संस्कृत सूची|संस्कृत साहित्य|पुराण|सौरपुराणं व्यासकृतम् ।|
अध्यायः ६६

सौरपुराणं - अध्यायः ६६

सौरपुराणं व्यासकृतम् ।


ब्रह्मोवाच -
पुष्पं वा यदि वा पत्रं सकृल्लिङ्गे समर्पितम् ।
तदनन्तफलं प्रोक्तं हेतुर्भवति मुक्तये ॥१॥
+ ( तुष्टे शिव इत्यादि शिवलोकभाज इत्यन्तं श्लोकपञ्चकं कखगजझसंज्ञितपुस्तकेषु नास्ति । )
+ तुष्टे शिव पदार्थः को दुर्लभो हि नृणां प्रभो ।
तस्मात्सर्वप्रयत्नेन शिवप्रीत्यर्थमाचरेत् ॥२॥
यावद्दातुं शिवः शक्तस्तावच्चिन्तयितुं प्रभुः ।
तत्सर्वं न नरः सौख्यं शिवप्रीत्यर्थमाचरेत् ॥३॥
ऋद्धिसिद्धी न दूरस्थे शिवप्रीत्यर्थकर्मणाम् ।
नराणां नरनाथे किं प्रीते तु दुर्लभं भवेत् ॥४॥
विश्वेश्वरं सदा प्रेम्णा ये भजन्ति नरोत्तमाः ।
इह सौख्यं चिरं भुक्त्वा ह्यन्ते मोक्षमवाप्नुयुः ॥५॥
श्रीशंभुनाथं भुवि मानवा ये भजन्ति भक्त्या नरलोकवन्द्याः ।
भवन्ति ते हाटकपूर्णगेहा देहावसाने शिवलोकभाजः ॥६॥
ब्रह्महा वा सुरापो वा स्तेयी वा गुरुतल्पगः ।
योऽन्तकाले शिवं स्मर्याच्छिवसायुज्यमाप्नुयात् ॥७॥
निर्माल्यं धारयेद्भक्त्या शिरसा पार्वतीपतेः ।
राजसूयस्य यज्ञस्य फलमाप्नोत्यनुत्तमम् ॥८॥
शिरसा शिवनिर्माल्यं भक्त्या यो धारयिष्यति ।
अशुचिर्भिन्नमर्यादः सर्वावस्थां गतोऽपि वा ॥९॥
स्वैरी चैवाप्रयुक्तात्मा नियमैश्च बहिष्कृतः ।
तस्य पापानि नश्यन्ति नात्र कार्या विचारणा ॥१०॥
मोहान्न धारयेच्छंभोर्निर्माल्यं न च भक्षयेत् ।
न स्पृशेदपि पादेन लङ्घयेन्नापि नारद ॥११॥
निर्माल्यलङ्घनाच्छंभोश्चाण्डालः सोऽभिजायते ।
पृथूदकं महत्तीर्थं गङ्गा च यमुना तथा ॥१२॥
नर्मदा सरयूः क्षिप्रा तथा गोदावरी नदी ।
सदा संनिहितास्त्वेवं शंभोः स्नानोदके मुने ॥१३॥
शंभोः स्नानोदकं सेव्यं सर्वतीर्थमयं हि तत् ।
धारणात्पापसंघातैस्तत्क्षणादेव मुच्यते ॥१४॥
लिङ्गे स्वायंभुवे बाणे रत्नजे रसनिर्मिते ।
सिद्धप्रतिष्ठिते लिङ्गे न चण्डोऽधिकृतो भवेत् ॥१५॥
पादोदकं च निर्माल्यं भक्तैर्धार्यं प्रयत्नतः ।
न तान्स्पृशन्ति पापानि मनोवाक्कायजान्यपि ॥१६॥
नारद उवाच -
किं लिङ्गं प्रोच्यते तात केन वा तदधिष्ठितम् ।
भगवन्ब्रूहि मे सर्वमाश्चर्यं ह्येतदुत्तमम् ॥१७॥
ब्रह्मोवाच -
अव्यक्तं लिङ्गमित्युक्तमानन्दं तमसः परम् ।
महादेवस्य यत्नेन लिङ्गी स्यात्तेन शंकरः ॥१८॥
एकार्णवे पुरा घोरे नष्टे स्थानवरजङ्गमे ।
मम विष्णोः प्रबोधार्थमाविर्भूतं शिवात्मकम् ॥१९॥
तदाप्रभृत्यहं विष्णुर्भक्त्या परमया मुदा ।
लिङ्गमूर्तिधरं शान्तं पूजयावो वृषध्वजम् ॥२०॥
नारद उवाच -
लिङ्गं कथमभूत्पूर्वमानन्दमजरं ध्रुवम् ।
प्रबोधार्थं च युवयोर्वक्तुमर्हसि पद्मज ॥२१॥
ब्रह्मोवाच -
आसीदेकार्णवे घोरे निर्विभागे तमोमये ।
शेते च भगवान्विष्नुस्तप्तजाम्बूनदप्रभः ॥२२॥
तत्समीपमहं गत्वा संरम्भादिदमुक्तवान् ।
कस्त्वं किमर्थं वा शेषे शीघ्रमुत्तिष्ठ दुर्मते ॥२३॥
कुरु युद्धं मया सार्धमहमेव जगत्पतिः ।
अथ वा भज मां देवं त्रैलोक्यस्याभयप्रदम् ॥२४॥
एवं मद्वचनं श्रुत्वा प्रहसन्मधुसूदनः ।
मामब्रवीदमेयात्मा कथं गर्वायसे मुधा ॥२५॥
कर्ताऽह्गं सर्वलोकानां पालकोऽहं न संशयः ।
संहर्ताऽहं पुनश्चान्ते नान्योऽस्ति सद्वशो मया ॥२६॥
एवं विवादे संजाते मम देवेन शार्ङ्गिणा ।
प्रादुर्भूतं तदा लिङ्गमावयोर्दर्पहारि तत् ॥२७॥
कालाग्निप्रयुतप्रख्यं ज्वालामालासमाकुलम् ।
आदिमध्यान्तरहितं क्षयवृद्धिविवर्जितम् ॥२८॥
तस्मिल्लिंङ्गे महादेवः स्वयंज्योतिः सनातनः ।
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥२९॥
अर्धनारीश्वरोऽनन्तस्तेजोराशिर्दुरासदः ।
ज्येष्ठत्वं युवयोस्तावदास्तां किंचिद्ब्रवीम्यहम् ॥३०॥
मूलं ममास्य लिङ्गस्य यदि पश्यति माधवः ।
नूनं भविष्यति ज्येष्ठ इति देवेन भाषितम् ॥३१॥
मूर्धानमस्य लिङ्गस्य यदि पश्यति पद्मजः ।
भविष्यति ततो ज्येष्ठ इति देवेन भाषितम् ॥३२॥
एवं शंभोर्निगदितमुररीकृत्य नारद ।
गतोऽस्मि मस्तकं द्रष्टुं तस्य लिङ्गस्य पुत्रक ॥३३॥
आवयोर्वर्षसाहस्रं गच्छतोर्मोहितात्मनोः ।
गतं देवऋषे नूनं विस्मयाविष्टचित्तयोः ॥३४॥
हरिर्मूलमदृष्ट्वैव तं देवं पुनरागतः ।
यथा इरिस्तथैवाहमागतो वै मुने तदा ॥३५॥
तमेव शरणं गत्वा संस्तूय विविधैः स्तवैः ।
प्रीतो भूत्वा महादेवो वाक्यमेतदुवाच ह ॥३६॥
ईश्वर उवाच -
मत्प्रसादेन सर्वस्मादधिको भव माधव ।
मद्भक्तानां तवमेवाग्र्यः पूज्यो मान्यस्त्वमेव हि ॥३७॥
लिङ्गे मां पूजय हरे लिङ्गमूर्तिधरो ह्यहम् ।
अंत ऊर्ध्वं न संदेहः सर्वे चान्ये दिवौकसः ॥३८॥
लिङ्गाराधनतः क्षिप्रमज्ञान नाशयाम्यहम् ।
लिङ्गार्चनरतानां च नास्ति संसारजं भयम् ॥३९॥
एवं हरेर्बरं दत्त्वा मा मुवाचमहेश्वर ।
विरञ्चे तव दास्यामि गृहाण वरमुत्तमम् ॥४०॥
चराचरस्य जगतो मान्यो भव पितामह ।
गृहाण चतुरो वेदांश्चतुर्भिर्वदनैर्विधे ॥४१॥
इत्यावाभ्भां यरं दत्त्वा देवदेवः पिनाकघृत् ।
विश्वेश्वरः स्वयंज्योतिः क्षणादन्तर्हितोऽभवत् ॥४२॥
ततः प्रभृति विष्ण्वाद्या देवा दैत्याश्च दानवाः ।
गन्धवी मुनयः सिद्धा यक्षा नागाश्च किंनराः ॥४३॥
संपूज्य परमं लिङ्गं परां सिद्भिं गता मुने ।
नास्ति लिङ्गार्चनादन्यच्छ्रेयोऽस्मिन्भुवनत्रये ॥४४॥
ज्ञात्वा त्वमेवं देवर्षे लिङ्गार्चनरतो भव ।
क्षेत्रेषु चैव तीर्थेषु वनेषूपवनेषु च ॥४५॥
यानि लिङ्गानि दिव्यानि स्थापितानि सुरासुरैः ।
द्रष्टष्यानि बुधैस्तानि श्रद्धयैव हि नारद ॥४६॥
मुक्तिभाजो भवन्त्येवं तेऽपि शंभोरनुग्रहात् ॥४७॥
नारद उवाच -
कानि स्थानानि दिव्यानि येषु संनिहितः शिवः ।
आचक्ष्व तानि मे ब्रह्मन्माहात्म्यं चापि क्कत्स्नशः ॥४८॥
ब्रह्मोवाच -
माहात्म्यं दिव्यलिङ्गानां तीर्थानामपि नारद ।
अत्र ते कथयिष्यामि श्रूयतामघशास(नाश)नम् ॥४९॥
या सा शैवी परा मूर्तिः शिवभक्त्या ह्यपां पतिः ।
नारायणः स्वयं साक्षादहं चान्याश्च देवताः ॥५०॥
वसन्ति सागरे नूनं तीर्थराजेति स स्मृतः ।
जम्बूद्रीपं महापुण्यं तत्रापि लवणोदधिः ॥५१॥
अहोरात्रकृतं पापं दर्शनादेव नश्यति ।
स्पृष्ट्वा त्रिरात्रकं पापं नाशयत्येव सागरः ॥५२॥
सप्तरात्रकृतं पापं प्रोक्षणादेव नश्यति ।
पानेन पक्षजीनतं स्नानात्पक्षद्वयस्य च ॥५३॥
ऋतुद्वये तथाऽष्टम्यां पर्वस्नानं च वार्षिकम् ।
भानावनुदिते नित्यं यः स्नाति लवणोदधौ ॥५४॥
कपिलायाः फलं तस्य दत्तायाः श्रोत्रिये ध्रुवम् ।
उपोष्य रजनीमेकां रविसंक्रमणं प्रति ॥५५॥
स्नात्वा शतसुवर्णस्य दत्तस्य फलमाप्नुयात् ।
व्यतीपाते दिनच्छिद्रे अ(ह्य यने विषुवेषु च ॥५६॥
युगादौ च नरः स्नात्वा विधिवल्लवणोदधौ ।
गोसहस्रस्य दत्तस्य कुरुक्षेत्रे फलं हि यत् ॥५७॥
तत्फलं लभते मर्त्यो भूमिदानस्य च ध्रुवम् ।
दानानि यानि लोकेषु विख्यातानि मनीषिभिः ॥५८॥
तेषां फलमवाप्नोति ग्रहणे चन्द्रसूर्ययोः ।
वडवानलमुक्तोऽसौ पूतो भवति नारद ॥५९॥
अतोऽस्माद्धि परं नास्ति सुतीर्थमवनीतले ।
गङ्गा गोदावरी रेवा चन्द्रभागा च वेदिका ॥६०॥
एतासां संगमो यत्र स्नानं कुर्यान्महोदधौ ।
यानि पापानि घोराणि भ्रूणहत्यादिक्रानि च ॥६१॥
नाशं यान्ति क्षणादेव संगमस्य प्रभावतः ।
अश्वमेधसहस्रस्य फलं च भवति ध्रुवम् ॥६२॥
समुद्रतीरे परमं तेजोलिङ्गं दुरासदम् ।
यत्र सिद्धाः पुरा वत्स मुनयः सप्तकोटयः ॥६३॥
सप्तकोटीश्वरं नाम ततः प्रभृति नारद ।
तस्य लिङ्गस्य माहात्म्यं मया वक्तुं न शक्यते ॥६४॥
स्मरणादस्य लिङ्गस्य गोसहस्रफलं लभेत् ।
समुद्रे विधिवत्स्नात्वा सप्तकोटीश्वरं शिवम् ॥६५॥
ये द्रक्ष्यति महात्मानो मुक्तिभाजो भवन्ति ते ।
राजसूयस्य यज्ञस्य सहस्रगुणितं फलम् ॥६६॥
तथा गोमेधयज्ञस्य दर्शनात्तत्फलं त्विह ।
सप्तकोटीश्वरो देवो दृष्टश्चेद्भुवि मानवैः ॥६७॥
धन्यास्ते ये च लोकेऽस्तिंस्तेषां मुक्तिः करे स्थिता ।
तत्र स्नानं जपो होमो दानं च पितृतर्पणम् ॥६८॥
सर्वं तदक्षयं प्रोक्तं सप्तकोटीश्वरे शिवे ।
सप्तकोटीश्वरे प्रपय कथं शोचन्ति जन्तवः ॥६९॥
सर्वानुग्राहको रुद्रस्तस्मिल्लिङ्गे व्यवस्थितः ।
न तच्छैलमयं लिङ्गं न तद्धैमं न राजतम् ॥७०॥
न तद्रत्नमयं लिङ्गं ज्ञाव्यमिति नारद ।
किं तज्ज्योतिर्मयं लिङ्गं शैवं पदमनायमम् ॥७१॥
सप्तकोटीश्वरं लिङ्गं प्राहुर्वेदविदो बुधाः ।
अहं नारायणो देवः शक्रश्चन्द्रो दिवाकरः ॥७२॥
मरुतो मुनयः सिद्धाः खेचरा भूचराश्च ये ।
अर्चयित्वा परं लिङ्गं सप्तकोटिश्वरं शिवम् ॥
प्राप्तवन्तः परां सिद्धिं तस्मिल्लिङ्गं च नारद ॥७३॥३७९५॥
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे शिवार्चनमाहात्म्यादिकथनं नाम षष्ट्षष्टितमोऽध्यायः ॥६६॥

N/A

References : N/A
Last Updated : December 05, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP