 2025

TOP