संस्कृत सूची|संस्कृत साहित्य|पुराण|सौरपुराणं व्यासकृतम् ।|
अध्यायः १५

सौरपुराणं - अध्यायः १५

सौरपुराणं व्यासकृतम् ।


सूत उवाच -
अन्यद्व्रतं पापहरं देवदेवस्य चक्रिणः ।
यदुक्तं भानुना पूर्वं याज्ञवल्क्याय योगिने ॥१॥
याज्ञवल्क्य उवाच -
जया च विजया चैव किंफला किंपरायणा ।
तस्यां विशिष्टं यत्पुण्यं वद कश्यपनन्दन ॥२॥
सूर्य उवाच -
द्वादशी विष्णुदयिता द्वादशी वैष्णवी तिथिः ।
श्रवणेन समायुक्ता कदाचिद्यदि लभ्यते ॥३॥
शुक्लपक्षे द्विजश्रेष्ठ विजया सा प्रकीर्तिता ।
उपोष्या सा प्रयत्नेन सर्वपापप्रणाशनी ॥४॥
या तु पुष्येण संयुक्ता फाल्गुनस्य सिता तु वै ।
सा जया द्वादशी नाम सर्वपापक्षयंकरी ॥५॥
कृतार्थो जायते मर्त्यस्तामुपोष्य द्विजोत्तम ।
तस्यां स्नातः सदा स्नातो भवेद्वै नात्र संशयः ॥६॥
संपूज्य वस्त्रपुष्पाद्यैः फलं साग्रं समश्नुते ।
एकं जप्त्वा सहस्रस्य जप्तस्याऽप्नोति वै फलम् ॥७॥
दानं सहस्त्रगुणितं तथा वै विप्रभोजनम् ।
होमश्चैवोपवासश्च सहस्रस्य फलप्रदः ॥८॥
ऋचमेकामधीते यो विप्रः श्रद्धासमन्वितः ।
ऋग्वेदस्य समग्रस्य सदैव फलमश्नुते ॥९॥
सप्तजन्मकृतं पापं स्वल्पं वा यदि वा वहु ।
तन्नाशयति गोविन्दस्तस्यामभ्यर्च्यं यत्नतः ॥१०॥
यश्चोपवासं कुरुते तस्यां स्नातो द्विजोत्तम ।
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥११॥
यः कृत्वा द्वादशीमिमां क्षपयेद्भक्तिमान्नरः ।
ब्रह्मणो दिवसं यावत्तावत्स्वर्गे महीयते ॥१२॥
तस्मिन्दिने तु संप्राप्ते यत्कर्तव्यं ब्रवीम्यहम् ।
एकादश्यां निराहरो द्वादश्यां विष्णुमर्चयेत् ॥१३॥
गन्धपुष्पोअहारैश्च विविधैर्विधिवन्नरः ।
मत्स्याय पादौ प्रथमं कूर्माय च तथा कटिम् ॥१४॥
वराहायेति जठरं नरसिंहाय वा उरः ।
वामनायेx वै कण्ठं भुजं रामद्वयेति च ॥१५॥
यजेद्रामेति च मुखं प्रद्युम्नायेति नासिकाम् ।
कृष्णानाम्ना च नेत्रे द्वे बुद्धनाम्ना तथा शिरः ॥१६॥
कल्किनाम्ना तथा केशान्वामनेति च सर्वतः ।
भक्त्या चाऽऽराध्य गोविन्दं गोपालं च तथा निशि ॥१७॥
ततस्तस्याग्रतः शुद्धं न्यसेत्कृष्णाजिनं बुधः ।
तस्योपरि तिलानां तु कृष्णानामाढकं न्यसेत् ॥१८॥
मध्यतः प्रस्थमेकं तु दरिद्रः कुडवं तथा ।
तिलालाभे यवाः कार्या गोधूमास्तदलाभतः ॥१९॥
सुखं तत्र फलं ब्रह्मंस्तिलैः प्राप्नोति मानवः ।
सौवर्णं रौप्यं ताम्रं वा पात्रं कुर्यात्स्वशक्तितः ॥२०॥
प्रच्छाद्य पात्रं वासोभिरहतैः सुपरीक्षितैः ।
सौवर्णं वामनं कृत्वा साक्षासूत्रकमण्डलुम् ॥२१॥
यथाशक्त्या कृतं ह्रस्वं कृतयज्ञोपवीतिनम् ।
एवंरूपं तु तं कृत्वा वामनं भक्तिमान्नरः ॥२२॥
स्थापयेत्तन्तुपात्रस्थं भक्त्या सम्यगुपोषितः ।
पुष्पैर्गन्धैः फलैर्धूपैः कालोत्थैरर्चयेद्धरिम् ॥२३॥
पूर्वोक्तमन्त्रविधिना भक्ष्यैर्भोज्यैश्च भक्तितः ।
मत्स्यः कूर्मो वराहश्च नारसिंहोऽथ वामनः ॥२४॥
रामो रामश्च कृष्णश्च बुद्धः कल्की च ते दश ।
ऐतैर्मन्त्रपदैर्देवं नैवेद्यैश्च प्रपूजयेत् ॥२५॥
भक्तस्यात्र विशेषेण फलं कोटिगुणोत्तरम् ।
ततस्तस्य समीपे तु दधिभक्तं घटे न्यसेत् ॥२६॥
करकं वारिपूर्णं च सुगन्धद्रव्यसंयुतम् ।
छत्रं चैवाक्षसूत्रं च पादुके गुडिकां तथा ॥२७॥
एवं संपूज्य विधिवद्देवदेवं जनार्दनम् ।
जागरं तत्र कुर्वीत मीतवादित्रनादितैः ॥२८॥
एवं सर्वरजन्यन्ते प्रभाते विमले सति ।
प्रदेयं शास्त्रविदुषे ब्राह्मणाय कुटुम्बिने ॥२९॥
विष्णुभक्ताय शान्ताय विशेषेण प्रदीयते ।
गुरौ च सति नान्यस्मै दातव्यमिति निश्चितम् ॥३०॥
वेदाध्येत्रे समं दानं द्विगुणं तद्विदे तथा ।
आचार्ये दानमेकं च सहस्रगुणितं तथा ॥३१॥
गुरौ सति ततोऽन्यस्य व्रतं यश्च निवेदयेत् ।
स दुर्गतिमवाप्नोति दत्तं भवति निष्फलम् ॥३२॥
अविद्यो वा सविद्यो वा गुरुदेव जनारेनः ।
मार्गस्थो वा विमार्गस्थो गुरुरेव सदा गतिः ॥३३॥
प्रतिपन्नं गुरुं यश्च मोहाद्विप्रतिपद्यते ।
स जन्मकोटिं नरके पच्यते पुरुषाधमः ॥३४॥
एवं दत्त्वा विधानेन ब्राह्मणाय च भक्तितः ।
मन्त्रेणानेन दातव्यं पुराणपठितेन xxx  ॥३५॥
मन्त्रेण प्रतिगृह्णीयादूब्रह्मणश्च द्विजोत्तम ।
वामनो बुद्धिदो दाता द्रव्यस्थो वामनः स्वयम् ॥३६॥
वामनोऽ‍स्य प्रदाता वै वामनाय नमो नमः ॥ इति दानमन्त्रः ।
वामनः प्रतिगृह्णाति वामनो वै ददाति च ।
वामनस्तारको द्वाभ्यां वामनाय नमो नमः ॥३७॥ इति प्रतिग्रहमन्त्रः ।
अन्नं प्रजापतिर्विष्णुरुद्रेन्दशशिभास्कराः ।
अग्निर्वायुर्यमश्चैव पापं हरतु मे सदा ॥३८॥ इत्यन्नदानमन्त्रः ।
पर्जन्यो वरुणः सूर्यः सलिलं केशवः शिवः ।
त्वष्टा यमो वैश्रवणः पापं हरतु मे सदा ॥३९॥ इति सलिलदानमन्त्रः ।
विप्राणां भोजनं दत्त्वा यथशक्त्यथ दक्षिणाम् ।
पृषदाज्यं च संप्राश्य पश्चादभुञ्जीत वाग्यतः ॥४०॥
भूयो यथेच्छया रात्रौ सर्वत्रैष विधिः स्मृतः ।
समापिते व्रते तरिमन्ब्रह्मञ्शृणु च यत्फलम् ॥४१॥
ब्रह्मणः प्रलयं यावत्तावत्स्वर्गे महीयते ।
ब्रह्मलोकादिलोकेषु भुक्त्वा भोगाननेकशः ॥४२॥
पुनः स्वर्गाद्भुवं प्रपय जायते महतां कुले ।
सप्तदीपाधिपत्यं च प्राप्नुयान्नात्र संशयः ॥४३॥
सर्वान्कामानवाप्नोति ततो मुक्तिं च गच्छति ।
इन्द्रस्यावरजो देवो रमाहृदयनन्दनः ॥४४॥
बलिबद्धस्त्वया देव गृहाणार्ध्यं तु वामन ॥ इत्यर्ध्यमन्त्रः ।
इतीदं शृणुयान्नित्य पठेद्व्रतमनुत्तमम् ।
विमुक्तः सर्वपपएभ्यः श्रवणद्वादशीफलात् ॥४५॥६७०॥
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतयाज्ञवल्क्यसंवादेश्रवण्द्वादशीव्रतकथनं नाम पञ्चदशोऽध्यायः ॥१५॥

N/A

References : N/A
Last Updated : December 05, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP