संस्कृत सूची|संस्कृत साहित्य|पुराण|सौरपुराणं व्यासकृतम् ।|
अध्यायः २१

सौरपुराणं - अध्यायः २१

सौरपुराणं व्यासकृतम् ।


ऋषय ऊचु -
कथं भगवता सूत सगं उक्तो विवस्वता ।
मन्वन्तराणि वंशाश्च तेषां च चरितं तथा ॥१॥
प्रतिसर्गः पुनश्चैव यथा भवति कृत्स्नशः ।
ब्रूहि नः सूत सकलं यथा व्यासाच्छ्रतं त्वया ॥२॥
सूत उवाच -
शृणुध्वमृषयः सर्वे स्वेच्छालीलां महेशितुः ।
महादेवात्मकं सर्व दृष्टमतेच्चराचरम् ॥३॥
क्षोभ्यं विश्वमिदं तेन क्षोभको भगवाञ्शिवः ।
स संकोचविकाशाभ्यां प्रधानत्वे व्यवस्थितः ॥४॥
क्षोभ्यमानात्प्रधानाच्च पुंसः प्रादुरभूद्द्विजाः ।
यदेतद्विस्तृतं बीजं प्रधानपुरुषात्मकम् ॥५॥
महत्तत्त्वमिति प्रोक्तं बुद्धितत्त्यं तदुच्यते ।
बुद्ध्यादयो विशेषान्ता अव्यक्तादीश्वरेच्छया ॥६॥
पुरुषाधिधिष्ठितादेव जज्ञिरे मुनिपुंगवाः ।
अहंकारस्ततो जज्ञे तन्मात्राणि ततो द्विजाः ॥७॥
ततो भूतानि जातानि प्रेरितानि शिवेच्छया ।
मनस्त्वव्यक्तजं प्राहुः प्रोक्तं तच्चोभयात्मकम् ॥८॥
वैकारिकादहंकारात्सर्गो वैकारिको भवेत् ।
तैजसानीन्द्रियाण्याहुर्देवा वैकारिका दश ॥९॥
वैकारिकात्तैजसश्च भूतादिश्चैव तामसः ।
त्रिविधोऽयमहंकारः कथ्यते तत्त्वचिन्तकैः ॥१०॥
भूतादेरभवत्सर्गो भूततन्मात्रसंज्ञितः ।
विकुर्वाणस्तु भूतादिः शब्दमात्रं ससर्ज ह ॥११॥
आकाशो जायते तस्मात्तस्य शब्दो गुणो मतः ।
व्योमचैव विकुर्वाणं स्पर्शमात्रं ससर्ज ह ॥१२॥
* ( तस्मादुत्पद्यत इत्यादि रसमात्रमभूत्तत इत्यन्तं घङचछसंज्ञितपुस्तकेषु न विद्यते । )
* तस्मादत्पद्यते वायुः स्पर्शस्तस्य गुणो भवेत् ।
पवनश्च विकुर्वाणो रूपमात्रं ससर्ज ह ॥१३॥
तेजस्जोत्पद्यते तस्मादूपं तस्य गुणं विदुः ।
तेजस्त्वेव विकुर्माणं रसमात्रमभूत्ततः ॥१४॥
उत्पद्यन्ते ततश्चाऽऽपो रसस्तासां गुणो मतः ।
विकुर्वत्यस्ततश्चाऽऽपो गन्धमात्रं ससर्जिरे ॥१५॥
गन्धाच्च पृथिवी जाता गन्धरतस्यास्तु वै गुणः ।
शब्दमात्रं यदाकाशं स्पर्शमात्रं समावृणोत् ॥१६॥
द्विगुणः प्रोच्यते वायुः शब्दस्पर्शात्मकः स्मृतः ।
तथैव वियतो रूपं शब्दस्पर्शौ गुणावुभौ ॥१७॥
तेजस्ततः स्यात्त्रिगुणं सशब्दस्पर्शरूपवत् ।
रसमात्रं गुणाः सर्वे त्रय आद्याः समाविशन् ॥१८॥
आपश्चतुर्गुणास्तेन गन्धमात्रं समाविशन् ।
तस्मात्पञ्चगुणा भूमिर्बला भूतेषु कथ्यते ॥१९॥
पुरुषाधिष्ठितत्वाच्च अब्यक्तानुग्रहेण च ।
महदादिविशेषान्ता ह्यण्डमुत्वादयन्ति ते ॥२०॥
तस्मिन्कार्यं च करणं संसिद्धं परमेष्ठिनः ।
प्राकृतेऽण्डे विरञ्चिस्तु क्षेत्रज्ञो ग्रह्मसंज्ञितः ॥२१॥
सर्वैः शरीरैः प्रथमः स वै पुरुष उच्यते ।
आदिकर्ता स भूतानां ब्रह्माऽग्रे समवर्तत ॥२२॥
मेरुरुल्बं भवेत्तस्य जरायुश्चापि पर्वताः ।
गर्भोदकं समुद्राश्च तस्याऽऽसन्परमेष्ठिनः ॥२३॥
विश्वं तत्राभवद्विप्राः सदेवासुरमानुषम् ।
अद्भिर्दशगुणाभिस्तु बाह्यतोऽण्डं समावृतम् ॥२४॥
आपो दशगुणेनैव तेजसा बहिरावृताः ।
तेजो दशगुणेनैव बाह्यतो वायुनाऽऽवृतम् ॥२५॥
आकाशेनाऽऽवृतो वायुः खं तु भूतादिनाऽऽवृतम् ।
महता चैव भूतादिरव्यक्तेनाऽऽवृतो महान् ॥२६॥
एतैरावरणैरण्डं सप्तभिः प्राकृतैर्वृतम् ।
अव्यक्तप्रभवं सर्वमानुलोम्येन लीयते ॥२७॥
गुणाः कालवशादेव भवन्ति विषमाः समाः ।
गुणसाम्ये लयो ज्ञेयो वैषम्ये सृष्टीरुच्यते ॥२८॥
ब्रह्माण्डमेव विप्रेन्द्रा ब्रह्मणः क्षेत्रमुच्यते ।
क्षेत्रज्ञश्च स एवोक्तो विरञ्चिश्च प्रजापतिः ॥२९॥
सहस्रकोटयः सन्ति ब्रह्माण्डास्तिर्यगूर्ध्वजाः ।
ब्रह्माणो हरयो रुद्रास्तत्र तत्र व्यवस्थिताः ॥३०॥
आज्ञया देवदेवस्य महादेवस्य शूलिनः ।
ब्रह्माण्डानामसंख्यानां ब्रह्मविष्णुहरात्मनाम् ॥३१॥
उद्भवे प्रलये हेतुर्महादवे इति श्रुतिः ।
अनन्तशक्तिर्भगवाननन्तमहिमास्पदः ॥३२॥
अनन्तैश्वर्यसंपन्नो महादेवोऽम्बिकापतिः ।
न तस्य करणं कार्यं क्रिया वा विद्यते द्विजाः ॥३३॥
स्वेच्छया भगवानीश क्रीडत्यद्रिजया सह ।
कथितः प्राकृतः सर्गः संक्शःएपान्मुनिपुंगवाः ॥३४॥
अबुद्धिपूर्वकस्त्वेष ब्राह्मी सृष्टिरथोच्यते ॥३५॥९२७॥
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे प्राकृतसर्गकथनं नामैकविंशोऽध्यायः ॥२१॥

N/A

References : N/A
Last Updated : December 05, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP