संस्कृत सूची|संस्कृत साहित्य|पुराण|सौरपुराणं व्यासकृतम् ।| अध्यायः ४९ सौरपुराणं व्यासकृतम् । अथ सौरपुराणस्थविषयानुक्रमः । अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ सौरपुराणं - अध्यायः ४९ सौरपुराणं व्यासकृतम् । Tags : puransanskritsaur puransunपुराणसंस्कृतसूर्यसौर पुराण अध्यायः ४९ Translation - भाषांतर ऋषय ऊचु - पाबत्याः श्रोतुमिच्छामो माहात्म्यं रोमहर्षण ।जघान सा यथा दैत्यान्रक्तासुरपुरोगमान् ॥१॥सूत उवाच - प्रणिपत्य महादेवीं शंकरार्धशरीरिणीम् ।महेन्द्राणीश्वरनुतां भक्तानुग्रहकारिजीम् ॥२॥एकाक्षरीति विख्याता ब्राह्मी दाक्षायणीति या ।उमा हैमवती दुर्गा सती माता महेश्वरी ॥३॥आर्याऽम्बिका मृडानी च चण्डी नारायणी शिवा ।महालक्ष्मीर्जगन्माता कालिका मेनकात्मजा ॥४॥नानारूपधरा सैवमवतीर्यैव पार्वती ।धर्मसंस्थापनार्थाय निघ्नती दैत्यदानवान् ॥५॥परमात्मा यथा रुद्र एकोऽपि बहुधा स्थितः ।प्रयोजनवशाद्देवी सैकाऽपि बहुधा भवेत् ॥६॥आसीद्रक्तासुरो नाम महिष्यस्य सुतो बली ।महामायो महाबाहुर्हिरण्याक्ष इवापरः ॥७॥स विजित्य सुरान्सर्वान्विष्ण्विन्द्राग्निपुरोगमान् ।त्रैलोक्येऽस्मिन्निरातङ्कश्चक्रे राज्यं प्रतापवान् ॥८॥तस्यैते मनित्रिणश्चाऽऽसन्रुद्रात्मानो मदोत्कटाः ।* ( घङसंज्ञितपुस्तकयोर्मध्ये त्रयस्त्रिंशदित्यारभ्य, महाबला इत्यन्तं शब्दजातं नास्ति । ) * त्रयस्त्रिंशद्द्विजश्रेष्ठाः सहस्राक्षौहिणीयुताः ॥९॥सिंहस्कन्धा महाकाया दुरात्मानो महाबलाः ।धूम्राक्षो भीमदंष्ट्रश्च कालपाशो महाहनुः ॥१०॥ब्रह्मघ्नो यज्ञकोपश्च स्त्रीघ्नो बालघ्न एव च ।X ( झसंज्ञितपुस्तके विद्युन्मालीत्यारभ्य, एव चेत्यन्तं शब्दजातं नास्ति । ) X विद्युन्माली च बन्धूकः शङ्कुकर्णो बिभावसुः ॥११॥देवान्तको विधर्मश्च दुर्भिक्षः क्रूर एव च ।हयग्रीवोऽश्चकर्णश्च केतुमान्वृषभो गजः ॥१२॥शलभः शरभो व्याघ्रो निकुम्भो मणिको बकः ।सूर्यको विक्षुरो माली कालो दण्डश्च केरलः ॥१३॥स कदाचित्समासीनो दैत्यकोटीसमावृतः ।सदस्यथाब्रवीद्दैत्यान्दानवान्सनरांस्तथा ॥१४॥मां यजध्वं स्तुवध्वं च पूज्योऽहं भवतां सदा ।यस्तु देवान्समातिष्ठेत्स गच्छेद्वध्यतां मम ॥१५॥दानयज्ञोपवासांश्च त्यक्त्वा देवर्षिदर्शितान् ।प्रत्यक्षसौख्यान्भुञ्जीध्वं यथेष्टं सुरयोषितः ॥१६॥इति दैत्येन्द्रवाक्येण नष्टा यज्ञक्रियास्तदा ।नाधीयन्ते तदा वेदा न पूज्यन्ते च देवताः ॥१७॥उत्सवा न प्रवर्तन्ते सर्वमासीत्तदाऽऽसुरम् ।धर्महीनस्ततो लोको म्लेच्छाकुल इवाभवत् ॥१८॥धर्मनाशात्सुरेन्द्रस्य बलहानिरजायत ।ज्ञात्वा हीनबलं शक्रं दानवास्तं समाद्रवन् ॥१९॥सोऽभिभूतोऽसुरैर्गाढं त्यक्त्वा राज्यं च देवराट् ।बृहस्पतिमुपागम्य वाक्यमेतदुवाच ह ॥२०॥रक्तासुराभ्यनुज्ञाता दैत्याः कोटिसहस्रशः ।आबाधन्ते स्म सर्वत्र मद्वधार्थं न संशयः ॥२१॥न स्थातुमत्र शक्नोमि न गन्तुं तैस्त्वभिद्रुतः ।सर्वथा योद्धुमिच्छामि यद्भाव्यं तद्भपिष्यति ॥२२॥नश्यतो युध्यतो वाऽपि तावद्भवति जीवितम् ।यावत्प्रमार्ष्टि न विधिर्भालेऽस्य लिखिताक्षरम् ॥२३॥जयमाशंस मे ब्रह्मन्योत्स्येऽहमरिभिः सह ।मुहूर्तं ज्वलितं श्रेयो न तु धूमायितं चिरम् ॥२४॥धिक्तस्य जीवितं पुंसः शत्रूणामाततायिनाम् ।अपकर्तुमशक्तो यो जीवामीत्यधिगच्छति ॥२५॥कर्मायत्तं किलैश्वर्यं मदायत्तं च पौरुषम् ।तस्मायुद्धं करिष्यामि ध्रुवं श्रेयो भविष्यति ॥२६॥श्रुत्वैवं भगवद्वाक्यं वाचस्पतिरथाब्रवीत् ।न कालो विग्रहस्याद्यं किं कोपेन शचीपते ॥२७॥न च खेदस्त्वया कार्यः कार्याणां गतिरीट्टशी ।दैवाद्भवन्ति भूतानां संपदो विपदोऽपि वा ॥२८॥स्वशक्तिं परशक्तिं च षाड्गुण्यविदुदारधीः ।देशकालबलोपेताञ्ज्ञात्वा विग्रहमाचरेत् ॥२९॥देशकालविहीनानि कर्माणि विपरीतवत् ।क्रियमाणानि दुष्यन्ति हविरप्रयतेष्विव ॥३०॥सम्यग्विज्ञातशास्त्रार्थो राजा विजयमाचरेत् ।सप्ताङ्गराज्यत्राणं च बुद्ध्वा वाऽरिविनिग्रहम् ॥३१॥कुर्यादेवान्यथा नाशमुपयाति शचीपते ।विश्वासयति भूतानि न च विश्वसते क्कचित् ॥३२॥छिद्रेषु योऽन्वियाच्छत्रुं स राज्यं महदश्नुते ।सांप्रतं बद्धमूलोऽसौ त्वं दैवानवलोकितः ॥३३॥अतो युद्धावकाशं ते न पश्यामि शतक्रतो ।मत्सहायाश्च ये शूराः शक्तिमन्तो निरुत्सुकाः ॥३४॥दुर्धर्षानपि ते शत्रूञ्जयन्त्येव सदा नृपाः ।पुरोधसैवमुक्तस्तु पुनराह पुरंदरः ॥३५॥अभोभूतो भृशं दैत्यैर्नाहं जीवितुमत्सहे ।शत्रुभिवंर्तमानस्य मूर्खस्य स्त्रीजितस्य च ॥३६॥व्याधितस्य दरिद्रास्य श्रेयो मृत्युर्न जीवितम् ।किमत्र बहुनोक्तेन योत्स्येऽहं दानवै सह ॥३७॥नृणां कर्मसमारम्भे श्रेयसी ह्येकचित्तता ।गुणदोषावुभावेतावेकीकृत्य विचक्षणः ॥३८॥कार्यमारभते यस्तु तस्य दोषाः पराड्मुखाः ।तावद्भयस्य भेतब्यं यावद्भयमनागतम् ॥३९॥आगतं तु भयं दृष्ट्वा योद्धव्यं वाऽष्यभीरुवत् ।मृतस्य जीवतो वाऽपि नरस्येह प्रयुध्यतः ॥४०॥श्रेय एव महर्धिः स्यात्तस्माद्योत्स्याम्यहं परैः ।तयोः संवदतोरेवं ब्रह्माऽऽगत्येदमब्रवीत् ॥४१॥मा विषादं कृथाः शक्र शरणं व्रज पार्वतीम् ।या जघ्ने महिषं दैत्यं रुरुं चित्रासुरं तथा ॥४२॥सद्यो रक्तासुरं हत्वा स्वं राज्यं ते प्रदास्यति ।एवमुक्त्वा हरिं ब्रह्मा तत्रैवान्तरधीयत ॥४३॥शक्रोऽपि त्रिदशैः सार्धं जगाम हिमवद्गिरिम् ।स तत्र गत्वा शर्वाणीं निर्भयो विगतज्वरः ॥४४॥स्तोत्रेणानेन तुष्टाव शिवां शंकरवल्लभाम् ।शक्र उवाच - जयाक्षरे जयानन्ते जयाव्यक्ते निरामये ॥४५॥जय देवि महामाये जय त्रिदशवन्दिते ।जय भद्रे विदेहस्थे जयाऽऽद्यं त्रिगुणात्मिके ॥४६॥जय विश्वंभरे गङ्गे जय सर्वार्थासिद्धिदे ।जय ब्रह्माणि कौमारि जय नारायणीश्वरि ॥४७॥जय बाराहि चामुण्डे जयेन्द्राणि महेश्वरि ।जय मातर्महालक्ष्मि जय पार्वति सर्वगे ॥४८॥जय देवि जगज्ज्येष्ठे जयैरावति भारति ।मृगावति जयानन्ते तेजोवति जयामले ॥४९॥जयेशानि शिषे सर्वे जय नित्ये जयार्चिते ।मोक्षदे जय सर्वज्ञे जय धर्मार्थकामदे ॥५०॥जय गायत्रि कल्याणि जय संध्ये विभावरि ।जय दुर्गे महाकालि शिवदूति जयाजये ॥५१॥जय दण्डमहामुण्डे जय नन्दे शिवप्रिये ।जय क्षेमंकरि शिवे जय भ्रामणि रेवति ॥५२॥जयोमे साध्वि मङ्गल्ये हरसिद्धे नमोऽस्तु ते ।जयाऽऽनन्दे महावर्णे महिषासुरघातिनि ॥५३॥जयानघे विशालाक्षि जयानङ्गे सरस्वति ।जयाशेषगुणावासे जय वृत्रासुरान्तके ॥५४॥जय योगेशि संकल्पे जय त्रैलोक्यसुन्दरि ।जय शुम्भनिशुम्भध्ने जय पद्मेन्दुसंभवे ॥५५॥जय कौशिकि कौमारि जय वारुणि कामदे ।नमो नमस्ते शर्वाणि भूयो भूयो जयाम्बिकि ॥५६॥त्राहि नस्त्राहि नो देवि शरआण्गतवत्सले ।य इमां कीर्तयिष्यति जयमालां भवानि ते ॥५७॥त्रिविधैरपि दुःखौर्घैर्मुच्यन्ते परमेश्वरि ।सर्वपापविनिर्मुक्ताः सर्वैश्वर्यसमन्विताः ॥५८॥भान्ति लोके तथाऽऽदित्याः सर्वरोगविवर्जिताः ।देहावसाने तेऽवश्यं पश्यन्त्येव हि पार्ततीम् ॥५९॥नेन्द्रियाणां विकलता यथाऽन्येषां भवेन्नृणाम् ।देवींलोकं गमिष्यन्ति स्कन्दलोकोपरि स्थितम् ॥६०॥पुनरावृत्तिरहितं स्तोत्रजाप्यन्न संशयः ।सूत उवाच - सैवं स्तुता भगवती महेन्द्रेणाथ पार्वती ।आत्मानं दर्शयामास सर्वालंकरणान्वितम् ॥६१॥नमस्कृत्याथ तामूचुः सुरास्ते भयनाशिनीम् ।हत्वा रक्तासुरं दैत्यं पाहि नो महतो भयात् ॥६२॥तेषां तद्वचनं श्रुत्वा दत्त्वा तेभ्योऽभयं ततः ।बभूवाद्भुतरूपा सा त्रिनेत्रा चन्द्रशेखरा ॥६३॥सिंहारूढा महादेवी नानाशस्त्रास्त्रधारिणीं ।सुवक्त्रा विंशतिभुजा स्फूर्जद्विद्युल्लतोपमा ॥६४॥ततोऽम्बिका ननादौच्चेः साट्टहासं मुहुर्मुहः ।तस्या नादेन घोरेण कृत्स्नमापूरितं जगत् ॥६५॥प्रकम्पिताऽखिला चोर्वी तदा वारिधिमेखला ।शैलोत्तुङ्गस्तनी रभ्या प्रमदेव भयातुरा ॥६६॥तेऽपि तत्रासुराः प्राप्ताश्चतुरङ्गवलोत्कटाः ।सभ्यग्विदितवृत्तान्ताः कालान्तकयमोपमाः ॥६७॥रक्षोदानवदैत्याश्च पातालेष्वपि ये स्थिता ।ते सर्व एव दैत्येन्द्रं कोटिशरतमुपागताः ॥६८॥देवारयस्तदा सर्वे संनद्धाश्चोच्छ्रितध्वजाः ।पालिता दानवेन्द्रेण नानाशस्त्रास्त्रपाणयः ॥६९॥तमालालिकुलाभासा जीमूतध्वनिनिःस्वनाः ।युगान्तमिव कुर्वाणा नानालंकारभूषिताः ॥७०॥गजघण्टारवैश्चोर्गैर्हयानामथ हेषितैः ।सिंहनादैश्च शूराणां शस्त्राणां क्कणितेन च ॥७१॥रथनेमिनिनादैश्च कम्पयन्तो वसुंधराम् ।ततस्ते दानवाः सर्वे देवीं दृष्ट्वा प्रहर्षिताः ॥७२॥आस्फोटयन्तः पटहान्भेरीजर्जरिणीमुखान् ।अनेकान्वादमन्तोऽन्ये शङ्खरमरुडिण्डिमान् ॥७३॥मनोजयैर्हयैर्जात्यैगंजैश्चाचलसंनिभैः ।अन्यैर्विचित्रैरारूढा विरेजुर्दैत्यपुंगवाः ॥७४॥एवंविधे समाजे तां भवानीं त्रिदशारयः ।सर्व एव समाजघ्नुः शर्वाणीं सर्वतोमुखीम् ॥७५॥वाणिर्नानाविधैर्घोरैर्यमदन्डोपमैः शितैः ।कुठारचक्रपरशुमुसलाङ्कुशलाङ्गलैः ॥७६॥पाशतोमरशूलैश्च दण्डपट्टिशमुद्गरैः ।परिघप्रासशक्त्त्यृष्टिशतध्रीकण(पाद)पोपलैः ॥७७॥आयोगुडैर्भृशुण्डीभिश्चक्रकुन्तगदादिभिः ।छादयन्तो महादेवीं सिंहनादान्विनेदिरे ॥७८॥सा हन्यमाना रोषेण जज्वाल समरेऽम्बिका ।अग्रसत्साऽथं शर्वाणी शस्त्रास्त्राणि सुरद्विषाम् ॥७९॥शैलेन्द्रतनया देवी स्तूयमाना सुरर्षिभिः ।युयुधे दानवैः सार्धं महासमरदुर्दिने ॥८०॥ते हन्यमानाः पार्वत्या तामेवाभिप्रद्रुदुवुः ।परिपूर्णे यथा काले शलभा जातवेदसम् ॥८१॥सैका प्रद्रवतां तेषां बहूनामाततायिनाम् ।दधार वेगं सर्वेषां मरुतामिव पर्वतः ॥८२॥पार्वतीशस्रनिर्भिन्ना दैत्यास्ते क्षतजेक्षणाः ।आलिङ्ग्य शेरते क्षोणीं रते कान्तामिव प्रियाम् ॥८३॥मण्डलीकृतकोदण्डां ददृशुश्चाम्भिकां तदा ।मृत्युजिह्वोदिताकारां प्राणकर्षणतत्पराम् ॥८४॥जघ्नुस्ते कोटिशो दैत्याः पार्वतीं समराङ्गणे ।हुंकारेण निनादेन पातयन्ती सहस्रशः ॥८५॥प्नचिच्छेद रणेऽरीणां शिरांसि निशितैः शरैः ।देवीकामुंकनिर्मुक्तैर्दिव्यैर्नानाविधैः शरैः ॥८६॥दह्यन्तेऽसुरसैन्यानि तृणानीव दवाग्निना ।सिंहवेगानिलोद्धूतांश्चूर्णयन्ती महारथान् ॥८७॥ववर्ष शरवर्षाणि युगान्ताम्बुदसंनिभान् ।गजवाजिरथानां च द्रवतां पततां तथा ॥८८॥दैत्येन्द्राणां च भारेण श्वसतीव वसुंधरा ।समुत्थितं रजो घोरं संस्पृश्यार्केन्दुमण्डलम् ॥८९॥गजाश्चदैत्यरक्तौधैः प्रशान्तिमगमत्ततः ।प्रावर्तत नदी तत्र शोणितोदतरङ्गिणी ॥९०॥हयमत्स्या गजग्राहा चर्मकूर्मास्थिसंकुला ।महारथमहावर्ता पताकाछत्रफेनिला ॥९१॥वहन्ती यमलोकान्तं दैत्यासुरतटद्रुमान् ।तद्बलं च वभौ शीघ्रं शस्त्रास्त्रक्षतकंधरम् ॥९२॥गलद्रुधिरफेनौघं घूर्णितार्णवसंनिभम् ।वध्यमानं स्वकं सैन्यं दृष्ट्वा देव्याश्च विक्रमम् ॥९३॥रक्तासुरोऽभ्युवाचेंद सैनिकाञ्जातविस्मयः ।हन्यतां हन्यतां शीघ्रं भवानी कालसंनिभा ॥९४॥परिवृत्य रथैर्नागहंयश्चैव पदातिभिः ।दानवेश्वरवाक्येण ततस्ते तस्य सैनिकाः ॥९५॥त्यक्त्वाऽऽत्मानं महात्मानो देवीमापुर्बलान्विताः ।धूम्राक्षप्रमुखा धीराः षोडशैव महारथाः ॥९६॥शरशक्तिगदाशूलैस्ताडयन्तोऽम्बिकां रणे ।श्वसन्त इव नागेन्द्राः प्रज्वलन्त इवाग्नयः ॥९७॥जृम्भन्त इव शार्दूलाः गर्जन्त इव तोयदा ।युयुधुस्ते स्थिरीभूता विविधायुधयोधिनः ॥९८॥नृत्यन्तीव च रुद्राणी नूनं भाति महाहवे ।पार्वती चण्डकोडण्डनादापूरितदिड्मुखी ॥९९॥पट्टीशाभिहतान्कांश्चिन्मुसलोन्मथितांस्तथा ।सारोहान्पातयामास गजानश्वांश्च कोटिशः ॥१००॥कालपाशशिरच्छित्त्वा सार्धचन्द्रेण भासुरम् ।गदया प्रममाथाऽऽशु देवान्तकमहाहनुम् ॥१०१॥ब्रह्मध्नस्यासिना कायात्पातयामास चाम्बिका ।धूम्राक्षं कालदण्डे वज्रेण क्रूरमेव च ॥१०२॥यज्ञदंष्ट्रं यज्ञक्पों विधर्मं च चमूपतिम्।रौद्रामन्यांस्त्रिशूलेन जघान परमेश्वरी ॥१०३॥सशङ्कुकर्णदुर्भिक्षविद्युन्मालिविभावसून् ।दुर्वारपौरुषांश्चक्रे चक्रेणोत्कृत्तमस्तकान् ॥१०४॥रक्तासुरानुजौ चोभौ महाबलपराक्रमौ ।कूष्माण्दशुभकाक्षौ तु जघ्नतुर्मुशलाश्मभिः ॥१०५॥महाबलौ महाकायौ घोरौ तत्र महासुरौ ।शरैराशीविषाकारैर्जघानाथ तदा द्विजाः ॥१०६॥ततः स्त्रीघ्रोऽभ्यधावत्तां दृष्ट्वा तौ विनिपातितौ ।तमप्यपातयद्भूमौ खड्गेनाभिहतं रुषा ॥१०७॥घण्टकश्चाथ दैत्येन्द्रो गिरीन्द्रसदृशो बली ।परिघेणाऽऽयसेनाऽऽजौ देवीं क्रुद्धोऽभ्यताडयत् ॥१०८॥ततः सपरिघश्चासौ देब्याः करतलाहतः ।स पपात तदा भूमौ वज्राहत इवाचलः ॥१०९॥प्रापञ्चिको महाबाहुश्चक्रीकृतशरासनः ।शक्त्या दग्धतनुत्राणो जगामान्तकमन्दिरम् ॥११०॥अष्टादशैवं दुर्धर्षान्निहत्यासुरसैनिकान् ।सानन्दा विननादोश्चैः संवर्तकघनोपमा ॥१११॥जघान दानवानीकमेकाऽनेकस्वरूपिणी ।विद्युत्संपातनिह्वादा विद्युत्संपातचञ्चला ॥११२॥पातयन्ती चचाराऽऽजौ साऽसुरेन्द्रमहाचमुम् ।तत्रातुलश्च तुमुलो नादो बाध्येषु शत्रुषु ॥११३॥बभूव येन ब्रह्माण्डमकाण्डाकुलतां ययौ ।जघानैवं चतुःसप्त त्रिदशौस्त्रिदशद्विषाम् ॥११४॥अक्षौहिणीसहस्राणि त्रयस्त्रिंशत्सुरेश्वरी ।एकत्रिंशत्सहर्शाणि शतान्यष्टौ च सप्ततिः ॥११५॥सानुगानां सयोधानां रथानां वातरंह xम् ।संख्यैवैषा गजेन्द्राणामक्षौहिण्यां महौजसाम् ॥११६॥त्रिगुणं चतुरङ्गाणां पञ्च चैव पदातिनाम् ।क्कचिद्रथस्थिता सैव विविधायुधधारिणी ॥११७॥जघानासुरसैन्यानि हयहस्तिगता क्कचित् ।क्कचिच्च महिषारूढा वृषभे च स्थिता क्कचित् ॥११८॥वेतालैः प्रेतभूतैश्च स्वेच्छासृष्टैर्वृताऽद्भुतैः ॥११९॥कबन्धनृत्यसंकुले ह्यसृग्वसास्थिकर्दमे रणाजिरे निशाचरास्ततो विरेजुरूर्जिताः ।शृगालगुध्रवायसाः परं प्रपानमादधुः क्वचित्परेतशावकाः प्रतीतशोणिता बभुः ॥१२०॥क्कचित्पिनाकपाणयः पिशाचयक्षराक्षसाः प्रतर्प्य चासृजा पितृन्समर्चयन्नथाऽऽमिषैः ।गजान्नरांस्तुरङ्गमान्प्रभक्षयन्ति निर्घृणा -स्तदोडुपैस्तथाऽपरे तरन्ति शोणितापगाम् ॥१२१॥इति प्रगाडसंगरे सुरारिसंघसंकुले विराजतेऽम्बिका धनुःशरासिशूलधारिणी ।गजेन्द्रवृन्दमर्दिनी तुरङ्गयूथपोथिनी महारथौघघातिनी सुरारिसैन्यनाशिनी ॥१२२॥ततश्चीण्डकाचण्डकोदण्डमुक्तैर्दिबाहारिणां कोटयोऽष्टौ तथाऽष्टौ ।हताः पट्टिशै राक्षसानां च लक्षास्त्रयस्त्रिंशदष्टादशैषात्र कोट्यः ॥१२३॥ततो दानवेन्द्रं रणे तर्जयन्ती विलासोल्लसद्बाहुविन्यस्तशस्त्रा ।ननर्ताप्रगेयप्रभावा भवानी महेन्द्रादिदेवान्मुदा हर्षयन्ती ॥१२४॥हयग्रीयमुख्याः पुनर्दैत्यसंघा दर्शवावशिष्टा महारौद्ररूपाः ।नमस्कृत्य रक्तासुरं तेऽऽभ्यधावन्रणे पार्वतीं ताडयन्तोऽस्त्रपूगैः ॥१२५॥समुद्धृत्य नेत्राणि किंचिद्धसन्तो द्विषत्सैन्यसंघानि सा संहरन्ती ।न्यमुञ्चत्ततोऽस्त्राणि दिव्यानि देवी नदत्स्वार्यतूर्येषू खेऽनन्तसत्त्वा ॥१२६॥ततो गिरीन्द्रजाऽरीणां चक्रे सैन्यानि भस्मसात् ।रक्तासुरमथाभ्येत्य शस्त्रास्त्रधृतपाणिनम् (?) ॥१२७॥पादाक्रान्त्यानतभुवं संक्षोभितजगत्त्रयम् ।मण्डलीकृतकोदण्डं गर्जन्तं कालमेघवत् ॥१२८॥शरवर्षाणि मुञ्चन्तं पार्वती तमुवाच ह ।कृत्वोपतापं देवानां जीवन्क्काद्य गमिष्यसि ॥१२९॥दुष्टेत्युक्त्वाऽथ सा देवी शूलेनाभिहनद्धृदि ।संभिन्नहृदयो दैत्यो मूर्तिं चक्रे सुदारुणाम् ॥१३०॥रक्तबिन्दुसमो दैत्यो दैवीं व्यामोहयन्निव ।जगामानेकरूपोऽसौ निहतोऽम्बिकया रणे ॥१३१॥रक्तासुरोऽपि निधनं गत्वा त्रिदशकण्टकः ।पपात मुनिशार्दूलाः प्रज्वलज्ज्वलनोपमः ॥१३२॥हाहाकारं प्रकुर्वाणा दैत्यास्तेऽथ प्रदुदुबुः ।केचिच्छिष्टा भयत्रस्ता विसृष्टायुधजीविताः ॥१३३॥केचित्समुद्रं विविशुरन्द्रीन्केचिच्च दानवाः ।केचिल्लुञ्चितमूर्धानो नग्ना भूत्वा वनेऽवसन् ॥१३४॥दयाधर्मं ब्रुवाणाश्च निर्गन्थव्रतमाश्रिताः ।केचित्प्राणपरा भीताः पाखड्णव्रत्माश्रिताः ॥१३५॥हेतुवादपरा मूढा निःशौचा निरपेक्षकाः ।असुरस्य जनस्यैते क्षषणा इव लक्षिताः ॥१३६॥ते चाद्यापीह दृश्यन्ते लोके क्षषणकाः किल ।अर्हन्तश्च तथैवान्ये शिवशास्त्रबहिष्कृताः ॥१३७॥मन्त्रौषधप्रयोगेश्च जनवञ्चनकारकाः ।समुत्पत्स्यन्ति दैत्याश्च घोरेऽस्मिन्वै कलौ युगे ॥१३८॥शिवोक्तं कर्मयोगं च द्विषन्तश्च कुयुक्तिभिः ।देव्याः क्रोधाग्निना दग्धा वेदमार्गविनिन्दकाः ॥१३९॥शास्यन्ते नरकाग्नौ ते निःशेषाः पापकर्भिणः ।न दृष्टा निष्कृतिस्तेषां शास्त्रेषु परगर्पिभिः ॥१४०॥रराजाचिन्त्यमाहात्म्या चिद्रूपा परमेश्वरी ।हत्वाऽरिं जगदैश्वर्यं दत्त्वा नमुचिशत्रवे ॥१४१॥जगामादर्शनं देवी व्यक्ताव्यक्तस्वरूपिणी ।* ( कधसंज्ञितपुस्तकथोरिदं श्लोकार्यं न दृश्यते । ) * शक्रोऽपि तां प्रणम्याथ सर्वज्ञां विश्वरूपिणीम् ॥१४२॥प्रययौ विबुधैः सार्धं स्वां पूरीममरावतीम् ॥१४३॥२७८७॥इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे रक्तासरवधकथनं नामैकोनपञ्चाशोऽध्यायः ॥४९॥ N/A References : N/A Last Updated : December 05, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP