संस्कृत सूची|संस्कृत साहित्य|पुराण|सौरपुराणं व्यासकृतम् ।|
अध्यायः ३८

सौरपुराणं - अध्यायः ३८

सौरपुराणं व्यासकृतम् ।


सूत उवाच -
चतुर्ष्वपि च वेदेषु पुराणेषु च सर्वशः ।
श्रीमहेशात्परो देवो न समानोऽस्ति कश्चन ॥१॥
ब्रह्मा विष्णुर्बलारातिः सर्वे यस्य वशे स्थिताः ।
उत्पत्तिः सर्वदेवानां स एव ध्येय उच्यते ॥२॥
नास्ति शंभोः परो धर्मो नास्त्यर्थः शंकरात्परः ।
शिवादन्यत्सुखं नास्ति मोक्षोनैव हरात्परः ॥३॥
यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः ।
तदा शिवमविज्ञाय दुःखस्यान्तो भविष्यति ॥४॥
स्रष्टृत्वं ब्रह्मणो येन ध्येयत्वं येन शाङ्गिंणः ।
विष्णुत्वं येन शक्रस्य तस्मादन्यः परो न हि ॥५॥
ऋषय ऊचु -
केचिल्लोका महेशानं त्यक्त्वा केशवकिंकराः ।
तत्र किं कारणं सूत वद संशयनामक ॥६॥
अन्तकाले स्मरन्त्येव प्रायेण गरुडध्वजम् ।
विद्यमाने झिवे विष्णोः प्रभौ श्रीपार्वतीपतौ ॥७॥
सूत उवाच -
यदा यदा प्रसन्नोऽभूद्भक्तिभावेन धृर्जटिः ।
विष्णुनाऽऽराधितो भक्त्या तदाऽसौ दत्तवान्वरात् ॥८॥
त्वत्तः परं प्रभुं नैव प्रायेण ज्ञास्यति स्फुटम् ।
विरलाः केचिदेत्तद्वै निष्ठां वेत्स्यन्ति तत्त्वतः ॥९॥
हेतुना तेन विप्रेन्द्राः शिवं जानन्ति केचन ।
मायेण विष्णुनामानि गृणन्ति वरदानतः ॥१०॥
विष्णोः स्मरणमात्रेण सर्वपापक्षयो भवेत् ।
शंभुप्रसाद एवैष नास्ति कार्या विचारणा ॥११॥
यः शंभुं तत्त्वतो वेत्ति स तु नारायणः स्वयम् ।
यस्तु नारायणं वेत्ति स शक्रो विबुधेश्वरः ॥१२॥
य इन्द्रं वेत्ति देवेशं लोकपालो जलाधिपः ।
एवं सर्वाल्लोकपालाञ्जानाति स इहामरः ॥१३॥
देवाञ्जानाति यष्टव्यान्स ऋषिर्वेदवित्स्वयम् ।
ऋषीन्यो वेत्ति सम्यक्त्वात्स एव ब्राह्मणोत्तमः ॥१४॥
सर्वदेवमयं विप्रं यो जानाति स वेदवित् ।
रहस्यं वेत्ति वेदस्य स एव हरवल्लभः ॥१५॥
जन्मादिकारणं शंभुं विष्णुं ब्रह्मादिपूर्वजम् ।
न जानन्ति महामूर्खा विष्णुमायाविमोहिताः ॥१६॥
आसीत्प्रतर्दनो नाम राजा परमधार्मिकः ।
सप्तद्वीपपति पृथ्वीप्रभुरेकः प्रतापवान् ॥१७॥
शूरः पुण्यमतिर्भोगी दाता वेदार्थपालकः ।
रक्षिता सर्वसेतूनां ब्रह्मण्यो ब्राह्मणप्रियः ॥१८॥
तस्य राज्ये सदा देवा गृह्णन्ति हविरुत्तमम् ।
न पाषण्डी न वा बौद्धस्तस्य राज्बेऽभवञ्जनः ॥१९॥
कदाचित्स पुरीं त्यक्त्वा क्रीडार्थं निर्गतो बहिः ।
तदा ददर्श क्षपणं राजा विस्मयमागतः ॥२०॥
पृष्टः कस्त्वं कुतो यातः किं कार्यं च तवेप्सितम् ।
कुत्र यास्यसि तत्सर्वं किंजातीयो भवान्वद ॥२१॥
क्षपणक उवाच -
राजन्वणिगहं शान्तो यतिः शीलव्रते स्थितः ।
मदीयाञ्चलसंलग्नाः सन्त्यत्र वणिजः परे ॥२२॥
राजोवाच -
को धर्मः किं नु तत्र त्वं ज्ञायते केन वक्ति कः ।
अयं पन्थाः कथं प्राप्तः कस्मान्न प्रकटो भवान् ॥२३॥
क्षपणक उवाच -
अहिंसा परम ओधर्मस्तत्तत्त्वं यत्तनोर्दमः ।
बुध्यते बौद्धजैनाभ्यां वक्ता तस्य जिनो मतः ॥२४॥
वेदवेदांङ्गवेत्तारो याज्ञिका वैष्णवा द्विजाः ।
माहेश्वरा महापूज्या न व्यक्तोऽहं भयान्नृप ॥२५॥
सूत उवाच -
ततो राजा परां चिन्तां प्राप्तो दुःखितमानसः ।
धिग्राज्यं मम दुर्बुद्धेर्वेदबाह्योऽस्ति मत्पुरे ॥२६॥
एतं हन्मि यदा पापं तदेतन्मानिनी प्रजा ।
कथायिष्यति शान्तात्मा हतो राज्ञा कुबुद्धिना ॥२७॥
एतस्मिन्नहते किं स्याद्भवन्ति बहवस्तथा ।
दयाशब्दं पुरस्कृत्य हृधर्मो विचरिष्यति ॥२८॥
वेदबाह्याः प्रजा राज्ञा शासितुं नैव शक्यते ।
तदा तत्पापभागी स्यादित्याह भगवान्मनुः ॥२९॥
सूत उवाच -
त्यक्त्वा राज्यं तपस्तेपे ततो राजा प्रतर्दनः ।
सावित्रीं मनसा ध्यात्वा नित्यमेकाग्रमानसः ॥३०॥
ततः कतिपयाहोभिर्ब्रह्मा प्रत्यक्षतां गतः ।
महता तपसा तुष्ट इदं वचनमब्रवीत् ॥३१॥
ब्रह्मोवाच -
पुत्र प्राप्तोऽस्मि संतोषं वरं वरय सुव्रत ।
कथं त्वं खिद्यसे चित्ते राज्यं त्यक्तं कुतस्त्वया ॥३२॥
राजोवाच -
वेदाः प्रमाणं वक्त्त्येव जानात्येव च यत्प्रजा ।
शङ्कामात्रं भवेन्नैव वेदप्रामाण्यगोचरम् ॥३३॥
इति याचे वरं देव किमन्येन वरेण मे ।
याचे निष्कण्टकं राज्यं सप्तद्वीपावनीपतिः ॥३४॥
सूत उवाच -
एवमस्त्विति संप्रोच्य ब्रह्माऽन्तर्धानमाययौ ।
प्रतर्दनोऽपि राजर्षिः संतुष्टः पृथिवीपतिः ॥३५॥
ततः प्रभृति तद्राज्ये सर्वो धर्मो व्यवस्थितः ।
वेदवेदाङ्गवेत्तारो ब्राह्मणाः शंसितव्रताः ॥३६॥
अग्निहोत्राणि यज्ञाश्च यतयो ब्रह्मचारिणः ।
शैवा नानाविधाः पुण्या वैष्णवाः शुभलक्षणाः ॥३७॥
तस्य राज्ये महापुण्ये न पाषण्डी न हैतुकी ।
वर्णाश्रमाचारवतां क्रियाः सर्वास्तदाऽभवन् ॥३८॥
उत्सवा विष्णुभक्तानां शिवपूजा गृहे गृहे ।
सर्वे देवान्यानयन्ति न कंचिद्द्वेष्टि मानवः ॥३९॥
तर्कवेदान्तमीमांसाव्याख्यानानि गृहे गृहे ।
वेदनिर्घोषवद्राज्यं यज्ञस्तम्भाः स्थले स्थले ॥४०॥
अनेकभोगसंयुक्ता हृष्टाः पुष्टाः स्त्रियः सतीः ।
रक्षन्ति पतयः पुण्या यथा वृद्धपुरस्कृताः ॥४१॥
सूत उवाच -
एवं वहुतिये काले गते ये दैत्यदानवाः ।
पापिष्ठा हीनकर्माणो म्लेच्छास्तेऽपि दिवं गताः ॥४२॥
येषां तु संततिः शुद्धं वेदमार्गं हि मन्यते ।
ते सर्वे नरकान्मुक्त्वा प्राप्ता एवामरावतीम् ॥४३॥
सर्वत्र तुलसीवृन्दं सर्वत्र हरिपूजनम् ।
बिल्वदलैस्तु सर्वत्र पूज्यते गिरिजापतिः ॥४४॥
कथं तेषां तु पितरो नरके निवसन्ति हि ।
तस्मिन्राज्ये समागत्य किं कुर्युर्यमकिंकराः ॥४५॥
सूत उवाच -
शृनुध्वमृययः सर्वे यदासीत्परमाद्भुतम् ।
स्वर्गगामिषु सर्वेषु व्यापाररहिते यमे ॥४६॥
पूजिताः सर्वलोकेषु सर्वे देवा वभूविरे ।
तदाऽसौ धर्मराड्गत्वा शक्रलोकं महामनाः ॥४७॥
उवाच सर्वदेवानां पुरतः प्राञ्जलिः स्थितः ।
यम उवाच -
चतुरशीतिलक्षणां जीवानां या स्थितिः सदा ॥४८॥
तां नष्टामधुना वेद्मि यदि देवः प्रमाणवान् ।
यस्यां कीटादियोनौ यः स्थितो जीवोऽतिपापवान् ॥४९॥
नरके संयमिन्यां वा तत्पुत्रेण स उद्धृतः ।
श्राद्धदेवार्चनादीनि करोति श्रुतिनिश्चयः ॥५०॥
इन्द्र उवाच -
अस्माकं हीनजीवानां को विशेषो यदा श्रुतिः ।
प्रमाणयति तत्त्वेन वयं देवा यदाज्ञया ॥५१॥
पुरोहित तव प्रज्ञा शोभना प्रतिभाति मे ।
पूर्वं चार्वाकवौद्धादिमार्गाः संदर्शितास्त्वया ॥५२॥
तेन मार्गेण विभ्रान्ता वेदमार्गबहिष्कृताः ।
दैत्याश्च दानवाश्चैव तथा कुरु द्विजोत्तम ॥५३॥
गुरुरुवाच -
न चार्वाको न वै बौद्धो न जैनो यवनोऽपि वा ।
कापालिकः कौलिको वा तस्मिन्राज्ये विशेत्क्कचित् ॥५४॥
वेदाः प्रमाणमित्येव मन्यमाना प्रजा शुभा ।
कथं सा चाल्यते तात न शक्यं हि शुभाऽधुना ॥५५॥
विधिदत्तवरस्याहमुच्छेत्तुं शक्तिमान्कथम् ।
इन्द्रादय ऊचु -
दैत्यानां दानवानां च दुर्दर्शानां भवो यदा ॥५६॥
तदा शुक्रः स्वयं तेषां कृपया सोद्यमो भवेत् ।
तस्मात्त्वं विप्रशार्दूल कस्मादस्मानुपेक्षसे ॥५७॥
असाध्यं तव किं मान्य वयं त्वच्छरणं गताः ।
अस्माकं दुर्जनाः सर्वे वेदकर्मरताः कृताः ॥५८॥
तेषां व्यामोहनाप त्वं कुरु यत्नं कृपानिधे ।
देवानां रक्षसां चैव दैत्यानां पापकर्मणाम् ॥५९॥
सूत उवाच -
एवं ब्रुवत्सु देवेषु बृहस्पतिरुदारधीः ।
उपायं चिन्तयामास सृष्टेः संरक्षणाय च ॥६०॥
गुरुरुवाच -
शृण्वन्तु त्रिदशाः सर्वे ममोपायं वदाम्यहम् ।
देवः कश्चिद्यदि भवेत्कपटी वैष्णवः स्वयम् ॥६१॥
शङ्खचक्राङ्किततनुस्तुलसीकाष्ठभूषितः ।
ऊर्ध्वपुण्ड्रं च बिभ्राणो हरिनामाक्षरं जपन् ॥६२॥
देवतामात्रनिन्दी च अकृत्वा मतिमीश्वरे ।
शिवद्वेष्टा महापापप्रेरकः शिवनिन्दकः ॥६३॥
दम्भेन यदि तद्राज्ये शिवनिन्दा कृता भवेत् ।
तदा तत्पूर्वजाः सर्वे नरकं यान्ति दारुणम् ॥६४॥
ततो देवेषु सर्वेषु न कश्चिदवदत्तथा ।
कथयन्ति स्म चान्योन्यं नैतत्कर्मास्ति सुन्दरम् ॥६५॥
कश्चण्डलः शिवं ब्रूयात्साधारण्येन विष्णुना ।
यस्य प्रसादाद्वैकुण्ठः प्राप्तवानीदृशं पदम ॥६६॥
सूत उवाच -
ततः किंनरमाहूय प्रोवाचेदं शचीपतिः ।
याहि किंनर मायावी भूत्वा त्वं वैष्णवो भुवम् ॥६७॥
तत्र गत्वा जनान्सर्वान्ब्रूहि कोऽस्ति शिवो महान् ।
एक एव महाविष्णुर्नान्यो ध्येयः कथंचन ॥६८॥
पूर्वं प्रच्छन्नरूपेण स्थित्वा मार्गं प्रदर्शय ।
शनैः शनैर्जना एवं भविष्यन्ति च हैतुकाः ॥६९॥
वेदः प्रमाणमित्येव वदितव्यं त्वया सदा ।
परं त्वेको महाविष्णुः शिवस्तस्य च किंकरः ॥७०॥
सूत उवाच -
प्रेरितोऽसौ बलात्तेन भीतोऽगच्छच्छनैः शनैः ।
दाम्भिकं रूपमास्थाय यथा साधुं वदेज्जनः ॥७१॥
सर्ववैष्णवचिह्नानि धृत्वा भ्राम्यति तत्पुरे ।
शिष्यान्करोति तान्पूर्वं वदेन्मान्यो न शंकरः ॥७२॥
क्कचिद्वदति न ध्येयो न मुख्य इति च क्कचित् ।
क्कचिदुत्कृष्टजीवोऽयं क्कचिच्छ्रीविष्णुकिंकरः ॥७३॥
इति नानाविधा बुद्धिर्नराणां भेदिता यदा ।
तदा शिष्यैः परिवृतो राजगेहं विशत्यपि ॥७४॥
चालितो राजलोकोऽपि विरुद्धं नैव दृश्यते ।
विष्णुभक्तो महाञ्शान्तो वेदवेदाङ्गपारवान् ॥७५॥
उपायनान्यनेकानि हयांश्च स्यन्दनान्वसु ।
लोकाः सर्वे ददत्येव गुप्तं पापं न दृश्यते ॥७६॥
सूत उवाच -
एकस्मिन्समये विप्रा एकादश्यामुपोषिताः ।
जनाः प्रातश्चक्रपाणिं नमस्कर्तुं गताः शुभाः ॥७७॥
तत्रोपविष्टः शिष्यैः स्वैर्वृतः स्वीयेन तेजसा ।
न कंचिन्मन्यते विप्रं यो भस्माङ्कितभालवान् ॥७८॥
एतस्मिन्नन्तरे राजा प्राप्तवाञ्श्रीप्रतर्दनः ।
वृतो बहुविधैर्विप्रैः कुशहस्तैः शुचिव्रतैः ॥७९॥
त्रिपुण्ड्रधारिणः केचिदूर्ध्वपुण्ड्रधरास्तथा ।
पठन्तः शिवसूक्तानि विष्णुसूक्तानि चापरे ॥८०॥
एतैर्बहुविधैर्विप्रैर्वृतो राजोपविश्य सः ।
उवाच वचनं युक्तं कोमलाक्षरसंयुतम् ॥८१॥
स्वामिन्नागतवान्साक्षाद्भगवान्हरिपार्षदः ।
वेदं पठसि विष्णोश्च भक्तस्तद्वेषधार्यषि ॥८२॥
वैष्णवाभास उवाच -
वेद एव परं श्रेयो वेदार्थादविकं न हि ।
प्रमाणं वेद एवैको विष्णुवाक्श्रुतिरेव च ॥८३॥
राजन्वेदार्थविज्ञाने बहवो मोहिता जनाः ।
शिवपूजारताः सन्तो नानादैवतपूजकाः ॥८४॥
एको विष्णुर्न द्वितीयो ध्येयः किं त्वितरैः सुरैः ।
क्रूरं च क्रूरकर्माणं शंकरं मन्यते कथम् ॥८५॥
त्वदीया ब्राह्मणा एते ऊर्ध्वपुण्ड्राङ्किताः शुभाः ।
तान्दृष्ट्वा प्रीतिरत्यर्थं जायते नृषसत्तम ॥८६॥
एते त्रिपुण्ड्रमाला ये कररुद्राक्षमालिनः ।
पठन्तः शिवसूक्तानि दृष्ट्वा वज्रं पतोद्दिवः ॥८७॥
दर्भस्योपग्रहः कोऽयं किं वा भस्माङ्गधारणम् ।
रुद्राक्षा का च को रुद्रः कानि सूक्तानि तस्य च ॥८८॥
विष्णुरेकः परो ध्येयो नान्यो देवः कदाचन ।
तदीयायुधचिह्नानि पूज्यो वै वैष्णवः सदा ॥८९॥
राजोवाच -
अनादिना प्रमाणेन वेदेन प्रोच्यते शिवः ।
विष्णोरप्यधिको विप्र संपूज्यो न कथं भवेत् ॥९०॥
शिवादिषु पुराणेषु प्रोच्यते शंकरो महान् ।
सर्वासु स्मृतिषु ब्रह्मञ्शिवाचारेषु सर्वतः ॥९१॥
नानागमेषु पुण्येशु प्रोच्यते ह्यज ईश्वरः ।
कठोरं वाक्यमेतत्ते भाति चेतसि मेऽशनिः ॥९२॥
वैष्णवाभास उवाच - नैकाभ्रमनसस्ते तु येऽर्चयन्तीह धूर्जटिम् ।
श्मशानवासी दिग्वासा ब्रह्ममस्तकधृग्भवः ॥९३॥
सर्पहारः कथं सेब्यो विषधारी जटाधरः ।
तस्माद्विष्णुः सदा सेव्यः सुन्दरः कमलापतिः ॥९४॥
राजोवाच -
नानारूपाणि रुद्रस्य के जानन्ति नराधमाः ।
त्वं वैष्णव इवाऽऽभाति वेदार्थं नैव वेत्सि रे ॥९५॥
सूत उवाच -
चिन्तयित्वा ततो राजा विदुषो ब्राह्मणोत्तमान् ।
आहूय निर्णयं चास्य करिष्यामीति तत्त्वतः ॥९६॥१८२०॥
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे शिवमहिमादिकथनं नामाष्टात्रिंशोऽध्यायः ॥३८॥

N/A

References : N/A
Last Updated : December 05, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP