संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्| अध्याय २२३ प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ अध्याय २८० अध्याय २८१ अध्याय २८२ अध्याय २८३ अध्याय २८४ अध्याय २८५ अध्याय २८६ अध्याय २८७ अध्याय २८८ अध्याय २८९ अध्याय २९० अध्याय २९१ अध्याय २९२ अध्याय २९३ अध्याय २९४ अध्याय २९५ अध्याय २९६ अध्याय २९७ अध्याय २९८ अध्याय २९९ अध्याय ३०० अध्याय ३०१ अध्याय ३०२ अध्याय ३०३ अध्याय ३०४ अध्याय ३०५ अध्याय ३०६ अध्याय ३०७ अध्याय ३०८ अध्याय ३०९ अध्याय ३१० अध्याय ३११ अध्याय ३१२ अध्याय ३१३ अध्याय ३१४ अध्याय ३१५ अध्याय ३१६ अध्याय ३१७ अध्याय ३१८ अध्याय ३१९ अध्याय ३२० अध्याय ३२१ अध्याय ३२२ अध्याय ३२३ अध्याय ३२४ अध्याय ३२५ अध्याय ३२६ अध्याय ३२७ अध्याय ३२८ अध्याय ३२९ अध्याय ३३० अध्याय ३३१ अध्याय ३३२ अध्याय ३३३ अध्याय ३३४ अध्याय ३३५ अध्याय ३३६ अध्याय ३३७ अध्याय ३३८ अध्याय ३३९ अध्याय ३४० अध्याय ३४१ अध्याय ३४२ अध्याय ३४३ अध्याय ३४४ अध्याय ३४५ अध्याय ३४६ अध्याय ३४७ अध्याय ३४८ अध्याय ३४९ अध्याय ३५० अध्याय ३५१ अध्याय ३५२ अध्याय ३५३ अध्याय ३५४ अध्याय ३५५ अध्याय ३५६ अध्याय ३५७ अध्याय ३५८ अध्याय ३५९ अध्याय ३६० अध्याय ३६१ अध्याय ३६२ अध्याय ३६३ अध्याय ३६४ अध्याय ३६५ अध्याय ३६६ विषयानुक्रमणिका प्रभासक्षेत्र माहात्म्यम् - अध्याय २२३ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय २२३ Translation - भाषांतर ॥ईश्वर उवाच॥ततो गच्छेन्महादेवि लिंगं त्रैलोक्यपूजितम् ॥गात्रोत्सर्गमिति ख्यातं तस्य दक्षिणतः स्थितम् ॥१॥यत्र गात्रं परित्यक्तं बलभद्रेण धीमता ॥अन्यैश्चैव महाभागैर्यादवैस्तत्र संयुगे ॥२॥यत्र ते यादवाः क्षीणा ब्रह्मशापबलाहिना ॥एतत्पुरुषोत्तमं क्षेत्रं समन्ताद्धनुषां शतम् ॥३॥यत्र साक्षात्स्वयं देवि तिष्ठते पुरुषोत्तमः ॥तदेव वैष्णवं क्षेत्रं कलौ पातकनाशनम् ॥४॥रहस्यं परमं देवि तीर्थानां प्रवरं हि तत्॥पूर्वं कृतयुगे देवि प्रेततीर्थं च संस्मृतम् ॥कलौ युगे तु संप्राप्ते गात्रोत्सर्गमिति त्वभूत् ॥५॥ऋणमोचनपार्श्वे तु मध्ये तु पापमोचनात्॥एतन्मध्यं समाश्रित्य मृतः पापैर्विमुच्यते ॥६॥तस्य किं वर्ण्यते देवि यत्रानन्तफलं महत् ॥अथमेधसहस्रस्य फलं स्नात्वा ह्यवाप्यते ॥७॥यत्राश्वत्थं समासाद्य समाधिन्यस्तमानसः ॥मुमोच दुस्त्यजान्प्राणान्ब्रह्मद्वारेण केशवः ॥८॥तत्र नारायणं साक्षाद्बलभद्रं च रुक्मिणीम् ॥पूजयित्वा विधानेन मुच्यते पातकत्रयात् ॥९॥तत्र स्नात्वा नरो भक्त्या यः संतर्पयते पितॄन् ॥प्रेतत्वात्पितरो मुक्ता भवन्ति श्राद्धदायिनः ॥१०॥।गोघ्नः सुरापो दुर्मेधा ब्रह्महा गुरुतल्पगः ॥तत्र स्नात्वा नरः सद्यो विपापः संप्रपद्यते ॥११॥बाल्ये वयसि यत्पापं वार्द्धके यौवनेऽपि वा ॥अज्ञानाज्ज्ञानतो वापि यः करोति नरः प्रिये ॥तत्र स्नात्वा प्रमुच्येत तीर्थे गात्रप्रमोचने ॥१२॥तत्र पिण्डप्रदानेन पितॄणां जायते परा ॥तृप्तिर्वर्षशतं यावदेतदाह पुरा हरिः ॥१३॥यः पुनश्चान्नदानं तु तत्र कुर्यात्समाहितः ॥तस्यान्वयेऽपि देवेशि न प्रेतो जायते नरः ॥१४॥॥श्रीदेव्युवाच॥प्रेततीर्थमिति प्रोक्तं पश्चाद्गात्रविमोचनम् ॥वद मे देवदेवेश प्रेततीर्थस्य कारणम् ॥१९॥ ॥ईश्वर उवाच॥शृणु देवि प्रवक्ष्यामि प्रेततीर्थस्य कारणम्॥यच्छ्रुत्वा मानवो भक्त्या मुक्तः स्यात्सर्वकिल्बिषैः ॥१६॥पुराऽऽसीद्गौतमोनाम महर्षिः शंसितव्रतः ॥भृगुकल्पात्समायातः क्षेत्रे प्राभासिके शुभे ॥१७॥अयने चोत्तरे पुण्ये श्रीसोमेशदिदृक्षया ॥दृष्ट्वा सोमेश्वरं देवं स्नात्वा तीर्थेषु कृत्स्नशः ॥१८॥स गच्छंस्तीर्थयात्रायां गात्रोत्सर्गं ततो गतः ॥१९॥अथासौ ब्राह्मणो देवि यावत्सीमामुपागतः ॥तावद्विष्णुप्रियं तत्र ददृशे वैष्णवं वनम् ॥२०॥पुरुषोत्तमनामाढ्यं क्षेत्रं च धनुषां शतम् ॥तस्मिन्क्षेत्रे स चापश्यत्पंच प्रेतान्सुदारुणान् ॥२१॥महावृक्षसमारूढान्महाकायान्महोत्कटान्॥ऊर्ध्वकेशाञ्छंकुकर्णान्स्नायुनद्धकलेवरान् ॥२२॥विमांसरुधिरान्नग्नानथ कृष्णकलेवरान् ॥दृष्ट्वाऽसौ भयसंत्रस्तो विनष्टोऽस्मीत्यचिन्तयत् ॥२३॥ध्यात्वाऽऽह सुचिरं कालं धैर्यमास्थाय यत्नतः ॥के यूयं विकृताकारा दृष्टाः पूर्वं मया पुरा ॥२४॥न कदाचिद्यथा यूयं किमर्थं क्षेत्रमध्यतः ॥धावमानाः सुदुःखार्ता एतन्मे कौतुकं महत् ॥२५॥ ॥प्रेता ऊचुः॥वयं प्रेता महाभाग दूरादिह समागताः ॥श्रुत्वा तीर्थवरं पुण्यं प्रवेशं न लभामहे ॥२६॥गणैरंतर्धानगतैः प्रहारैर्जर्जरीकृताः ॥लेखको रोहकश्चैव सूचकः शीघ्रगस्तथा ॥२७॥अहं पर्युषितोनाम पञ्चमः पापकृत्तमः ॥२८॥ ॥गौतम उवाच॥प्रेतयोनौ प्रवृत्तानां केन नामानि कृत्स्नशः ॥युष्माकं निर्मितान्येवमेतन्मे कौतुकं महत् ॥२९॥ ॥प्रेता ऊचुः॥याचमानस्य विप्रस्य लिखत्येष धरातले ॥नोत्तरं पठते किञ्चित्तेनासौ लेखकः स्मृतः ॥३०॥द्वितीयो ब्राह्मणभयात्प्रासादमधिरोहति ॥ततोऽसौ रोहकाख्योऽभूच्छृणु विप्र तृतीयकम् ॥३१॥सूचिता बहवोऽनेन ब्राह्मणा वित्तसंयुताः ।राज्ञे पापेन तेनासौ सूचको भुवि विश्रुतः ॥३२॥ब्राह्मणैः प्रार्थ्यमानस्तु शीघ्रं धावति नित्यशः ॥न कदाचिद्ददाति स्म तेनासौ शीघ्रगः स्मृतः ॥३३॥मया कदन्नं दत्तं च पर्युषितं ब्राह्मणोत्तमे ॥ब्राह्मणेभ्यः सदा दानं मिष्टान्नेन तु पोषणम् ॥तस्मात्पर्युषितोनाम संजातोऽहं धरातले ॥३४॥ ॥गौतम उवाच॥न विना भोजनेनैव वर्तन्ते प्राणिनो भुवि ॥किमाहारा भवन्तो वै वदध्वं मम कौतुकात् ॥३५॥ ॥प्रेता ऊचुः॥प्राप्ते भोजनकाले तु यत्र युद्धं प्रवर्तते ॥तस्यान्नस्य रसं सर्वं भुंजामो द्विजसत्तम ॥३६॥नानुलिप्ते धरापृष्ठे यत्र भुंजन्ति मानवाः ॥भ्रष्टशौचा द्विजश्रेष्ठ तदस्माकं तु भोजनम् ॥३७॥अप्रक्षालितपादस्तु यो भुंक्ते दक्षिणामुखः ॥यो वेष्टितशिरा भुंक्ते प्रेता भुंजन्ति नित्यशः ॥३८॥श्राद्धं संपश्यते श्वा चेन्नारी चैव रजस्वला ॥अन्त्यजः शूकरश्चान्नं तदस्माकं तु भोजनम् ॥३९॥त्यक्त्वा क्रमागतं विप्रं पूजितं प्रपितामहैः ॥यो दानं ददतेऽन्यस्मै तस्मै चाऽतुष्टचेतसा ॥४०॥तस्य दानस्य यत्पुण्यं तदस्माकं प्रजायते ॥यस्मिन्गृहे सदोच्छिष्टं सदा च कलहो भवेत् ॥वैश्वदेवविहीने तु तत्र भुंजामहे वयम् ॥४१॥ ॥गौतम उवाच॥युष्माकं कीदृशे गेहे प्रवेशो न च विद्यते ॥सत्यं वदत माऽसत्यं सत्यं साधुषु संगतम् ॥४२॥ ॥प्रेता ऊचुः॥वैश्वदेवोद्भवा यत्र धूमवर्तिः प्रदृश्यते ॥तस्मिन्गेहे न चास्माकं प्रवेशो विद्यते द्विज ॥४३॥यस्मिन्गृहे प्रभाते तु क्रियते चोपलेपनम् ॥विद्यते वेद निर्घोषस्तत्रास्माकं न किंचन ॥४४॥ ॥गौतम उवाच॥केन कर्मविपाकेन प्रेतत्वं व्रजते नरः ॥एतन्मे विस्तरेणैव यथावद्वक्तु मर्हथ ॥४५॥ ॥प्रेता ऊचुः॥मृषाऽपहारिणो ये च ये चोच्छिष्टा व्रजन्ति च ॥गोब्राह्मणहताश्चैव प्रेतत्वं ते व्रजन्ति हि ॥४६॥पैशुन्यनिरता ये च कूटसाक्ष्यरता नराः ॥न्यायपक्षे न वर्तंते मृताः प्रेता भवंति ते ॥४७॥श्लेष्ममूत्रपुरीषाणि ये क्षिपन्ति सरोवरे ॥प्रेतत्वं ते समासाद्य विचरंति च मानवाः ॥४८॥दीयमानं तु विप्राणां गोषु विप्रातुरेषु च ॥मा देहीति प्रजल्पन्तस्ते च प्रेता भवंति च ॥४९॥शूद्रान्नेनोदरस्थेन यदि विप्रो म्रियेत वै ॥प्रेतत्वं यात्यसौ नूनं यद्यपि स्यात्षडंगवित् ॥५०॥यस्त्रीन्हले बलीवर्दान्वाहयेन्मदसंयुतः ॥अमावास्यां विशेषेण स प्रेतो जायते नरः ॥५१॥नास्तिको निंदकः क्षुद्रो नित्यनैमित्त्यवर्जितः ॥ब्राह्मणान्द्वेष्टि यो नूनं स प्रेतो जायते नरः ॥५२॥विश्वासघातको यस्तु ब्रह्महा स्त्रीवधे रतः ॥गोघ्नो गुरुघ्रः पितृहा स प्रेतो जायते नरः॥५३॥यस्य नैव प्रदत्तानि एकोद्दिष्टानि षोडश ॥मृतस्य न वृषोत्सर्गः स प्रेतो जायते नरः ॥५४॥एतद्धि सर्वमाख्यातं यत्पृष्टाः स्म द्विजोत्तम ॥भूयो ब्रूहि द्विजश्रेष्ठ यश्चास्ति तव संशयः ॥५५॥ ॥गौतम उवाच॥येन कर्मविपाकेनन प्रेतो जायते नरः ॥तन्मे वदत निःशेषं कौतुकं मेऽत्र विद्यते ॥५६॥ ॥प्रेता ऊचुः॥तीर्थयात्रा रतो यस्तु देवार्चनपरायणः ॥ब्राह्मणेषु सदा भक्तो न प्रेतो जायते नरः ॥५७॥नित्यं शृणोति शास्त्राणि नित्यं सेवति पंडितान्॥वृद्धांस्तु पृच्छते नित्यं न स प्रेतो विजायते ॥५८॥एतस्मात्कारणात्प्राप्ता वयं सर्वे सुदूरतः ॥शक्नुमो प्रवेष्टुं च पुण्येऽस्मिन्क्षेत्र उत्तमे ॥५९॥निर्विण्णाः प्रेतरूपेण तस्मात्त्वं द्विजसत्तम ॥गतिर्भव महाभाग सर्वेषां नः प्रयत्नतः ॥६०॥ ॥गौतम उवाच॥कथं वो जायते मोक्षो वदध्वं कृत्स्नशो मम ॥कृपयाविष्टचित्तोऽहं यतिष्ये नात्र संशयः ॥६१॥ ॥प्रेता ऊचुः॥प्रभूतकालमस्माकं प्रेतत्वे तिष्ठतां विभो ॥न त्वभ्येति पुमान्कश्चिदस्माकं यो गतिर्भवेत् ॥६२॥तस्मात्त्वं देहि नः श्राद्धं गत्वा क्षेत्रं तु वैष्णवम्॥नामगोत्राणि चादाय मोक्षं यास्यामहे ततः ॥६३॥॥ ॥ईश्वर उवाच॥ततोऽसौ ब्राह्मणो गत्वा दयाविष्टो हरेर्गृहम् ॥श्राद्धं च प्रददौ तेषामेकैकस्य पृथक्पृथक् ॥६४॥यस्ययस्य यदा श्राद्धं करोति द्विजसत्तमः ॥स रात्रौ स्वप्न एत्यैनं दर्शने वाक्यमब्रवीत् ॥६५॥प्रसादात्तव विप्रेन्द्र मुक्तोऽहं प्रेतयोनितः ॥स्वस्ति तेऽस्तु गमिष्यामि विमानं मे ह्युपस्थितम् ॥६६॥एवं संतारितास्तेन चत्वारस्ते द्विजोत्तमाः ॥६७॥अथासौ ब्राह्मणश्रेष्ठः संप्राप्ते पञ्चमे दिने ॥प्रददौ विधिपूर्वं तु श्राद्धं पर्युषितस्य च ॥६८॥अथापश्यत स्वप्नान्ते प्राप्तं पर्युषितं नरम् ॥दीनवाक्यं परिक्लिष्टं निःश्वसन्तं मुहुर्मुहुः ॥६९॥ ॥पर्युषित उवाच॥न मे जाता गतिर्विप्र मंदभाग्यस्य पापिनः ॥मया हृतं तडागार्थं यद्वित्तं प्रगुणीकृतम् ॥७०॥ ॥गौतम उवाच॥कथं ते जायते मोक्षो वद शीघ्रमशेषतः ॥करिष्ये नात्र संदेहो यद्यपि स्यात्सुदुर्लभम् ॥७१॥ ॥पर्युषित उवाच॥।अयने चोत्तरे प्राप्ते गत्वा तीर्थं हरिप्रियम् ॥श्राद्धं त्वं देहि मे नूनं ततो गतिर्भविष्यति ॥७२॥ ॥ईश्वर उवाच॥एवमुक्तः स विप्रेन्द्रस्तेन प्रेतेन वै मुनिः ॥अयने चोत्तरे प्राप्ते गत्वा तीर्थं हरिप्रियम् ॥प्रददौ विधिवच्छ्राद्धं ततः पर्युषिताय च ॥७३॥ततः पर्युषितो रात्रौ स्वप्नान्ते वाक्यमब्रवीत् ॥प्रसन्नवदनो भूत्वा दिव्यमाल्यवपुर्धरः ॥७४॥ ॥पर्युषित उवाच॥मुक्तोऽहं त्वत्प्रसादेन प्रेतभावाद्द्विजोत्तम ॥स्वस्ति तेऽस्तु गमिष्यामि विमानं मे ह्युपस्थितम् ॥७५॥देवत्वं च मया प्राप्तं समर्थोऽहं द्विजोत्तम ॥वरं ददामि ते विप्र गृहाण त्वं वरं शुभम् ॥७६॥ब्रह्मघ्ने च सुरापे च चौरे भग्नव्रते तथा ॥निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ॥७७॥ ॥गौतम उवाच॥यदि देयो वरोऽस्माकं समर्थोऽसि वरप्रद ॥यत्र स्थाने मया दृष्टाः प्रेता यूयं सुदुःखिताः ॥तत्राहं चाश्रमं कृत्वा करिष्ये चोत्तमं तपः ॥७८॥निर्गतास्मि गृहं भूयो स्नात्वा तीर्थमिदं महत् ॥तत्र यो भानवो भक्त्या पितॄनुद्दिश्य भक्तितः ॥७९॥विधिवद्दास्यति श्राद्धं स्नात्वा संतर्प्य देवताः ॥युष्मत्प्रसादतस्तस्य ह्यन्वयेऽपि कदाचन ॥मा भूयात्प्रेतभावो हि अपि पापान्वितस्य भोः ॥८०॥ ॥पर्युषित उवाच॥गच्छ त्वं चाश्रमं तत्र कुरु ब्राह्मणसत्तम ॥गमिष्यसि परां सिद्धिं लोके ख्यातिं गमिष्यसि ॥८१॥तत्र ये मानवा भक्त्या श्राद्धं दास्यंति सत्तमाः ॥पितॄणां ते विमानस्था यास्यंति त्रिदिवालयम् ॥८२॥न तेषां वंशजः कश्चित्प्रेतत्वं च गमिष्यति ॥प्राहुः सप्तपदीं मैत्रीं पंडिताः स्थिरबुद्धयः ॥८३॥मित्रतां तु पुरस्कृत्य किं तद्वक्ष्यामि तच्छृणु ॥तवाश्रमपदं पुण्यं भविष्यति महीतले ॥८४॥सर्वपापप्रशमनं सर्वदुःखवि नाशनम् ॥मन्नाम्ना ख्यातिमायातु प्रेततीर्थमिति प्रभो ॥८५॥ ॥ईश्वर उवाच॥तं तथेति प्रतिज्ञाय गतस्तत्र द्विजोत्तमः ॥यथा वेदोक्तमार्गेंण सर्वं कृत्यं चकार सः ॥८६॥सोऽपि स्वर्गमनुप्राप्तो हृष्टः पर्युषितः प्रिये ॥एतत्सर्वं पुरावृत्तं स्थानेऽस्मिन्गात्रमोचने ॥८७॥यः शृणोति नरः सम्यक्सर्वपापैः स मुच्यते ॥शयनोत्थापने योगे यः पश्येत्पुरुषोत्तमम् ॥गात्रोत्सर्गे तु गत्वाऽसौ यज्ञायुतफलं लभेत् ॥८८॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये पुरुषोत्तमतीर्थप्रेततीर्थमाहात्म्यवर्णनंनाम त्रयोविंशत्युत्तरद्विशततमोऽध्यायः ॥२२३॥ N/A References : N/A Last Updated : January 12, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP