संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|सौरपुराणं व्यासकृतम् ।| अध्यायः ४७ सौरपुराणं व्यासकृतम् । अथ सौरपुराणस्थविषयानुक्रमः । अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ सौरपुराणं - अध्यायः ४७ सौरपुराणं व्यासकृतम् । Tags : puransanskritsaur puransunपुराणसंस्कृतसूर्यसौर पुराण अध्यायः ४७ Translation - भाषांतर ऋषय ऊचु - पतिघ्रता महाभागा सावित्री वरवर्णिनी ।यदाह तद्वादात्माकं सूत वाक्यविशारद ॥१॥सूत उवाच - स्वर्गे तां शोभनां दृष्ट्वा गुणैः सर्वैरलंकृताम ।अरुन्धत्युत्तमा स्त्रीणां पर्यपृच्छच्छुचिस्मिता ॥२॥शतशः सन्ति सावित्रि देवाः स्वर्गनिवासिनः ।देवपत्न्यस्तथैवैताः सिद्धाः सिद्धाङ्गनास्तथा ॥३॥न तेषामीदृशो गन्धो न कान्तिर्न सरूपता ।नान्येषां विद्यते शोभा यथा ते पतिना सह ॥४॥न चैवाऽऽकल्पजातानि भ्राजन्ते सुरयोषिताम् ।यथा तब तथा पत्युर्भ्राजन्ते वरवर्णिनि ॥५॥नास्ति कान्तिर्विमानानां शक्रादीनां दिवौकसाम् ।विमानस्यापि ते कान्तिस्तरुणार्कायुतद्युतिः ॥६॥तपःप्रभावो दानं वा कर्म वा ऋतुविस्तरम् ।युवयोस्तन्ममाऽऽचक्ष्व यथावद्वरवर्णिनि ॥७॥सावित्र्युवाच - शृनुष्वैतन्महाभागे यत्कृतं पूर्वजन्मनि ।भर्त्रा सह मया भद्रे शंभोरायतने शुभे ॥८॥कृतं संमार्जनं भक्त्या गोमयेनोपलेपनम् ।स्वर्गप्राप्तिरियं तस्य कर्मणः फलमुत्तमम् ॥९॥तीर्थोदकैः सुगन्धैश्च (?) स्नापितो यदुमापतिः ।तेन कान्तिरतीवैषा देहेऽभूत्त्रिदशेश्वरि ॥१०॥मन प्रसादं सौम्यत्वं शारीरी या च निर्वृतिः ।यत्प्रियत्वं च सर्वस्य तद्घृतस्नानजं फलम् ॥११॥आह्लादः परमस्वास्थ्यमारोग्यं चारुवेगता ।प्राप्तिश्चाशेपकामाणां दधिक्षीरफलं शुभे ॥१२॥सौगन्ध्यं यत्परं देहे धूपदानस्य तत्फलम् ।गीतैनृत्यैस्तथा जाप्यैर्नियमैश्च पृथग्विधैः ॥१३॥तोषितो भगवानीशस्तस्येयं पुष्टिरुत्तमा ।स्वर्गेप्सुना सत्यवता मया च शुभदर्शने ॥१४॥कृतमेतदतो न स्यादावयोर्भोगसंक्षयः ।ये निश्चिता नराः सम्यक्पूजयन्ति महेश्वरम् ॥१५॥तेषां ददाति विश्वेशो देवो मुक्तिं सुदुर्लभाम् ॥१६॥सूत उवाच - सैवमुक्ताऽथ सावित्र्या मुनीन्द्रा हृष्टमानसा ।ब्रह्मस्नुषा शिवेशानौ प्रणिपत्येदमब्रवीत् ॥१७॥अरुन्धत्युवाच - सा पूज्या सा नमस्कार्या सा साध्वी सा पतिव्रता ।या पूजयति सावित्रि सदा हैमवतीपतिम् ॥१८॥यमाराध्या दितिः पुत्राल्लेभे शक्रपुरोगमान् ।दितिश्च दैत्यान्विविधान्विनता गरुडारुणौ ॥१९॥शच्युर्वशीमुखाश्चान्याः संपूज्योमापतिं पुरा ।प्रापुश्चाभिमतान्कामांस्तमीशं को न पूजयेत् ॥२०॥अभिनन्द्याथ तां चैवं वसिष्ठार्धशरीरिणी ।जगाम स्वाश्रमं साध्वी सर्वदेवगणार्चिता ॥२१॥एवं समर्च्य गौरीशं श्रद्दधानाश्च योषितः ।लभन्तेऽभिमतान्भोगान्सावित्र्याह यथा द्विजाः ॥२२॥ये नराः सकृदप्यत्र पूजयन्ति त्रिलोचनम् ।ते धन्यास्ते महात्मानस्ते कृतार्थश्च पण्डिताः ॥२३॥धर्मार्थ काममोक्षाणां लिङगार्चा हेतुरुच्यते ।सर्वेषां प्राणिनां विप्रा इन्द्रियाणां यथा मनः ॥२४॥हृत्पद्मकर्णिकावासां तेजोमूर्तिमसङ्गिनम् ।निर्ममा निरहंकारा ध्यायति ज्ञानिनः सदा ॥२५॥शैलजं बाणलिङ्गं वा पूजयेद्विधिवत्सदा ।मृद्दारुघटितं वाऽपि रत्नजं वा गृहाश्रमी ॥२६॥साम्राज्यं मनुजैः कैश्चित्स्वाराज्यं च तथा परैः ।तथा वैराज्यमन्यैश्च लिङ्गामिष्ट्वा तदैश्वरम् ॥२७॥शोचन्ते ते परं हीना अभाग्याश्च दिने दिने ।प्रमादेनापि यैर्नोक्तं शिव इत्यक्षरद्वयम् ॥२८॥संपूज्ये सर्वसामान्ये स्वाराध्ये सर्वकामदे ।भवेऽपि सति सीदन्ति भाविनो यत्तदद्भुतम् ॥२९॥उपसर्माः क्षयं यान्ति च्छिद्यन्ते विध्नपल्लवाः ।मनः प्रसन्नतां याति पूजमाने महेश्वरे ॥३०॥पूजिते सर्वदेवेशे सर्वदेवनमस्कृते ।पूजिताः सर्वदेवाः स्युर्यतोऽसौ सर्वगो विभुः ॥३१॥शिवार्चनरतो नित्यं महापातकसंभवैः ।दोषैर्न लिप्यते विद्वान्पद्मपत्रमिवाम्भसा ॥३२॥किमत्र शास्त्रमालाभिः संक्षेपेणोपदिश्यते ।व्यापारान्सकलांस्त्यक्त्वा पूजयध्वं महेश्वरम् ॥३३॥निकटा एव दृश्यन्ते कृतान्तनगरद्रुमाः ।शिवं स्मर शिवं ध्याय शिवं चिन्तय सर्वदा ॥३४॥किं वेदैः किमु वा शास्त्रैः किंवा तीर्थादिसेवया ।शिवः संपूज्यतां नित्यमुपदेशोऽयमुत्तमः ॥३५॥अयमेव परो धर्मश्चीर्णमेतत्परं तपः ।इदमेवास्त्रिलं ज्ञानं पूजनं यन्महेशितुः ॥३६॥शिवे दत्तं हुतं जप्तं बलिपूजानिवेदितम् ।एकान्ततोऽत्यन्तफलं तद्भवेन्नत्र संशयः ॥३७॥कर्मभूगौ ह्रि मानुष्यं जन्मनां नियुतैरपि ।स्वर्गापवर्गफलदं कदाचित्प्राप्यते नरैः ॥३८॥तदीदृग्दुर्लभं प्राप्य नार्चयन्तीह ये शिवम् ।तेषां हि हस्ते मूर्खाणां विवेकः कुत्र तिष्ठति ॥३९॥आराधितो हि यः पुंसामैहिकामुष्गिकं फलम्।ददाति भगवाञ्शंभुः कस्तं न प्रतिपूजयेत् ॥४०॥यो यमिच्छति विप्रेन्द्राः समाराध्य महेश्वरम् ।निःसंशयं तमाप्नोति पुरा वैश्रवणो यथा ॥४१॥दृष्टः संपूजितो ध्यातः संस्मृतो वा स्तुतोऽपि वा ।यो ददाति नुणां मुक्तिं तस्मात्कैर्नार्च्यते शिवः ॥४२॥श्वपचोऽपि मुनिश्रेष्ठाः शिवभक्तो द्विजाधिकः ।शिवभक्तिविहीनस्तु द्विजोऽपि श्वपचाधमः ॥४३॥यद्वा तद्वा शिवे कर्म पुमान्कृत्वा शिवालये ।लोभात्सङ्गात्प्रमादाद्वा पृथिव्यामेकराड्भवेत् ॥४४॥ऋषय ऊचु - कथं वैश्रवणः पूर्वं समाराध्य महेश्वरम् ।लब्धं तस्मात्कुबेरत्वं सूत तद्वक्तुमर्हसि ॥४५॥सूत उवाच - शृणुध्वमृषयः सर्वे यदुक्तं सप्तमेऽन्तरे ।माहात्म्यसूचनकथा शिवस्य परमेष्ठिनः ॥४६॥कश्चिदासीद्द्विजोऽवन्त्यां सोमशर्मेति विश्रुतः ।पुत्रक्षेत्रकलत्रादिव्यापारेषु रतः सदा ॥४७॥विहायाथ स गार्हस्थ्यं धनार्थं लोभमोहितः ।प्रचचार मह्रीं सर्वां सग्रामपुरपत्तनाम् ॥४८॥भार्या तस्य विशालाक्षी तस्मिन्गेहाद्विनिर्गते ।स्वच्छन्दचारिणी नित्यं बभूवानङ्गमोहिता ॥४९॥तस्याः कदाचित्पुत्रस्तु शूद्राज्जातो विधेर्वशात् ।दुरात्माऽतीव निर्गूढो नाम्ना दुःसह इत्युत ॥५०॥सोऽथ कालेन महता व्यसनोपप्लुतोऽभवत् ।सर्वैर्वन्धुजनैस्त्यक्तः परिपन्थिपथे स्थितः ॥५१॥पूजोपकरणद्रव्यं (?) स कस्मिंश्चिच्छिवालये ।रजन्यां प्रविवेशाथ व्यसनेन प्रपीडितः ॥५२॥यावद्दीपो गतप्रायो वर्तिच्छेदोऽभवत्किल ।तावत्तेन दशा दत्ता द्रब्यान्वेषणकारणात् ॥५३॥प्रबुद्धश्चोच्छ्रितस्तत्र देवपूजाकरो नरः ।कोऽयं कोऽयमिति प्रोच्चैर्व्याहरन्परिघायुधः ॥५४॥स च प्राणभयान्नष्टो वित्रस्तश्चापि मूढधीः ।न विन्दन्नात्मनो जन्म कर्म वाऽपि सुदुर्मुखः ॥५५॥पुरपालैर्हतोऽवन्त्यां मृतः कालादभूत्ततः ।गान्धारविषये राजा ख्यातो नाम्ना सुदुर्मुखः ॥५६॥गीतवाद्यरतः स्तब्धो वेश्यापानरुचिर्भृशम् ।प्रजोपद्रवकृन्मूर्खः सर्वधर्मबहिष्कृतः ॥५७॥किं त्वर्चयत्यसौ नित्यं लिङ्गं राज्यक्रमागतम् ।पुष्पधूपसुनैवेद्यगन्धादिभिरमन्त्रवित् ॥५८॥स्मरन्वै पौर्विकं कर्ग शिवस्याऽऽयतनेषु च ।ददाति वहुशो दीपन्वर्तितैलसमुज्ज्वलान् ॥५९॥कदाचिन्म्रुगयासक्तो ममाराथ स वीर्यवान् ।पूर्वारिभिर्हतो युद्ध ऐरावत्यास्तटे शुभे ॥६०॥शिवपूजाप्रभावेन विध्वस्ताशेषकिल्विषः ।पुत्रो विश्रवसश्चाभूत्सर्वयक्षाधिपो बली ॥६१॥कुबेर इति धर्मात्मा श्रुतिशास्त्रसमन्वितः ।स्तोत्रेणानेन तुष्टाव भक्त्या तं सर्वकामदम् ॥६२॥कुबेर उवाच - नमाम्यहं देवमजं पुराणमुपन्द्रवेधोमरराजजुष्टम् ।शशाङ्कसूर्याग्निसमाननेत्र वृषेन्द्रचिह्नं विलयादिहेतुम् ॥६३॥सर्वेश्वरैकं त्रिदशैकबन्धुं ध्यानाधिगम्यं जगतोऽघिवासम् ।तं वाड्मयाधारमनन्तशक्तिं ज्ञानार्णवं स्थैर्यगुणाकरं च ॥६४॥पिनाकपाशाङ्कृशशूलहस्तं कपर्दिनं मेघसहस्रघोषम् ।सकालकूटं स्फटिकावभासं नमामि शंभुं भुवनैकनाथम् ॥६५॥कपालिनं मालिनमादिदेवं जटाधरं भीमभुजंगहारम् ।प्रशासितरं च सहस्रमूर्ति सहस्त्रशीर्षं पुरुषं वरिष्ठम् ॥६६॥यमक्षरं निर्गुणमप्रमेयं तं ज्योतिरेकं प्रवदन्ति सन्तः ।दूरंगमं वेदविदां च वन्द्यं सर्वस्य हृत्स्थं परमं पवित्रम् ॥६७॥तेजोनिधिं बालमृगाङ्कमौलिं नमामि रुद्रं स्फुरदुग्रवक्त्रम् ।कालेन्धनं कामदमस्तसङ्गं धर्मासनस्थं प्रकृतिद्वयस्थम् ॥६८॥अतीन्द्रियं विश्वभुजं जितारिं गुणत्रयातीतमजं निरीहम् ।मनोमयं वेदमयं च हंसं प्रजापतीशं पुरुहूतमिन्द्रम् ॥६९॥अनाहतैकध्वनिरूपमाद्यं ध्यायन्ति यं योगविदा यतीन्द्राः ।संसारपाशच्छिदुरं विभुक्त्यै पुनः पुनस्तं प्रणमामि नित्यम् ॥७०॥न यस्य रूपं न बलप्रभावो न च स्वभावः परमस्य पुंसः ।विज्ञायते विष्नुपितामहाद्यैस्तं वामदेवं प्रणमाभ्यचिन्त्यम् ॥७१॥शिवं समाराध्य यमुग्रमूतिं पपौ समुद्रं भगवानगस्त्यः ।लेभे दिलीपोऽप्यखिलां स चोवीं तं विश्वयोनिं शरणं प्रपद्ये ॥७२॥संपूजयन्तो दिवि देवसंघा ब्रह्मेन्द्रमुख्या विविधांश्च कामान् ।तं स्तौमि नौमीह जपामि शर्वं वन्देऽभिवन्द्यं शरण्म प्रपद्ये ॥७३॥स्तुत्ववैमीशं विरराम यावत्तावत्सहस्रार्कसमानतेजाः ।ददौ स तस्मै वरदोऽन्धकारिर्वरत्रयं वैश्रवणाय देवः ॥७४॥कृत्वाऽधिराजं च ततस्त्रिनेत्रो यशस्विनं गुह्यकराजमत्र ।ब्रह्माच्युतेन्द्रादिनताङ्घ्रिपद्मो जगाम कैलासममोघवाक्यः ॥७५॥सख्यं च दिक्पालपदं चतुर्थं धनाधिपत्यं च दिवौकसां सः ।तथाऽधिकं चैतदनिन्द्यकीर्तिः सुखी बभूवाप्रतिमप्रभावः ॥७६॥दोषाचरेन्द्रश्च तथा दशास्यः संपूज्य दोषाकरचारुमौलिम् ।दोषाकरश्चाप्यजितेन्द्रियश्च मुक्तिं स लेभेऽस्तसमस्तदोषः ॥७७॥स्वर्गस्य मार्गा बहवः प्रतिष्टास्ते कृच्छ्रसाध्या बहवः सविघ्नाः ।निमेषमात्रेण महाफलोऽयमृजुश्च पन्थाः स्मरणं पुरारेः ॥७८॥दृष्टं तदेवाद्भुतमत्र मर्त्या माहात्म्यमैशं ससुरासुराश्च ।त्यक्त्वाऽऽत्मयोगं च मखक्रियाश्च यजन्त्यतस्र्यम्बकमेव सर्वे ॥७९॥गायन्ति देवाः किल गीतकानि धन्यास्तु ये भारतभूमिमागे ।स्वर्गापवर्गास्पदमार्गभूते भवन्ति भूयः पुरुषाः सुरत्वात् ॥८०॥कर्माण्यसंकल्पिततत्फलानि संन्यस्य रुद्रे परमात्मरूपे ।अव्याप्य ते कर्ममहीमनन्ते तस्मिल्लयं ये त्वमलाः प्रयान्ति ॥८१॥जानीय (?) नैतद्धि कदा विलीने शुभप्रदे कर्मणि देहबन्धः ।प्रासाम खण्डे किल भारताख्ये कुलेऽकलङ्के शिवधर्मनिष्ठाः ॥८२॥स्तोत्रेण येऽपि क्कचिदत्र भक्ताः प्रसंस्तुवन्ति प्रमथैकनाथम् ।प्रयान्ति ते लोकमिहान्धकारेः पुरंदरोद्गीतमहाप्रभावाः ॥८३॥सूत उवाच - एवं वैश्रवणो जातो महादेवप्रसादतः ।सर्वमेतदशेषेण कथितं मुनिपुंगवाः ॥८४॥* ( धङचसंज्ञितपुस्तकेष्वय श्लोको न विद्यते । ) * यः पठेच्छृणुयाद्वाऽपि सर्वपापैः प्रमुच्यते ।ब्रह्मलोके वसेकल्पमिति देवोऽब्रवीद्रविः ॥८५॥२५३४॥इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादेऽरुन्धतीसावित्रीसंवादादिकथनं नाम सप्तचत्वारिंशोऽध्यायः ॥४७॥ N/A References : N/A Last Updated : December 05, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP