संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय ८५

प्रभासक्षेत्र माहात्म्यम् - अध्याय ८५

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥देव्युवाच॥
तत्र संनिहिता प्रोक्ता या त्वया वृषभध्वज ॥
कथं देव समायाता कुरुक्षेत्रान्महानदी ॥
किं प्रभावा तु सा प्रोक्ता फलं स्नानादिकेन किम् ॥१॥
 ॥ईश्वर उवाच॥
शृणु देवि प्रवक्ष्यामि यत्र संनिहिता शुभा ॥
पापघ्नी सर्वजंतूनां दर्शनात्स्पर्शनादपि ॥२॥
आदिनारायणाद्देवि पश्चिमे धनुषां त्रये ॥
संस्थिता सा महादेवी सरिद्रूपा महानदी ॥३॥
कथयामि समासेन तदुत्पत्तिं शृणु प्रिये ॥
जरासंधभयाद्देवि विष्णुः परिजनैः सह ॥४॥
गृहीत्वा यादवान्सर्वान्बालवृद्धवणिग्जनान् ॥
स शून्यां मथुरां कृत्वा प्रभासं समुपागतः ॥५॥
समुद्रं प्रार्थयामास स्थानं संवासहेतवे ॥
एतस्मिन्नेव काले तु देवदेवो दिवाकरः ॥६॥
संग्रस्तो राहुणा देवि पर्वकाले ह्युपस्थिते ॥
तं दृष्ट्वा यादवाः सर्वे विषादं परमं गताः ॥७॥
अप्राप्ताः संनिहित्यायां तानुवाच जनार्द्दनः ॥
मा विषादं यदुश्रेष्ठा व्रजध्वं मयि संस्थिते ॥८॥
दृश्यतां मत्प्रभावोऽद्य धर्मा र्थमिह भूतले ॥
आनयिष्याम्यहं सम्यक्पुण्यं सांनिहितं सरः ॥९॥
एवमुक्त्वा स भगवान्समाधिस्थो बभूव ह ॥
एवं संध्यायतस्तस्य विष्णोरमिततेजसः ॥१०॥
प्रादुर्भूता ततस्तस्य वारिधाराऽग्रतः शुभा ॥
बिभेद्य धरणीपृष्ठं स्नानार्थं चासुरद्विषः ॥११॥
तत स्ते यादवाः सर्वे रामसांबपुरोगमाः ॥
चक्रुः स्नानं महादेवि राहुग्रस्ते दिवाकरे ॥१२॥
प्राप्तपुण्या बभूवुस्ते संनिहित्यासमुद्भवम् ॥
कुरुक्षेत्रस्य यात्रायाः प्राप्य सम्यक्फलं हि ते ॥१३॥
एवं तत्समनुप्राप्तं पुण्यं सान्निहितं सरः ॥
तत्र स्नात्वा महादेवि राहुग्रस्ते दिवाकरे ॥
अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोत्यशेषतः ॥१४॥
यस्तत्र भोजयेद्विप्रं षड्रसं विधिपूर्वकम् ॥
एकेन भोजितेनैव कोटिर्भवति भोजिता ॥१५॥
यस्तत्र कारयेद्धोमं संनिहित्यासमीपतः ॥
एकैकाहुतिदानेन कोटिहोमफलं लभेत् ॥१६॥
मन्त्रजाप्यं तु कुरुते तत्र स्थाने स्थितो यदि ॥
एकैकमंत्रजाप्येन कोटिजाप्यफलं लभेत् ॥१७॥
सुवर्णदानं दातव्यं तत्र यात्राफलेप्सुभिः ॥
स्नात्वा संपूजनीयश्च आदिदेवो जनार्द्दनः ॥१८॥
इति वै कथितं सम्यक्फलं सांनिहितं तव ॥
श्रुतं पापहरं नृणां सम्यक्छ्रद्धावतां प्रिये ॥१९॥।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये संनिहित्यामाहात्म्यवर्णनंनाम पंचाशीतितमोऽध्यायः ॥८५॥

N/A

References : N/A
Last Updated : January 08, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP