संस्कृत सूची|संस्कृत साहित्य|पुराण|सौरपुराणं व्यासकृतम् ।| अध्यायः १६ सौरपुराणं व्यासकृतम् । अथ सौरपुराणस्थविषयानुक्रमः । अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ सौरपुराणं - अध्यायः १६ सौरपुराणं व्यासकृतम् । Tags : puransanskritsaur puransunपुराणसंस्कृतसूर्यसौर पुराण अध्यायः १६ Translation - भाषांतर सूत उवाच - अन्यदूव्रतमिदं वक्ष्ये शृणुध्वं मुनिपुङ्गवाः ।सौभाग्यवर्धनं पुण्यं महापातकनाशनम् ॥१॥सर्वदुष्टोपशमनं सर्वैश्वर्यप्रदं शिवम् ।यं यं कामयते कामं तं तं प्राप्नोति मानवः ॥२॥पुरा देवेन रुद्रेण दग्धः कामो दुरासदः ।उपोषिता तिथिस्तेन तनानङ्गत्रयोदशी ॥३॥शुक्लपक्षे त्रयोदश्यां मासि मार्गशिरे द्विजाः ।स्नानं कृत्वाऽथ विधिना सोपवासो जितेन्द्रियः ॥४॥भक्त्या त्वनत्यथा देवं पूजयेच्छशिशेखरम् ।पुष्यैर्नानाविधैर्धूपैर्नैवेद्यैश्च फलैस्तथा ॥५॥शंभुनाम्ना तिलैर्होमं कुर्मादष्टोत्तरं शतम् ।अनङ्गनाम्ना संपूज्य मधु प्राश्य स्वपेन्निशि ॥६॥दशानामश्वमेधानां फलं प्रपनोति मानवः ।योगेश्वरं सुसंपूज्य पौषे प्राश्नीत चन्दनम् ॥७॥राजसूयस्य यज्ञस्य फलमाप्नोति मानवः ।योगेश्वरं सुसंपूज्य माघमासे जितेन्द्रियः ॥८॥मौक्तिकं प्राश्य विप्रेन्द्राः फलं तस्य वदाम्यहम् ।वहुस्वर्णस्य यज्ञस्य फलं शतगुणं भवेत् ॥९॥संपूज्य फाल्गुने वीरं कङ्कोलं प्राशयेन्निशि ।गोमेधस्य फ्गलं प्रपय मोदते देवराडिव ॥१०॥सुरूपं नाम वै चैत्रे चित्ररत्नविनिर्मितम् ।कर्पूरं प्राशयेद्रात्रौ नरमेधफलं लभेत् ॥११॥वशाखे च महारूपं देवेशं च प्रपूजयेत् ।जातीफलं च संप्राश्य गोसहस्रफलं लभेत् ॥१२॥ज्येष्ठेप्रद्युम्ननामानं लवङ्गं प्राशयेन्निशि ।वाणपेयस्य यज्ञस्य फलमष्टगुणोत्तरम् ॥१३॥उमाभर्तेतिनामानमाषाढे संप्रपूजयेत् ।तिलोदकं तु संप्राश्य पुण्डरीकफलं लभेत् ॥१४॥पूजयेच्छ्रावणे शूलपाणिनं परमेश्वरम् ।प्राशयेद्वन्धतोयं तु अग्रिष्टोमफलं लभेत् ॥१५॥मासे भाद्रपपे विप्राः सद्योजातं प्रपूजयेत् ।अगरुं प्राशयित्वा तु सर्वयज्ञफलं लभेत् ॥१६॥मासे चाऽऽश्वयुजे प्राप्ते त्रिदशाधिपतिं यजेत् ।स्वर्णोदकं तु संप्राश्य स्वर्णकोटिफलं लभेत् ॥१७॥विश्वेश्वरं च कार्तिक्यां पूजयेद्भक्तिसंयुतः ।मदनस्य फलं प्राश्य कामवत्द्युतिमान्भवेत् ॥१८॥प्रतिमासं प्रवक्ष्यामि दन्तकाश्ठानि वै द्विजाः ।मल्लिका खादिरं चैम प्लक्षाषामार्गजं तथा ॥१९॥जम्बूदुम्बरजाश्वत्थं मालती बटजं तथा ।कादम्बं च तथा प्लाक्षं दुर्वा चैव शिरीषजम् ॥२०॥विप्राः शृणुंत पुष्पाणि नैवेद्यानि तथैव च ।मालत्याः प्रथमं तावत्ततो मरुबकं तथा ॥२१॥करवीरं तथा कुन्दमर्कपत्राणि सुव्रताः ।ततो मन्दारपुष्पाणि मल्लिकाकुसुमानि च ॥२२॥कादम्बं यूथिकापुष्पं धत्तुरं शतपत्रकम् ।दूर्वाङ्कुराणि देयानि नैवेद्यानि यथाक्रमम् ॥२३॥ओदनं कृशरं चैव शर्करामोदकास्तथा ।कंसारं यावकास्तत्र ततः सोहालिका भवेत् ॥२४॥पञ्चखाद्यं परं प्रोक्तं घृतपूरमनन्तरम् ।शालिभक्तेन नैवेद्यं गुणकास्तनम्तरम् ॥२५॥नानाविधान्नं नैवेद्यं कार्तिक्यां परिकल्पधेत् ।पूजानामानि वक्ष्यानि शृणुध्वं मुनिपुङ्गवाः ॥२६॥शंकराय नमः पादौ गौर्यें गुल्फे शिवाय च ।शिवायै जानुनी पूज्य शंभवायोद्भवाय च ॥२७॥कटिं मन्मथनाशाय मदनायै सुरेश्वरे । ? नाभिं भवाय संपूज्य भवान्यै नम इत्युमाम् ॥२८॥वक्षो देवाधिदेवाय अपर्णाय नमः शिवामू ।स्तनौ विश्वेश्वरायेति सुरकान्स्यै नमो नमः ॥२९॥कण्ठं भीमोग्ररूपाय गिरिजायै नमः शिवाम् ।स्कन्धं त्रिदशवन्द्याय त्रिशूलिन्यै नमः शिवाम् ॥३०॥बाहू धूर्जटयेत्युक्त्वा धूसरायै नमः शिवाम् ।हस्तौ शूलवरायेति शूलिन्यै नम इत्युमाम् ॥३१॥मुखं देवस्य संपूज्य वागदेवेति वामतः ।वामायै नम इत्युक्त्वा नासां चैव कपालिने ॥३२॥मृडान्यै नम इत्युक्त्वा ललाटं चेन्दुधारिणे ।अलकायै नमः पश्चात्त्रिनेत्राय नगस्तथा ॥३३॥त्र्यक्ष्यै संपूजयेद्देवीं शिरो गङ्गाधराय च ।कात्यायनीं ततः पूज्य व्य्मकेशाय वै नमः ॥३४॥केशान्संपूज्य विधिवत्केशिन्यै च नमो नमः ।एवं संवत्सरे पूर्णे सौवर्ण कारयेच्छिवम् ॥३५॥ताम्रपात्रे तु संस्थाप्य कलशोपरि विन्यसेत् ।शुक्लवस्त्रेण संछाद्य संपूज्य विधिवद्द्विजाः ॥३६॥आचार्यायाथ तं दद्याद्वित्तशाठ्यविवर्जितः ।कलशाः सोदका देया ब्राह्मणेभ्यः सदक्षिणाः ॥३७॥ब्राह्मणान्भोजयेद्भक्त्या शिवभक्तिपरायणान् ।एवं करोति यो विप्रा भक्त्याऽनङ्गत्रयोदशीम् ॥३८॥प्राप्नोति राज्यं सौभाग्यं पुत्रांश्च चिरजीविनः ।शिवलोकं च संप्राप्य शंभोः प्रियतमो भवेत् ॥३९॥७०९॥इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादेऽनङ्गत्रयोदशीव्रतकथनं नाम षोडशोऽध्यायः ॥१६॥ N/A References : N/A Last Updated : December 05, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP