संस्कृत सूची|संस्कृत साहित्य|पुराण|सौरपुराणं व्यासकृतम् ।|
अध्यायः ५२

सौरपुराणं - अध्यायः ५२

सौरपुराणं व्यासकृतम् ।


सूत उवाच -
प्रायश्चित्तं प्रवक्ष्यामि शृणुध्वं मुनिपुंगवाः ।
सर्वेषामेव वर्णानां शुद्धिमाहं यथा रविः ॥१॥
द्विविधं पापमित्युक्तं प्रकटं गुप्तमेव च ।
प्रकटं प्रकटेनैव रहस्येन तथेतरत् ॥२॥
वेदशास्त्रार्थविद्वांसो धर्मशास्त्रार्थपारगाः ।
कामक्रोधविनिर्मुक्ताः शान्तात्मानो जितोन्द्रियाः ॥३॥
समाः शत्रौ च मित्रे च हिंसालोभविवर्जिताः ।
एकविंशतिसंख्याकाः सप्त पञ्च त्रयोऽथ वा ॥४॥
यं ब्रुयुरुक्तसंख्याकाः स धर्मः स्यादिति श्रुतिः ।
ब्रह्महा मद्यपः स्तेयी गुरुतल्पग एव च ॥५॥
महापातकिनश्चैते यश्च तैः सह संवसेत् ।
यस्तु संवत्सरं त्वेभिः पतितैः सह संवसेत् ॥६॥
यानशय्यासर्नैर्नित्यं जानन्वै पतितो भवेत् ।
ब्रह्महा द्वादशाब्दानि नियतात्मा वने वसेत् ॥७॥
भिक्षाहारेण सततं धृत्वा शवशिरोध्वजम् ।
एककालं चरेद्भैक्षं दोषं विख्यापयन्नृणाम् ॥८॥
पूर्णे तु द्वादशे वर्षे ब्रह्महत्यां व्यपोहति ।
अकामस्य स्मृता शुद्धिः कामतो मरणान्तिकी ॥९॥
ज्वलन्तं प्रविशेदग्निं भृगोः पतनमेव च ।
कुर्यादनशनं वाऽपि ब्राह्मणार्थे त्यजेदसून् ॥१०॥
गुर्वर्थे वा त्यजेत्प्राणान्ब्रह्महत्यां व्यपोहति ।
गत्वा वाराणसीं वाऽपि कालात्तत्र त्यजेदसून् ॥११॥
सर्वपापविनिर्मुक्तो याति शैवं परं पदम् ।
सुरापस्तु सुरां तप्तामग्निवर्णां पिबेत्ततः ॥१२॥
शुद्धो भवति निर्दग्धस्तद्वर्णं वा पयः पिबेत् ।
गोमूत्रं वा घृतं वाऽपि तत्पापान्मुच्यते द्विजः ॥१३॥
ब्रह्महत्याव्रतं चापि चरेत्तत्पापशान्तये ।
अभिगम्य तु राजानं सुवर्णस्तेयवान्द्विजाः ॥१४॥
स्वकर्म ख्यापयन्ब्रूयात्तं मां हन्तुमिहार्हसि ।
गृहीत्वा मुशलं राजा सकृद्धन्यात्तु तं स्वयम् ॥१५॥
वधे तु मुच्यते तेन कृच्छ्रैर्वा विविधैर्द्विजाः ।
* ( घङजसंज्ञिपुस्तकेष्विदं श्लोकार्धं नास्ति । )
* अवगूहेत्स्त्रियं तप्तामायसीं गुरुतल्पगः ॥१६॥
यस्य यस्य च संपर्कात्तत्संयोगी भवेद्द्विजाः ।
तस्य तस्य व्रतं कुर्यात्तत्तत्पापापनुत्तये ॥१७॥
स्नात्वाऽश्वमेधावभृथे सर्वे पातकिनो द्विजाः ।
शुध्येरंस्तत्क्षआण्देव रविरित्यब्रवीत्स्वयम् ॥१८॥
= ( डसंज्ञितपुस्तकेऽयं श्लोको नास्ति । )
= मातृष्वसां मातुलानीं तथैव च पितृष्वसाम् ।
भागिनेयीं समारुह्म कुर्यात्कृच्छ्रातिकृच्छ्रकौ ॥१९॥
चान्द्रायणं वा कुर्वीत तस्य पापापनुत्तये ।
भ्रातृभार्यां भागिनेयीं गत्वा पापापनुत्तये ॥२०॥
चान्द्रायणानि चत्वारि पञ्च वा कथितानि वै ।
मातुलस्य सुतां गत्वा सखिभार्यां तथैव च ॥२१॥
अहोरात्रोषितो भूत्वा तप्तकृच्छ्रं समाचरेत् ।
उदक्यागमने चैव त्रिरात्रेण विशुध्यति ॥२२॥
ब्राह्मणो ब्राह्मणीं गत्वा कृच्छूमेकं समाचरेत् ।
कन्यकागमने चैव चरेच्चान्द्रायणव्रतम् ॥२३॥
रेतः सिक्त्वा जले यस्तु कृच्छ्रं सांतपनं चरेत् ।
वेश्याया गमने चैव प्राजापत्यं चमाचरेत् ॥२४॥
नान्यासां निष्कृतिर्दृष्टा शास्त्रेषु परमर्षिभिः ।
संवत्सरस्य चाभ्यासाद्गुरुतल्पव्रतं स्मृतम् ॥२५॥
यदि तत्र प्रजोत्पत्तिर्निष्कृतिर्न विधीयते ।
शूद्रा भवति चेदूढा ब्राह्मणस्य यदा तदा ॥२६॥
न तस्या गमने पापं प्रजोत्पत्तौ तथैव च ।
रण्ढाया गमने चैव चरेत्सांतपनं व्रतम् ॥२७॥
संवत्सरेण भवति गुरुतल्पसमो हि सः ।
नटीं शैलूषिकीं चैव रजकीं वेणुजीवनीम् ॥२८॥
गत्वा चान्द्रायणं कुर्यात्तथा चर्मोपजीवनीम् ।
दीक्षिवं क्षत्त्रिमं हत्वा चरेद्ब्रह्महणो व्रतम् ॥२९॥
अदीक्षितस्य हनने षडब्दं कृच्छ्रमाचरेत् ।
वैश्य तु कामसो हत्वा त्र्यब्दकृच्छ्रं समाचरेत् ॥३०॥
निहत्य ब्राह्मणीं विप्रस्त्वद्रवर्षं व्रतं चरेत् ।
वर्षषट्कं तु राजन्यां वैश्यां संवत्सरत्रयम् ॥३१॥
वत्सरेण विशुद्धः स्याच्छ्रद्रस्त्रीवध एव च ।
वेश्यां हत्वा प्रमादेन किंचिद्दानमिहोचितम् ॥३२॥
मर्कटं नकुलं काकं वराहं मूवकं तथा ।
मार्जारं वाऽथ गण्डूकं श्वानं वै कुक्कुटं खरम् ॥३३॥
पादकृच्छ्रं चरेद्धत्वा कृच्छ्रमश्ववधे स्मृतम् ।
तप्तकृच्छ्रं हरितवधे पाराकं गोवधे स्मृतम् ॥३४॥
कामतो गोवधे नैव शुद्धिर्दृष्टा मनीषिभिः ।
भक्ष्यभोज्यापहरणे यानशय्यासनस्य च ॥३५॥
पुष्पमूलफलानां च पञ्चगव्यं विशोधनम् ।
तृणकाष्ठद्रुमाणां च शुष्कान्नस्यगुडस्यच ॥३६॥
चैलचर्मामिषाणां च त्रिरात्रं स्यादभोजनम् ।
हंसं कारण्डवं चैत्र चक्रवाकं च टिट्टिभम् ॥३७॥
शुकं च सारसं चैव उलूकं च कपोतकम् ।
चावं च शिशुमारं च बलाकां च बकं तथा ॥३८॥
जग्ध्वा चैतान्द्विजः कुर्याद्द्वादशाहमभोजगम् ।
नालिकां तण्डुलीयं च जग्ध्वा कृच्छ्रं समाचरेत् ॥३९॥
X ( कजसंज्ञितपुस्तकयोरेपु श्लोको न विद्यते । )
X  कामतोदुम्बरं जग्ध्वा तप्तकृच्छ्रं समाचरेत् ।
अलाबुं किंशुकं जग्ध्वा प्राजापत्यं समाचरेत् ॥४०॥
यानि क्षीराण्यपेयानि तेषां पानाद्व्रतं त्विदम् ।
गोमूत्रयावकाहारो मासेनैकेन शुध्यति ॥४१॥
असुरामद्यपानेन कुर्याच्चान्द्रायणव्रतम् ।
प्राजापत्यं चरेत्सम्यग्रेतोविण्मूत्रभक्षणे ॥४२॥
विड्वराहखरोष्ट्राणां गोमायोः कषिकाकयोः ।
एतेषां भक्षणे चैव द्विजश्चान्द्रायणं चरेत् ॥४३॥
ब्राह्मणो ब्राह्मणोच्छिष्टं भुक्त्वा कृच्छ्रं समाचरेत् ।
क्षत्त्रिये तत्पकृच्छ्रं स्याद्वैश्ये चैवातिकृच्छ्रकम् ॥४४॥
शूद्रोच्छिष्टं द्विजो भुक्त्वा चरेच्चान्द्रायणव्रतम् ।
सुराभाण्डोदकं पीत्वा चरेच्चान्द्रायणव्रतम् ॥४५॥
महापातकिनं स्पृष्ट्वा वेदविक्रयिणं तथा ।
रजस्वलां च चाण्डालीमज्ञात्वा यदि भोजयेत् ॥४६॥
त्रिरात्रोपोषितो भूत्वा पञ्चगव्येन शुध्यति ।
तैलाभ्यक्तो द्विजो यस्तु कुर्यान्मूत्रपुरीषके ॥४७॥
अहोरात्रेण शुद्धिः स्याच्छ्मश्रुकर्मणि मैथुने ।
खरयानं समारुह्य तथा चैवोष्ट्रयानकम् ॥४८॥
नग्नो यस्तु विशेदापस्त्रिरात्रेण विशुध्यति ।
पापानामधिकं पापं देवतानां च निन्दनम् ॥४९॥
मोहाद्वै कुरुते यस्तु कृच्छ्रं चान्द्रायणं चरेत् ।
सकृद्यः करुते निन्दां शिवस्य परमेष्ठिनः ॥५०॥
तस्य शुद्धिर्न दृष्टाऽस्ति पुराणे मुनिभिः कृता ।
कुर्याद्यदि गुरुः शुद्धिं कारुण्यात्परमेष्ठिनः ॥५१॥
चान्द्रायणत्रयं ब्रूयान्नान्यथा शुद्धिरिष्यते ।
शृणोति गुरुनिन्द्रां यस्तस्य चान्द्रायणत्रयम् ॥५२॥
एकासनं चोपविशेद्गुरुणा सह मूढधीः ।
प्रायश्चित्तं न तस्यास्ति पापं गुरुतरं हि तत् ॥५३॥
प्रायश्चित्तमपीच्छन्ति केचिदज्ञानतः कृते ।
कुर्यात्सांतपनं चैव चान्द्रायणचतुष्टयम् ॥५४॥
योऽयं शुद्धिविधिः प्रोक्तो गुरोरङ्गीकृतेप्सया ।
वाग्दत्तस्याप्रदानेन ब्रह्महत्यासमं भवेत् ॥५५॥
प्रायश्चित्तं न तस्यास्ति दत्तैर्ग्रामशतैरपि ।
शिवद्रव्यापहरणं गुरोरप्यणुमात्रकम् ॥५६॥
कृत्सनं च तथा शंभोर्गुरोरपि तथैव च ।
तथा च शिवभक्तानां ज्ञानस्य च विदूषणम् ॥५७॥
गिरिजायाश्च विष्णोश्च स्कन्दस्येभमुख्यस्य च ।
योगिनां च तथा निन्दा निन्दिनोऽपि तथा द्विजाः ॥५८॥
पापन्येतानि सर्वाणि ब्रह्महत्यासमानि वै ।
तस्मान्न निन्देदेतांस्तु कर्मणा मनसा गिरा ॥५९॥
यदीच्छेच्छाश्वतं स्थानमिति देवोऽब्रवीद्रविः ।
प्रायश्चित्तस्य सर्वस्य पश्चात्तापो हि कारणम् ॥६०॥
न तेन रहितं पापं गच्छतीति हि निश्चितम् ।
प्रायश्चित्ते कृते पश्चात्तस्मिन्पाषे प्रवर्तते ॥६१॥
कृतं त्वकृतमेव स्यात्तत्पापं पूर्ववत्स्थितम् ।
स्थूलानि यानि पापानि सूक्ष्माणि विविधान्यपि ॥६२॥
तानि नाशयति क्षिप्रं मुहूर्तं शिवचिन्तनम् ।
सर्वपापापनोदार्थं प्रायश्चित्तं वदाम्यहम् ॥६३॥
समाहितो जले मग्नः शिवं ध्यायन्प्रसन्नधीः ।
अष्टकृत्वो हर इति जपन्पापैः प्रमुच्यते ॥६४॥
कार्तिक्यां शुक्लपक्षस्य या सा पुण्या चतुर्दशी ।
तस्यां संपूज्य देवेशं देवदेवमुपापतिम् ॥६५॥
जप्त्वाऽथर्वशिरो यस्तु ब्रह्महत्यां व्यपोहति ।
तस्यामेव नवम्यां च भगवन्तमुपापतिम् ॥६६॥
उद्दिश्य दद्याद्यत्किंचित्सर्वपापैः प्रमुच्यते ।
पौर्णमास्याममावास्यां ग्रहणे चन्द्रसूर्ययोः ॥६७॥
पञ्चामृतैः सुसंस्नाप्य लिङ्गमूर्तिधरं हरम् ।
पूजयित्वा विधानेन सर्वपापैः प्रमुच्यते ॥६८॥
मन्दवारयुता पुण्या शुक्लपक्षे त्रयोदशी ।
तस्यामुपोष्य विधिना संपूज्य गिरिजापतिम् ॥६९॥
ब्रह्महत्यादिभिः पापैर्मुक्तो भवति मानवः ।
तृतीया या समाख्याता वैशाखेऽक्षयसंज्ञिता ॥७०॥
तस्यां शिवाय यत्किंचिद्दद्याद्वा शिवयोगिने ।
सर्वपापविनिर्मुक्तः परां गतिमवाप्नुयात् ॥७१॥
ब्रह्महत्यादिभिः पापैर्युक्तो लोकविनिन्दितः ।
शंकरं शरणं गत्वा सर्वपापैः प्रमुच्यते ॥७२॥२९२४॥
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे प्रायश्चित्तविधिकथनं नाम द्विपञ्चाशोऽध्यायः ॥५२॥

N/A

References : N/A
Last Updated : December 05, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP